१३ सुदर्शनपाञ्चजन्यप्रतिष्ठाविधिः

॥ सुदर्शनपाञ्चजन्यप्रतिष्ठाविधिः ॥

परावरज्ञः सदाचार्यः धात्रीकल्कलिप्ताङ्गः पुण्यतीर्थे स्नातः पूर्वाह्णिकनित्यकर्माणि कृत्वा, पूर्वेद्युः ताम्बूलदक्षिणादिभिः सत्कृतैः श्रीवैष्णवैः आशिषो वाचयित्वा, तैरनुज्ञातः स्वगृह्योक्तविधिना, ‘पुण्याहं वाचयित्वा,… अस्यां शुभतिथौ सुदर्शनपाञ्चजन्यौ प्रतिष्ठापयामि’ इति सङ्कल्प्य, प्रतिष्ठाङ्गं अङ्कुरार्पणं कृत्वा परेद्युः पुष्पाङ्कुरं कुर्यात् ॥ ततः उदक्प्राग्देशे प्रत्यङ्मुखं सपत्नीकं चतुर्भुजं विष्णुं सालग्रामं च संस्थाप्य, मूलमन्त्रेण भगवते अर्घ्यादिनिवेदनान्तं कृत्वा, पुष्पाञ्जलिं नीराजनं च समर्प्य, सुदर्शनपाञ्चजन्यौ नवीनौ तत्तल्लक्षणलक्षितौ पञ्चगव्येन प्रक्षाल्य, देवस्य पार्श्वयोः संस्थाप्य, ततः भगवदुदक्प्रदेशे शालीपरिष्कृते चतुष्कोणे रङ्गवल्लीपरिष्कृते, अच्छिद्रौ नवीनवस्त्रवेष्टितौ चूतपत्रनालिकेरकूर्चशिरस्कौ शुद्धतीर्थपूरितौ कुम्भौ निवेश्य, तयोः [*] पञ्च त्वक्? पञ्च पल्लवानि, पञ्च रत्नानि च सुवर्णमयौ च सुदर्शनपाञ्चजन्याकारौ विग्रहौ शङ्खचक्रगदासिशार्ङ्गधरं सूर्यमण्डलान्तर्वर्ति-सुवर्णमयं श्रीविग्रहसहितनारायणविग्रहं च निक्षिप्य,

[*]: अश्वत्थउदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः ।
एतेषामेकवृक्षाणां पञ्चत्वच उदीरिताः ॥

श्रीसूक्त(पु.२८) पुरुषसूक्त (पु.७१) भूसूक्त (पु.७२) घृतसूक्त (पु.३०) ब्रह्मसूक्तैः (पु.७३)

द्वादशवारं चतुर्भिः श्रीवैष्णवैः जपं कारयित्वा तयोः सवितृमण्डलमध्यवर्तिश्रीमन्नारायणहस्तारविन्दस्थितसुदर्शनपाञ्चजन्यौ ध्यात्वा,

ओं सुदर्शनाय हेतिराजाय नमः; सुदर्शनं हेतिराजं आवाहयामि; ओं पाञ्चजन्याय शङ्खाधिपतये नमः; पाञ्चजन्यं शङ्खाधिपतिम् आवाहयामि,

इत्यावाह्य, अर्घ्यपाद्यगन्धपुष्पाक्षतधूपदीपनैवेद्यताम्बूलान्तैः तत्तन्मन्त्रेण अभ्यर्च्य, …

[[67]]

तदुत्तरतः अग्निं स्वगृह्योक्तविधिना प्रतिष्ठाप्य, अग्निमुखादि (पु. ३१,३२,३३) आधानान्तं कृत्वा, जुहुयात् ॥

तत्र मूलमन्त्रेण अष्टवारं, प्रणवसम्पुटितैः मूलमन्त्रवर्णैः, पुनः मूलमन्त्रेण षोडशवारं, श्री-भूमि-नीलामन्त्रैः (पु. ६८-६९), विष्णुगायत्र्या (पु. २९),

ओं विष्णोर्नुकं…. रुगायस्स्वाहा; विष्णोः रराटमसि स्वाहा, विष्णोः पृष्ठमसि स्वाहा, विष्णोः श्ञप्त्रेस्थस्स्वाहा, विष्णोस्स्यूरसि स्वाहा, विष्णोर्ध्रुवमसि स्वाहा, वैष्णवमसि स्वाहा, विष्णवे त्वा स्वाहा

इति सप्तभिः (पु.३३)

तदस्य प्रियं, प्र तद्विष्णुः परो मात्रया, वि चक्रमे पृथिवीं, अतो देवा, इदं विष्णुः, त्रीणि पदा वि चक्रमे, विष्णोः कर्माणि, तद्विष्णोः परमं, तद्विप्रासः

इति दशभिः एतेषां विष्णव इदं न मम इत्युद्देशत्यागः । (पु.३४) ततः पुरुषसूक्तऋग्भिः हुत्वा (पु. ३५-३६), श्रीभूमिनीलामन्त्रैः (पु. ६८-६९), षोडशवारं

[[69]]

‘चरणं पवित्रम्, लोकस्य द्वारम्, पवित्रवन्तः, पवित्रं ते’ (पु. ३७) इति चतसृभिः; (सुदर्शनाय हेतिराजायेदं), येन देवाः पवित्रेण, प्राजापत्यं पवित्रम्, इन्द्रस्सुनीती सह मा पुनातु (पु. ३७) - इति तिसृभिः (अद्भ्य इदं), सुदर्शनादिपञ्चायुधमन्त्रैः प्रत्येकं हुत्वा, ततः आधारशक्त्यादिभिः एकोननवतिमन्त्रैः हुत्वा, भगवते हविर्निवेद्य, तन्मध्यतो हस्तेनादाय, मूलमन्त्रमारभ्य आज्याहुतिवत् सर्वं जुहुयात् - स्विष्टकृद्धोमः; ततः अग्निमुखशेषहोमः (पु. १४-१५) ।

ततः अग्निं भगवन्तं सुदर्शनपाञ्चजन्यौ च प्रणम्य प्रदक्षिणीकृत्य, कुम्भौ क्रमेण उद्धृत्य, तत्तत्कूर्चाभ्यां पुरुषसूक्तमन्त्रेण पूर्वोक्तमन्त्राभ्यां च सुदर्शनपाञ्चजन्यौ प्रोक्ष्य, आवाह्य, क्षीरान्नं पायसान्नं च भगवते निवेद्य, तत् द्विधाकृत्य, तयोः निवेदयेत् । ततः वैष्णवान् भोजयित्वा दक्षिणताम्बूलादिभिः तोषयेत् । आचार्यं धान्यवस्त्रभूषणादिभिः तोषयेत् ॥ एवं प्रतिष्ठाविधिः ।

प्रोक्षणपक्षे तु आधारशक्त्यादिहोमान् अन्नाहुतींश्च वर्जयेत् ॥

॥ सुदर्शनपाञ्चजन्यप्रतिष्ठाविधिः समाप्तः ॥

[[70]]

भूसूक्तम् ।

(“स्वाहा॑ ॥ भूम्या इदं न मम” इति त्यागः।)

भास्करोक्त-विनियोगः

1अथ पुनराधेयमन्त्राः । तत्र गार्हपत्य आधीयमाने सर्पराज्ञीस्तिस्रोनुवर्तयति - भूमिर्भूम्नेति ॥

भूमि॑र् भू॒म्ना+++(=बहुत्वेन)+++, द्यौर् व॑रि॒णा+++(=उरुत्वेन)+++,
ऽन्तरि॑क्षम् महि॒त्वा +++(असि)+++।
+++(पुरा वृषभराशौ खे यथा)+++ उ॒पस्थे॑ ते देव्य् अदिते॒
+++(सूर्यः खे यथा)+++ ऽग्निम् अ॑न्ना॒दम् अ॒न्नाद्या॒या+++(=अन्नाद-हिताय)+++ ऽऽद॑धे

Keith

(Thou art) earth in depth, sky in breadth, atmosphere in greatness;
In thy lap, O goddess Aditi, Agni
I place, food-eater for the eating of food.

मूलम्

भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षम्महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥

भट्टभास्कर-टीका

प्रथमोपरिष्टाद्भृहती, अन्त्यस्य पादस्य द्वादशाक्षरत्वात् । हे देवि अदिते अखाण्डिते भूमे । आहवनीयो भूमित्वेन स्तूयते । भूम्ना बहुत्वेन विपुलत्वेन त्वं भूमिरेवासि । द्यौर् असि त्वं वरिणा उरुत्वेन । ताद्धर्म्यात्ताच्छब्द्यम् । अ[म?]कारलोपश्छान्दसः । अन्तरिक्षमसि माहित्वा माहात्म्येन । व्यञ्जनविपर्ययः । सर्वत्रोदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । महित्वशब्दात्तृतीयाया आकारो वा । अत्र तवोपस्थे उत्सङ्गे गार्हपत्यात्मनि अग्निमन्नादमन्नस्य हविषोत्तारं अन्नाद्याय अन्नादनसामर्थ्यात्मिकायै ऋद्ध्यै आदधे स्थापयामि । पचाद्यचि अन्नादः । इतरत्र छान्दसो भावे यत् । ‘लघावन्ते’ इति मध्योदात्त उपस्थशब्दः । मरुद्वृधादित्वाद्वा ॥


भास्करोक्त-विनियोगः

2द्वितीया - आयमिति गायत्री ॥

आ ऽयं गौः+++(→गमनशीलो अग्निस् सूर्यो वा, पुरा वृषभराशिस्थः)+++ पृश्नि॑र् अक्रमी॒द्
अस॑दन् +++(→असदत् इति शाकले)+++ मा॒तरं॑ +++(भूमिं, खे रोहिणीं च)+++ पु॒रः ।
पि॒तरं॑ +++(द्यौः)+++ च, प्र॒-यन्त् सुवः॑+++(→स्वः॑ इति शाकले)+++ ॥

Keith

The spotted bull hath come
And reached again the mother

And the father, faring to the heaven.

मूलम्

आऽयङ्गौᳶ पृश्ञि॑रक्रमी॒दस॑नन्मा॒तर॒म्पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्त्सुवः॑ ॥

भट्टभास्कर-टीका

इदानीमादित्यात्मना स्तूयते - अयम् अग्निः गौर् आदित्यात्मा गच्छतीति गौः गमनशीलः पृश्निः शुक्लवर्णः आदित्यानामे[मै]व वा । आक्रमीत् अयमेवादित्यात्मना विश्वम् आक्रामतीति ।

प्रकर्षेणाविच्छेदेन गच्छन् सुवः शोभना रतिः । छान्दसौ लुङ्लङौ ।

आक्रम्य च मातरं भूमिम् असनत् भूमौ मातरि शान्तोभूत् । पितरं दिवं प्रयन् प्रकर्षेण गच्छन् सर्वतो ज्वलन् धूमज्वालाभ्यामभ्रं लिहन् सुवः पितृस्थानीये दिवि स्वरतिरभूत् ॥


भास्करोक्त-विनियोगः

3तृतीया - त्रिंशदिति गायत्री ॥

+++(दिने मुहूर्ता, मासे दिनानि वा)+++
त्रिँ॒शद् धाम॒ वि रा॑जति॒ +++(आदित्यात्मा ऽग्निः)+++,
+++(रोहिणी स्तुतिर् वा)+++ वाक् +++(सूर्य-)+++प॑त॒ङ्-गाय॑ शिश्रिये+++(→धीयते इति शाकले)+++ ।
प्रत्य्+++(कूलम्)+++ अ॑स्य वह॒ द्युभिः ॥

Keith

Thirty places be ruleth;
Speech resorteth to the bird
Bear it with the days.

मूलम्

त्रिँ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒ द्युभिः ॥

भट्टभास्कर-टीका

त्रिंशद् धामानि स्थानानि विराजति प्रकाशवद् भवति । उभयत्रापि वचनव्यत्ययः । त्रिंशन् मुहूर्ता उच्यन्ते । [पञ्चदशाह्नः]पञ्चदश रात्रेः ।

तेषु वाक् शिश्रिये सिषेवे आश्रिता पतङ्गाय पतङ्गः आदित्यः । यथा ‘ऋग्भिः पूर्वाह्णे दिवि देव इर्यते’ इति या स्तुतिलक्षणा वाक् तेषु सर्वेष्वपि मुर्हूर्तेषु पतङ्गं श्रिता । कर्मणि चतुर्थी ।

तस्मात्तादृशः महानुभावः आदित्यात्मा त्वं प्रत्यस्य प्रति-कूलं यत्प्रकृतं तवोद्वासनं तद् अस्य विसृज बुद्धौ मा कृथाः । ‘ससाधनां क्रियामुपसर्ग आह’ इति प्रतिशब्देन प्रतिकूलमुच्यते । ततः प्रसन्नो भूत्वा वह हवींष्यस्माकं द्युभिः दिनेदिने । अधिकरणानां साधकतमत्वविवक्षया तृतीया; यथा ‘स्थाल्या पचति’ इति । ‘ऊडिदम्’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘दिवो झल्’ इति प्रतिषेधः । अस्मिन्व्याख्याने तिङः परत्वाद्वहेत्यस्य निघातो दुर्लभस्स्यात् । अथ ब्रूमः - एवं महातेजाः पतङ्गः अस्य प्रतिवह प्रतिरूपतया वर्तस्व द्युभिः तेजोभिः । अन्वादेशत्वादस्येति सर्वानुदात्तः ॥


भास्करोक्त-विनियोगः

4आहवनीये तिस्रोनुवर्तयति । तत्र प्रथमा - अस्येति गायत्री ॥

अ॒स्य +++(विषूव-सूर्यात्मनो ऽग्नेः)+++ प्रा॒णाद् अ॑पान॒त्य्,
+++(वृषभराशेर्)+++ अ॑न्तश् च॑रति रोच॒ना+++(→ रोहिणी दीप्तिर् वा)+++ ।
व्य॑ख्यन्+++(=प्राकाशयन्)+++ महि॒षस् +++(वृषभराशौ सूर्यः, भुव्य् अग्निः)+++ सुवः॑ +++(→दिव॑म् इति शाकले)+++ ॥

Keith

With her inspiration from his expiration,
She wandereth between the worlds;
The bull discerneth the heaven.

मूलम्

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्महि॒षस्सुवः॑ ॥

भट्टभास्कर-टीका

अपानतीति प्रथमपादान्तः । अस्याग्नेः रोचना दीप्तिः रोचनशीला । ‘अनुदात्तेतश्च’ इति युच् । अन्तश् शरीरेषु चरति । किं कुर्वती प्राणात् प्राणनव्यापारात् अनन्तरम् अपानती अपाननव्यापारं कुर्वती । जीवानां ऊर्ध्वगमनं प्राणनं, अधोगमनम् अपाननम् । जीवश्श्वासवायुः ।

किञ्च - महिषः महति शरीरे सीदति । ‘सदिरप्रतेः’ इति षत्वम् । अन्त्यविकारश्छान्दसः ।
यद्वा - महतेष्टिषचि लिङ्गव्यत्ययः । महनीया सुवः शोभना रोचना व्यख्यत् विचष्टे प्रकाशते जीवानामन्तः । छान्दसौ लुङ् । ‘अस्यतिवक्ति’ इत्यादिनाङ् । ‘उदात्तस्वीरतयोः’ इति संहितायामडागमः स्वर्यते ।

अन्य आहुः - अस्याग्नेः सुवः आदित्यात्मिका रोचना दीप्तिः प्राणादुदयात् अपानती अस्तं गच्छन्ती अन्तः द्यावापृथिव्योर् मध्ये चरति । महत्यन्तरिक्षे सीदति । व्यख्यत् प्रकाशयति च द्यावापृथिव्यौ । एवं महानुभावं त्वामादधामीति ॥


भास्करोक्त-विनियोगः

5द्वितीया - यत्त्वेत्यनुष्टुप् ।

यत् त्वा॑ [10] क्रु॒द्धᳶ प॑रो॒वप॑+++(=उद्वासितवान् अस्मि)+++,
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑म् अग्ने॒ तत् तव॒,
+++(यतः पुनराधाने)+++ पुन॒स् त्वोद्दी॑पयामसि

Keith

If thee [1] in anger I have scattered,
In rage or through misfortune,
That of thee, O Agni, be in good order,
Again thee we relight.

मूलम्

यत्त्वा॑ [10] क्रु॒द्धᳶ प॑रो॒वप॑ ..
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ ..
पुन॒स्त्वोद्दी॑पयामसि ॥

भट्टभास्कर-टीका

तवेति तृतीयपादान्तः ॥ यत् येन कारणेन ऋद्ध्यभावेन क्रुद्धो ऽहं त्वामपि परोवप परोप्तवान् उद्वासितवानस्मि । ‘णलुत्तमो वा’ इति णित्त्वाभावः । ‘यद्वृत्तान्नित्यम्’ इति निघाताभावे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च । लिति प्रत्ययात्पूर्वस्योदात्तत्वम् ।

मन्युना शोकेन परीतो ऽहम् अवर्त्या दारिद्र्येण पाप्मना वा यत्त्वां परोवप विनाशितवान् हे अग्ने तदपि तव प्रसादात् सुकल्पं शोभनकृतिकमेव भवति । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः । अतस्त्वां पूर्ववदेवोद्दीपयामसि उद्वपामः । ‘इदन्तो मसि’ ॥


भास्करोक्त-विनियोगः

6अथ तृतीया - यत्त इत्यनुष्टुप् ॥

यत् ते॑ म॒न्यु-प॑रोप्तस्य
पृथि॒वीम् अनु॑ दध्व॒से+++(←ध्वस्)+++ ।
आ॒दि॒त्या विश्वे॒ तद् दे॒वा
वस॑वश् च स॒माभ॑रन्न्

Keith

Whatever of thee scattered in rage
Was spread over the earth,
That the Adityas, the All-gods
And the Vasus gathered together.

मूलम्

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

भट्टभास्कर-टीका

ते तव मन्युपरोप्तस्य मन्युना हेतुना मयोद्वासितस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यत् तेजः पृथिवीम् अनुदध्वसे ध्वस्तं पृथिवीम् अनुप्रविश्य वा नष्टं बभूव तदादित्या विश्वे देवा वसवश्च समाभरन् समाभरन्तु । ‘हृग्रहोः’ इति भत्वम् ॥

[[68]]

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी॑ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णाँ श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री (/ प्र॒सोद॑री ) ।
रस॑ने (/ सद॑ने ) स॒त्याय॑ने सीद ॥

स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी॑ (/म॒ह्यङ्गा॑)।
म॒ही (/म॒हो) धर॑णी म॒होव्यथि॑ष्टा ( म॒होध्यति॑ष्ठा/ म॒होव्यवि॑ष्ठा )
श‍ृ॒ङ्गे-श‍ृ॑ङ्गे य॒ज्ञे-य॑ज्ञे विभी॒षणी॑ ॥

इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह ([अज्ञातस्वर-पाठान्तरम्] - सरसिज इह ) ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒यन्धा॒ ([अज्ञातस्वर-पाठान्तरम्] - स्वयंधा )
राजा॑(या॑) स॒त्यन्तो॒ (/न्धो॒[जो] ) परि॑मेदिनी ॥ श्वो॒ परि॑धत्तं गाय॒(श्वो॒परि॑धत्त॒ परि॑गाय /[अज्ञातस्वर-पाठान्तरम्] - सो परिधत्तंगाय )

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मी॑ प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नुर्ध॒रायै॑ वि॒द्महे॑
सर्वसि॒द्ध्यै च॑ धीमहि ।
तन् नो॑ धरा प्रचो॒दया॑त् ॥
(स्वाहा॑ ॥ धुनुर्धराया इदं न मम)

शृण्व᳓न्ति श्रोणा᳓म् अमृ᳓तस्य गोपा᳓म्।
पु᳓ण्याम् अस्या उ᳓पशृणोमि वा᳓चम्।
मही᳓न् देवीव्ँ᳓ वि᳓ष्णु-पत्नीम् अजूर्या᳓म्+++(=अज्वराम्)+++।
प्रती᳓चीम् एनाँ हवि᳓षा यजामः

(स्वाहा॑ ॥ विष्णुपत्न्या इदं न मम) ॥

त्रेधा᳓ वि᳓ष्णुर् उरु-गायो᳓+++(गेयो)+++ वि᳓चक्रमे
मही᳓न् दि᳓वम् पृथिवी᳓म् अन्त᳓रिक्षम्।
त᳓च् छ्रोणै᳓ति +++(अत्र)+++ श्र᳓व+++(=कीर्तिम्)+++ इच्छ᳓माना
पु᳓ण्यँ श्लो᳓कय्ँ य᳓जमानाय कृण्वती᳓

(स्वाहा॑ ॥ विष्ण॒व इदं न मम) ॥

नीलासूक्तम् ।

(“स्वाहा॑ ॥ विष्णुपत्न्या इदं न मम” इति त्यागः)।

ओं ॥

(स्तोम॑ त्रयस्त्रिँशे॒! भुव॑नस्य पत्नि॒!
विव॑स्वद्-वाते! अ॒भि नो॑) गृणाहि॒ ।

विस्तारः (द्रष्टुं नोद्यम्)

मध्येऋच आरम्भः??

स्तो᳓म त्रयस्-त्रिँशे! भु᳓वनस्य पत्नि!
वि᳓वस्वद्-वाते! अभि᳓ नो गृणाहि+++(←गृ शब्दे)+++ ।
घृत᳓वती +++(→आ)+++ सवितर्! आ᳓धिपत्यैᳶ
प᳓यस्वती र᳓न्तिर्+++(←रम्)+++ +++(इयम्)+++ आ᳓शा नो अस्तु

ध्रुवा᳓ दिशाव्ँ᳓ विष्णु-पत्न्य् अ᳓-घोरा,
ऽस्ये᳓शाना स᳓हसो, या᳓ मनो᳓ता +++(←मनस् + ऊता)+++।
बृ᳓हस्-प᳓तिर् मातरि᳓श्वोत᳓ वायु᳓स्
सन्धुवाना᳓+++(ः←धु कम्पने)+++ वा᳓ता अभि᳓ नो गृणन्तु

विष्टम्भो᳓ दिवो᳓, धरु᳓णᳶ पृथिव्या᳓,
अस्ये᳓शाना ज᳓गतो, वि᳓ष्णु-पत्नी ।

पुरुषसूक्तम्

सायण-भाष्यम्

‘सहस्रशीर्षा’ इति षोडशर्चं षष्ठं सूक्तम् ।
नारायण नामर्षिर्
अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।

अव्यक्त-महद्-आदि-विलक्षणश् चेतनो यः पुरुषः
‘पुरुषाश् च परं किंचित् ’ ( क. उ. ३. ११) इत्य्-आदि-श्रुतिषु प्रसिद्धः स देवता ।

तथा चानुक्रान्तं— सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु’ इति । गतो विनियोगः ।।

भास्करोक्त-विनियोगः

1अथ पुरुषानुवाकः - सहस्रशीर्षेयादि ॥
आनुष्टुभस्सर्वोऽनुवाकः, विशेषो वक्ष्यते ।
अग्नौ पुरुषाकृतौ चीयमानायां
पुरुषशिर उपहितस्य शिरः कृत्वा
पुरुषाकृतिम् उपहितां
पुरुषेण नारायणेन यजमान उपतिष्ठते ।

पुरुषमेधे च

‘पशून् उपाकृतान् दक्षिणतोऽवस्थाप्य
ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराचा अनुशंसति ।
अथ नारायणाभ्याम् उपस्थानं’

इत्यादिषु विनियोगः ।

अयम् उत्तरश् चानुवाकौ नारायणाख्यौ,
नारायणाख्येन ऋषिणा दृष्टौ ।

आभ्यां च पुरुषाख्यो नारायणः प्रतिपाद्यते ।
उक्तं च - आत्मनि पुरुषावस्थे प्रपञ्चप्रविष्टः पुरुषः, उत्तीर्णः परमात्मेति ।
पुरुषसूक्तमिति चैनं बह्वृचा आहुः ।

अथ ‘सहस्रशीर्षं देवम्’ इत्यपरो नारायणानुवाको भविष्यति,
यत्र परमात्मा प्रणवाख्यो नारायणः प्रतिपाद्यते ।
तस्य अग्न्य्-आदि-श्रौत-पुरुषवत् कर्म-सम्बन्धाभावाद् इहानाम्नानम् ।

Jamison Brereton

90 (916)
Purusạ
Nārāyaṇa
16 verses: anuṣṭubh, except triṣṭubh 16

This is one of the best-known and most influential hymns of the R̥gveda. Its central symbol is the púruṣa, the “man,” “person,” or “human being.”

On the surface, this hymn tells of the sacrifice of a giant man, from whose parts the world was created. The theme of creation through a cosmic sacrifice is widespread, but this hymn is not simply the retelling of an ancient tradition. The púruṣa here serves as a symbol of the sacrifice itself, which especially in the middle Vedic tradition is a locus of creative power. The púruṣa is thus similar to the later divine figure Prajāpati, who in the Brāhmaṇas personifies the sacrifice.

Indeed this late hymn represents a verse commentary on the sacrifice that prefigures the prose commentaries of the Brāhmaṇas.+++(5)+++

This hymn is also notable because it is the only R̥gvedic mention of the four varṇas, the hierarchical division of the social order that forms the theoretical basis for the caste system. One reason that the hymn may have been included in the R̥gveda to provide a R̥gvedic charter for such a division of society.

The identity of the Man and the sacrifice is established in the opening verse, for his thousand heads, eyes, and feet recall Agni, the sacrificial fire, and his macro cosmic equivalent, the Sun (cf. Brown 1931: 109–10). The Man comprehends the earth and extends beyond it. As Mus (1968: 549) has pointed out, the “ten-fingers’ breadth” by which he exceeds the world measures from the Man’s hairline to his mouth.+++(4)+++ The Man’s mouth represents speech, which marks the boundary between the imperceptible world of thought and the perceptible world created by speech.+++(5)+++

His mouth is also associated with eating, and in verse 2 the Man rises beyond the world “through food,” that is, by making the world his food. In later texts the “eater” is the master and the “eaten” is one who benefits the master (cf. Rau 1957: 34–35). The image may therefore reflect the Man’s dominance over the world.+++(4)+++ See also X.125, in which the mouth is similarly both the locus of speech and the locus of eating.

This theme of dominance or rule continues also in verse 5 in the mutual generation of the Man and the Virāj. The word virā́j can mean either “brilliant” or “ruling, rule.” The latter is the more likely sense here, and therefore this word connects the hymn to Vedic ideals of the king, who in his consecration encompasses the world in a similar way that the Man does here (Proferes 2007: esp. ch. 3). Since the term virā́j is grammatically feminine, it complements púruṣa, which is masculine in grammar and connotation.+++(4)+++

The Man is the “offering” (vs. 6), the sacrificial victim (vs. 15), but more especially he is the sacrifice itself that the gods, the Sādhyas, and seers performed (vs. 7). Through this sacrifice the elements of subsequent sacrifices emerged: the “clotted-mixture” (vs. 8), the verses, chants, meters, and sacrificial formulae (vs. 9), and the sacrificial animals (vs. 10). The parts of the sacrifice also became the three upper varṇas (vss. 11–12): his mouth the brahmins, masters of knowledge and speech; his arms the rulers, the possessors of power; and his thighs the freemen or clansmen, who are the productive support of society. These three classes form parts of the sacrifice because they can participate in the sacrifice. The śūdras or “servants” are not part of the sacrifice but rather emerge from the feet of the Man, a symbol of their low social status and their exclusion from the sacrifice. Finally, the elements of the cosmos and gods themselves come forth from the sacrifice (vss. 13–14). This primeval sacrifice thus establishes the “first foundations” for the performance of the sacrifice or even for the ritual, social, divine, and visible worlds more generally (vs. 16ab), and it creates access to heaven (16cd).

The identity of the Sādhyas (in vss. 7 and 16) is not clear. Their name means “those to be brought to success,” and they appear to be ancient sacrificers whose proper ritual performance has “perfected” them and who have attained god-like status or the status of gods.+++(4)+++

01 सहस्रशीर्षा पुरुषः - अनुष्टुप्

+++(बहु-देवता-सङ्ग्रहात्)+++ सह᳓स्र+++(~अनन्त)+++शीर्षा पु᳓रुषः
सहस्राक्षः᳓ सह᳓स्रपात् ।
स᳓ +++(वक्ष्यमाणां विराजं)+++ भू᳓मिं विश्व᳓तो वृत्वा᳓
अ᳓त्यतिष्ठद् दशाङ्गुल᳓म् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

02 पुरुष एवेदम् - अनुष्टुप्

+++(स्व-शरीरैकदेशेन)+++ पु᳓रुष एवे᳓दँ᳓ स᳓र्वम्
य᳓द् भूतं᳓ य᳓च् च भ᳓व्यम्।
उत᳓+++(→तथा देवात्मभिः)+++ +अमृतत्व᳓स्ये᳓शानः +++(परमे व्योम्नि)+++ ।
य᳓द्+++(→यस्माद्)+++ +++(ब्रह्माण्डरूपेण)+++ अ᳓न्नेन+++(=अशितेन)+++ +अतिरो᳓हति । ३

03 एतावानस्य महिमातो - अनुष्टुप्

एता᳓वान् +++(ब्रह्माण्डम् इति)+++ अस्य महिमा᳓ ।
अ᳓तो+++(→ततोऽपि)+++ ज्या᳓याँश् च पू᳓रुषः ।
+++(कथम् इति चेत्-)+++
पा᳓दोऽस्य वि᳓श्वा भूता᳓नि
+++(अवशिष्टस्)+++ त्रिपा᳓द् +++(अंशः पर-देवतापूर्णः)+++ अस्यामृ᳓तं +++(=अविनाशी)+++ दिवि᳓+++(=परमे व्योम्नि)+++ ।

04 त्रिपादूर्ध्व उदैत्पुरुषः - अनुष्टुप्

+++(सो ऽयं)+++ त्रिपा᳓द्+++(→त्रिविक्रम-सूचना)+++ ऊर्ध्व᳓ उ᳓दैत् पु᳓रुषः +++(शिष्टस्यापेक्षया)+++।
+++(पूर्वोक्त-)+++पा᳓दो ऽस्येहा᳓ऽऽभवात् पु᳓नः +++(पुनःपुनः)+++ ।
त᳓तो +++(पादः)+++ वि᳓ष्वङ्+++(=सर्वतो)+++ व्य᳙क्रामत् +++(वक्ष्यमाण-जननाय)+++।
साशनानशने᳓+++(=जीवाजीवे [वस्तू])+++ अभि᳓+++(लक्ष्य)+++ । ४

05 तस्माद्विराळजायत विराजो - अनुष्टुप्

+++(पादांशात्)+++ त᳓स्माद् विरा᳓ड्+++(→पुरुष-मेध-ब्राह्मणे छन्दोऽपि)+++ +++(ब्रह्माण्ड-शरीरम्)+++ अजायत
+++(तस्माद्)+++ विरा᳓जो अ᳓धि पू᳓रुषः +++(ऋतात्मना /पुरुषमेध-कर्मरूपेण अजायत)+++ ।
स᳓ जातो᳓ अ᳓त्यरिच्यत -
+++(क्वेति चेत् -)+++ पश्चा᳓द् +++(विराजम्)+++ भू᳓मिम् अ᳓थो +++(जीवानाम्)+++ पुरः᳓+++(=पूर्वम्)+++। ५

06 यत्पुरुषेण हविषा - अनुष्टुप्

य᳓त् +++(वक्ष्यमाणेन कालभागेन)+++ पु᳓रुषेण हवि᳓षा ।
+++(त्रिपादङ्गभूता)+++ देवा᳓ यज्ञ᳓म् अ᳓तन्वत
+++(पुरुष-हविषो विभागाः -)+++ वसन्तो᳓ अस्यासीद् आ᳓ज्यम् ।
ग्रीष्म᳓ इध्मः᳓ शर᳓द् +++(अन्नादिरूपम्)+++ +हविः᳓ । ६

07 सप्तास्यासन् परिधयः

सप्ता᳓ऽस्याऽऽसन् परिध᳓यः ।
त्रिः᳓ सप्त᳓ +++(२१!)+++ समि᳓धः कृताः᳓ +++(इध्म-सन्नाहः!)+++।
+++(त्रिपादङ्गभूता)+++ देवा᳓ य᳓द् यज्ञं᳓ तन्वानाः᳓
अ᳓बध्नन् +++(एकपात्)+++ पु᳓रुषं पशु᳓म् । ७

08 तं यज्ञम् - अनुष्टुप्

तं᳓ यज्ञं᳓+++(~तत्साधनभूतं पशुं)+++ बर्हि᳓षि प्रौ᳓क्षन्
पु᳓रुषं जात᳓म् अग्रतः᳓ ।
ते᳓न +++(वक्ष्यमाणा)+++ देवा᳓ अयजन्त -
+++(अविशिष्टा नानापात्रेषु पश्चात्)+++ साध्या᳓ ऋ᳓षयश् च ये᳓ । ८

09 तस्माद्यज्ञात्सर्वहुतः सम्भृतम् - अनुष्टुप्

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓तः ।
+++(पशुनिर्माणाय तज्-जातकर्मणे वापि)+++ सं᳓भृतं +++(हविश्शेषं घनीभवद् दधिमिश्रं वा)+++ पृषद्+++(=बिन्द्व्)+++-आज्य᳓म् ।
पशूँ᳓स् ताँ᳓श् +++(सूच्यमानान्)+++ चक्रे - वायव्या᳓न् ।
आरण्या᳓न् ग्राम्याँ᳓श् च ये᳓ । ९

10 तस्माद्यज्ञात्सर्वहुत ऋचः - अनुष्टुप्

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓त
ऋ᳓चः सा᳓मानि जज्ञिरे
छ᳓न्दांसि जज्ञिरे त᳓स्माद्
य᳓जुस् त᳓स्माद् अजायत

11 तस्मादश्वा अजायन्त - अनुष्टुप्

त᳓स्माद् अ᳓श्वा अजायन्त
ये᳓ के᳓ चोभया᳓दतः+++(=दन्तावलिद्वयाः)+++ ।
गा᳓वो ह जज्ञिरे त᳓स्मात् ।
त᳓स्माज् जाता᳓ अजाव᳓यः । ११

12 यत्पुरुषं व्यदधुः - अनुष्टुप्

+++(देवाः)+++ य᳓त् +++(एकपात्)+++पु᳓रुषं +++(पशुं)+++ व्य᳙दधुः +++(बलौ)+++।
कतिधा᳓ व्य᳙कल्पयन् ?
मु᳓खं कि᳓म् अस्य कौ᳓ बाहू᳓ ?
का᳓व्+++(←वकारो न शाकले)+++ ऊरू᳓ पा᳓दाव् उच्येते ? १२

13 ब्राह्मणोऽस्य मुखमासीद्बाहू - अनुष्टुप्

ब्राह्मणो᳡ ऽस्य मु᳓खम् आसीद्
बाहू᳓ राजनि᳓यः कृतः᳓
ऊरू᳓ त᳓द् अस्य य᳓द् वइ᳓श्यः
पद्भ्यां᳓ शूद्रो᳓ अजायत

14 चन्द्रमा मनसो - अनुष्टुप्

चन्द्र᳓मा म᳓नसो जातः᳓
च᳓क्षोः+++(=चक्षुषः)+++ सू᳓र्यो अजायत
मु᳓खाद् इ᳓न्द्रश् चाग्नि᳓श् च ।
प्राणा᳓द् वायु᳓र् अजायत । १४

15 नाभ्याम् - अनुष्टुप्

ना᳓भ्या आसीद् अन्त᳓रिक्षम् ।
शीर्ष्णो᳓+++(=मूर्ध्ना)+++ द्यौः᳓ स᳓मवर्तत
पद्भ्यां᳓ भू᳓मिर् दि᳓शः श्रो᳓त्रात् ।
त᳓था लोकाँ᳓ अकल्पयन् । १५

पुरुषस्तुतिः, यज्ञस्तुतिः

वे᳓दाह᳓म् एतं᳓ पु᳓रुषं महा᳓न्तम् ।
आदित्य᳓वर्णं त᳓मसस् तु पारे᳓ ।
स᳓र्वाणि रूपा᳓णि विचि᳓त्य धी᳓रः ।
ना᳓मानि कृत्वा᳓ ऽभिव᳓दन् य᳓द् आ᳓स्ते । १६

मूलम्

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । १७

भट्टभास्कर-टीका

16वेदेत्यादयः तिस्रस्त्रिष्टुभः ॥ एतं महान्तं पुरुषं सहस्रशिरसं अहं वेद जानामि आदित्यवर्णं प्रकाशात्मानं तदेव तमसः पारे स्थितं त्रिगुणा प्रकृतिः तमः तस्य पारं वेलां अतीत्य परत्रावस्थितं अहं वेद । स देवः सर्वाणि रूपाणि विकारलक्षणानर्थान् विचित्य पृथक्वेन उत्पाद्य नामानि च सर्वाणि कृत्वा धीरः धीमान् व्याकृतनामरूपः कृतकृत्यो यदा अभिवदन् आभिमुख्येन वदन् विश्वमनुगृह्णन् आस्ते तदा सर्वदा एवमेव सृष्टिर्वेदितव्येति ॥

धाता᳓ पुर᳓स्ताद् य᳓म् +++(पुरुषम्)+++ उदाजहा᳓र,,
शक्रः᳓ प्र᳓ विद्वा᳓न् प्रदि᳓शश् च᳓तस्रः ।
त᳓म् एवं᳓ विद्वा᳓न् अमृ᳓त इह᳓ भवति ।
ना᳓न्यः᳓ प᳓न्था अ᳓यनाय विद्यते । १७

मूलम्

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः
। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते

भट्टभास्कर-टीका

17धातेत्यादि ॥ यं यथोक्तमहिमानं पुरुषं धाता पितामहः उदाजहार ख्यापितवान् तद्विभूतित्वाद्धातुः । शक्रश्च यमुदाजहार प्रविद्वान् प्रकर्षेण जानन् प्रदिशः प्रधानदिशः चतस्रः तद्वासिनस्सर्वान् प्रविद्वान् । तं महापुरुषं एवं एवंप्रकारं विद्वान् इह लोके यः कश्चिदपि अमृतो भवति । न त्वेतज्ज्ञानादृते अन्यः पन्था विद्यते अयनाय गमनाय संसारं मुक्त्वा अपवर्गं गन्तुं अयमेव मार्ग इति ॥

16 यज्ञेन यज्ञमयजन्त - त्रिष्टुप्

+++(सर्वहुद्-)+++यज्ञे᳓न यज्ञ᳓म् अयजन्त देवाः᳓ ।
ता᳓नि ध᳓र्माणि प्रथमा᳓न्य् आसन्
+++(य एवं विदुः)+++ ते᳓ ह ना᳓कं +++(यज्ञैः)+++ महिमा᳓नः+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
य᳓त्र पू᳓र्वे +++(नानापात्रेषु पश्चात्)+++ साध्याः᳓ स᳓न्ति देवाः᳓ । १८

[[71]]

॥ उत्तरनारायणम् ॥
भास्करोक्त-विनियोगः

‘उत्तरनारायणेन आदित्यम् उपस्थाय’ इत्य् आदौ विनियोगः ।
त्रैष्टुभस् सर्वो ऽनुवाकः, विशेषो वक्ष्यते ॥

विश्वास-टिप्पनी

सन्दर्भार्थम् आदौ पुरुषसूक्तम् ईक्षताम्।

अद्भ्यः᳓ सं᳓भूतः पृथिव्यै᳓+++(व्याः)+++ र᳓साच् च +++(विराट् ब्रह्माण्डरूपः)+++।
विश्व᳓-कर्मणः+++(=परिपूर्णपुरुषात् पुरुषसूक्तोक्तात्)+++ स᳓मवर्तता᳓धि ।
त᳓स्य त्व᳓ष्टा+++(=त्रिपात् पुरुषः)+++ विद᳓धद् रूप᳓म् एति ।
त᳓त् पु᳓रुषस्य वि᳓श्वम् आ᳓जानम् अ᳓ग्रे । १

मूलम्

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑ । १

भट्टभास्कर-टीका

1 अद्भ्यस् सम्भूत इत्य् आदि ॥

(‘उत्तरनारायणेन आदित्यम् उपस्थाय’ इत्य् आदौ विनियोगः ।
त्रैष्टुभस् सर्वो ऽनुवाकः, विशेषो वक्ष्यते ॥)
अद्भ्यः अबादिभ्यः पञ्चभ्यो भूतेभ्यः सम्भूतः उत्पन्नः पृथिव्यै पृथिव्याः रसात् अन्नात् च उत्पन्नः ततो विश्वकर्मणः विश्वस्य कर्तुः अधि ऐश्वर्य-विषयम् अधि समवर्तत सम्यक् सम्पन्नः प्रजापतिः ।
ततः तस्य रूपं विदधत् कुर्वन् त्वष्टा तद्-रूपम् एति सर्वाणि अङ्गानि विकर्तृत्वेन वायुरूपः प्रविशति तत् सर्वं पुरुषस्य प्रभावम् अहं आजानं आजानामि पुरुष एव सर्वं करोतीति अग्रे प्रथमम् एव जानामि । छान्दसम् आकारस्य ह्रस्वत्वम् । यद्वा - अद्भ्यस् सम्भूतः प्रथम-परिणामः प्रजापतिः । ततः पृथिव्याः रसात् अन्नात् संभूतो वैराजः प्रजापतिः । ततः त्वष्टा विकुर्वन् वायुरूपस् तदीयानि अङ्गानि गच्छतीति तृतीयः परिणामः । तत् सर्वं परस्य पुरुषस्य प्रभाव इति प्रथमम् एवाहं ज्ञातवान् इति ॥

वे᳓दाह᳓म् एतं᳓ पु᳓रुषं महा᳓न्तम् ।
आदित्य᳓-वर्णं त᳓मसः प᳓रस्तात् ।
त᳓म् एवं᳓ विद्वा᳓न् अमृ᳓त इह᳓ भवति ।
ना᳓न्यः᳓ प᳓न्था विद्यते᳓ ऽयनाय । २

मूलम्

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॑ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

भट्टभास्कर-टीका

2वेदाहमित्यादि गतम् ॥ तमसः परस्तात् तमश्शीलं विकारजातं तमः ततः परस्तात् स्थितं महान्तं पुरुषमहं वेद। एवं तं विद्वान् अमृतो भवति, अन्यः पन्थाः अयनाय अमृतत्वप्राप्तये साधनभूतो न विद्यते । अयनशब्दो लित्स्वरेणाद्युदात्तः, तेनैकादेशे एकार उदात्तः ॥

+++(त्रिपात्)+++ प्रजा᳓पतिश् चरति ग᳓र्भे अन्तः᳓ ।
अजा᳓यमानो बहुधा᳓ वि᳓जायते +++(सहस्रशीर्षा!)+++।
त᳓स्य धी᳓राः प᳓रिजानन्ति यो᳓निम् ।
म᳓रीचीनां +++(ऋषीणां)+++ पद᳓म् इच्छन्ति वेध᳓सः +++(त्रिपादश् [च])+++। ३

मूलम्

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते । तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्॑ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । ३

भट्टभास्कर-टीका

3प्रजापतिरिति ॥ आत्मसमष्टिः प्रजानां पतिः जीवात्मा अन्तर्गर्भे चरति सर्वेषु शरीरेषु आब्रह्ममशकं स्वयं अजायमान एव बहुप्रकारशरीरसम्बन्धेन विविधं जायमान इव भवति । तस्यैतस्य जायमानस्य योनिं कारणं शरीरसम्बन्धकारणं वा धीराः धीमन्तः परिजानन्ति सर्वात्मना जानन्ति । कीदृशाः? ये वेधसः विधातारः प्रकृष्टज्ञानाः मरीचीनां पदं रश्मीनां पदं स्थानं आदित्यात्मानं इच्छन्ति याथात्म्येन विजानन्ति, प्रविशन्ति वा । ते तं योनि जानन्ति । नान्यत् [नान्यैः] ज्ञातुं शक्यते । ‘सूर्य आत्मा’ इति च श्रुतिः ॥

यो᳓ देवे᳓भ्य आत᳓पति+++(=काशते, माध्यन्दिनतः)+++ ।
यो᳓ देवा᳓नां पुरो᳓हितः ।
पू᳓र्वो यो᳓ देवे᳓भ्यो जातः᳓ ।
न᳓मो रुचा᳓य+++(=रोचमानाय)+++ ब्रा᳓ह्मये+++(=वेदवेद्याय परिपूर्णपुरुषाय)+++ । ४

मूलम्

यो दे॒वेभ्य॒ आत॑पति +++(आ॒तप॑ति॒ माध्यन्दिने)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

भट्टभास्कर-टीका

4यो देवेभ्य इत्याद्ये अनुष्टुभौ ॥ अधुना स एव आदित्वो वर्ण्यते । यो देवेभ्यः सर्वविकारेभ्यः आतपति समन्तात्तपति सर्वेभ्यो रश्मिमद्भ्योऽधिकं तपति अव्यक्तात्मस्वरूपादागत्य तपनेन सर्वान् विकारान् उत्पाद्य अनुगृह्णाति । यश्च तेषां देवानां देवादीनां विकाराणां पुरोहितः पुरस्तात् स्थितः। तेषां अनुज्ञानार्थं उदयादिना उपकरोति । यश्च पूर्वः प्रथम एव देवेभ्यो जातः सर्वविकाराणां अग्रे जातः । तस्मै रुचाय रोचनशीलाय परमेश्वरदीप्तिमूर्तये । इगुपधलक्षणः कः । ब्राह्मये ब्रह्मणोऽपत्याय । छान्दस इञ् , बाह्वादिर्वा द्रष्टव्यः । तस्मै नम इति ॥

रु᳓चं ब्राह्म᳓म् जन᳓यन्तः +++(विद्यया)+++।
देवा᳓ अ᳓ग्रे त᳓द् अब्रुवन् ।
य᳓स् त्वा +एवं᳓ ब्राह्मणो᳓ विद्या᳓त् -
त᳓स्य देवा᳓ अ᳓सन्+++(असन्)+++ व᳓शे । ५

मूलम्

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् +++(अ॒स॒न् माध्यन्दिने)+++ वशे॑ । ५

भट्टभास्कर-टीका

5रुचमिति ॥ एवं महानुभावं रुचं रोचनशीलं ब्राह्मं ब्रह्मणोऽपत्यम् । अजातित्वाट्टिलोपः । तमेवादित्यं जीवात्मना स्थितं जनयन्तः ब्राह्मणाः आत्मवन्तः स्यामेति ईशं शरीरे सन्निधापयन्तः देवाः इन्द्रियाणि अग्रे पूर्वमेव अब्रुवन् सृष्ट्यादौ आत्मना समयमिव कृतवन्तः । तत् तदानीं जन्मकाल एव यो ब्राह्मणः त्वा त्वां एवं जीवात्मना स्थितं विद्वान् एवं सृष्टयादिप्रवृत्तं यः त्वां विद्वान् यथावत् जानन् भवति, तस्य वशे असन् भवन्ति देवाः इन्द्रियाणि जितेन्द्रियो मुक्तो भवति । यद्वा - देवादयः स तस्य वशे तिष्ठन्ति विधेया भवन्ति । अस्तेर्लटि शपो लुक् ॥

परिपूर्णपुरुषध्यानम्
विश्वास-प्रस्तुतिः

ह्री᳓श् च ते लक्ष्मी᳓श् च प᳓त्न्यौ ।
अहोरात्रे᳓ पार्श्वे᳓ ।
न᳓क्षत्राणि रूप᳓म् ।
अश्वि᳓नौ व्या᳓त्तम् +++(=मुखम्)+++ ।
+++(अश्विनयोः खल्ववर्तत विशुवस्थानम् पुरा।)+++

इष्ट᳓म् मनिषाण+++(=यच्छ)+++ । अमुं᳓ +++(स्वर्लोकं)+++ मनिषाण । स᳓र्वम् मनिषाण । ६

मूलम्

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॑ । इ॒ष्टम् म॑निषाण । अ॒मुं म॑निषाण । सर्व॑म् मनिषाण । ६

भट्टभास्कर-टीका

6ह्रीश्चेत्यादिकं यजुः ॥ ह्रीः लज्जा लक्ष्मीः श्रीः ते उभे तव पत्न्यौ सहधर्मचारिण्यौ, हे आत्मन् ! अहोरात्रे अहश्च रात्रिश्च पार्श्वस्थानीये । पशूनां समूहः पार्श्वं, ‘पशोर्णस् वक्तव्यः’ । घटिकासमूहात्मके अहोरात्रे पार्श्वस्थानीये धारकत्वसामान्यात् । नक्षत्राणि चन्द्रयुतानि तव रूपं रूपणनिमित्तानि,नक्षत्रयुक्तचन्द्राधीनकालनिबन्धनत्वात् जीवानां स्थितेः । अश्विनौ द्यावापृथिव्यौ व्यात्तं व्यात्तास्यस्थानीयौ, विश्वं निगिरतः तव व्यापकत्वात् तद्देवत्यत्वाद्वा द्यावापृथिव्योरश्वित्वम् । स त्वमेवं महाभागो मम इष्टं ईप्सितं आत्मबोधलक्षणं मनिषाण अनुमन्यस्व, देहीति यावत् । मनोतेर्व्यत्ययेन श्नाप्रत्ययः, ‘हलश्नश्शानज्झौ’ विकरणत्वेन सिप इडागमः, धात्वन्तरं वा छान्दसं द्रष्टव्यम् । अमुमिति विशेषार्थं, आयुश्च गां च अश्वं च देहि । किंबहुना ऐहिकमामुष्मिकं वा सर्वमिष्टं देहीति ॥ इत्यारण्यके तृतीये त्रयोदशोऽनुवाकः ॥

ब्रह्मसूक्तम्

॥ ब्रह्मसूक्तम् ॥

सायणोक्त-विनियोगः

21यद् उक्तं सूत्रकारेण
‘ब्रह्मण ऋषभम्’ इति
तस्य पशोः सूक्ते
वपायाः पुरोनुवाक्यामाह -

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

सायणोक्त-विनियोगः

22अथ वपाया याज्यामाह -

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑क्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒त्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

मूलम्

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑क्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् ।
``ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।

सायण-टीका

योऽयं वेन आदित्यः पूर्वमुक्तः सोऽयं विराजां विशेषेण राजमानानां रयीणां धनानां पिता पालयिता, ऋषभः श्रेष्ठः, विश्वरूपः पुर्वाह्णादिषु वसन्तादिषु कालविशेषेषु च बहुरूपः तादृशोऽयमिदमन्तरिक्षमाविवेश प्रतिदिनं प्रविशति । ब्रह्म सन्तं परब्रह्मस्वरूप एव भूत्वाऽवस्थितं ततं आदित्यं ब्रह्मणा मन्त्रेण वर्धयन्तो ब्राह्मणा अर्कैः अर्चनीयैः अभ्यर्चन्ति अभितः पूजयन्ति । तत्र दृष्टान्तः - वत्सं यथा दोग्धुकामाः पुरुषा वत्समुपलालयन्ति एवं फलकामा आदित्यमभ्यर्चन्ति ॥

सायणोक्त-विनियोगः

23अथ पुरोडाशस्य पुरोनुवाक्यामाह -

ब्रह्म॑ दे॒वान् अ॑जनयत्
ब्रह्म॒ विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्म॑णः क्ष॒त्रन् निर्मि॑तम्
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना॑ ।

मूलम्

ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः क्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना॑ ।

सायण-टीका

यज्जगत्कारणं ब्रह्म तदेव देवान् इन्द्रादीन् जनयत् । तथैव तद्ब्रह्मान्यदपि विश्वं सर्वमिदं जगत् अजनयत् । ब्रह्मणः सकाशात् क्षत्त्रं निर्मितं क्षत्त्रियजातिर्निर्मिता । यत्परं ब्रह्म तत् आत्मना स्वस्वरूपेणैव ब्राह्मणः अभवत् । अस्ति हि ब्राह्मणशरीरे परब्रह्मण आविर्भावविशेपः । अत एवाध्यापनादावधिक्रियते ॥

सायणोक्त-विनियोगः

24अथ पुरोडाशस्य याज्यामाह -

अ॒न्तर् अ॑स्मिन्न् इ॒मे लो॒काः ॥ 67 ॥
अ॒न्तर् विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ् ज्येष्ठ॑म् ।
तेन॒ को॑ ऽर्हति॒ स्पर्धि॑तुम् ।

मूलम्

अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ॑म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।

सायण-टीका

अस्मिन् ब्रह्मणि अन्तः मध्ये इमे भूरादयो लोकाः अवस्थिताः । तथैव अन्तः मध्ये विश्वं सर्वमिदं जगत्स्थावरजङ्गमरूपमवस्थितम् । तस्मात्कारणाद्ब्रह्मैव भूतानामाकाशादिपञ्चमहाभूतानां प्राणिनां च मध्ये ज्येष्ठं अतिशयेन श्रेष्ठं प्रशस्तं च । तेन तादृशेन ब्रह्मणा को नामान्यः पुरुषः स्पर्धितुमर्हति’ तत्समानस्य स्पर्धा युक्ता, न चास्ति कश्चित्समानः । अत एव श्वेताश्वतरशाखायामभिधीयते ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ॥

सायणोक्त-विनियोगः

25अथ हविषः पुरोनुवाक्यामाह -

ब्रह्म॑न् दे॒वास् त्रय॑स्-त्रिँशत् ।
ब्रह्म॑न्न् इन्द्र-प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस् स॒माहि॑ता

मूलम्

ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिँशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।

सायण-टीका

हे ब्रह्मन्यथोक्ते ब्रह्मणि त्रयस्त्रिंशद्देवाः ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रोक्ताः समाहिताः । तथा ब्रह्मन् परब्रह्मण्येव देवस्वामिनाविन्द्रप्रजापती समाहितौ । तया ब्रह्मण्येव विश्वा भूतानि सर्वाणि स्थावरजङ्गमान्यन्तः समाहितानि सम्यगवस्थितानि । तत्र दृष्टान्तो नावीवेति । यथा समुद्रनद्यादितरणवेलायां चेतनाचेतनानि वस्तूनि नौमध्येऽवस्थाप्यन्ते तद्वत् ॥

सायणोक्त-विनियोगः

26अथ हविषो याज्यामाह -

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन् ।
घृ॒तम्पिन्व॑न्न॒जरँ॑ सु॒वीर॑म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

मूलम्

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व् अ॒ग्नयः॑ ।
इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन्
घृ॒तम् पिन्व॑न्न् अ॒जरँ॑ सु॒वीर॑म् ॥ 68 ॥
+++(प्रकाशकत्वेन)+++ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ।

सायण-टीका

यथोक्ते ब्रह्मणि चतस्र आशाः चतुर्विधाः प्राच्यादिदिशः प्रति अग्नय आहवनीयाद्याः प्रचरन्तु प्रकर्षेण वर्तन्ताम् । पूर्वस्यां दिश्याहववनीयः दक्षिणस्यां दिश्यन्वाहार्यपचनः पश्चिमायां दिशि गार्हपत्यः उदीच्यां दिश्याग्नीध्रीयः । तथाविधः सर्वाधारपरमात्मा नः अस्मदीयं इमं यज्ञं प्रजानन् प्रकर्षेणानुसंदधानो नयतु समाप्तिं प्रापयतु । किं कुर्वन्? अजरमविनश्वरं सुवीरं शोभनापत्यहेतुभूतमिदं घृतमाहुतिरूपं पिन्वन् पिबन् । किं बहुना, आहुतीनामस्माभिरनुष्ठीयमानानां ब्रह्म समिद्भवति परब्रह्मैव सम्यक्प्रकाशकं भवति ॥

श्रीसूक्तम्

[[73]]