पञ्चसंस्कारप्रयोगः

पञ्चसंस्कारप्रयोगः

सदोऽनुज्ञा

मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चक्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या॑स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

…गोत्रं … शर्माणं भगवद्-दासभूतम् आज्ञाऽनुज्ञा-कैङ्कर्य-योग्यता-सिद्ध्य्-अर्थं तप्त-सुदर्शन-पाञ्चजन्य-धारण–ऊर्ध्व-पुण्ड्र-धारण–दास्य-नाम-करण–मन्त्रोपदेश–यागो-पदेशैः पञ्चभिः संस्कारैः संस्कर्तुं योग्यता-सिद्धिम् अनुगृहाण

इति अनुज्ञाप्य (“तथास्तु, योग्यतासिद्धिर् अस्तु”; इति प्रतिवचने, ) प्राणान् आयम्य,

विष्वक्सेन-पूजा

प्रारीप्सितस्य कर्मणः निर्विघ्न-परिसमाप्त्य्-अर्थं आदौ विष्वक्सेनाराधनं करिष्ये

इति संकल्प्य,

विश्वास-प्रस्तुतिः

शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भजम् ।
प्रसन्नवदनं द्यायेत्
सर्वविघ्नोपशान्तये ॥

मूलम्

शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भजम् ।
प्रसन्नवदनं द्यायेत्
सर्वविघ्नोपशान्तये ॥

विश्वास-प्रस्तुतिः

यस्य द्वि-रद-वक्त्राद्याः
पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं
विष्वक्सेनं तमाश्रये ॥

मूलम्

यस्य द्विरदवक्त्राद्याः
पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं
विष्वक्सेनं तमाश्रये ॥

विष्वक्सेनं सूत्रवती-समेतं सपरिवारं ध्यायामि,
आवाहयामि,
आसनं समर्पयामि,
अर्घ्यं समर्पयामि,
पादयोः पाद्यं समर्पयामि,
आचमनीयं समर्पयामि,
स्नापयामि,
पुनर् आचमनीयं समर्पयामि,
वस्त्रं समर्पयामि,
उपवीतं
… गन्धं …, पुष्पं …, धूपं …, दीपं … सर्वोपचारान् समर्पयामि।
विष्वक्सेनाय नमः।
ओं भूर्भुवस्सुवः
…. गुडोपहारं…. आचमनीयं… ताम्बूलं….
सुवर्णपुष्पम् समर्पयामि,
सर्वोपचारान् समर्पयामि -

इति विष्वक्सेनम् आराध्य…

[23]

सङ्कल्पः

हरिर् ओं तत् - श्रीगोविन्द गोविन्द गोविन्द!

भगवत्-प्रीत्य्-अर्थं
….गोत्रं ..शर्माणं भगवद्-दास-भूतं
सुदर्शन-पाञ्चजन्य-धारण–
ऊर्ध्व-पुण्ड्र-धारण–
दास्य-नामकरण– मन्त्रोपदेश-
यागोपदेशरूपैः
पञ्चभिः संस्कारैः संस्करिष्यामि’

इति सङ्कल्प्य,
सात्त्विक-त्यागं कृत्वा,
[शुद्धिपुण्याहं कृत्वा (एतत्-प्रयोगः पुटे २ द्रष्टव्यः)
पुण्याह-जलेन पञ्च-गव्य-द्रव्याणि शिष्यांश् च मूल-मन्त्रेण प्रोक्ष्य,
पञ्चगव्य-संमेलनं कृत्वा,
तान् प्राशयित्वा]
([] इत्य् एवं कुण्डलितं सर्वं क्वाचित्कम् । यथारूचि ग्राह्यम् ।)

विष्वक्सेनोद्वासनम्

‘विष्वक्सेनं सूत्रवतीसमेतं सपरिवारं यथास्थानं प्रतिष्ठापयामि - क्षेमाय पुनरागमनाय च’

इति विष्वक्सेनम् उद्वास्य,

प्रतिसरबन्धः

प्राणान् आयम्य …

‘श्रीभगवदाज्ञया तत्-प्रीत्यर्थं
तापादिपञ्चसंस्काराङ्गं प्रतिसर-बन्ध-कर्म करिष्ये’

इति सङ्कल्प्य, स्थण्डिलं कृत्वा,

उल्लेखनम्

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

इति पश्चाद् आरभ्य, मध्ये प्राची सततां लेखां लिखित्वा,
तद्दक्षिणतः,

ना᳓के सुपर्ण᳓म् +++(→सूर्यं)+++ उ᳓प य᳓त् प᳓तन्तं
हृदा᳓ वे᳓नन्तो अभ्य᳓चक्षत त्वा ।
हि᳓रण्य-पक्षं +++(शतभिषक्-स्थ-)+++व᳓रुणस्य दूतं᳓
यम᳓स्य यो᳓नौ +++(→भरण्यां)+++ शकुनं᳓ भुरण्यु᳓म्+++(←भृ)+++ ॥

इति प्रादेशमात्रां तथैव लेखां विलिख्य,
तस्या उत्तरतः,

आप्या॑यस्व॒, समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म्।
भवा॒ वाज॑स्य सङ्ग॒थे ॥११२ ॥

इति तथैव लेखां विलिख्य,

दक्षिणतो मध्यादारभ्य,

ओं यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु, यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥”

इत्य् उदीचीं सन्ततां लेखां विलिख्य,
तस्याः पश्चात् प्रादेशमात्रां,

इद᳓व्ँ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

इति तथैव लेखां विलिख्य,
तस्याः पुरस्तात्

‘‘ओं इन्द्रं॒ विश्वा॑ अवीवृधन्थ्
समु॒द्र-व्य॑चस॒ङ्गि॑र ।
र॒थीत॑मं॒ रथ॒नां वाजा॑नां॒ सत्प॑तिं॒ पतिम् ॥

इति तथैव लेखां विलिख्य,

कुम्भस्थापनम्

अप उपस्पृश्य,
स्थण्डिलमध्ये दर्भान् आस्तीर्य,
तन्तुवेष्टितं कुम्भं निधाय,

[[24]]

‘ओं आपो॒ वा इ॒द सर्वं
विश्वा॑ भूतान्यापः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो
ऽमृ॑तम् आपो
ऽन्न॒म् आप॑स्
स॒म्राडापो॑
वि॒राडाप॑स्
स्व॒राडाप॒श्
छन्दाँ॒स्य् आपो॒
ज्योतीँ॒ष्य् आ॑पस्
स॒त्यम् आप॒स्
सर्वां देवता आपो
भूर्भुवस्सुवराप ओम् ॥’

इत्युदकैः पूरयित्वा,
कूर्चं, नालिकेरं च निधाय,
प्रणवेन अभिमन्त्र्य,
भगवन्तं ध्यात्वा,
कुंभोत्तर-देशे तण्डुलोपरि चतुर्-गुणित-सूत्रं हरिद्रा-चूर्णं च निधाय,

वरुणावाहनम्

कुंभे -

‘इ॒मं में वरुण श्रुधी॒
हव॑म् अ॒द्या च॑ मृडय ।
त्वाम् अ॑व॒स्युर् आ च॑के ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तदाशा॑स्ते॒ यज॑मानो ह॒विर्भंः ।
अर्हेडमानो वरुणे॒ह ब॒द्ध्युरु॑शस॒
मा न आयुः प्रमो॑षीः॥’

इति वरुणम् आवाह्य,
अभ्यर्च्य,

जपः

जपकर्तॄन्

‘पञ्चसंस्कार-कर्मणि यूयं प्रतिसर-मन्त्र-जप-कर्म कुरुध्वम्’

इति प्रार्थयेत् । (‘वयं कुर्मः’, इति तेषां प्रतिवचनम्) ॥

१. दधिक्राव्ण्णो अकारिषं … । ( पुटे - ४)

२. आपो हिष्ठा …. । (पुटे - ४)

३. हिरण्यवर्णाश्शुचयः ( पुटे - ४)

४. पवमानस्सुवर्जनः ( पुटे - ५ ) ….

वि᳓ष्णोर् नु᳓कव्ँ वीर्या᳙णि प्र᳓ वोचय्ँ
यᳶ᳓ पा᳓र्थिवानि विममे᳓ र᳓जाँसि।
यो᳓ अ᳓स्कभायद् उ᳓त्तरँ सध᳓स्थव्ँ +++(अन्तरिक्षम्)+++
विचक्रमाण᳓स् त्रेधो᳓रु-गायः᳓+++(=गीतः/‌गतिः)+++ ॥

विष्णो॑ र॒राट॑म् असि॒
विष्णोः॑ पृष्ठम् अ॑सि॒
विष्णोः॒ श्ञप्त्रे॑+++(=मुखकोणौ)+++ स्थो॒
विष्णो॒स् स्यूर् अ॑सि॒
विष्णो॒र् ध्रुवम् अ॑सि
वैष्ण॒वम् अ॑सि॒
विष्ण॑वे त्वा ॥

25

६. कृणुष्व पाज॒ः …

विस्तारः (द्रष्टुं नोद्यम्)

परिचयः

  • सायणः /- तैत्तिरीयभाष्ये ऽत्र। ऋग्भाष्ये ऽत्र
  • तत्रैव ‘मदे चिदस्य ’ इत्यर्धर्चम् एवोद्धृत्य। तैत्तिरीयभाष्ये ऽत्र
आह्वानम्

कृणुष्व᳓ पा᳓जः +++(=तेजः)+++ प्र᳓सितिन् +++(=जालं)+++ न᳓ पृथ्वीं᳓
याहि᳓ रा᳓जेवा᳓मवाँ +++(=सहवान्)+++ इ᳓भेन+++(=यूथेन)+++ ।
तृष्वी᳓म् +++(=वेगम्)+++ अ᳓नु प्र᳓सितिं +++(=सैन्यं)+++ द्रूणानो᳓
+++(निर्)+++ ऽस्ताऽसि, वि᳓ध्य रक्ष᳓सस् त᳓पिष्ठैः ॥

युद्धप्रार्थना

त᳓व भ्रमा᳓स आशुया᳓ पतन्त्य् अ᳓नु
स्पृश धृषता᳓ +++(=अभिभवता)+++ शो᳓शुचानः
त᳓पूँष्य् अग्ने जुह्वा᳙ पतङ्गा᳓न्
अ᳓-सन्दितो +++(=अनिरुद्धः)+++ वि᳓ सृज वि᳓ष्वग् उल्काः᳓ ॥

प्र᳓ति स्प᳓शो वि᳓ सृज तू᳓र्णितमो
भ᳓वा पायु᳓र् विशो᳓ अस्या᳓ अ᳓-दब्धः
यो᳓ नो दूरे᳓ अघ᳓-शँसो यो᳓ अ᳓न्ति
अ᳓ग्ने मा᳓किष् टे व्य᳓थिर् +++(=बाधकः)+++ आ᳓दधर्षीत्

उ᳓द् अग्ने तिष्ठ प्र᳓त्या᳓ऽऽतनुष्व
न्य् अ᳙मि᳓त्राँ+++(←नञो जर-मर-मित्र-मृताः)+++ ओषतात् +++(=प्रदह)+++ तिग्म-हेते ।
यो᳓ नो अ᳓रातिँ समिधान चक्रे᳓
नीचा᳓ तं᳓ धक्ष्य् +++(=दह)+++ अतसं᳓ +++(=काष्ठविशेषः)+++ न᳓ शु᳓ष्कम् ॥

ऊर्ध्वो᳓ भव प्र᳓ति विध्या᳓+ध्य् अस्म᳓द्
आवि᳓ष् कृणुष्व दाइ᳓वियानि अग्ने ।
अ᳓व स्थिरा᳓ तनुहि यातु-जू᳓नां+++(=प्रेरकाणां)+++
जामि᳓म् +++(=ज्ञातिं)+++ अ᳓जामिं प्र᳓ मृणीहि +++(=जहि)+++ श᳓त्रून् ॥

उपासकसौभाग्यम्

स᳓ ते जानाति सु-मतिं᳓ यविष्ठ
य᳓ ई᳓वते+++(=गमनशीलाय)+++ ब्र᳓ह्मणे +++(=पुष्टाय)+++ गातु᳓म् ऐ᳓रत् +++(=प्रेरयति)+++ ।
वि᳓श्वान्य् अस्मै सुदि᳓नानि रायो᳓
द्युम्ना᳓न्य् अर्यो᳓ वि᳓ दु᳓रो +++(=गृहान्)+++ अभि᳓ द्यौत् +++(=द्योतस्व)+++ ॥

से᳓द्+++(=स+इत्)+++ अग्ने अस्तु सुभ᳓गस् सुदा᳓नुर्
य᳓स् त्वा नि᳓त्येन हवि᳓षा य᳓ उक्थैः᳓ ।
पि᳓प्रीषति, स्व᳓ आ᳓युषि दुरोणे᳓ +++(=गृहे)+++ +++(तिष्ठतु)+++
वि᳓श्वे᳓द् अस्मै सुदि᳓ना सा᳓ ऽसद्+++(=भूयात्)+++ इष्टिः᳓ ॥

प्रतिज्ञा

अ᳓र्चामि ते सु-मतिं᳓, घो᳓ष्य् +++(=घोषवती)+++ अर्वा᳓क्+++(=पुरतः)+++
स᳓म्+ ते वावा᳓ता+++(=पुनः पुनः)+++ जरताम् +++(=स्तौतु)+++ इयं᳓ गीः᳓ ।
स्व्-अ᳓श्वास् त्वा सु-र᳓था मर्जयेमा+++(=अलङ्कुर्याम)+++
ऽस्मे᳓+++(=अस्मासु)+++ क्षत्रा᳓णि धारयेर् अ᳓नु द्यू᳓न् +++(=अन्वहम्)+++ ॥

इह᳓ त्वा भू᳓र्य् आ᳓ चरेद् उ᳓प +++(आ)+++त्म᳓न्
दो᳓षावस्तर् +++(=रात्रावहः)+++ दीदिवाँ᳓सम्+++(=दीप्यमानं)+++ अ᳓नु द्यू᳓न्+++(=अन्वहम्)+++ ।
क्री᳓डन्तस् त्वा सु-म᳓नसस् सपेम+++(=परिचरेमा)+++
+अभि᳓ द्युम्ना᳓ तस्थिवाँ᳓सो ज᳓नानाम् ॥

य᳓स् त्वा स्व्-अ᳓श्वस् सु-हिरण्यो᳓ अग्न
उपया᳓ति व᳓सुमता र᳓थेन ।
त᳓स्य त्राता᳓ भवसि, त᳓स्य स᳓खा
य᳓स् त आतिथ्य᳓म् आनुष᳓ग् +++(=अनुक्रमेण)+++ जु᳓जोषत्

महो᳓ +++(=महद्राक्षसान्)+++ रुजामि +++(=भनज्मि)+++ बन्धु᳓ता+++(~बन्धुतया)+++
व᳓चोभिस् त᳓न् मा पितु᳓र् गो᳓तमाद् अ᳓न्वियाय
त्व᳓न् नो अस्य᳓ व᳓चसश् चिकिद्धि
हो᳓तर् यविष्ठ सु-क्रतो द᳓मूनाः +++(=दान्तमनाः)+++॥

किरणकीर्तिः

अ᳓-स्वप्न-जस् तर᳓णयस् सु-शे᳓वा +++(=सुमुखाः)+++
अ᳓-तन्द्रासो ऽवृका᳓+++(=अहिंसका)+++ अ᳓-श्रमिष्ठाः ।
ते᳓ +++(रश्मयः)+++ पाय᳓वस् सध्रि᳓यञ्चो +++(=सङ्गताः)+++निष᳓द्य+++(=उपविश्य)+++
+अ᳓ग्ने त᳓व नः पान्त्व् अमूर +++(=अमर्त्य)+++ ॥

+++(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)+++

ये᳓ पाय᳓वो मामतेय᳓न् ते अग्ने
प᳓श्यन्तो अन्ध᳓न् दुरिता᳓द् अ᳓रक्षन्
रर᳓क्ष ता᳓न्त् सुकृ᳓तो विश्व᳓-वेदा
दि᳓प्सन्त +++(=दम्भितुकामाः)+++ इ᳓द् रिप᳓वो ना᳓ ह देभुः᳓ +++(=परिभवन्ति)+++ ॥

प्रतिज्ञानुवर्तनम्

त्व᳓या वयँ᳓ सधन्य᳓स् त्वो᳓तास् +++(त्वया +अविताः=रक्षिताः)+++
त᳓व प्र᳓णीत्या ऽश्याम वा᳓जान् +++(=अन्नानि)+++ ।
उभा᳓ +++(पाप-)+++शँ᳓सा +++(शत्रू)+++ सूदय सत्य-ताते+++(=तते)+++
ऽनुष्ठुया᳓+++(=अनुक्रमेण)+++ कृणुह्य् अ-ह्रयाण +++(=अह्रीः)+++ ॥

अया᳓ +++(=अनया)+++ ते अग्ने समि᳓धा विधेम
प्र᳓ति स्तो᳓मँ शस्य᳓मानं गृभाय +++(=गृहाण)+++ ।
द᳓हा ऽश᳓सो +++(=अशंसो)+++ रक्ष᳓सः पाह्य् +अ᳓स्मा᳓न्
द्रुहो᳓ निदो᳓ +++(=निन्दकात्)+++ मित्र-महो +++(=मित्रपूज्य!)+++ अवद्या᳓त्+++(=परिवादात्)+++ ॥

रक्षोह᳓णं वाजि᳓नम् +++(=अन्नवन्तम्)+++ आ᳓ऽऽजिघर्मि +++(=दीपयामि)+++
मित्रं᳓ प्र᳓थिष्ठम् +++(=विस्तीर्णतमम्)+++ उ᳓पयामि श᳓र्म ।
शि᳓शानो +++(=तीक्ष्णः)+++ अग्निः᳓ क्र᳓तुभिस् स᳓मिद्धस्
स᳓ नो दि᳓वा स᳓ रिषः᳓ +++(=हिंसकात्)+++ पातु न᳓क्तम् ॥

रक्षोहाग्निध्यानम्

वि᳓ ज्यो᳓तिषा बृहता᳓ भात्य् अग्नि᳓र्
आवि᳓र् वि᳓श्वानि कृणुते महित्वा᳓ +++(=महत्तया)+++ ।
प्रा᳓देवीर् माया᳓स् सहते दुरे᳓वाः +++(=दुरत्ययः)+++
शि᳓शीते +++(=तीक्ष्णीकरोति)+++ शृ᳓ङ्गे र᳓क्षसे विनि᳓क्षे +++(=विनाशाय)+++ ॥

उत᳓ स्वाना᳓सो +++(=सस्वनाः)+++ दिवि᳓ षन्त्व् अग्ने᳓स्
तिग्मा᳓युधा र᳓क्षसे ह᳓न्तवा᳓ उ ।
+++(अस्माकं)+++ म᳓दे +++(=मदाय)+++ चिद् अस्य प्र᳓रुजन्ति +++(=भञ्जन्ति (अदेवीः))+++ भा᳓मा+++(=भासः रश्मयो)+++,
न᳓ वरन्ते +++(अस्मान्)+++ परिबा᳓धो अ᳓देवीः ॥

७. म॒हाँ इन्द्रो॒ वज्र॑बाहुष्
षोड॒शी शर्म॑ यच्छतु ।
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒
हन्तु॑ पाप्मानं यो॑ऽस्मान् द्वेष्टि॑ ॥

८. स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒स्, सोमं॑ पिब वृत्रहञ् छूर वि॒द्वान् ।
ज॒हि शत्रूँर् अप॒ मृधो॑ नु॒द॒स्वाऽथाऽभ॑यङ् कृणुहि वि॒श्वतो॑ नः ॥

९. त्रा॒तार॒म् इन्द्र॑म् अवि॒तार॒म् इन्द्रं॒
ह॒वे॑ह॒वे सु॒व॒ शूर॒म् इन्द्र॑म् ।
हुवे नु श॒क्रं पु॑रुहूतम् इन्द्र
स्वस्ति नो॑ म॒घवा॑ धात्व् इन्द्रः॑ ।

मा ते॑ अ॒स्याँ स॑हसाव॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।
त्राय॑स्व नोऽवृकेभि॒र् वरू॑थै॒स् - तव॑ प्रि॒यास॑सूरिषु॑ स्याम ।
अन॑वस् ते॒ रथ॒म्, अश्वा॑य तख्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहू॒त द्यु॒मन्त॑म् ।
ब्र॒ह्माण॒ इन्द्र॑ म॒हय॑न्तो अ॒र्कैर् अव॑र्द्धय॒न्न् अह॑ये॒ हन्त॒वा उ॑ ।
वृष्णो॒ यत्ते॒ वृष॑णो अ॒र्कम् अर्चान् इन्द्र ग्रावा॑णो॒ अदि॑तिस् स॒जोषाः॑ ।
अ॒न॒श्वासो॒ ये प॒वयो॑ ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥

27

१०. श्री सूक्तम्

28

ओं
म॒हा॒दे॒व्यै च॑ वि॒द्महे॑
विष्णुप॒त्न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ॥

इति जपित्वा,

बन्धनम्

मूलम् (संयुक्तम्)

अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥ [40]

विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निर् आयु॑ष्मा॒न् ,
स वन॒स्-पति॑भि॒र् आयु॑ष्मा॒न् ,
तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ य॒ज्ञ [आयु॑ष्मा॒न्], स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ ब्रह्मायु॑ष्म॒त्, तद्ब्रा॑ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ दे॒वा आयु॑ष्मन्तः।
ते॒॑ऽमृते॑न [+आयु॑ष्मन्तः] [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयाऽऽयु॑ष्मन्त॒स्, तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा॑ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न
पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

इति शिष्यहस्तम् अभिमन्त्र्य,
कूर्चेन तन्तुं प्रोक्ष्य,
शिष्यं मूल-मन्त्रेण +अस्त्र-मन्त्रेण+++(=“वीर्यायास्त्राय फट्”)+++ च प्रोक्ष्य,

‘ओं
नाराय॒णाय॑ वि॒द्महे॑
वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॑त् ॥’

इति चतुर्गुणितसूत्रं विष्णुगायत्र्या हरिद्राचूर्णेन त्रिरामृश्य,

इद᳓व्ँ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

इति मन्त्रेण शिष्यदक्षिणहस्ते बध्वा,

रक्षाकरणम्

‘जितं ते पुण्डरीकाक्ष
नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश
महापुरुषपूर्वज ॥’

इति श्लोकेन रक्षां कुर्यात् +++(=मन्त्रान् जपेत्)+++ ॥

[[29]]

(जितंते इति पृथक् रक्षामन्त्रोक्त्या इमे रक्षामन्त्राः क्वचिदुपेक्षिताः ।)

यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी ।
ईशानो देवस् स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥१

विभ्राजमानस् सरिरस्य मध्याद्
??रोचमानो घर्मरुचिर् य आगात् ।
स मृत्युपाशान् अपनुद्य घोरान्
इहायुषेणो घृतमत्तु देवः ॥ २

ब्रह्म-ज्योतिर्-ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरुरूपं जयन्तम् ।
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्य
तमायुषे वर्धयामो घृतेन ॥ ३

श्रियं लक्ष्मीम् औपलाम् अम्बिकां
गां षष्ठीं जयाम् इन्द्र-सेनेत्य् उदाहुः ।
तां विद्यां ब्रह्म योनिँ सरूपाम्
इहायुषे तर्पयामो घृतेन ॥ ४

दाक्षायण्यस् सर्व-योन्यस् सुयोन्यस्
सहस्रशो विश्वरूपा विरूपाः ।
स-सूनवस् स-पतयस् स-यूथ्या
आयुषेणो घृतम् इदं जुषन्ताम् ॥ ५

दिव्यागणा बहुरूपाः पुराणा
आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन
मानः प्रजाँ रीरिषो मोत वीरान् ॥ ६

एकः पुरस्ताद् य इदं बभूव
यतो बभूवुर् भुवनस्य गोपाः ।
यम् अप्य् एति भुवनँ सम्पराये
स नो हविर् घृतम् इहायुषैतु देवः ॥ ७

वसून् रुद्रान् आदित्यान् मरुतो ऽथ साध्यान्
ऋभून् यक्षान् गन्धर्वांश् च पितॄंश् च विश्वान् ।
भृगून्थ् सर्पांश् चाङ्गिरसो ऽथ सर्वान्
घृत ँ हुत्वा स्वायुष्या महयाम शश्वत् ॥

विष्ण॑णो॒ त्वन्नो॒ अन्त॑म॒श्
शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श् च्युत॒
उथ्सं॑दु॒ह्नते॒ अक्षि॑तम् ॥

[[30]]

इति घृतसूक्तेन च अभिमन्त्र्य,

शिष्यकाष्ठादि-व्यवस्था

कृत-कौतुकं शिष्यं दक्षिणत उपवेश्य,
अग्नेः पुरतः बिम्बे श्री-भूमि-नीला-समेतं देवं आवाह्य, आराध्य

देवस्य दक्षिणतः तण्डुलोपरि षोडश कोष्ठान् कृत्वा,
मध्यम-कोष्ठेषु वासुदेवादीन्+++(=वासुदेवः, अनिरुद्धः, प्रद्युम्नः, सङ्कर्षणः)+++,
ऐशानादिकोष्ठेषु केशवादींश् च आवाह्य,
स्थण्डिलात् पुरतः +++(दास्यमान-)+++नाम-देवतां च आवाह्य,
अभ्यर्च्य,
अग्निमुखान्तं कृत्वा,

अग्निमुखम्

(अग्निमुखम्)

उल्लेखनम्

यत्र अग्निस्थापनं तत्र उदगपवर्गं प्राचीः, प्रागपवर्गं उदीचीः तिस्रो रेखा दर्भादिना लिखित्वा,
तत्र तत् दर्भादिकं न्यस्य, अद्भिरवोक्ष्य,
नैर्ऋत्यां निरस्य,
अप उपस्पृश्य,

परिस्तरणान्तम्

तत्राग्निं प्रतिष्ठाप्य, याज्ञियैरिन्धनैः प्रज्वाल्य,
परिसमूह्य,
अवोक्षणशेषं प्राग् उदग्वा उत्सृज्य,
अन्येन जलेन पूरयित्वा,
पात्रं प्राग् उदग् वा परिस्तरणात् बहिर् निधाय,

प्राग्-उदग्-अग्रान् षोडश षोडश दर्भान्
अग्नेः प्राग् आरभ्य प्रदक्षिणं परिस्तीर्य,
दक्षिणान् उत्तरान्, उत्तरान् अधरान् कृत्वा,

पात्रसादनम्

अग्नेरुत्तरतो दर्भान् संस्तीर्य,
तेषु दर्व्याज्यस्थाल्यौ,
तत्पुरस्तात् प्रोक्षणी-पात्र–प्रणीति-पात्रे,
तत्-पुरस्तात् (अरत्नि+++(=अर्धबाहु)+++-मात्रं परिधि-त्रयं, प्रादेश-मात्राः सप्तदश समिधश्च दर्भैः सन्नह्य) इध्माऽपरदर्व्यौ च द्वन्द्वं अवाञ्चि सादयेत् ।

प्रोक्षणीपूरणम्

समाव् अप्रच्छिन्नाग्रौ प्रादेशमात्रौ दर्भौ काष्ठादिना (न नखेन) छित्त्वा,
अप उपस्पृश्य,
मूलाद् आरभ्य आऽग्राद् अद्भिर् अनुमृज्य,
आयाम-पवित्रं कृत्वा,

अग्नेः पश्चात् प्रोक्षणी-पात्रं निधाय,
तस्मिन् अप आनीय,
उत्तानयोर् उदक्-प्राग्-अग्रयोः दक्षिण-वामयोः पाण्योः अङ्गुष्ठानामिकाभ्यां पवित्र-मूलाग्रे गृहीत्वा,
प्राग्-अपवर्गं त्रिर् उत्पूय,

प्रोक्षणम्

पात्राणि उत्तानानि कृत्वा,

विस्रस्य इध्मं ताभिः अद्भिः सर्वाभिः
पवित्रपाणिः त्रिः प्रोक्ष्य,

प्रणीताः

सपवित्रे प्रणीतिपात्रे अप आनीय,
पूर्ववद् उत्पूय,
हस्ताभ्यां प्राण-समम् उद्धृत्य
पात्र-सादनाद् उत्तरतः दर्भेषु सादयित्वा,

[[31]]

दर्भैः प्रच्छाद्य,

अग्नेर्दक्षिणतः दर्भेषु ब्राह्मणं निषाद्य,

आज्य-संस्कारः

विलीनमप्य् आज्यं होमार्थे अग्नौ विलाप्य,
अग्नेः पश्चात् सपवित्रायाम् आज्यस्थाल्यां आज्यं निरुप्य,

परिस्तरण-पात्र-सादनयोर् मध्ये अङ्गारान् निरूह्य,
तेष्व् अधिश्रित्य,

ज्वलता दर्भेण उल्मुकेन वा आज्यं अवद्योत्य,

द्वे दर्भाग्रे काष्ठादिना छित्वा, अप उपस्पृश्य,
युगपद् आज्ये प्रत्यस्य,

दर्भाभ्यां प्रागादि प्रदक्षिणं त्रिः पर्यग्नि-कृत्वा,
उदग् उद्वास्य,

अङ्गारान् अग्नौ प्रत्यूह्य,

आज्यस्थालीं स्वस्य पुरस्तात् निधाय,
पूर्ववत् पवित्रे गृहीत्वा,
प्रागारम्भं पुनः पुनर् आहृत्य त्रिर् उत्पूय,

पवित्र-ग्रन्थिं विस्रस्य,
अद्भिः संस्पृश्य,
युगपत् अग्नौ प्रहृत्य,

दर्वी-संस्कारः

दर्व्यौ अग्नौ प्रतितप्य,
दर्भैः संमृज्य,
पुनः प्रतितप्य,
प्राक्ष्य, निधाय,
दर्भान् अद्भिः संस्पृश्य, अग्नौ प्रहृत्य,

परिधिः

विस्रस्येध्मं
(पुंसुवन-उपाकर्म- व्रत - गृहप्रवेशेषु, चरुकर्मसु परिधीन् परिदध्यात् ।
अन्यत्र सीमन्तादिषु पलाश-खादिरादीनाम् अन्यतमेन कृतान् परधि-स्थौल्यायामान् शम्याख्यान् युग-कीलान् परिदधाति)
तत्र स्थूलम् उदग्-अग्रं पश्चात्, अणु-दीर्घं दक्षिणतः, अणु-ह्रस्वम् उत्तरतः,
परिस्तरणोपरि अन्योन्य-संसृष्टान् निधाय,

आघारौ

मध्यमं परिधिम् उपस्पृश्य,
अग्नेः दक्षिणपूर्व-उत्तरपूर्वयोर् आघार-समिधौ ऊर्ध्वे दक्षिणोत्तरक्रमान् निधाय,

परिषेकः

सव्येन पात्रं स्पृशन् दक्षिणेन हस्तेन परिध्यन्तः परिस्तरणोपरि

‘ओं अदि॒तेऽनु॑मन्यस्व’,
‘ओं अनु॑म॒तेऽनु॑मन्यस्व’,
‘ओं सर॑स्व॒तेऽनु॑मन्यस्व’,
‘ओं देव॑ सवितः॒ प्र सु॑व'

इति परिषिच्य,

इध्माधानम्

आज्याभ्यक्तम् इध्मम्,
‘अस्मिन् पञ्च-संस्कार-होम-कर्मणि ब्रह्मन् ! इध्ममाधास्ये’ इति विज्ञाप्य,
‘ओं आधत्स्व’ इति ब्राह्मणानुज्ञायां
प्रजापतिं स्मरन् अग्नाव् आधाय,
अप उपस्पृश्य,
कराभ्यां इध्ममूलं परामृश्य,

आघारहोमः

सव्येन आज्यस्थालीं स्पृशन् आधारमाघारयति ।

[[32]]

[ तत्प्रकार : -
उत्तरं परिधिसंधिम् आरभ्य आग्नेयान्तं उपदर्व्या, (प्रजापतय इदं न मम),
दक्षिणं परिधिम् आरभ्य +ऐशानान्तं (इन्द्रायेदं न मम),
प्रधानदर्व्या आज्येन दीर्घधारया सर्वाणि इध्मकाष्ठानि संस्पर्शयन् स्वाहाकारवर्जं आघारहोमौ कुर्यात् ]

आज्यभागौ

अथ, ‘ओं अ॒ग्नये॒ स्वाहा॑’ इत्य् उत्तरार्ध-पूर्वार्धे,
“ओं सोमा॑य॒ स्वाहा॑” इति दक्षिणार्ध-पूवार्धे च
आज्यभागौ जुहुयात् ॥

वैष्णवीकरणम्

(ऋतुस्नातया लक्ष्म्या भगवत्संयोगं अग्नि-मध्ये विचिन्त्य,
आहितगर्भां लक्ष्मीं विचिन्त्य, ततो ऽग्नेरुत्पत्तिं विचिन्तयेत् ।
एतदेव अग्नेर् वैष्णवीकरणम् ।)

आधारशक्त्यादिक्रमेण ‘ओं सहस्र-फणा-मणि-मण्डिताय +अनन्ताय नाग-राजाय नमः’ इत्यन्तं कल्पयित्वा,
अभ्यर्च्य,
तत्र पीठे सपरिवारं भगवन्तं ध्यात्वा, अभ्यर्च्य,
+++(आधारशक्त्यादिक्रमेण)+++ दिव्यायुधार्चनं कृत्वा,

तापनहोमः

तापनहोमं संकल्प्य, शिष्येणान्वारब्धः

(एतदारभ्य होमे प्रयोगान्तरमुपरिष्टात् द्रष्टव्यम् । (३८ पुटे ))

  • १. मूलमन्त्रेण षोडशाहुतीः,
  • २. द्वयेन तिस्रः,
  • ३. विष्णुगायत्र्या च तिस्रः,
  • ४. ओं विष्णो॒र्नु॑ कं॑ वी॒र्या॑णि॒ प्र वो॑च॒ यः पार्थि॑वान विम॒मे र॒जांसि॒। यो अस्क॑भाय॒द् उत्त॑रँ स॒धस्थं॑ विच॒क्रमा॒णस् त्रे॒धोरु॑गा॒यस् स्वाहा॑ ॥ (विष्णव इदं न मम) [“विष्णव इदं न मम’ इति त्यागं प्रतिहोमं कुर्यात् ]
  • ५. विष्णो॑ र॒राट॑मसि॒ स्वाहा॑ ॥ (विष्णव इदं न मम )
  • ६. विष्णोः॑ पृष्ठम् अ॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम)
  • ७. विष्णो॒श् श्ञप्त्रे॑ स्थस् स्वाहा ॥ ( विष्णव इदं न मम )
  • ८. विष्णो॒स् स्यूर् अ॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम )
  • ९. विष्णो॑र् ध्रु॒वम् अ॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम )
  • १०. वैष्णवम् अ॑सि स्वाहा॑ ॥ ( विष्णव इदं न मम )
  • ११. विष्ण॑वे॒ त्वा स्वाहा॑ ॥ (विष्णव इदं न मम ) ॥

[[33]]

तद॑स्य॒ प्रि॒यम॒भि पाथो॑ अश्याम् ।
नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था।
विष्णोः॑ पदे प॑र॒मे मध्व॒ उथ्सः॑॥
स्वाहा॑॥ (विष्णव इदं न मम )

प्र॒ तद् वष्णु॑स् तव ते वी॒र्या॑य ।
मृ॒गो न भी॒मः कु॑च॒रो ग॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु ।
अधि॑ क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑॥
स्वाहा॑ ॥ (विष्णव इदं न मम)

प॒रो मात्र॑या त॒नुवा॑ वृ॒धान ।
न ते॑ महि॒त्त्वम् अन्व॑श्ञवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या
विष्णो॑ देव॒ त्वम् प॒र॒मस्य॑ विथ्से॥
स्वाहा॑ ॥ (विष्णव इदं न मम) ॥

वि च॑क्रमे पृथि॒वीम् ए॒ष ए॒ताम् ।
क्षेत्रा॑य॒ विष्ण॒र् मनु॑षे दश॒स्यन्न् ।
ध्रु॒वासो॑ अस्य का॒रयो॒ जना॑सः ।
उ॒रु॒क्षि॒तिँ सु॒जनि॑मा च॒कार॑॥
स्वाहा॑ ॥ (विष्णव इदं न मम)॥

त्रिर्दे॒वः पृ॑थि॒वीम् ए॒ष ए॒ताम् ।
वि च॑क्रमे श॒त॑र्चसं महि॒त्वा ।
प्र विष्णु॑र् अस्तु त॒वस॒स् तवी॑यान्॒ ।
त्वे॒षँ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑॥
स्वाहा॑॥ (विष्ण॒वः॑ इ॒दं न मम)

अतो॑ दे॒वा अ॑वन्तु॒ नो॒
यतो॒ विष्णु॑र् विचक्र॒मे।
पृथि॒व्यास् स॒प्त-धाम॑भिः
स्वाहा॑ ॥ (विष्णव इदं न मम) ॥

इ॒दं विष्णु॒र् वि च॑क्रमे
त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पासु॒रे
स्वाहा॑ ॥ (विष्णव इदं न मम) ॥

त्रीणि॑ प॒दा वि च॑क्रमे॒
विष्णु॑र् गो॒पा अदा॑भ्यः ।
ततो॒ धर्मा॑णि धारयन्
स्वाहा॑ ॥ (विष्णव इदं न मम) ॥

विष्णोः॒ कर्मा॑णि पश्यत॒
यतो॑ व्र॒तानि॑ पस्प॒शे ।
इन्द्र॑स्य॒ यु॒ज्य॒स् सखा॑
स्वाहा॑ ॥ (विष्णव इदं न मम) ।

तद् विष्णोः॑ पर॒मं प॒दँ
स॒दा॑ पश्यन्ति सू॒रयः॑।
दि॒वीव॒ चक्षु॒र् आत॑तम्
स्वाहा॑॥ (विष्णव इदं न मम ) ॥

तद् विप्रा॑सो विप॒न्यवो॑
जागृ॒वास॒स् समि॑न्धते ।
विष्णो॒र् यत् प॑र॒मं प॒दम्
स्वाहा॑ ॥ (विष्णव इदं न मम )

[[34]]

यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे ।
सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
यो जा॒तम् अ॒स्य म॑ह॒तो म॒हि ब्रवा॑त् ।
सेदु॒श् श्रवो॑भिर् यु॒ज्य॑श् चिद् अ॒भ्य॑स॒त्
स्वाहा॑ (विष्णव इदं न मम) ॥

तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॑ ।
गर्भँ॑ ह॒विषा॑ पिपर्तन ।
आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन ।
बृ॒हत् ते॑ विष्णो॑ सुम॒तिम् भ॑जामहे॥
स्वाहा॑ (विष्णव इदं न मम) ॥

(एतावत्वर्यन्तं ‘विष्णव इदं न मम’ इति त्यागः )

अथ पुरुषसूक्तहोमे १८ मन्त्राः ‘पुरुषाय नारायणायेदं न मम’ इति त्यागः ।

विश्वास-टिप्पनी

अधः स्वीया दृष्टिर् लिख्यते, या सायणोक्त्या भिद्यते।

  • पुरुषस्य विभागौ उच्येते ऽत्र पुनःपुनः।
  • परिपूर्णपुरुषः = बहु-देव-पूर्णः सशरीरः। त एव देवाः साध्या ऋषयः, पूर्वे साध्या देवाः।
  • तच्-छरीरम् = एकपाद् (विश्वानि भूतानि, ब्रह्मण्डम्) + त्रिपात् पुरुषो दिवि +++(=परमे व्योम्नि→ Platonic ideal realm/ वैकुण्ठे)+++ वर्तमानः।
  • एकपादो → विराट् (ब्रह्मण्डम् / छन्दः) + ऋतात्मकः पुरुषः।
  • ततः कालम् उपयुज्य, पुरुष-पशोर् विविध-धर्मान् छान्दसान् प्राकृतिकांश् च देवा (साध्या ऋषय इति प्रोक्ता) यज्ञेन +अजनयन्।
  • इयं सृष्टिः पुरुषमेधे ऽनुक्रियत इव।
  • इमा हि मूल-भूताः १६ ऋचः
    पुरुषस्य १६ अङ्गानीव सूचयन्ति,
    यानि शतपथब्राह्मणे प्रयाजानुयाजादि-१६-यज्ञाङ्गैः सङ्गमितानि।
पुरुषस्वरूपम्

+++(बहु-देवता-सङ्ग्रहात्)+++ सह᳓स्र+++(~अनन्त)+++शीर्षा पु᳓रुषः
सहस्राक्षः᳓ सह᳓स्रपात् ।
स᳓ +++(वक्ष्यमाणां विराजं)+++ भू᳓मिं विश्व᳓तो वृत्वा᳓
अ᳓त्यतिष्ठद् दशाङ्गुल᳓म् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

+++(स्व-शरीरैकदेशेन)+++ पु᳓रुष एवे᳓दँ᳓ स᳓र्वम्
य᳓द् भूतं᳓ य᳓च् च भ᳓व्यम्।
उत᳓+++(→तथा देवात्मभिः)+++ +अमृतत्व᳓स्ये᳓शानः +++(परमे व्योम्नि)+++ ।
य᳓द्+++(→यस्माद्)+++ +++(ब्रह्माण्डरूपेण)+++ अ᳓न्नेन+++(=अशितेन)+++ +अतिरो᳓हति । ३

एता᳓वान् +++(ब्रह्माण्डम् इति)+++ अस्य महिमा᳓ ।
अ᳓तो+++(→ततोऽपि)+++ ज्या᳓याँश् च पू᳓रुषः ।
+++(कथम् इति चेत्-)+++
पा᳓दोऽस्य वि᳓श्वा भूता᳓नि
+++(अवशिष्टस्)+++ त्रिपा᳓द् +++(अंशः पर-देवतापूर्णः)+++ अस्यामृ᳓तं +++(=अविनाशी)+++ दिवि᳓+++(=परमे व्योम्नि)+++ ।

सृष्टिः

+++(सो ऽयं)+++ त्रिपा᳓द्+++(→त्रिविक्रम-सूचना)+++ ऊर्ध्व᳓ उ᳓दैत् पु᳓रुषः +++(शिष्टस्यापेक्षया)+++।
+++(पूर्वोक्त-)+++पा᳓दो ऽस्येहा᳓ऽऽभवात् पु᳓नः +++(पुनःपुनः)+++ ।
त᳓तो +++(पादः)+++ वि᳓ष्वङ्+++(=सर्वतो)+++ व्य᳙क्रामत् +++(वक्ष्यमाण-जननाय)+++।
साशनानशने᳓+++(=जीवाजीवे [वस्तू])+++ अभि᳓+++(लक्ष्य)+++ । ४

+++(पादांशात्)+++ त᳓स्माद् विरा᳓ड्+++(→पुरुष-मेध-ब्राह्मणे छन्दोऽपि)+++ +++(ब्रह्माण्ड-शरीरम्)+++ अजायत
+++(तस्माद्)+++ विरा᳓जो अ᳓धि पू᳓रुषः +++(ऋतात्मना /पुरुषमेध-कर्मरूपेण अजायत)+++ ।
स᳓ जातो᳓ अ᳓त्यरिच्यत -
+++(क्वेति चेत् -)+++ पश्चा᳓द् +++(विराजम्)+++ भू᳓मिम् अ᳓थो +++(जीवानाम्)+++ पुरः᳓+++(=पूर्वम्)+++। ५

य᳓त् +++(वक्ष्यमाणेन कालभागेन)+++ पु᳓रुषेण हवि᳓षा ।
+++(त्रिपादङ्गभूता)+++ देवा᳓ यज्ञ᳓म् अ᳓तन्वत
+++(पुरुष-हविषो विभागाः -)+++ वसन्तो᳓ अस्यासीद् आ᳓ज्यम् ।
ग्रीष्म᳓ इध्मः᳓ शर᳓द् +++(अन्नादिरूपम्)+++ +हविः᳓ । ६

सप्ता᳓ऽस्याऽऽसन् परिध᳓यः ।
त्रिः᳓ सप्त᳓ +++(२१!)+++ समि᳓धः कृताः᳓ +++(इध्म-सन्नाहः!)+++।
+++(त्रिपादङ्गभूता)+++ देवा᳓ य᳓द् यज्ञं᳓ तन्वानाः᳓
अ᳓बध्नन् +++(एकपात्)+++ पु᳓रुषं पशु᳓म् । ७

तं᳓ यज्ञं᳓+++(~तत्साधनभूतं पशुं)+++ बर्हि᳓षि प्रौ᳓क्षन्
पु᳓रुषं जात᳓म् अग्रतः᳓ ।
ते᳓न +++(वक्ष्यमाणा)+++ देवा᳓ अयजन्त -
+++(अविशिष्टा नानापात्रेषु पश्चात्)+++ साध्या᳓ ऋ᳓षयश् च ये᳓ । ८

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓तः ।
+++(पशुनिर्माणाय तज्-जातकर्मणे वापि)+++ सं᳓भृतं +++(हविश्शेषं घनीभवद् दधिमिश्रं वा)+++ पृषद्+++(=बिन्द्व्)+++-आज्य᳓म् ।
पशूँ᳓स् ताँ᳓श् +++(सूच्यमानान्)+++ चक्रे - वायव्या᳓न् ।
आरण्या᳓न् ग्राम्याँ᳓श् च ये᳓ । ९

त᳓स्माद् यज्ञा᳓त् सर्वहु᳓त
ऋ᳓चः सा᳓मानि जज्ञिरे
छ᳓न्दांसि जज्ञिरे त᳓स्माद्
य᳓जुस् त᳓स्माद् अजायत

त᳓स्माद् अ᳓श्वा अजायन्त
ये᳓ के᳓ चोभया᳓दतः+++(=दन्तावलिद्वयाः)+++ ।
गा᳓वो ह जज्ञिरे त᳓स्मात् ।
त᳓स्माज् जाता᳓ अजाव᳓यः । ११

समाजोद्भवः

+++(देवाः)+++ य᳓त् +++(एकपात्)+++पु᳓रुषं +++(पशुं)+++ व्य᳙दधुः +++(बलौ)+++।
कतिधा᳓ व्य᳙कल्पयन् ?
मु᳓खं कि᳓म् अस्य कौ᳓ बाहू᳓ ?
का᳓व्+++(←वकारो न शाकले)+++ ऊरू᳓ पा᳓दाव् उच्येते ? १२

ब्राह्मणो᳡ ऽस्य मु᳓खम् आसीद्
बाहू᳓ राजनि᳓यः कृतः᳓
ऊरू᳓ त᳓द् अस्य य᳓द् वइ᳓श्यः
पद्भ्यां᳓ शूद्रो᳓ अजायत

चन्द्र᳓मा म᳓नसो जातः᳓
च᳓क्षोः+++(=चक्षुषः)+++ सू᳓र्यो अजायत
मु᳓खाद् इ᳓न्द्रश् चाग्नि᳓श् च ।
प्राणा᳓द् वायु᳓र् अजायत । १४

ना᳓भ्या आसीद् अन्त᳓रिक्षम् ।
शीर्ष्णो᳓+++(=मूर्ध्ना)+++ द्यौः᳓ स᳓मवर्तत
पद्भ्यां᳓ भू᳓मिर् दि᳓शः श्रो᳓त्रात् ।
त᳓था लोकाँ᳓ अकल्पयन् । १५

तैत्तिरीयक-योगः (द्रष्टुं नोद्यम्)
पुरुषस्तुतिः, यज्ञस्तुतिः

वे᳓दाह᳓म् एतं᳓ पु᳓रुषं महा᳓न्तम् ।
आदित्य᳓वर्णं त᳓मसस् तु पारे᳓ ।
स᳓र्वाणि रूपा᳓णि विचि᳓त्य धी᳓रः ।
ना᳓मानि कृत्वा᳓ ऽभिव᳓दन् य᳓द् आ᳓स्ते । १६

धाता᳓ पुर᳓स्ताद् य᳓म् +++(पुरुषम्)+++ उदाजहा᳓र,,
शक्रः᳓ प्र᳓ विद्वा᳓न् प्रदि᳓शश् च᳓तस्रः ।
त᳓म् एवं᳓ विद्वा᳓न् अमृ᳓त इह᳓ भवति ।
ना᳓न्यः᳓ प᳓न्था अ᳓यनाय विद्यते । १७

+++(सर्वहुद्-)+++यज्ञे᳓न यज्ञ᳓म् अयजन्त देवाः᳓ ।
ता᳓नि ध᳓र्माणि प्रथमा᳓न्य् आसन्
+++(य एवं विदुः)+++ ते᳓ ह ना᳓कं +++(यज्ञैः)+++ महिमा᳓नः+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
य᳓त्र पू᳓र्वे +++(नानापात्रेषु पश्चात्)+++ साध्याः᳓ स᳓न्ति देवाः᳓ । १८

॥ ॐ नमो नारा॑यणा॒य ॥

[[35]]
[[36]]

अथ चतुर्णां, ‘चरणायेदं न मम’ इति त्यागः ।

चर॑णम् प॒वित्र॑ वित॑तम् पुरा॒णम् ।
येन॑ पू॒तस् तर॑ति दुष्कृ॒तानि॑ ।
तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पूताः ।
अति॑ पा॒प्मान॒म् अरा॑तिन् तरेम॥
स्वाहा ॥ ( चरणाय इदं न मम ) ॥

लो॒कस्य॒ द्वार॑म् अर्चि॒मत् प॒वित्र॑म् ।
ज्योति॑ष्म॒द् भ्राज॑मान॒म् मह॑स्वत् ।
अ॒मृत॑स्य॒ धारा॑ बहुधा दोह॑मानम् ।
चर॑णन् नो लो॒के सुधि॑तान् दधातु ॥
स्वाहा॑॥ ( चरणाय इदं न मम) ।

प॒वित्र॑वन्तः॒ परि॒ वाज॒म् आस॑ते ।
पि॒तैषा॑म् प्र॒त्नो अ॒भिर॑ख्षति व्र॒तम् ।
म॒हस् स॑मु॒द्रं वरु॑णस् ति॒रो द॑धे ।
धीरा॑ इच् छेकुर् द्धरु॑णेष्व् आ॒रभम् ॥
स्वाहा॑ ॥ (चरणायेदं न मम) ।

प॒वित्र॑न् ते॒ वित॑त॒म् ब्रह्म॑ण॒स्पते॑ ।
प्रभु॒र् गात्रा॑णि॒ पर्यै॑षि वि॒श्वतः॑ ।
अत॑प्त-तनू॒र् न तदा॒मो अ॑श्नुते ।
शृ॒तास॒ इद् वह॑न्त॒स् तथ् समा॑शत॥
स्वाहा॑ ॥ (चरणायेदं न मम)। ।

येन॑ दे॒वाः प॒वित्रे॑ण ।
आ॒त्मानं॑ पुनते॒ सदा॑ ।
तेन॑ स॒हस्र॑धारेण ।
पा॒व॒मा॒न्यः पु॑नन्तु मा॥
स्वाहा॑ ॥ (अद्भ्य इदं न मम ) ।

प्र॒जा॒प॒त्य॑ प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒विदो॑ व॒यम्।
पू॒तं ब्रह्म॑ पुनीमहे॥
स्वाहा॑ ॥ (अद्भ्य इदं न मम) ।

इन्द्र॑स् सुनी॒ती स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या॑
य॒मो राजा॑ प्रमृ॒णाभिः॑ पुनातु मा ।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु॥
स्वाहा॑ ॥ (अद्भ्य इदं न मम) । ।

मूलमन्त्रेण, मन्त्ररत्नेन+++(=??)+++ च हुत्वा,
पञ्चायुधहोमं तत्तन्मन्त्रेण +++(आधारशक्तिसूच्यनुसारेण नमस्कारं स्वाहाकारं कुर्वन्न्)+++ हुत्वा,

‘पुण्ड्रहोमं’ संकल्प्य,
वासुदेवादीन्, केशवादींश्च हुत्वा,

नामहोमं सङ्कल्प्य,
नाममन्त्रेण+++(=??-)+++ हुत्वा,

‘मन्त्रहोमं’ सङ्कल्प्य,
मूलमन्त्रेण, मन्त्ररत्नेन, चरमश्लोकेन च
द्वादशाक्षरेण+++(=??)+++, षडक्षरेण+++(=??-)+++ च हुत्वा,

यागहोमं सङ्कल्प्य,
मूलमन्त्रेण, मन्त्ररत्नेन, द्वादशाक्षरेण, षडक्षरेण च हुत्वा,
वासुदेवादीन्, केशवादींश्च हुत्वा,

शिष्यगात्रे संहारन्यासं+++(=??)+++ कृत्वा,
विशोष्य, दग्ध्वा,
पुनः सृष्टिन्यासं+++(=??)+++ कृत्वा,
अस्त्रमन्त्रेण रक्षां कृत्वा,

[[37]]

तालकोशे - होमे प्रयोगान्तरम्

मूलमन्त्रेणैकाम्,
प्रत्यक्षरमष्टौ,
पुनर्मूलमन्त्रेणैकां
आहुतीर् हुत्वा,
पुरुषसूक्तेन षोडशाऽऽहुतीः,
विष्णुगायत्र्या, विष्णोर्नुकं, विष्णवे त्वा, परो मात्रया, वि चक्रमे, इदं विष्णुः, त्रीणि पदा, तद्विप्रासः इति च हुत्वा,
चरणं पवित्रं, लोकस्य द्वारम्, पवित्रवन्तः, पवित्रं ते विततं,
प्राजापत्यं पवित्रं, येन देवाः, इन्द्रस्सुनीती, पवित्रवन्तः इति मन्त्रैः,
‘ओं सुदर्शनाय हेतिराजाय स्वाहा’, ‘ओं पाञ्चजन्याय शङ्खाधिपतये स्वाहा’ इत्येवमाद्यायुधमन्त्रैः,
मूलमन्त्रेण चैकाम्,

पुण्ड्रहोमं संकल्प्य,
वासुदेवादि-दामोदरान्तैर् हुत्वा,
मूलमन्त्रेणाष्टौ,

‘नामहोमं करिष्ये’ इति संकल्प्य,
‘श्रीमते नारायणाय स्वाहा’ इत्येकाम्,
विष्णुगायत्र्या एकां,
मूलमन्त्रेणाष्टौ,

मन्त्रसंस्कारहोमं संकल्प्य,
द्वादशाक्षरेण,
षडक्षरेण+++(=??)+++ च प्रत्येकमष्टौ,

यागहोमं संकल्प्य,
मूलमन्त्रेण, द्वयेन च हुत्वा,

पञ्चोपनिषन्-मन्त्रान्+++(=??)+++ सृष्टिक्रमेण शिष्यस्याङ्गे न्यस्य,

अग्नेर् उत्तरार्धपूर्वार्धे सुदर्शनम्,
दक्षिणपूर्वार्धे पाञ्चजन्यञ्च निधाय

तप्तं सुदर्शनम् आदाय,

“सुदर्शन ! महाज्वाल!
कोटिसूर्यसमप्रभ!
अज्ञानान्धस्य मे देव!
विष्णोर्मार्गं प्रदर्शय॥ ओं सुदर्शनाय हेतिराजाय नमः”

इति शिष्यं वाचयित्वा, अङ्कयेत् ।

“पाञ्चजन्य ! निजध्वान-
ध्वस्तपातक-सञ्चय!
पाहि मां पापिनं घोर-
संसारार्णव-पितिनम् ॥
ओं पाञ्चजन्याय शङ्खाधिपतये नमः”

इति शिष्यं वाचयित्वा, तेनापि अङ्कयेत् ॥ 6

अथ दिव्यायुध-क्षीराभिषेचन-निवेदने ।
अथ शिष्येण सह साग्नेर् देवस्य प्रदक्षिणम् ।
दिव्यायुध-सान्निध्य-प्रार्थनम् +++(कथम्??)+++॥

[[38]]

पुण्ड्रधारणम्

अथ पुण्ड्रधारणम्

पुण्ड्रेषु केशवादीन् आवाहयेत् ॥
+++(ॐ केशवाय नमः। ओं माधवाय नमः … इत्यादि १२।)+++

विश्वास-प्रस्तुतिः

चतुश्-चक्रं नमस्यामि
केशवं कनक-प्रभम् ।

नारायणं घन-शयामं
चतुश्-शङ्खं नमाम्य् अहम् ॥

मूलम्

चतुश्चक्रं नमस्यामि केशवं कनकप्रभम् ।
नारायणं घनश्यामं चतुःशङ्खं नमाम्यहम् ॥ १॥

विश्वास-प्रस्तुतिः

माधवं मणि-भङ्गाभं
चिन्तयामि चतुर्-गदम्

चन्द्र-भासं चतुश्-शार्ङ्गं
गोविन्दम् अभिसंश्रये ॥

मूलम्

माधवं मणिभङ्गामं चिन्तयामि चतुर्गदम् ।
चन्द्रभासं चतुः शार्ङ्गं गोविन्दमपि संश्रये ॥ २॥

विश्वास-प्रस्तुतिः

विष्णुं चतुर्-हलं वन्दे
पद्म-किञ्जल्क+++(=केसर)+++-सन्निभम् ।

चतुर्-मुसलम् अब्जाभं
संश्रये मधु-सूदनम्

मूलम्

विष्णुं चतुर्हलं वन्दे पद्मकिञ्जल्कसन्निभम् ।
चतुर्मुसलमब्जाभं संश्रये मधुसूदनम् ॥ ३॥

विश्वास-प्रस्तुतिः

अग्नि-वर्णं चतुः-खड्गं
भावयामि त्रि-विक्रमम्

वामनं बाल-सूर्याभं
चतुर्-वज्रं विभावये॥

मूलम्

अग्निवर्णं चतुःखड्गं भावयामि त्रिविक्रमम् ।
वामनं बालसूर्याभं चतुर्वज्रं विभावये ॥ ४॥

विश्वास-प्रस्तुतिः

श्रीधरं पुण्डरीकाभं
चतुःपट्टं समाश्रये ।

चतुर्-मुद्गरम् अभ्येमि
हृषीकेशं तडित्-प्रभम्॥

मूलम्

श्रीधरं पुण्डरीकाभं चतुःपट्टसमाश्रये ।
चतुर्मुद्गरमभ्येमि हृषीकेशं तटित्प्रभम् ॥ ५॥

विश्वास-प्रस्तुतिः

पञ्चायुधं पद्म-नाभं
प्रणमाम्य् अर्क-रोचिषम् ।

दामोदरं चतुः-पाशम्
इन्द्र-गोप-निभं भजे ।

मूलम्

पञ्चायुधं पद्मनाभं प्रणमाम्यर्करोचिषम् ।
दामोदरं चतुःपाशं इन्द्रगोपनिभं भजे ॥ ६॥

विश्वास-प्रस्तुतिः

वासुदेवम् उपासेऽहं
पूर्णेन्द्व्-अयुत-सन्निभम् ।।

मूलम्

वासुदेवम् उपासेऽहं
पूर्णेन्द्व्-अयुत-सन्निभम् ।।

श्रीनामानि

श्रीदेवी, अमृतोद्भवा, कमला, चन्द्रसोदरी, वरारोहा,
हरिवल्लभा, विष्णुपत्नी, वैष्णवी, शार्ङ्गिणी, देवदेविका,
महालक्ष्मीः, सुरसुन्दरी, सर्वाभिष्टप्रदायिनी इति देव्यः
केशवादीनां सवासुदेवानाम् ।

इति च वाचयेत् ।

ओं श्रियै नमः,
ओं अमृतोद्भवायै नमः,
ओं कमलायै नमः,
ओं चन्द्रशोभिन्यै +++(अन्यत्र - चन्द्रसोदर्यै)+++ नमः,
ओं विष्णुपत्न्यै नमः,
ओं वैष्णव्यै नमः,
ओं वरारोहायै नमः,
ओं हरिवल्लभायै नमः,
ओं शार्ङ्गिण्यै नमः,
ओं देवदेव्यै+++(अन्यत्र - देवदेविकायै)+++ नमः,
ओं महालक्ष्म्यै नमः,
ओं सुर-(लोक)-सुन्दर्यै नमः,
ओं सर्वाभीष्टफलप्रदायै नमः ॥

इति श्रीचूर्णरेखासु श्रियमावाहयेत् ॥

[[39]]

पञ्चसंस्कारप्रयोगः

नामवाचनम् “एतन्नामा भगवद्दासोऽस्मि, रामानुजदासोऽस्मी"ति॥

उपदेशः

गुरु-परम्परा-पूर्वकं मन्त्रोपदेशं, यागोपदेशं च कुर्यात् ॥
तत्र

कूर्मादीन् दिव्यलोकं
तदनु मणिमयं मण्टपं
तत्र शेषं
तस्मिन् धर्मादिपीठं
तदुपरि कमलं चामरग्राहिणीश्च ।
विष्णुं, देवीर्, विभूषायुधगणम्,
उरगं, पादुके,
वैनतेयं, सेनेशं,
द्वारपालान्,
कुमुद-मुखगणान् विष्णुभक्तान् प्रपद्ये ॥

इति, पूर्वं (१ पुटोक्तं) सर्वञ् चोपदिशेत् ।

श्रीमद्रामायण-श्रीविष्णुपुराण-भारत-गीता-नामसहस्र-श्रीभागवतादि च यथार्हम् उपदिशेत् ॥

होमान्तः

अथ प्रायश्चित्ताहुतीः, प्राणायामं च कुर्यात् ।

परिषेचनम् -

ओं अदि॒तेऽन्व॑म॒ऽस्थाः ।
ओं अनु॑म॒तेन्व॑मस्थाः ।
ओं सर॑स्व॒तेन्व॑मस्थाः ।
ओं देव॑ सवि॒त॒ प्रासा॑वीः ॥

इति।

प्रणीतावोक्षणं

प्रणीतिपात्रं पश्चात् निधाय,
प्रणीतासु अपः अव्युच्छिन्नधारया आनीय,
प्राच्याम् इत्यादिक्रमेण प्रतिदिशं सकृत् व्युत्सिच्य,

‘स॒मु॒द्रं व॒ः प्रहि॑णोमि॒
स्वा॑ योनि॒म् अप॑गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भू॒यासं॒
मा परा॑सेच॒ मत्पयः॑ ॥

इति शिष्यं प्रोक्षयेत् ।

ब्राह्मणपूजनम्

सदक्षिणाकताम्बूलदानं, ब्रह्मोद्वासनम् ॥

अग्न्युपस्थानम्

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्॒
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒
भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥

ओं अग्नये नमः,

‘मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ।

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम् ॥’

[[40]]

इत्यग्निमुपस्थाय, अभिवादयेत् ।

अभ्युदयः

एतत्कर्माङ्गम् अभ्युदयं, पुण्याहं च कुर्यात् ॥

तत्प्रकारः । प्राणानायम्य

… गोत्रस्य शर्मणः तापादिपञ्चसंस्कारे्-एहोमाङ्गं अभ्युदयं करिष्यामि

इति सङ्कल्प्य
उपवीती प्राङ्मुखस् सन् देवतीर्थेनैव

‘हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः । अनन्त-पुण्य-फलदम्
अदश् शान्तिं प्रयच्छ मे ॥ '

“अनेन अभ्युदयेन विश्वदेवपितृविष्णुस्वरूपी श्रीभगवान् प्रीयताम् "

इति हिरण्योपरि,

‘इदं हिरण्यं नानागोत्रेभ्यः श्री वैष्णवेभ्यः एभ्यः (तेभ्यः) संप्रददे (नमः) न मम’

इति साक्षतं जलं निस्राव्य, ब्राह्मणेभ्यो दद्यात् ॥

पुण्याहः

प्राणानायम्य,

‘तापादि-पञ्च-संस्कार-कर्माङ्गं पुण्याहं वाचयिष्ये’

इति संकल्प्य, पुण्याहं च वाचयेत् ॥

अथ गुरुपरम्परानुसंधानादि॥

[[41]]

स्त्रीमात्रपञ्चसंस्कारप्रयोगे विशेषः

स्त्रीणां तु
षोडशकोष्ठस्थाने चतुर्दलपद्मं, मध्ये कर्णिकां, बहिः अष्टदलानि च विलिख्य,
बहिर्दलेषु प्रागादिक्रमेन केशवादीन्, अन्तर्दलेषु श्रीधरादीन् चतुरः, कर्णिकायां वासुदेवं च कूर्चेषु आवाह्य,
अर्घ्यादि नैवेद्यान्तं कृत्वा,
उल्लेखनादि दर्वी-संस्कारान्तं कृत्वा,
आधार-शक्त्यादि कल्पयित्वा,
श्रीसखाद् अग्निं उत्पाद्य,
तत्र श्रीसखं, पञ्चायुधानि च ध्यात्वा,
(होमः) “ नारायणाय नमः” इत्यष्टौ,
“वासुदेवाय नमः” इति द्वादश,
“विष्णवे नमः” इति षट्,
सुदर्शनादिभिः हेतिमन्त्रैः नमोऽन्तैः पञ्च,
“केशवाय नमः” इत्यादिभिर् द्वादश,
एकां मंत्ररत्नेन च जुहुयात् ।

“विष्णवे नमः” इति पूर्णाहुतिं हुत्वा,
पूर्ववत् तापादि संस्कारान् कुर्यात् ।

प्रणववर्जं मन्त्रोपदेशः,
तदुचित-यागोपदेशं च कुर्यात् ॥ 4

अनुज्ञा-ग्रहण–विष्वक्सेनाराधन–संकल्प–प्रतिसरबन्धादिकं प्राग्वत् ।

शूद्रपञ्चसंस्कारप्रयोगः

अथ शूद्रपञ्चसंस्कारप्रयोगः॥

(श्री पाञ्चरात्रागमे वसिष्ठ-संहितायां आचारकाण्डे वसिष्ठ-शौनकसंवादे द्विजेतर-पञ्च-संस्कार-विधिः)

अनुज्ञा

शुभे दिने पुण्य-नक्षत्रे आचार्यः पुण्य-तीर्थादिषु शिष्यं स्नापयित्वा, ततः श्रीवैष्णव-सभायां स्थित्वा,

श्रींवैष्णवेभ्यः सदसि स्थितेभ्यो
नमोऽद्य गुर्वाश्रयणोन्मुखानाम् ।
तापादिकं कर्म कृतं यथावत्
शुभावहं चास्तु भवत्प्रसादात् ॥ "

[[42]]

इति पद्यम् उक्त्वा,
सदस्यान् श्रीवैष्णवान् दक्षिणा-ताम्बूलादिभिः सत्कृत्य,
तैर् आशिषो वाचयित्वा,
अभ्यनुज्ञातः

सङ्कल्पः

दर्भेष्व् आसीनः,
दर्भान् धारयमाणः, पवित्रपाणिः

शिष्यं दक्षिणतः उपवेश्य,
तूष्णीं प्राणानायम्य,
‘श्रीगोविन्द’ इत्यादिना सङ्कल्प्य,

‘एतेषां चेतनानां तत्-प्रार्थित-वैष्णवत्व-प्राप्त्य्-अर्थम्
एतान् पञ्चसंस्कारकर्मणा संस्करिष्ये (ष्यामि)’

इति संकल्प्य,

मण्डले पूजा

होमस्थानस्य ऐशान्यां दिशि व्रीहिभिः स्थण्डिलं कृत्वा,
मध्ये चतुर्दलपद्मं, मध्ये कर्णिकां च, तद्बाह्यावरणे अष्ट दलानि विलिख्य,

तेषु त्रयोदश-कलशान् निधाय,
सूत्रेण नववस्त्रेण चाऽऽवेष्ट्य,
धूप-दीप-गन्ध-पुष्पाक्षत-नारिकेलादिभिर् अलङ्कृत्य,

स्वर्ण-फलकेषु प्रतिमां विलिख्य,
तेषु कलशेषु निक्षिप्य,
कुम्भरत्नानि रत्नार्थं हिरण्यं वा निक्षिप्य,

मध्ये कर्णिकाकलशे श्री-भूमि-नीला-सहितं पर-वासुदेवम् आवाह्य,
बाह्यावरण-कलशेषु प्राच्यादि-क्रमेण केशवादीन् आवाह्य,
अन्तश् चतुर्षु कलशेषु श्रीधरादीन् आवाह्य,
अर्घ्यादि-नैवेद्यान्तैर् इष्ट्वा,
तत्तन्मन्त्राधार-संयुक्तान् ध्यायेत्।

(यद्वा - तण्डुलैश् चतुरश्रं स्थण्डिलं कृत्वा,
तत्र त्रयोदशस्थानानि परिकल्प्य,
मध्ये लक्ष्मीनारायणं
परितः केशवादींश्च आवाह्य,
अर्ध्यादि नैवेद्यान्तैर् इष्ट्वा,
सान्निध्यं प्रार्थयेत् । )

गङ्गावाहनम्

ततः प्राच्यां दिशि तण्डुलैः स्थण्डिलं कृत्वा,
सूत्रैः नववस्त्रेण चाऽऽवेष्टितं गन्ध-पुष्पाक्षतादिभिर् अलङ्कृतं कुम्भं निधाय,
नारिकेल-फल-कूर्चाग्र-दल-पत्रं च निधाय
कुम्भरत्नं च निक्षिप्य,

“सन्निधत्स्वेह भगवत्-
पादाम्बुज-विनिस्सृते । मन्दाकिनि! नमस् तुभ्यं
वरदा भव शोभने॥ "

इति विष्णुपादोद्भवां गङ्गां आवाह्य,
विधिवद् अभ्यर्चयेत् ।

[[43]]

पञ्चगव्यम्

ततः शिष्यस्य शरीरशुद्ध्यर्थं, विष्णु-पञ्जरादि-किञ्चित्-स्तोत्रेण पञ्चगव्यं कृत्वा,
प्राशनं कारयित्वा,

पुण्याहः, प्रोक्षणम्

प्रपा-वेदि-द्रव्योपकरण-शुद्ध्य्-अर्थं
“जितन्ते” इति स्तोत्रेण पुण्याहं कृत्वा,
तज्जलेन पूर्वम् आवाहित-गङ्गा-तीर्थेन च उपकरण-द्रव्याणि शिष्यं त्रिः प्रोक्षयेत् ।

प्रतिसरबन्धः

ततः, ‘पञ्चसंस्काराङ्गं प्रतिसरबन्धकर्म करिष्ये’ इति संकल्प्य,
ताम्र-शराव-पात्रे तण्डुल-प्रस्थ-द्वयम् आपूर्य,
तन्-मध्ये नवगुणित-कार्पास-सूत्रं प्रादेशमात्रं श्रीचूर्णसहितं विन्यस्य,

अभिमन्त्रणम्

आचार्यः,

“रक्ष रक्ष जगन्नाथ !
रमानाथ ! दयानिधे! ।
विक्रम-त्रय-विक्रान्त-
जगत्त्रय! नमोऽस्तु ते ॥”

‘‘जितन्ते पुण्डरीकीक्ष!
नमस्ते विश्वभावन! ।
नमस्तेऽस्तु हृषीकेश!
महापुरुष! पूर्वज! ॥”

‘‘न वासुदेव-भक्तानां
अशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधि-
भयं वाऽप्युपजायते ॥”

‘‘आर्तानां आर्तिहन्तारं
भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं
रामचन्द्रं नमाम्यहम् ॥”

“अनन्याश् चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ "

‘सकृदेव प्रपन्नाय
तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो
ददाम्येतत् व्रतं मम ॥ "

इत्यादिमन्त्रैः कूर्चेन अभिमन्त्रयेत् ।

[[44]]

ततः पुरुषस्य दक्षिणहस्ते / माङ्गल्य-युक्त-नारीणां वाम-हस्ते,

आकर्ण-पूर्ण-धन्वानौ रक्षेतां रामलक्ष्मणौ ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।

इति मन्त्रेण (सुदर्शन-षड्-अक्षरेण वा) कङ्कणं बद्ध्वा,
अस्त्रमन्त्रेण शिष्यस्य हस्तोपरि चुटिकां कृत्वा,
शोभनाक्षतैर् अर्चयेत् ।

तापहोमः

अथ दक्षिण-प्राच्यां वेदि-मध्ये चतुरश्रं विलिख्य,
तत्र अग्निं प्रतिष्ठाप्य, परिस्तीर्य, तूष्णीं परिषिच्य,
अग्नौ श्री-सखं भगवन्तं ध्यात्वा
अष्टोत्तर-शत-नामभिः चतुर्थी-नमोन्तैः,
पञ्चायुधस्तवेन,
‘चतुश्चकं नमस्यामि’ इत्यादिना,
‘पुरस्तात् केशवः पातु’ इत्यादिना च
यथासंप्रदायं आज्याहुतिं कृत्वा,
मन्त्ररत्नेन पूर्णाहुतिं च हुत्वा,
दिव्यायुधार्चनम् अर्घ्याद्य्-उपचारैः कृत्वा,
सुदर्शन-पाञ्चजन्यौ अग्नौ प्रतप्य,

प्रथमं सुदर्शनं गृहीत्वा,

‘‘सुदर्शन! महाज्वाल! कोटिसूर्यसमप्रभ! ।
अज्ञानान्धस्य मे देव! विष्णोर्मार्गं प्रदर्शय ॥’’

इति शिष्यं वाचयन् दक्षिणबाहुमूले अङ्कयित्वा,

ततः पाञ्चजन्यमादाय,

“पाञ्चजन्य-निज-ध्वान-
ध्वस्त-पातक-सञ्चय! ।
पाहि मां पापिनं घोर-
संसारार्णव-पातिनम् ॥

इति मन्त्रं शिष्यं वाचयन् शिष्यस्य वाम-हस्त-बाहु-मूले अङ्कयेत् ।

[[45]]

ततः सुदर्शन-पाञ्च-जन्यौ गो-क्षीरे सुगन्ध-पङ्के वा शीतोदके वा निधाय,

पुण्ड्रधारणादि

ततः शिष्यस्य विधिवद् ऊर्ध्वपुण्ड्रान् धारयित्वा,
दासनाम च कृत्वा,

उपदेशः

तत्-तद्-अधिकारानुरूपं यथासंप्रदायं मन्त्रोपदेशं च कृत्वा,
द्रमिड-गाथा-स्तुतिभिः, विष्ण्व्-आराधनं च तत्-तद्-अनुरूपम् उपदिश्य,
त्याज्योपदेयं च विविच्य बोधयेत् ।

समाप्तिः

क्रमेण आवाहितान् उद्वास्य,
पवित्र-ग्रन्थिं विस्रस्य,
षोडशोपचारान् पुनः समर्प्य,
‘यथास्थानं प्रतिष्ठापयामि’ इत्युक्त्वा समापयेत् ।

शिष्यस्तु सदस्यान् संभाव्य,
गुरुं धन–धान्य–नव-वस्त्रालङ्कारादिभिर्
यथाशक्ति सन्तर्पयेद् इति ॥