षोडशोपचाराः
मूलमन्त्रेण कर्तव्या उपचारास्तु षोडश ।
आवाह्याऽऽसनमानीय दद्यादर्घ्यादिकत्रिकम् ॥ १ ॥
स्नानवस्त्रोपवीतानि गन्धं पुष्पञ्च धूपकम् ।
दीपमभ्यर्चनं सर्वनैवेद्यं नमनं तथा ॥ २ ॥
उद्वासनञ्च कलयेदेवं पूजनसङ्ग्रहः ।
स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ॥ ३ ॥
आराधनसंग्रहः
आराधनसङ्ग्रहः
आचम्य द्वारपालप्रणमनभगवद्वन्दनोद्बोधचर्याः
सङ्कल्पो भूतशुद्धिर्हृदि मननमयं पूजनञ्चाथ बाह्ये ।
प्रादक्षिण्येऽर्घ्यपाद्याचमनबहुविधस्नानशुद्धोदकानां
कॢप्तिः स्यात् कुम्भतीर्थात् शुचिपरिमलितात्, अर्घ्यतः प्रोक्षणञ्च ॥ १ ॥
आह्वानञ्चाऽऽसनार्घ्ये पदसलिलमथाचामपुंसूक्तयुक्त-
स्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ च वाद्यम् ।
वेदाद्यारम्भ-पुष्पार्चन-नति-मधुपर्कान्ननैवेद्य-पेयाऽऽ-
चामास्ताम्बूलमुख्यं परिगतिनमनोद्वसनानि क्रमात् स्युः ॥ २ ॥
घण्टानादनसमयनिर्देशः
घण्टानादनकालः
उद्घाटने कवाटस्य प्रारम्भे पूजनस्य च ।
आवाहनेऽर्घ्ये स्नपने धूपे दीपे च वाद्यके ।
नीराजने च नैवेद्ये होमे चोद्वासनादिषु ।
व्यापृते दक्षिणे हस्ते घण्टां वामेन नादयेत् ॥
नैमित्तिकाराधने विशेषाः पुटान्तरे (पु. xviii, xix) द्रष्टव्याः ॥
[[1]]