२ विशेषाराधनक्रमः

विशेषाराधनक्रमः

(१) नृसिंहजयन्त्याम् - सायं प्रदोषारम्भे स्नात्वा, सोर्ध्वपुण्ड्रः कृतञ्च…. श्रीनृसिंहजयन्तीपुण्यकालकर्तव्यलक्ष्मीनृसिंहाराधनाख्येन कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि, भगवतो बलेन … भगवानेव …इत्यनुसन्धाय; बाह्ययागे -

नृहरेर्लोकनाथस्य जयन्ती समुपागता ।
सम्भृताश्चैव सम्भाराः कल्पितान्यासनानि च ॥

इति निवेद्य आराधयेत् ।

(२) श्रीरामनवम्याम् - मध्याह्ने कर्कटकलग्ने श्रीरामनवमीपुण्यकालकर्तव्येत्येवं विशेषः । ‘लोकनाथस्य रामस्य नवमी समुपागता’ इति च ।

अशोककुसुमैर्युक्तमर्घ्यं देवस्य दापयेत् ।

दशाननवधार्थाय धर्मसंस्थापनाय च ।
राक्षसानां विनाशाय दैत्यानां निधनाय च ।
परित्राणाय साधूनां जातो रामः स्वयं हरिः ।
गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ ॥

इति अर्घ्यं दद्यात् ।

(३) श्रीजयन्त्याम् - स्नात्वा अर्धरात्रात् प्राक् आराधयेत् । श्रीकृष्णजयन्तीपुण्यकालकर्तव्य इति विशेषः । ‘लोकनाथस्य कृष्णस्य जयन्ती समुपागता’ इति च ।

‘श्रीकृष्णजयन्त्युत्सवार्थमर्घ्यदानं करिष्य’ इति सङ्कल्प्य, कृष्णं चन्द्रञ्चाऽऽवाह्य, नालिकेरोदकेनार्घ्यपात्रं शंखं वा सम्पूर्य, शोषणादिभिर्विशोध्य गन्धपुष्पादि निक्षिप्य, जानुभ्यामवनिं स्पृष्ट्वा कृष्णायार्घ्यं समर्पयेत् ॥ चन्द्रायार्घ्यदानम्,

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥

इति मन्त्रेण कृत्वा

ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते ।
नमस्ते रोहिणीकान्त सुधाकुम्भ नमोऽस्तु ते ॥

इति चन्द्रमुपस्थाय, शुद्धोदकं शङ्खादौ गृहीत्वा,

जातः कंसवधार्थाय भूभारोद्धरणाय च ।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे ॥

इत्यर्घ्यं दद्यात् ।

[[xviii]]

(४) ग्रहणकाले - राहु(केतु)ग्रस्तसूर्यो (सोमो) परागपुण्यकालकर्तव्य भगवदाराधनाख्येन इति, ‘सूर्यो (सोमो) परागकालोऽयं भगवन् समुपागतः’ इति च विशेषः ।

(५) कृत्तिकादीपोत्सवः - वृश्चिकमासे कृत्तिकादीपदिने चतसृषु दिक्षु मध्ये च दीपान् प्रज्वाल्य, सायं सन्ध्यामुपास्य, कृत्तिकादीपोत्सवकालिकभगवदाराधनाख्येन कर्मणा इत्यादि अनुसन्धाय, अर्घ्यपाद्याचमनीयगन्धपुष्पधूपदीपार्चनादि कृत्वा, लाजादिभक्ष्यनिवेदनपूर्वकं घृताक्तव्रीहिबन्धं प्रज्वाल्य, तद्दीपनीराजनकर्पूरनीराजनादिना सपरिवारो भगवन्तमाराधयेत् ।

पादुकाराधनम्

पादुकाराधनम्

आचार्यजन्मनक्षत्रे, द्वादश्याम्, अन्यदा वा पादुके अभिषिच्य, पीठे स्थापयित्वा, आचम्य, प्राणानायम्य ‘…महादेशिकपादुकाराधनं करिष्ये’, इति सङ्कल्प्य, सात्त्विकत्यागं कृत्वा, अर्घ्यपाद्याचमनीयगन्धपुष्पार्चनपाद्याचमनफलादिस्वाभिमतनैवेद्याद्यर्पणनमस्कारान् कृत्वा, सात्त्विकत्यागं कुर्यात् ।

गन्धपुष्पनैवेद्यादिकं सर्वं भगवदाद्यर्थसमर्पितादन्यदेव स्यात् ।

[[xix]]

प्रयोगमालायां

वैश्वदेवं ततः कुर्यात् बलिकर्म ततः परम् ।
पञ्चसूना गृहस्थस्य वर्तन्तेऽहरहः सदा ॥
कण्डनी पेषणी चुल्ली जलकुम्भी च मार्जनी ।
एतेषां पावनार्थाय पञ्च यज्ञाः प्रकीर्तिताः ॥

कुरुते ब्रह्मयज्ञं च श्राद्धात्पूर्वं मृतेऽहनि ।
निराशाः पितरस्तस्य श्राद्धान्नं न लभन्ति ते ॥
तर्पणं कुरुते पित्रोः श्राद्धात्पूर्वं मृतेऽहनि ।
निराशाः पितरस्तस्य स च गच्छेदधोगतिम् ॥
अज्ञानाद्वा प्रमादाद्वा यो मृताहमतिक्रमेत् ।
स याति नरकं घोरं यावदाभूतसम्प्लवम् ॥
अतिक्रामे मृताहस्य दोषः स्यात् सूतकं विना ।
न कुर्याच्छ्राद्धमाशौचे प्रवदन्ति महर्षयः ॥

पीत्वा च विष्णुपादाब्जसलिलं भुक्त्यनन्तरम् ।
दोषैराहारजैर्मुक्तो विमलज्ञानवान् भवेत् ॥
भोजनानन्तरं विष्णोरर्पितं तुलसीदलम् ।
भक्षयेत् सर्वपापघ्नं चान्द्रायणशताधिकम् ॥
कर्णमूले तु तुलसीं यस्तु धारयते द्विजः ।
अहोरात्रकृतं पापं तस्य नश्यति तत्क्षणात् ॥
दशकृत्वः पिबेच्चापः सावित्र्याः श्राद्धभुक् द्विजः ।
ततः सन्ध्यामुपासीत शुद्ध्यते तदनन्तरम् ॥

[[XX]]

श्राद्धे प्रदोषे दर्शे च गायत्री दशसङ्ख्यया ।
अष्टाविंशत्यनध्याये त्रयोदश्यां तु मानसम् ॥
प्राणाग्निहोत्रमन्त्रांस्तु विलुप्ते भोजने जपेत् ।
स्वाध्यायात् योगमास्थाय निद्रां काले समुत्सृजेत् ॥ (स्मृतिरत्नमहोदधौ)

आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥
आचारहीनस्य ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥
आचारात् फलते धर्ममाचारात् फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ।
स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ॥

श्रीरस्तु- शुभमस्तु

[[xxi]]