आषोडशात् ब्राह्मणस्यापतिता गायत्री; द्वाविंशते राजन्यस्य, द्व्यधिकाया वैश्यस्य ॥ (गौतमधर्मसूत्रम्)
आचमनम्
आचमनम्
संहृताङ्गुलहस्तेन ब्रह्मतीर्थं पिबेज्जलम् ।
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाऽऽचमनं भवेत् ॥ (विश्वामित्रः)
गोकर्णाकृतिहस्तेन माषमग्नं जलं पिबेत् ।
तन्न्यूनमधिकं पीतं सुरापानसमं विदुः ॥
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । (तालपत्रे)
शौचेप्सुः सर्वदाऽऽचामेदेकान्ते प्रागुदङ्मुखः ॥ (शङ्खः)
निष्ठीवने प्रसुप्ते च परिधानेऽश्रुपातने ।
क्षुते पञ्चसु चाचामेत् श्रोत्रं वा दक्षिणं स्पृशेत् ॥ (वाधूलः)
दिने निषिद्धेऽपि च दन्तकाष्ठाभावेऽप्यपां द्वादशकृत्व एव ।
गण्डूषणाच्छुद्धिमपामयेत स्त्रीणां भवेदैष्टकसैकताभिः ॥
विधवा ब्रह्मचारी च यतिश्च व्रतवांस्तथा ।
ताम्बूलमञ्जनञ्चैव कांस्यपात्रे च भोजनम् ।
दन्तकाष्ठं मैथुनञ्च यावज्जीवं न कारयेत् ॥ (सनत्कुमारः)
[[i]]
प्राणायामः
प्राणायामः
अनामिकाकनिष्ठे द्वे अङ्गुष्ठं च तृतीयकम् ।
त्रिभिर्नासापुटं बद्ध्वा प्राणायामस्य लक्षणम् ॥ (पाद्मसंहिता)
प्रणवं व्याहृतीः सप्त गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ (शाण्डिल्यः)
उपविश्यासनं वश्यं स्वस्तिकादि यथारुचि ।
व्याघ्रचर्मादिके शुद्धे ओमित्येकाक्षरं मनुम् ॥
बद्ध्वा प्रागाननः सम्यक् ऋजुकायः समाहितः ।
नासाग्रन्यस्तनयनः दन्तैर्दन्तान् असंस्पृशन् ॥
रसनां तालुनि न्यस्य श्लथबाहूभयान्वितः ।
आकुञ्चितशिराः किञ्चित् निबध्नन् योगमुद्रया ॥
हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् ॥
अत्रिः
अत्रिः
सम आसन आसीनः समकायो यथासुखम् ।
हस्तमुत्सङ्ग आधाय स्वनासाग्रकृते क्षणः ॥
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।
विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ॥
हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् ।
प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥
[[ii]]
एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।
दशकृत्वः त्रिषवणं मासादर्वाग्जितानिलः ॥
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिभिः कृताः ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥
प्राणायामैर्दहेत् दोषान् धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण विषयान् ध्यानेनानैश्वरान् गुणान् ॥
न च तीव्रेण तपसा न स्वाध्यायैर्न चेज्यया ।
गतिं गन्तुं बुधाः शक्ता योगात् सम्प्राप्नुवन्ति याम् ॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥
स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् ।
तस्मात् स्नानं निषेवेत श्रीपुष्ट्यारोग्यवर्धनम् ॥
प्रातरुत्थाय यो विप्रो सन्ध्यास्नायी सदा भवेत् ।
सप्तजन्मकृतं पापं त्रिभिर्वर्षैर्व्यपोहति ॥
उषस्युषसि यत् स्नानं सन्ध्यास्वनुदिते रवौ ।
प्राजापत्येन तत् तुल्यं महापातकनाशनम् ॥ (बृहद्योगियाज्ञ)
नित्यमामलकस्नानं पापिनामपि मुक्तिदम् । (हारीतस्मृतौ)
शिरस्नानं कटिस्नानं गलस्नानं तथैव च ।
आजानुबाहुपर्यन्तं भवेत् स्नानं चतुर्विधम् ॥ (विश्वामित्रः)
[[iii]]
मन्त्रस्नानादिकार्यम्
मन्त्रस्नानादिकार्यम्
असामर्थ्याच्छरीरस्य कालशक्तिव्यपेक्षया ।
मन्त्रस्नानादिकान् सप्त केचिदिच्छन्ति सूरयः ॥
मान्त्रं भौमं तथाऽऽग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् ॥
आपो हि ष्ठेति वै मन्त्रं, मृदालम्भश्च पार्थिवम् ।
आग्नेयं भस्मना स्नानं, वायव्यं गोरजः स्मृतम् ॥
यत्तु सातपवर्षेण स्नानं तत् दिव्यमुच्यते ।
वारुणं चावगाहस्तु, मानसं विष्णुचिन्तनम् ॥
शान्तं (?) स्नानं यथोद्दिष्टं मन्त्रस्नानक्रमेण तु ।
कालदोषादसामर्थ्यात् सर्वं तुल्यफलं स्मृतम् ॥ (बृहद्योगियाज्ञ)
तीर्थाभावेऽप्यशक्तौ वा स्नायात् तोयैः समाहृतैः ॥(लघुव्याससंहिता)
आग्नेयस्नानम्
भारद्वाजस्मृतौ - आग्नेयस्नानम् -
सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलयेत्ततः ।
स्रोतसोऽभिमुखं स्नायात् मार्जनञ्चाघमर्षणम् ॥
अन्यत्रार्कमुखो, रात्रौ प्राङ्मुखोऽग्निमुखोऽपि वा ।
देवालयसमीपे तु तमेवाभिमुखश्चरेत् ॥
शौनकः –
न वेगं धारयेत् ; तावदप्रयतः स्यात् ।
नोपरुद्धः क्रियाः कुर्यात् ।
(वेगमित्यस्य मूत्रपुरीषयोर्वेगमित्यर्थः ।)
[[iv]]
मलं वा यदि वा मूत्रं विप्रः स्नात्वोत्सृजेत् यदि ।
आजानु (आकटि) शोधयेत् ॥ (धर्मप्रवृत्तौ)
आर्द्रवाससस्तु विण्मूत्रे प्राणायामत्रयं पुनः स्नानञ्च ॥
शीतोदकस्नानाशक्तश्चेत् - निषिद्धव्यतिरिक्तदिनेषु
शीतास्वप्सु निषिच्योष्णाः मन्त्रसम्भारसम्भृताः ।
गेहे तु शस्यते स्नानं तद्धीनमफलं भवेत् ॥
शिरस्स्नानाशक्तश्चेत् अशिरस्कम् ।
तदशक्तौ -
नाभेरधः प्रविश्याप्सु कटिं प्रक्षाल्य मृज्जलैः ।
मार्जयेदार्द्रवस्त्रेण सर्वमङ्गम् ।
तदशक्तौ तु
मुखं करौ च कट्यन्तं पादौ च क्षालयेत् ।
तदशक्तौ –
स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत् स आतुरः ।
तदशक्तौ -
ब्राह्मणानां करैर्मुक्तं तोयं शिरसि धारयेत् ।
सर्वतीर्थाकरात् श्रेष्ठं तोयं विप्रकराच्च्युतम् ।
वायव्यादीनि चान्यत्र द्रष्टव्यानि । (जाबालिः)
वस्त्रम्
विश्वास-प्रस्तुतिः
स्नात्वाऽवगाह्य विधिवत् स्नानवस्त्रमधस्त्यजेत् ।
तदेव विसृजेदूर्ध्वं कूपाद्युद्धृतवारिणा ॥
मूलम्
स्नात्वाऽवगाह्य विधिवत् स्नानवस्त्रमधस्त्यजेत् ।
तदेव विसृजेदूर्ध्वं कूपाद्युद्धृतवारिणा ॥
विश्वास-प्रस्तुतिः
(व्याघ्रपादः)
नोत्तरीयमधः कुर्यात्
नोपर्य् आधस्त्यम् अम्बरम् ।
मूलम्
(व्याघ्रपादः)
नोत्तरीयमधः कुर्यात् नोपर्याधस्त्यमम्बरम् ।
विश्वास-प्रस्तुतिः
नह्येद् अग्रे पुरः कच्छा
द्वयं पार्श्वे च गूहनम् ।
कटि-पार्श्व-द्वये पृष्ठे
सप्त कच्छाः प्रकीर्तिताः ॥
English
front, 2 sides, genital, 2 back-sides, back = 7
मूलम्
नह्येदग्रे पुरः कच्छा द्वयं पार्श्वे च गूहनम् ।
कटिपार्श्वद्वये पृष्ठे सप्त कच्छाः प्रकीर्तिताः ॥
विश्वास-प्रस्तुतिः
पुरः कच्छा पुरो धार्या
पश्चात् कच्छा तु पृष्ठतः ।
द्वे कच्छे तु सदा धार्ये
वर्णिभिर् यतिभिस् तथा ॥
मूलम्
पुरः कच्छा पुरो धार्या पश्चात् कच्छा तु पृष्ठतः ।
द्वे कच्छे तु सदा धार्ये वर्णिभिर्यतिभिस्तथा ॥
[[V]]
वैकुण्ठदीक्षितीये
नालिकेरफलेनैव चषकं पुण्ड्रधारणे ।
नालिकेरार्धभागेन कमठाकृतिना बुधः ॥
द्विनेत्रमेव कुर्वीत पात्रं वै पुण्ड्रधारणे ।
कृत्वा करण्डं बिल्वस्य फलं पक्वं मनोहरम् ॥
हारिद्रं पूरयेच्चूर्णं लक्ष्मीरूपमनुत्तमम् ।
यथा चर्म न दृश्येत तथोर्ध्वं पुण्ड्रमाचरेत् ॥
इषुपातस्थितैर्ग्राह्यं सुपार्श्वं सुमनोहरम् ।
ऊर्ध्वपुण्ड्रांस्तु धृत्वैवं तन्मध्ये धारयेच्छ्रियम् ॥
पुण्ड्राणामन्तरालेषु हरिद्रां धारयेच्छ्रियम् ।
श्रीचूर्णं सततं धार्यमूर्ध्वपुण्ड्रस्य मध्यतः ॥
धात्रीपत्रसमं धार्यं श्रीचूर्णं ब्रह्मवादिनाम् ।
अन्येषां क्षत्रियादीनां तिन्त्रिणीदलसंमितम् ॥
हारिद्रं कुङ्कुमं वापि चूर्णं विष्ण्वभिषेचितम् ।
समवित्रेण [[सपवित्रेण??]] हस्तेन नोर्ध्वपुण्ड्राणि धारयेत् ॥
दामोदरं केशवञ्च न कदापि परित्यजेत् ।
ऊर्ध्वपुण्ड्रस्य मध्ये तु धारयेत् दीपवत् द्विजः ॥
स्त्रीशूद्राणामेकपुण्ड्रं तथैवान्तरवर्तिनाम् ।
अर्धचन्द्राकृतिः स्त्रीणां धार्यं पुण्ड्रमधो भ्रुवः ॥
तन्मध्ये दीपवद्धार्यं श्रीचूर्णं श्रीप्रदं शुभम् । (वसिष्ठसंहिता)
[[vi]]
यथा पतिव्रता साध्वी सर्वाभरणभूषिता ।
पद्माक्षतुलसीमालां श्रीपवित्रं यथाक्रमम् ॥
सन्धार्य नित्यकर्माणि विष्णोः प्रीत्यर्थमाचरेत् ।
अप्रतिष्ठितमालां वै बिभर्ति यदि मोहितः ।
व्यर्थं भवति तत् कार्यं नित्यनैमित्तिकादिकम् ।
पवित्रकरणेनैव मन्त्राचमनमाचरेत् ।
यान्युक्तानि पवित्राणि कुशदर्भात्मकानि वै ॥
हेमात्मकपवित्रस्य कलां नार्हन्ति षोडशीम् ।
दार्भं ताम्रं राजतं वा सौवर्णमथवा द्विजः ॥
धारयेत् दक्षिणे हस्ते पवित्रञ्चोत्तरोत्तरम् ।
चतुरङ्गुलमग्रं तु प्राग्भागे द्व्यङ्गुलं भवेत् ॥
वलयं द्व्यङ्गुलं प्रोक्तं पवित्रस्य तु लक्षणम् । (तालपत्रे)
अहरहः सन्ध्यामुपासीत
अहरहः सन्ध्यामुपासीत
दिवसस्य च रात्रेश्च सन्धिः सन्ध्येति कथ्यते ।
मध्याह्नेऽपि च सन्धिः स्यात् पूर्वस्याह्नः परस्य च ॥
सम्यक्ध्यायत्यस्यामिति सन्ध्या | सन्दधातीति सन्ध्या । (बृहत्पराशरः)
[[vii]]
प्रयोगमालायां
अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः ।
साऽत्र सन्ध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः ॥
सन्धातृत्वेन सर्वेषां देवः सन्ध्येति कीर्तितः ॥ (दक्षः)
अर्धास्तमयात्सन्ध्या व्यक्तीभूता न तारका यावत् ।
तेजः परिहानिः उषा भानोरर्धोदयं यावत् ।
अर्धोदितसूर्यः प्रकृष्टतेजो नक्षत्रवर्जितः ॥
(वाराहे)
ब्राह्मणः सर्वयत्नेन सायं प्रातः समाहितः ।
सन्ध्यामात्रपरो भूयात् तावन्मात्रात् तरिष्यति ॥ (लौगाक्षि)
प्रातस्सन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् । ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते ॥ (देवीभागवतं)
प्रातः सन्धां सनक्षत्रां उपासीत यथाविधि ।
सादित्यां पश्चिमां सन्ध्यामर्धास्तमितभास्कराम् ॥ (बृहत्पराशर)
अनुक्तकाले कृतकर्म निष्फलम्
अकालवृष्टिः पतिता यथा भुवि ।
उप्तानि बीजानि विनिष्फलानि
करोत्यकालः कृतकर्मनिष्फलः ॥
उत्तमा तारकोपेता मध्यमा लुप्ततारका
अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता ॥
उत्तमा पूर्वसूर्या च मध्यमा मध्यसूर्यका ।
अधमा पश्चिमादित्या मध्यसन्ध्या त्रिधा मता ॥
उत्तमा सूर्यसहिता मध्यमा लुप्तभास्करा ।
अधमा तारकोपेता सायं सन्ध्या त्रिधा मता ॥ (विश्वामित्र )
[[viii]]
तावत् प्रातर्जपंस्तिष्ठेत् यावदर्धोदयं रवेः ।
आसनस्थो जपन्मौनी प्रत्यगातारकोदयम् ॥
सादित्यां मध्यमां सन्ध्यां जपेदादित्यसम्मुखः ।
मृतके सूतके वाऽपि सन्ध्याकर्म न सन्त्यजेत् ॥ (वाधूलः)
प्रबलं वैदिकं कर्म सर्वेष्वपि च कर्मसु ।
तत्कृत्वैव पुरा पश्चात् पित्रोः कुर्याच्छवक्रियाम् ॥ (कण्वः)
शुचिर्वाऽप्यशुचिर्वाऽपि नित्यं कर्म न सन्त्यजेत् ।
तत्रापि कालनियमादर्घ्यदानं विशिष्यते ॥ (विश्वामित्रकल्पे)
अनूदकी-सन्ध्यावर्णना
अनूदकी-सन्ध्या
अनूदकी तु सा सन्ध्या लेपस्नेहविवर्जिता ।
सन्धिनी सर्वभूतानां शोचिनी भवनाशिनी ॥
बद्धमेतं सुषुम्नाभ्यां दीर्घघण्टानिनादवत् ।
ईश्वरं मनसा ध्यायेत् एषा सन्ध्या अनूदकी ॥
देशक्षोभे महापत्तौ मार्जनार्घ्याद्यसम्भवात् ।
सन्ध्यगतं [सन्ध्यागतं??] सहस्रंशुं [[सहस्रांशुं??]] मन्त्रैः कुर्यादुपासितम् ॥
जलाभावेनार्घ्यमात्रं रजसैतद्विधीयते । (याज्ञवल्क्यस्मृतिः)
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स शूद्रवत् बहिष्कार्यः सर्वस्मात् द्विजकर्मणः ॥
ब्र॒ह्म॒वा॒दिनः॑ पू॒र्वाभि॑मु॒खास्स॒न्ध्यायां᳚ गायत्रि॒याऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति॒,
ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि म॒न्देहाऽरु॑णे द्वी॒पे प्रक्षि॑पन्ति । (यजुर्वेदे)
[[ix]]
प्रयोगमालायां
तर्पणे -
द्वौ हस्तौ युग्मतः कृत्वा पूरयित्वोदकाञ्जलिम् ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ॥ (तालपत्रे)
रथ्यां गते तु देवेशे आस्थानञ्चाधिरोहति ।
यस्मिन् काले विशालाक्षि यस्य यत् कर्म चोदितम् ।
तत्काले कर्म तत् त्यक्त्वा मामुपास्ते नरो यदि ।
न दोषस्तत्र देवेशि भवत्यत्र न संशयः । …..
सन्ध्योपास्ति प्रकुर्वन्ति नरा विष्णुपराङ्मुखाः ॥
तदा तात्कालिकं नित्यं तत्कालात् प्राक् समाचरेत् । (वाराहे)
कालातिक्रमदोषस्तु तत्र न स्यात् कदाचन ।
देवाग्निद्विजविद्यानां कार्येषु यदि संस्थितः ।
सन्ध्याहानौ न दोषोऽस्ति यतस्तत्कर्मसाधना ॥ (पारमेश्वरे)
पुराणादिश्रवणे श्रावणे मुख्यकालातिक्रमे दोषो नास्तीति ।
सूतके मृतके वाऽपि सन्ध्याकर्म समाचरेत् ।
मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विज ॥
सूतके मृतके कुर्यात् प्राणायामममन्त्रक्रम् । (वैशाखमाहात्म्ये)
जपभोजनहोमांस्तु देवस्याभिमुखश्चरेत् ।
वरेण्यं विरलं जप्यं जपकाले विशेषतः ॥
पारायणे तु युक्तं स्यात् अन्यथा विफलं भवेत् ।
वरेणियं जपे प्रोक्तं वरेण्यं वेदपाठके ॥
विधियज्ञाज्जपो यज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥
[[X]]
ध्यायेच्च मनसा मन्त्रं जिह्वोष्ठौ न विचालयेत् ।
न कम्पयेच्छिरोग्रीवं दन्तान् नैव प्रकाशयेत् ॥
यक्षराक्षसभूतानि सिद्धविद्याधरोरगाः ।
हरन्ति प्रसभं यस्मात् तस्मात् गुप्तं समाचरेत् ॥
उपांशुस्तु चलज्जिह्वादशनच्छद ईरितः ।
अधरोष्ठविभागो वा विश्वसोपांशुलक्षणः ॥ (शाण्डिल्यः)
निर्विकारेण वक्त्रेण मनसा मानसः स्मृतः ।
असंख्यातं तु यज्जप्तं तत् सर्वं निष्फलं भवेत् ॥
जपस्य गणनां प्राहुः पद्माक्षैर्भक्तिवर्धनम् ।
जपेत्तु तुलसीकाष्ठैः फलमक्षयमश्नुते ॥
वानप्रस्थयतीनां तु सहस्रान्न्यूनमुच्यते ।
कृत्वोत्तानौ करौ प्रातः सायञ्चाधोमुखौ करौ ।
मध्ये स्तब्धकराभ्यां तु जप एवमुदाहृतः ॥
अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले । (लोगाक्षिः)
जपमध्ये गुरुर्वाऽपि वैष्णवो वा समागतः ।
सम्भाषणादिपूजान्तं तस्य कृत्वाऽनुमान्य च ॥
अनुज्ञाप्य ततः कुर्यात् जपकर्म समाहितः ।
सर्वस्य प्रभवो यस्मात् विष्णुपादाब्जसंश्रयाः ॥
वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद् भुवि ।
तयोर्मध्यगतो विष्णुः प्रणाममधिगच्छति ॥
त्रिपदाजपसाद्गुण्यं तुर्या जप्या दशांशकम् । (विष्णुस्मृतिः)
[[xi]]
तुर्यपादं विना जप्यं कुरुते निष्फलं भवेत् ।
तुरीयपादस्य विमलऋषिः, तुरीयच्छन्दः, परमात्मा देवता । मोक्षार्थे विनियोगः ॥
(बृहदारण्यकादिस्था तुरीयगायत्री ।)
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् ।
काले त्रिकालं सप्ताहात् स पतेन्नात्र संशयः ॥
काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत् ।
काले फलन्त्योषधयः काले पुष्यन्ति पादपाः ।
वर्षन्ति तोयदाः काले तस्मात् कालं न लङ्घयेत् ॥
किं किं न सविता सूते काले सम्यगुपासितः ।
आयुरारोग्यमैश्वर्यं वसूनि च पशूनि च ।
मित्रपुत्रकलत्राणि क्षेत्राणि विविधानि च ।
भोगान् अष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम् ॥
दुर्लभा सर्वमन्त्रेषु गायत्री प्रणवान्विता ।
न गायत्र्यधिकं किञ्चित् त्रयीषु परिगण्यते ॥
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः ।
गातारं त्रायते यस्मात् गायत्री तेन गीयते ॥
वाच्यवाचकसम्बन्धो गायत्र्याः सवितुर्द्वयोः ।
वाच्योऽसौ सविता साक्षात् गायत्री वाचिका परा ॥
प्रभोवेनैव [[??]] गायत्र्याः क्षत्रियः कौशिको वशी ।
राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान् ।
सामर्थ्यं प्राप चात्युच्चैरन्यभुवनसर्जने ।
किं किं न दद्याद्गायत्री सम्यगेवमुपासिता ॥
[[xii]]
द्वादश्यां पञ्चदश्यां च सङ्क्रान्तौ श्राद्धवासरे ।
वस्त्रं निष्पीडयेन्नैव न च क्षाले नियोजयेत् ॥ (स्मृतिकौस्तुभे)
प्रदक्षिणप्रणामांस्तु युग्मानेव समाचरेत् ।
श्रद्धया परया युक्तः सदा द्वादश सन्ध्ययोः ।
दण्डप्रणामान् कुर्वीत देवतागुरुसन्निधौ ॥ (शाण्डिल्यः)
अष्टाङ्गमथ वै कुर्यात् प्रणामं सप्रदक्षिणम् ।
भूयो भूयोऽनवच्छिन्नं भक्तिश्रद्धापुरस्सरम् ॥ (सात्वते)
देवस्य दक्षिणे पार्श्वे सेवार्चनजपांश्चरेत् ।
रथ्यां गते तु देवेशे आस्थानञ्चाऽऽस्थिते सति ।
न कार्यं मूलबेरस्य दर्शनं कमलोद्भव ॥
एकहस्तप्रणामञ्च एकञ्चापि प्रदक्षिणम् ।
अकाले दर्शनञ्चैवाप्यब्दपुण्यविनाशनम् ॥
सम्पूर्णप्रसवा नारी पयः पूर्णं घटं यथा ।
उद्वहन्ती शनैर्यायात् तद्वत् कुर्यात् प्रदक्षिणम् ॥ (वैखानसे)
प्रदक्षिणे प्रणामे च प्रदाने च विशेषतः ।
प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् ॥
वैष्णवोऽवैष्णवो वाऽपि राजानो गुरवस्तथा ।
नोपचर्या हरेः स्थाने सन्निधौ तु विशेषतः ॥
एकान्तिनो महाभागान् विष्णुमेव समाश्रितान् ।
तानेव प्रणमेत् प्राज्ञः विष्णुक्षेत्रे विनेतरान् ॥
समित्पुष्पकुशाग्न्यम्बुमृद्दीपाक्षतपाणयः । (श्रीपौष्करे)
[[xiii]]
जपं होमञ्च कुर्वाणा नाभिवाद्याः कथञ्चन ।
शङ्खचक्रविहीना ये देवतान्तरपूजकाः ।
द्वादशीविमुखाश्चैव शैवाश्चावैष्णवाः स्मृताः ।
होमे सर्पिर्मधुक्षीरधारा स्याच्चतुरङ्गुला ।
ग्रासार्धमानमन्नस्य प्रसृतिः पायसस्य च ॥ (आपस्तम्बः)
पितृपाकोपजीवी वा भ्रातृपाकोपजीवकः ।
ज्ञानाध्ययननिष्ठो वा न दुष्येत् अग्निना विना ॥
विद्यामुखेन यो राजन् ब्राह्मणो वर्ततेऽनिशम् ।
स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः ॥ (निर्णयसिन्धौ गार्ग्यः)
वाम[[??]]ङ्गस्पन्दने चैव तथा दुःस्वप्नदर्शने ।
वासुदेवं जपेन्मन्त्रं पञ्चविंशतिसंख्यया ॥
अस्त्रमन्त्रेण पुष्पाणि गृह्णीयात् प्रागुदङ्मुखः ।
केशान् नीवीमधः कायं न स्पृशेत् धरणीमपि ।
यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करौ ॥
तुलसीमाहरेत् विद्वान् द्वादशाक्षरविद्यया ।
भगवद्भक्तिहीनैस्तु वर्धितं तुलसीदलम् ।
तदुद्भवेन पुष्पेण नार्चयेदच्युतं हरिम् ॥ (जयाख्ये)
निषिद्धदिवसे चापि अमायामपि भार्गवे ।
तुलस्याहरणं शस्तं ममार्चायां कुरूद्वह ॥
नियमेनार्चनायां तु तुलसीं नित्यमाहरेत् ।
तिथिदोषो वारदोषो ऋक्षदोषो न विद्यते ॥ (भारते)
[[xiv]]
न च क्रियान्तरङ्गाणामायस्येदत्यसम्भवे ।
हानिं निवेद्य देवाय मनसैव समर्चयेत् ॥
हरेः प्रियतमं ज्ञानं सन्तो ज्ञानधरा ह्यतः ।
तथैव चापचारणां [[चाराणां??]] काष्ठा ज्ञानविपर्ययः ॥
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सूर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः ॥
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च ।
सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् ॥
नाशौचं कीर्तने तस्य स्मरणे वाऽपि विद्यते ।
अशुचिश्चाप्यनाचारः सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ (भरद्वाजः)
तथा दीपावलीस्नानं भागीरथ्यवगाहनम् ।
पुनस्स्नानं न कर्तव्यं पित्र्यग्रहणवर्जितम् ॥
आराधनार्थं नद्यादौ विशुद्धे वस्त्रगालितम् ।
कुम्भे जलं समादाय वस्त्रेणाऽऽच्छाद्य तन्मुखम् ॥
मूर्ध्नि संस्थाप्य तत्कुम्भं सोपानत्को गृहं व्रजेत् ।
उपानहौ बहिः स्थाप्य कुम्भं देवगृहे न्यसेत् ॥
वादित्राणामभावेऽपि पूजाकाले तु सर्वदा ।
घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः ॥ (स्मृतिसंग्रहे)
[[XV]]
सुसिद्धयोगतत्त्वानामधिकारः परमात्मनि ।
व्यामिश्रयागमुक्तानां मध्यानां व्यूहभावने ।
वैभवीयादिभेदेषु विवेकविधुरात्मनाम् ॥ (लक्ष्मीतन्त्रे)
भक्तानां सर्वविषयव्यावृत्तद्दढचेतसाम् ।
सर्वेषामादिमूर्तिस्तु मङ्गलं वेदवेदिनाम् ।
अशास्त्रज्ञस्य भक्तस्य समृद्धस्य कुटुम्बिनः ।
युक्तं वैषयिकस्यापि प्रादुर्भावेषु पूजनम् ॥ (शाण्डिल्यः)
सालग्रामे त्वेकस्मिन् अनेकस्मिन् वा तद्गर्भे तदुपरि वा ।
विग्रहविशिष्टं पञ्चोपनिषदैर्ध्यात्वा प्रार्थनादिकं कुर्यात् ॥ (पञ्चकालपद्धतौ)
द्वात्रिंशद्-उपचारक्रमः (३२)
द्वात्रिंशदुपुचारः (३२)
आवाहनाऽऽसने चार्घ्यं पाद्यमाचमनं तथा ।
पादुके दन्तकाष्ठञ्च तैलमुद्वर्तनं तथा ॥
शिरस्यामलकं तोयं कङ्कतप्लोतमेव च ।
वस्त्रं यज्ञोपवीतञ्च भूषणं गन्धपुष्पकम् ॥
आदर्शधूपदीपञ्च मात्रादानं तथैव च ।
मधुपर्कार्हणं चैव प्रापणं तर्पणं तथा ।
गन्धकर्पूरताम्बूलं प्रादक्षिण्यं नतिः स्तुतिः ॥
[[xvi]]
षोडशोपचारक्रमः (१६)
षोडशोपचारक्रमः (१६)
आह्वानञ्चासनार्घ्यं पदसलिलमथाऽऽचामपुंसूक्तऋग्भिः
स्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण ।
मध्वादिः पर्क आदावुपरि च सलिलं पायसाद्यन्नजातं
पानीयाचामपूगं परिगतिनमनोद्वासने विष्णुपूजा ॥
आसनेषु च सर्वेषु पाद्यमाचमनीयकम् ।
स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ।
भोज्यमन्त्रासने त्यक्त्वा कर्तव्यं पादविष्टरम् ।
षोडशोपचाराशक्तौ - (१२)
षोडशोपचाराशक्तौ - (१२)
आसनं पाद्यमाचामं स्नानं वस्त्रं सुगन्धकम् ।
धूपदीपार्घ्यहविषा पानीयञ्च प्रणामकम् ॥
तत्राप्यशक्तौ (८)
तत्राप्यशक्तौ (८)
आसनं पाद्यमाचामं धूपदीपार्घ्यमेव च ।
हविः पानीयमित्यष्टौ यद्वा पुष्पनमस्क्रिये ॥
[[xvii]]