परिशिष्ट-काण्डः । ( तृतीयः )
1 अप्रतिष्ठा
आत्म-स्तुति-सौकर्याय भूमिकान्तरम् अवलम्ब्य पूर्व-पक्षी ‘पात्र-पद्य-चरित्र-प्रतिष्ठा’ नामकं कु-ग्रन्थान्तरं प्रकाश्य पुनर् अपि यथा-शीलं श्री-देशिक-दूषण-संरब्धो दुर्वचांसि विसृष्टवान् । तत्र यद् अवश्यं समाधेयं तत्-समाधान-मात्र-परा इह किञ्चिद् अभिदध्महे । अत्र पर्वणाम् उपक्रमे स्थिता सङ्ख्या अस्मदीया अत्रत्य-पर्व-क्रम-बोधिका । अन्ते स्थिता तु पूर्व-पक्षि-ग्रन्थ-पर्व-सम्बन्धिनी ।
1
तिरु-नारायण-पुरे ( यादवाद्रौ ) कुमार-वरदाचर्या भगवद्-विषय-प्रबन्धं देशिक-प्रणीत-व्याख्यया सह स्व-तात-पाद-सन्निधाव् अध्येतुम् आरभन्त । तदात्वे ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामी तत्र नान्वितः
इति तृतीय–ब्रह्म-तन्त्र–स्वामि-कृत–गुरु-परम्परा–ग्रन्थे उच्यते । श्री-महाचार्य-कृत-वैभव-प्रकाशिकायां निगम-परिमलावतार-कथनात् पूर्वं
ब्रह्म-तन्त्र-चतुराय योगिने … … वेद-मौलि-युगलं ह्य् उपादिशत् ।
इति देशिकेन ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामिने कृतः उभय-वेदान्तोपदेश उच्यते । भगवद्-विषयस्य षट्-सहस्री-प्रभृतिकं यद् प्राचीनं व्याख्यानान्तरं तद् ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामी देशिकाज् जग्राहेति वैभव-प्रकाशिकायाम् उच्यते । यत् तु देशिक-कृतं निगम-परिमलाभिधानं व्याख्यानं तत् न देशिकात् अधिजगाम, अपि तु कुमार-वरदाचार्याद् इति गुरु-परम्परायाम् उच्यत इति नास्ति विरोध-गन्धो ऽपीति प्राग् एवोक्तम् । इदं ज्ञातुम् अ-शक्तो ऽव्युत्पन्नः वृथा बहु जल्पति ।
[[94]]
मूल-ग्रन्थस्य एकत्वे ऽपि आचार्य-शिखा-मणिना ऽनुगृहीतस्य अभिनवस्य विपुलस्य व्याख्यानस्य गुरु-मुखाद् एव ग्रहणम् इच्छन् स्वामी प्रावण्यातिशयेन कुमार-वरदाचार्यम् एव तत्र गुरुत्वेन वव्रे । तद्-उपक्रमे च अध्येष्यमाणाभिनवात्यद्भुत-व्याख्यान-निर्मातारं देशिकं स्तोतु-कामः स्वयम् अभिनवं तनियन्-पद्यं कृत्वा पितापुत्रयोर् उभयोर् गुर्वोः सविधे विज्ञाप्य तद्-अनुमत्या ऽनुसन्दधे । इति वस्तु-स्थितिः । अत्र को बाधः कथं वक्तुं शक्य इति संरम्भं विहाय पर्यालोच्यताम् । किं देशिक-चरणारविन्दापचारोपचयैक-फलेन बहुना वाग्-विसर्गेण ।
अस्मद्-आदीनां श्री-भाष्य–श्रीमद्-गीता-भाष्य–श्रीमद्-रहस्य-त्रय-सार–सम्बन्धि-गुरु-परम्परायां कुमार-वरदाचार्यो नान्तर् भवति । भगवद्-विषय-सम्बधिन्यां तु तस्यां देशिक–ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामिनोर् मध्ये स वर्तते । तस्मात् न केनापीदम् अपह्नोतुं शक्यं यत् कुमार-सकाशाद् अपि भगवद्-विषय-ग्रन्थम् अधीत्य ब्रह्म-तन्त्र-स्वामी तस्य शिष्यो बभूवेति । 6-9
2 पुनर् अपि श्रीमद्-वेदान्त-देशिक-वैभव-प्रकाशिका-ग्रन्थ-दूषणे प्रवर्तते।
सम्यक् श्रुत्वा वैभवं तस्य सूरेः
सत्-कारार्थं पत्रिकां प्रीति-युक्तः ।
विद्यारण्यः प्रेषयामास यस्मै
त्रय्य्-अन्तार्थं सन्ततं भावये तम् ॥ ४१ ॥
अ-व्युत्पन्न-मूर्धाभिषिक्तत्वात् अत्र अन्वय-क्रमम् अ-जानन् प्रत्युत दोषम् आह । महतीं वाक्य-विन्यास-चातुरीम् अत्र कविर् दर्शयति । तस्येति ततः पूर्वम् उक्तं सर्वं विशेषं परामृशति । तादृश-वैशिष्ट्य-शालिनः सूरेः वैभवं सम्यक् श्रुत्वा सत्-कारार्थं विद्यारण्यः प्रीति-युक्तः पत्रिकां प्रेषयामास । इति वाक्य-समाप्तिः । ततः ‘सत्-कारार्थं’ इत्य्-आदिकम् आवर्त्य
यस्मै एवं सत्-कारार्थं विद्यारण्यः प्रीति-युक्तः पत्रिकां प्रेषयामास तं त्रय्य्-अन्तार्थं भावये
इति वाक्यान्तरम् ।
[[95]]
‘गुरु-मुखम् अन्-अधीत्य’ इत्य् अस्मिन् तनियन्-पद्ये यच्-छन्दो नास्ति । तच्-छन्दः परं श्रूयते । तत्र न्यून-पदत्वं दोषः । यत्-तदोर् नित्य-सम्बन्धात् तल्-लाभ इति न न्यून-पदत्वम् इति चेत् तर्हि
यो निश्चिकाय मनवै मुनि-वाहनं तम्
इत्य् अत्र अधिक-पदत्वं दोषः । स्वयं लभ्यस्य कण्ठतः प्रयोगानपेक्षणात् । को ऽभिसन्धिर् इति न ज्ञायत इति चेत् कथं ज्ञायेत ? सावधानं श्रूयताम् । यच्-छन्दम् उपाददानाः कवयः तद्-घटित-वाक्यार्थं प्राग् एव विदितं मन्यन्ते । तस्यानुवादताद्योतकत्वात् । तम् अन्-उपादाय तु पूर्व-वाक्यं घटयन्तः तद्-अर्थम् अ-ज्ञात-ज्ञाप्यं मन्यन्ते, आस्वाद-विशेषार्थम् ।
गुरु-मुखम् अन्-अधीत्य प्राह वेदान् अशेषान्
इत्य् अ-ज्ञातम् इव ज्ञापयित्वा अद्भुत-रसं स्वयम् अनुभवन् श्रोतृन् अप्य् अनुभावयति । तद्-अनन्तरं उत्तरार्धे तच्-छब्दं घटयन् तद्-बलेन यच्-छन्दम् अध्याहृत्य
य एवं गुरु-मुखम् अन्-अधीत्य अ-शेषान् वेदान् आह तं विष्णु-चित्तं नमामि
इत्य् आवर्त्य अन्वयं विवक्षितं ज्ञापयति । अत इह न परं न्यून-पदत्व-दोषो नास्ति किन्तु यच्-छब्दान् उपादानं गुण एव भवति । अर्थ-विशेष-प्रतीत्यौपयिकत्वात् । एवं प्रकृते ऽपि वाक्य-भेदेनार्थ-विशेषं वक्तुम् इच्छति प्राज्ञः कविः । मतान्तर-स्थो ऽपि यथा ऽत्यन्तम् आवर्जितः स्यात् तथा विशिष्ट-वैभव आसीद् इति पृथग् अयं वाक्यार्थो ऽनुभाव्यतया इष्टः । अन्यथा हि ‘तस्य’ इत्य् अस्य स्थाने ‘यस्य’ इति प्रयुज्य एक-वाक्यता सुकरेति सूक्ष्मेक्षिका कार्या । गुरु-मुखम् इत्य् अत्र यच्-छब्दम् अन्-उपादायैव वाक्य-भेदं ज्ञापयति कविः । प्रकृते तु तम् उपादायापि भिन्न-विभक्तिकत्वं कृत्वा ज्ञापयतीति विशेषः । वाक्यार्थ-प्रतीति-प्रकारस् तु उभयत्र समानः । एतेन
विद्यारण्यो विविधं
वेङ्कट-सूरेर् विशोध्य वैराग्यम्
यं विष्णोर् अवतारं
मेने सेवे तम् आगमान्त-गुरुम् ॥ ४३ ॥
[[96]]
रङ्ग-पतिना सभायां
दृष्ट्वा व्याख्यान-कौशलं सूरेः ।
वेदान्त-देशिकत्वं
दत्तं यस्मै तम् आश्रये नित्यम् ॥ ५३ ॥
इतीमाव् अपि श्लोकौ व्याख्यातौ । आद्ये
सूरेर् वैराग्यं विशोध्य (तं) विष्णोर् अवतारं मेने
इति पृथग्-वाक्यम् । ‘यम् एवं मेने तं सेवे’ इत्य् अन्यद् वाक्यम् । अन्त्ये, दत्तम् इत्य् अत्र वाक्य-समाप्तिः । ‘यस्मै दत्तं तम् आश्रये’ इति वाक्यान्तरम् । एषां श्लोकानां विषये अ-व्युत्पन्नो लिखति –
प्रदर्शितेषु त्रिष्व् अपि स्थलेषु शोधनम् अत्यावश्यकम् एवेति काव्य-पाठनो विद्यार्थिनो ऽपि ननु विजानीयुः । श्लोकानां स्थितिः सर्वथा ऽप्य् अन्यथयितव्या भवेत् । स्थितानां पदानाम् उद्वापं नवीनानां पदानाम् आवापं च विना साङ्गत्यं नैव घटते । तथा सति श्लोकानां शरीरम् एव सत्यं सुबहु विपर्यस्येत् ।
इति । सर्वम् इदं वाक्य-तत्त्वान् अधिगमाधीन-महा-मोह-विलसितम् । श्लोक-त्रये ऽपि एकस्य यच्-छन्दस्य स्थाने तच्-छब्द-करणे मूढानाम् अपि सुग्रहार्थः पाठो भविष्यति । इदम् एकस्मिन् श्लोके विशदी-कुर्मः ।
रङ्ग-पतिना सभायां
दृष्ट्वा व्याख्यान-कौशलं सुरेः ।
वेदान्त-देशिकत्वं दत्तं तस्मै तम् आश्रये सततम् ॥
इति स्थिते सति अतिजडो ऽपि न किञ्चन सङ्कटम् अनुभवेत् । परं तु ‘तम् आश्रये’ इत्य् अस्य तच्-छब्दस्यान्वयाय ‘यस्मै दत्तं तम्’ इति कल्पनम् आवश्यकम् । अयं यच्-छब्द इह कविना कण्ठत उक्त इति ।
एवं अतिसुकरस्य तच्-छब्द-प्रयोगस्याकरणात् यच्-छब्दवत् एव वाक्य-विन्यासस्य एवं त्रिः करणाच् च कविर् अत्र न प्रमत्त इति, बुद्धि-पूर्वम् एव भाव-विशेष-व्यञ्जनाय विलक्षणं निरवद्यं प्रौढं च विन्यास-विशेषम् आद्रियत इति च सुस्पष्टम् अवलोकयामः ।
[[97]]
अधुना वयं… विपुलं निरूपयामो वैभव-प्रकाशिका-ग्रन्थस्य तस्य सर्वतोमुखम् अ-सामञ्जस्यम् । ….स-द्वारकम् अ-द्वारकं वा परिहरन्तु ते मितम् अतीनाम् अस्मादृशां मनः कालुष्यम् ।
इत्य् अहङ्काराक्षराण्य् उद्गिरिति । जडस्य मनः कालुष्य-परिहाराय यत् कर्तव्यम्, तत्परैः क्रियमाणम् एव वर्तते । न तु तत् कदाचिद् अपि निवर्त्स्यति । तथा प्रबलत्वात् । सज्-जनाराधने
यो द्वेषो निगमान्त-देशिक-मणौ यश्वास्य पादाम्बुजे
कृत्वा भक्तिम् अन्-उत्तमामधिगत-प्रज्ञा-धने सञ्जने ।
सर्वं तं व्यवधूय सौम्य-चरितं गृह्येत जन्मान्तरं
भूयश् चेद् भविता ऽऽप्त-सूक्तिषु रसास्वाद-प्रमोदः पृथुः ॥
सर्व-तन्त्र–स्व-तन्त्र–श्री-वैर-विप्लुष्ट-चेतसाम् ।
स्थिता सर्वेषु तन्त्रेषु स्थिरा व्युत्पत्ति-रिक्तता ॥
इति यद् उक्तवन्तः स्मः तद् दृढं बुद्धौ ध्रियताम् । 10-13
प्रीतेन रङ्ग-पतिना बहु-मान-पूर्वं
वेदान्त-युग्मम् अनिशं प्रतिपाद्य सम्यक् ।
अत्रैव सौम्य वस नित्यम् इतीरितो यस्
तं वेद-मौलि-गुरुम् अन्वहम् आश्रयामः ॥ ५० ॥
इत्य् अस्मिन्न् अपि लोके अ-व्युत्पन्नो दूषण-चापलं करोति । ‘प्रतिपाद्य प्रीतेन’ इत्य् अन्वयं कृत्वा,
‘देशिक-निष्ठेन हि भगवत्-प्रीति-हेतुना प्रतिपादनेन भवितव्यम् । न भगवन्-निष्ठेन अतो भगवन्-निष्ठतया तद्-उक्ति-रसं गत
[[98]]
इति चोदयति । तथा ऽन्वये उभय-णिजन्तम् इदं रूपम् इति ग्रहीतुम् अस्य योग्यता इह जन्मनि दुर्लभा । देशिकः वेदान्त-युग्मं प्रतिपादयति । एक-णिजन्तो ऽयं प्रयोगः । रङ्ग-पतिः देशिकेन वेदान्त-युग्मं प्रतिपादयति । णिजन्त-णिजन्तो ऽयं प्रयोगः । रूपं तु समानम् एव । अस्मात् ल्यपि ‘प्रतिपाद्य’ इतीदम् अपि रूपं समानम् एव ।
तथा च
देशिकेन प्रयोज्य-कर्त्रा वेदान्त-युग्मं प्रतिपाद्य प्रीतेन
इत्य् अर्थ-लाभात् न काचिद् अन्-उपपत्तिर् इति स्वकीयाऽनभिज्ञता-प्रकाशनं विना नात्र अन्यत् किम् अपि कृतं भवति ।
मत्-प्रसूतिम् अन्-आराध्य प्रजेति त्वां शशाप सा
इति रघु-वंश-श्लोके एवं समाहितं वैयाकरणैः । अयम् एकः समाधान-प्रकारः ।
प्रतिपाद्येति एक-णिजन्तम् एव । देशिक-निष्ठम् एव प्रतिपादनम् । अन्वयस् तु ईरितो ऽभूद् इत्य् अत्र । प्रतिपाद्य ईरितो ऽभूत् । केन ? रङ्ग-पतिना । कथम् भूतेन ? प्रीतेन । केन हेतुना प्रीतः सः ? सम्यक् प्रतिपादनेनेत्य् अर्थाल् लभ्यते । न तु शब्दतः । ‘सुभगां मालाम् उपहृत्य प्रसादं लेभे’ इतिवत् । अत्र प्रसाद-हेतुत्वं मालोपहरणस्यार्थम् एव न शाब्दम् । इति द्वितीयः ।
प्रतिपाद्य वसेत्य् अन्वयः । न च प्रतिपादन-वासयोर् एक-कालत्वात् पूर्व-कालता-वाचिनो ल्यपो ऽन् उपपत्तिः । क्वचित् तस्य पूर्व-कालता-वाचित्व-विरहात् । यथा मुखं व्यादाय स्वपितीति । इति तृतीयः ।
चिरन्तने मुद्रणे ‘प्रतिपाद-यानः’ इति पाठः । तत्र वर्तमानतैवेति न सङ्कटं किञ्चित् । न च
कथं प्रतिपाद-यान इति ? प्रतिपादयमान इति हि भाव्यम्
इति वाच्यम् । आगमानुशासनस्यानित्यत्वेन ‘आने मुक्’ इति विहितस्य मुको ऽत्राकरणात् । आहुश् च वैयाकरणाः -
कथम् ‘अपि शाकं पचानस्य’ इति । उच्यते । आगमानित्यत्वान् न मुग् इति न्यासः
इति । चिरन्तनः काव्यालङ्कार-सूत्र-कारो वामनश् च –
काम-यान-शब्दः सिद्धो ऽन्-आदिश् चेत्
इति । सो ऽयं चतुर्थः प्रकार इति ।
[[99]]
‘स्थानानि विष्णोः’ ( 37 ) इत्य् अस्मिन् श्लोके ‘तेषां हितार्थान् अवदत् तम् ईडे’ इत्य् एव प्राचीन-मुद्रणे पाठः । १४
4
हस्ति-गिरि-वैभवं यो
गाथा-रूपार्थ-पञ्चकं रम्यम् ।
वेङ्कट-नाथाचार्यो
व्यतनुत तम् अहं विभावये नित्यम् ॥ २६ ॥इत्य् अस्मिन् श्लोके गाथा-रूपम् इति व्यस्त-पदेन भाव्यम् । तस्य च श्लोकोपक्रमे ऽवस्थानं युक्तम् । अर्थ-पञ्चकवत् हस्ति-गिरि-माहात्म्यम् अपि गाथा-रूपम् एव खलु । अन्यथा प्रतिपत्तिं जनयन्न् असौ शब्द-विन्यासः समञ्जसो नैव ।
इति गम्भीरम् इव लिखति ।
आजग्मुषस् तव गजोत्तम-बृंहितेन
पादं पराममृशुषोऽपि च का मनीषा ।
इति श्री-कूर-नाथ-श्लोकं प्रति किं वक्ष्यति जड इति न जानीमः । किम् अत्र गजोत्तम-बृंहितेन आगतो भगवान् अन्व् अस्य कस्यचित् पादं पराममर्शेति विवक्षितम् ? गजोत्तमस्यैवेति चेत् कथं तल्-लाभः ? समास-मग्नो हि गजोत्तमः । स कथम् अन्यत्र गच्छेत् ? अत्रापि अ-समञ्जसत्वं वा घुष्यताम् । स्व-कपोल-ताडनं वा क्रियताम् । वाक्य-न्यायानभिज्ञो बत नियन्तुर् अभावेन दूरं विजृम्भते ।
अन्यद् आश्चर्यम् इह सर्व-जनानुभाव्यं दृश्यते ।
अर्थ-पञ्चकवत् हस्ति-गिरि-माहात्म्यम् अपि गाथा-रूपम् एव खलु ।
इति निश्शङ्कं लिखतो भ्रान्ति-ग्रन्थिं किम् इति वर्णयेम ? गाथा-गद्योभयमयः चम्पू-रूपो वा नाटक-प्रायो वा स ग्रन्थः सर्व-विदितः सर्वैर् अनुसन्धीयमानो वर्तते । अत्रत्या गाथाः सङ्कलय्य हस्ति-गिरि-माहात्म्य-नाम्ना ‘देशिक-प्रबन्ध’-नाम्नि देशिकानुगृहीत-सर्व-द्राविड-गाथा-सङ्कलनात्मके ग्रन्थे अन्तर् भाविता इति सत्यम् एतत् । तावता किं देशिकानुगृहीतो हस्ति-गिरि-माहात्म्य-ग्रन्थो गाथा-रूपो भवति ? सर्वेषु रहस्य-ग्रन्थेषु स्थिताः सर्वा गाथाः तत्र सङ्कलिताः । किं तेन सर्वे रहस्य-ग्रन्था गाथा-रूपा वाच्याः । क इदानीं अन्यथा प्रतिपत्ति-लोकस्य जनयतीति सम्यक् परामृश्यताम् । एवं विध-भ्रम-प्रमादोपहतो जनः तम् एव विषयम् आश्रित्य महतां दूषणे संरभत इति नूनं कलि-विभव-विजृम्भितम् आश्चर्यम् एतत् ।
[[100]]
अपरम् अतिमहान्तं विषयम् आह –
दीप-प्रकाश-भगवद्-विषयिण्या देशिकानुगृहीतायाः स्तुतेर् दीप-प्रकाश-स्तुतिर् इति नाम पामरा एव जना व्यवहरन्ति । शरणागति-दीपिकेत्य् एव देशिकानुगृहीतं नाम । तद्-अन्-अभिज्ञेन केनचित् प्रणीतम् इदं काव्यम् इति सुनिश्चयम् ।
इति । अत्र इमं पण्डितं तत्रापि उत्तमोत्तमं पृच्छामः – ननु देशिकानुगृहीतं नाम शरणागति-दीपिकेत्य् एवेति कथम् अत्र भवता ज्ञातम् ?
शरणागति-दीपिकाख्यां स्तुतिम्
इति स्वयं देशिकः अन्ते वदति । अतो ज्ञातम्
इति चेत् किं तावद् एव स वदति ?
दीप-प्रकाश-शरणागति-दीपिकाख्यां स्तुतिम्
इति हि तत्र श्रुतम् । तत्र शरणागति-दीपिकेत्य् एतद् विहाय दीप-प्रकाश-स्तुतिर् इति व्यवहरन्तो यदि पामराः, दीप-प्रकाश-पदं विहाय शरणागति-दीपिकेति केवलं व्यवहरन् कथं पण्डितो भवितुम् अर्हति ? एवं व्यवहारे न्यास-तिलकादिवत् भगवद्-अन्तर-विषयता ऽपि शङ्क्येत । दीप-प्रकाश-स्तुतिर् इति व्यवहारे तु सा शङ्का नैवावकाशं लभत इति अस्यैव पण्डित-व्यवहारार्हत्वं प्रतीयते ।
अन्-असूयुभिर् आदरेण भाव्या परमार्थ-स्तुतिर् अन्वहं प्रपन्नैः ।
इति स्तोत्रान्तरस्य देशिकेन परमार्थ-स्तुतिर् इति नाम्नि स्पष्टम् अभिहिते ऽपि वैभव-प्रकाशिकायां
समर-पुङ्गव-संस्तुतिम् अद्भुताम् । २९
इत्य् अन्यथा ऽभिधानं दृश्यते । अत्र हि स्तुतीनां मिथो व्यावृत्त्यै स्तुत्य-भगवद्-रूपस्य विशेषतः प्रत्यायनं कविश् चिकीर्षतीति बुद्धिमतां न दुर्ग्रहम् । तथा प्रकृते ऽपि । अपि च शरणागति-दीपिकेति नाम्नि घटकं दीपिका-पदम् अवदधानः कविः
[[101]]
दीप-प्रकाश-स्तुति-दीप-भासा दूरी-कृतो येन हृद्-अन्धकारः ।
इति दीप-रूपणं करोतीति सूक्ष्मेक्षिकां कृत्वा रसातिशये ऽनुभवनीये अ-रासिक्य-घुटिकायमानो महिष-वृत्तिर् एवं रूक्षं शब्दायत इति परमं शोक-स्थानम् एतत् ।
आत्रेय-रामानुज-देशिकेन्द्राद्
अवाप्य वेदान्त-युगं विभुर् यः।
मन्त्रं च गारुत्मतम् आप तस्मात्
तम् आश्रये वेङ्कट-देशिकेन्द्रम् ॥ १२ ॥
इत्य् अस्मिन् श्लोके द्वितीय-पादे अवाप्येति व्यर्थम् इत्य् आह । हठाद् आकृष्टानां कतिपय-पदानां रचयितारो महा-कवीनां सूक्तिषु रस-पार-वश्येन अहम् अहमिकया आपततां पदानाम् अर्थानां च विलक्षण-व्यापार-शालितां न प्रतिपत्तुं प्रभवन्तीति सहजम् एतत् । तत्रैव तु दोषं वक्तुं प्रवृत्तान् कु-मतीन् दृष्ट्वा न शक्यं परम-शान्तेनापि अ-ज्वलित-हृदयेन भवितुम् ।
विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः ।
विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥
इति वाल्मीकिः किम् इति विद्यते-पदं आवर्तयति ।
विद्यते गोषु सम्पन्नं ब्राह्मणेषु तथा दमः ।
तथैव स्त्रीषु चापल्यं ज्ञातितश् च भयं तथा ॥
इति वक्तुं किं नु स न जानाति ।
एवम् उक्त्वा हृषीकेशं गुडा-केशः परन्तपः ।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥
इति भगवद्-गीता-श्लोके उक्त्वेति द्विर् दृश्यते ।
[[102]]
न योत्स्ये चेति गोविन्दं ततस् तूष्णीं बभूव ह ।
इति कवयितुं किम् अत्र कविर् नेष्टे? प्रकृते च अवाप्येत्य् अस्य स्थाने अधीत्येति प्रयोगः किं दुष्करः । अतो ऽत्रापि
उदेति सविता ताम्रस् ताम्र एवास्तम् एति च
इत्य् अत्र आलङ्कारिकोक्त-न्यायेन साभिसन्धिकम् एव कविः शब्दार्थोभयावृत्तिं करोतीति स्थितम् । अत्र सर्वत्र को ऽभिप्राय इति तु नेदानीं वक्तुम् इच्छामः ।
अस्मिन् श्लोके द्वितीय-पादान्ते ‘विभुर् यः’ इत्य् अत्र ‘पुनर् यः’ इति प्राचीन-मुद्रणे पाठः । सो ऽप्य् अत्र अत्यन्तम् अवधेयः ।
इत्य् उक्त-पक्षं नृ-पतेः समक्षं यः प्राक्षिपत् तं गुरु-वर्यम् ईडे ।
इति पूर्वोदाहृते श्लोके निरसनार्थे ‘प्राक्षिपत्’ इत्य् एतद् अ-साधु, इत्य् आह ।
प्रक्षेपो नाम प्रवेशनम् एव, न तु निरसनम् । प्रक्षेपोत्क्षेपाव् इति व्यवहारो ऽवधीयताम्
इति तद्-उपपादयन्न् आह । अत्रोच्यते । यदि अनेन व्यवहारेण प्रक्षेपः प्रवेशनम् एव, तर्हि उत्क्षेपो ऽपि कस्माच्चित् कस्यचित् निष्कासनम् एव । तत्र कथं ‘बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता’ इति महा-कवि-प्रयोग-साङ्गत्यम् । उत्क्षेपणादीनि पञ्च-कर्माणीति कर्म-विभाग-सामञ्जस्यं च ? ऊर्ध्व-देश-संयोगानुकूलो व्यापार उत्क्षेपणम् इति च लक्षणम् आहुः ।
अथ प्रक्षिपतिम् एव पश्येम । ‘क्षिप्त-प्रत्यर्थि-दृप्तिः’ इति केवलस्य क्षिपतेर् निरसनार्थे प्रयोगो दृश्यते । तत्र प्रोपसर्ग-योगे कथं तस्यार्थस्यापायः । प्रक्षिपतेः प्रवेशने रूढत्वाद् इति चेत् तत्र किं प्रमाणम् ? न हि लोष्टं प्रक्षिपतीत्य् उक्ते परास्यतीत्य् अर्थं विना क्वापि प्रवेशयतीत्य् अर्थं केचन प्रतियन्ति । प्रक्षिप्ताः श्लोका इत्य् अत्र तत्-प्रतीतिर् भवतीति चेत् श्लोक-पद-समभिव्याहार-बलात् सेति स्पष्टम् एतत् । अतः स्व-भावतः प्रक्षिपतेः स्व-स्थानात् प्रच्यावनम् एवार्थः । तद् एव निरसनम् अपीति न को ऽपि दोषः ।
[[103]]
उक्तं च मीमांसकैः षष्ठ-तृतीये ‘न देवताग्नि-शब्द-क्रियम्’ इत्य् अस्मिन्न् अधिकरणे –
न हि पूर्व-देश-विभागानुकूल-व्यापार-रूप-प्रक्षेप-मात्र-रूपस्य होमस्याधारापेक्षा ऽस्ति
इति ।
तद् इदं वस्तु-स्थिति-कथनम् । यदि च प्रक्षेपः प्रवेशनम् एव स्यात् तदा ऽपि का ऽन्-उपपत्तिः ? पर-पक्षं प्राक्षिपत् । कुत्र ? पराजये । इमे श्लोकाः प्रक्षिप्ता इत्य् उक्ते यथा यथार्हं ग्रन्थ-विशेष-प्रतिपत्तिः तथा प्रकृते वादि-पक्षः प्रक्षिप्त इत्य् उक्ते तद्-उचितम् अधिकरणम् अर्थतो लभ्यत इति ।
किञ् च अज्ञा अ-ज्ञानात् अ-समञ्जसानि पदानि वाक्यानि च प्रयुज्य परिहास्या भवन्ति । प्राज्ञास् तु तादृशानीव तानि प्रयुज्य स्वकीयं प्रौढि-विशेषं प्रकाशयन्ति । न च वाच्यतां भजन्ति ।
अ-प्राप्य मां निवर्तन्ते मृत्यु-संसार वर्त्मनि
इति गीता-श्लोके ‘नितरां वर्तन्ते’ इति भाषितम् । अस्मिन्न् अर्थे किं निवर्तन्त इति साधु । किम् अत्र कविर् अ-समर्थः उत व्याख्याता ? ‘तम् उद्वहन्तं पथि-भोज-कन्याम्’ इति कालि-दासः । ‘उद्वहन्तं नयन्तम्’ इति मल्लि-नाथः । किम् अयं श्लोकः अ-कालि-दासीयः । अथ वा पथि पुनः विवाहान्तरं वृत्तम् इति व्याख्यातव्यम् ।
लक्ष्म्या निमन्त्रयां चक्रे तम् अन्-उच्छिष्ट-सम्पदा
इति स एव महा-कविः । श्राद्ध-भोजनाय ब्राह्मण-वरणं निमन्त्रणं प्रसिद्धम् । इह तु अभिषेकाय श्री-राघवस्य वरणं विवक्षितम् । इत्य् अलं अ-रोचकिने क्षीरान्न-दान-प्रयासेन उन्मत्ताय उपनिषद्-अर्थोपदेश-व्यसनेन च । ‘इत्य् उक्त-पक्षं नृ-पतेः समक्षं यः प्राक्षिपत्’ इति अ-यत्नोपनतः क्षकारावृत्ति-कृतो ऽनुप्रास इह रस्यः ।
प्रथम-श्लोके ‘कवि-वादि-शिरो-रत्नम्’ इति स्थितं यथावत् प्रतिपत्तुम् अ-क्षमो ऽव्युत्पन्नः दूषयन् अन्ततः स्वस्य अन्-अभिज्ञ-शिरो-मणितां प्रकाश्य एतद्-ग्रन्थ-दूषण-प्रकरणम् उपसंहरति ।
शिरो-रत्नम् इति श्रेष्ठ उच्यते । तव कवि-श्रेष्ठो देशिक इति युज्यते । वादि-श्रेष्ठ इति तु कथम् ? का ऽत्र अन्-उपपत्तिर् इति चेत् वादि-मत्तेभ-कण्ठीरवो ह्य् अयम् । स स्वयं कथं वादी स्यात् ? वादि-शब्दः सर्वत्रापि दुर्वादि-विवक्षयैव प्रयुज्यते
इत्य् आह । अत्र बाल-शिक्षा कर्तव्या भवति । क्रियते ।
सञ्चारयन् जयति नः कवि-वादि-सिंहः
इति चण्ड-मारुत-श्लोकं पूर्वम् उदाहार्ष्म । अत्र सिंह-पदं किं श्रेष्ठ-वाचि उत विध्वंसक-वाचि ?
[[104]]
आद्ये कवि-श्रेष्ठत्वम् इव वादि-श्रेष्ठत्वम् अप्य् उक्तं भवति । अन्त्ये वादि-श्रेष्ठत्वम् इव कवि-श्रेष्ठत्वम् अपि नोक्तं स्यात् । एवं च अत्र भवता सर्व-धिक्कार-कारिणा लोकोत्तर-पण्डितेन ‘कवि-तार्किक-सिंहः’ इत्य् अस्यार्थो ऽद्यावधि अन्-अवगत इत्य् एतद् इह प्रकाशी-भवति । अस्यानर्थस्य मूलं वादि-शब्देन दुर्वादिन एवोच्यन्त इति गाढतमो भ्रमः । यो वादं करोति स सर्वो वादी, पूर्व-पक्षी वा सिद्धान्ती वा । तत्र विशेष-विवक्षायां प्रतिपक्षावलम्बिनः प्रतिवादिन इत्य् उच्यन्ते । पक्षयोः सामीचीन्यासामीचीन्य-परामर्शेन सुवादिनो दुर्वादिन इति च ।
को वा चक्षुर् उदञ्चयेत् … वादेषु नः
इति वदन् देशिक आत्मनो वादित्वं ख्यापयति । श्रीमति सङ्कल्प-सूर्योदये द्वितीये ऽङ्के
आर्य, श्रूयते किल प्रतिभट-वादिनां प्रगल्भ-वादः
इति सेना-पत्य्-उक्त्य्-अन्-अन्तरं शिष्येण ‘यतीश्वर-सरस्वती’ इति श्लोके पठिते, ततः परं
भगवन्, अभङ्गुर-स्वामि-भक्तेर् अवसरोपपन्नं हनूमतं इवेदम् आर्यस्य विकत्थनम्
इति राज्ञा उक्ते, गुरुः
….. महा-राज,
श्रुति-सिद्धान्त-शूरस्य तद्-विरुद्वान् निरुन्धतः ।
वल्गितं वावदूकस्य कृतिनः किं न शोभते ॥
इति ब्रवीति । अत्र वावदूकः भगवद्-रामानुज-शिष्यः साक्षाद् देशिक इति स्थितम् । अन्ये ऽत्र प्रतिवादिन इति, प्रतिकथका इति, प्रतिभट-वादिन इति च निर्दिश्यन्ते । तस्माद् अस्ति वादित्वं देशिकस्य । तत्र कवि-वादि-सिंह इत्य् अत्र सिंह-शब्दस्य श्रेष्ठार्थत्वे कवि-श्रेष्ठः वादि-श्रेष्ठश् चेत्य् अर्थः । तत्र वादि-श्रेष्ठत्वं “वादः प्रवदताम् अहम्” इत्य् उक्त-प्रशस्त-वाद-निष्ठत्वात् ।
[[105]]
अयम् एवार्थः ‘कवि-वादि-शिरो-रत्नम्’ इत्य् अत्राभिसंहितः । यदा तु सिंह-शब्दस्य निवारकत्वादिर् अर्थः तदा कवीनां वादिनां च भञ्जक इत्य् उक्तं भवति । तत्र वादि-शब्देन प्रतिभट-वादिन इव कवि-शब्देनापि प्रतिभट-कवय एवाभिधीयन्ते । तद् इदं स्पष्टं ‘कवि-कथक-घटा-केसरी-वेङ्कटेशः’ इति गरुड-पञ्चाशत्-सूक्तौ । न हि तत्र कवीनां केसरी श्रेष्ठः, कथक-घटायाः केसरी क्षेप्ता, इति विवक्षा युज्यते । सकृत् प्रयुक्तः शब्दः सकृद् एवार्थं गमयतीति न्यायेन अर्थ-द्वयाभिधानानुपपत्तेः । श्री-वैभव-प्रकाशिकायाम् एव ‘श्री-रङ्गे शरदः शतम्’ इति श्लोके (१५३) ‘कवि-घटा-कण्ठीरवः’ इति प्रयुक्तं पर्यालोचनीयम् ।
अपदिश्यैवम् अज्ञस्य प्रतिबोधनम् अञ्जसा ।
कवितार्किक-सिंहेति विरुद-व्याक्रिया कृता ॥
तद् अत्रापि मुष्टिभिः नभः कदर्थनम् एवेत्य् अलम् ।
5 श्री-वेदान्त-वैभव-प्रकाशिका आचार्य-भक्ति-रसमयो ग्रन्थः । एकैकस्मिन्न् अपि श्लोके स परिवहति । तत्र तत्र रस-परिपोष-कारिणः विभावानुभाव-सञ्चारि-भावाः शब्दार्थ-गता गुणालङ्काराश् च स-हृदयैः सुमतिभिर् उपलब्धुं शक्याः ।
शुभ-नयन-कपोलं शुभ्र-यज्ञोपवीतं
कमल-सदृश-पाणिं कान्त-बाहान्तरालम् [[??]]।
उचित-पद-निविष्टान् ऊर्ध्व-पुण्ड्रान् दधानं
श्रुति-शिखर-गुरुं तं सूरि-वन्द्यं भजे ऽहम् ॥ १५४ ॥
वेदान्त-देशिक विभो विनयोपपन्न-
घण्टावतार-करुणाकर-शान्ति-सिन्धो ।
श्री-वेङ्कटेश-गुरु-वर्य कवीश-सिंहेत्य् एवं पठन् तरति संसृति-वारि-राशिम् ॥ १५५ ॥
[[106]]
इति यः कवयितुं क्षमते तस्य योग्यता कीदृशीति परमार्थतो ये विद्वांसः त एवावधारयितुं प्रभवन्ति ।
अन्-आदि-काल-सञ्चित-पाप-राशि-वश-समुन्मेषो ऽपारो देशिक-द्वेषः तत्-स्तुति-परे ऽस्मिन्न् उत्तम-काव्ये अ-विद्यमानान् अपि दोषान् दर्शयन् महति गर्ते अ-पुनर् आवृत्तये निपाताय एनं सनाहयति ।
6 इयं वैभव-प्रकाशिका एतत्-कर्तुम् महाचार्यस्य शिष्येण ‘वात्स्य-महार्य-दास’-नाम्ना भागवतोत्तमेन मणि-प्रवाल-भाषया महता विस्तरेण विवृता । अयम् अत्र बहुभ्यो ग्रन्थान्तरेभ्यः श्लोकान् गाथाश् चोदाहरति । तेषु ग्रन्थान्तरेषु देशिक-भक्ताग्र-गण्य-प्रतिवादि-भयङ्करार्य-कृता देशिक-स्तुति-रूपा सप्तति-रत्न-मालिका ऽप्य् एका । अत्रापि अस्य कु-बुद्धेर् द्वेषो महान् । तेन एवं विधैः कु-वादैः ताम् अपि अर्वाचीन-यत्-किञ्चित् कृतां वदन्न् अस्ति । स्व-किरण-माला-परिष्कृताम्बर-तलं निरस्त-निखिलतमो-निकुरुम्बम् एतम् अम्बर-मणिं प्रति आतप-तप्तः सर्व-दरिद्रः सर्वात्मना ऽन्धः कश्चन यथा ब्रूयात्
नायं देवः सूर्यः । महान् अयम् अङ्गार-राशिः
इति तादृग् इदं भवति ।
श्री-भाष्ये कतिपयान् दोषान् अभिधाय नायं श्रीमद्-रामानुज-कृतो ग्रन्थो भवितुम् अर्हति । सः अद्वैत्य् एव । तन्-नाम्ना अल्प-मतिना ऽर्वाचीनेन केनचिद् अयं ग्रन्थः कृतः, इति वदतः अस्य च पूर्व-पक्षिणो नास्ति कश्चन विशेषः ।
7 भगवद्-घण्टावतारः । श्री-रङ्ग-राज-दिव्याज्ञा-लब्ध-वेदान्ताचार्य-पदः । तद्-दिव्य-महिषी-प्रसादासादित-सर्व-तन्त्र–स्व-तन्त्र–बिरुदः । भगवद्-रामानुज-सिद्धान्त-प्रतिष्ठापनाचार्यः । श्री-शठ-कोप-दिव्य-सूक्ति-रसविद्-अग्रे-सरः । अद्यापि अस्मत्-सिद्धान्ते परैर् आक्षिप्ते शरणी-करणीय एकः । एवं विधम् आचार्य-चूडा-मणिं प्रति येन केनापि यथा कथम् अपि यत् किम् अपि पद्यं वा अन्यद् वा कृतं श्री-रामानुजीयस्य सर्वस्य परमादरास्पदं भवितुम् अर्हति । एवं सति
एतद्-वैपरीत्येन तस्य तद्-ग्रन्थानां तद्-विषयतया अन्य-कृत-ग्रन्थानां च दूषणैक-परत्वेन कालं नयतां अ-सकृत् तत्त्व-बोधने ऽपि आर्जवम् अन्-अवलम्बमानानां प्रत्युत दौर्जन्यम् एव अत्यूर्जितम् आश्रित्य गर्जतां विषये वस्तुत इति कर्तव्यताकुला वयं स्मः ।
[[107]]
‘न साम रक्षस्सु गुणाय कल्पते’ इतीदं महर्षि-वचनं स्वानुभवेन यथार्थं विदन्तः
यथा ऽयं पूर्वाचार्येषु ग्रन्थेषु च स्व-पर-विभागं कृत्वा परकीयत्वेनाभिमतान् दूषयति तथा तदीयत्वेन तद्-अभिमतेषु किञ्चिद् ब्रूयाम । तेन कदाचित् प्रतिबुद्धः शाम्येत् ।
इति मत्वा सज्-जनाराधने ‘प्रतिप्रश्नान्’ कांश्चन अ-कुर्म । तान् पुनः स्मारयन्तः तादृशम् एकं विषयम् इह प्रस्तुमः अत्यन्तम् अन्-इच्छया, कथम् अपि जात-विवेको ऽयं पूर्वाचार्य-ग्रन्थ-दूषण-व्यसनात् आत्यन्तिकीम् उपरतिं भजताम् इत्य् आशया च । पिळ्ळै-लोकाचार्यस्य तनिचरमनाम्नि रहस्य-ग्रन्थे व्रज-पदार्थ-विवरणावसरे
यथा –
स्वर्ग-साधन-भूते ज्योतिष्टोमे सप्तसु अहस्सु विहिते सति, तस्मिन् यागे अन्तर् भूतम् अग्नि-होत्रम् आप्रयाणं अहर् अहर् अनुष्ठेयं भवति ।
इत्य् अभिहितं दृश्यते । अत्यन्तम् अ-सङ्गतम् एतत् । वैदिक-प्रक्रियायां अल्पिष्ठ-परिचयो ऽपि जनः न कदाचिद् एवं प्रयात् । यथा ज्योतिष्टोमः तथा आधानानन्तर-कालात् प्रभृति अनुष्ठीयमानं अग्नि-होत्रम् अपि स्व-तन्त्रं कर्म । तस्य तद्-अन्तर्-भूतत्व-वचनं परिहास्यम् । तत्रापरो विषयः । अग्नि-होत्रं यावज् जीवं प्रत्यहं सायं प्रातर् अनुष्ठेयम् । यदा पुनः यजमानः ज्योतिष्टोमाय दीक्षितो भवति तदा प्रभृति नित्यम् अपि तद्-अग्नि-होत्रं स नानुतिष्ठति ।
‘दीक्षितो न जुहोति’
इति निषेधात् । अवभृथानन्तरं तु उदवसानीयेष्टिं कृत्वा ततः परं पुनर् अनुतिष्ठति ।
एतया पुनर् आधेय-सम्मितया इष्ट्या इष्ट्वा ऽग्नि-होत्रं जुहोति
इति श्रवणात् ।
[[108]]
तत्रापि केनापि कारणेन पञ्चमे सप्तमे वा दिने अनुष्ठातुम् अ-शक्यतया अवभृथस्य दिनान्तर-विलम्बे सति तावन्तं कालं अग्नि-होत्रं नानुष्ठेयम् । एवं दीक्षा-कालात् प्रभृति अवभृथादिकं यावत् ग्रामं गच्छन् तृणं स्पृशतीत्य् अनया ऽपि रीत्या ज्योतिष्टोमाग्नि-होत्रयोः सम्बन्ध-विरहात् सकृत्-कर्तव्य-प्रपत्य्-अन्तर्-भूतस्य महा-विश्वासस्य यावत् प्राप्तिम् अनुवर्तनीयत्वे ज्योतिष्टोमान्तर्-गताग्नि-होत्र-निदर्शनम् इदं सर्वथा न युज्यते ।
अत्र का स्थितिर् इति महा-मेधाविनं पृच्छामः । किम् अयं रहस्य-ग्रन्यो ऽर्वाचीनेन केनापि कृतः, न लोकाचार्येण । एवम् इतरे ऽपि रहस्य-ग्रन्थाः । ततश् च तेन्-कला-सम्प्रदायः यतीन्द्र-प्रवण-पिल्लै-लोक-यति-कालाद् अन्-अन्तरम् उपक्रान्तः। प्राचीनो लोकाचार्यः वड-कला-सम्प्रदाय-स्थ एवेत्य् अभ्युपगम्यते ? अथ वा आचार्यो भ्रान्त एवेत्य् उच्यते ? अथ वा
अत्र ब्रूमः - सद्-उक्तौ न वयम् इह मुधा बाधितुं किञ्चिद् अर्हाः
इति देशिकोपदिष्टा सरणिर् एव शरणम् इत्य् आस्थीयते ? अत्र कञ्चन निष्कर्षं कृत्वा ततः परं पर-ग्रन्थ-दूषणे प्रवृत्तिः क्रियमाणा शोभेतेति । श्री-कृष्णाय नमः । १४-१६
8 कुमार-वरदाचार्य सन्निधौ निगम-परिमलम् अध्येतुं प्रवृत्तो ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामी तत्-प्रणयनेन देशिक-कृतं महोपकारं स्मरन् तद्-अवसरोचित-विशेषण-घटनेन तद्-विषयं पद्यान्तरं निर्माय आचार्यानुमत्या ऽनुसन्दध इत्य् उच्यते । अत्र
यद्य् एष यतिर् योग्यः स्यात् यदि च स्वाचार्य-भक्ति-भूम-भूषितश् च स्यात् तर्हि तत्-प्रणीतं श्रीमान् वेङ्कट-पद्यम् अवधार्य पद्यम् अन्यत् प्रणेतुं न मनसा ऽपि विचिन्तयेत् ।
इत्य् ऊहस्य चोद्यस्य वा का प्रसक्तिः ?
यदि रामानुजो योग्यः स्यात्, यदि च परमाचार्य-यामुनेय-भक्ति-भूम-भरितश् च स्यात् तर्हि तस्मिन् श्री-भाष्यं स्वयम् अ-कृतवति कथं तम् अतिक्रामन् ततो ऽपि पण्डिततरम् आत्मानं मन्यमानः श्री-भाष्यं कर्तुं मनसा ऽपि विचिन्तयेत् ।
इति पृच्छन्तं प्रति किम् उत्तरम्।
[[109]]
शठ-कोप-गाथा-सहस्रोपक्रमे बह्व्यो द्राविड-गाथाः तनियन्-रूपेणानुसन्धीयन्ते । तत्र चरमे द्वे भट्टारक-कृततया प्रथेते । कथं भट्टारकः योग्यः भागवतोत्तमश् च सन् पूर्व-गाथा अवधीर्य स्वयं गाथान्तर-करणे प्रावर्तत ? कुमार-वरदाचार्यान्ते-वासी प्रतिवादि-भयङ्करार्यः कथं स्वाचार्यम् उपेक्ष्य देशिकं सप्तति-रत्न-मालिकया स्तौति स्म ?
बत युक्तेर् बालिश-भाषितस्य च विशेषो नावगम्यते ।
भक्ति-प्रेरितः पद्यान्तर-करणे प्रावर्तत । तत्र यद् विशेषणं प्रयुक्तं तद्-अनुसारेण तस्याभिप्रायः कल्प्यते । अत्र इदं कुतो नोक्तम्, तत् कुतो नोक्तम् इति प्रश्नस्य को ऽवकाशः ? वर-वर-मुनेर् भगवद्-विषय–ग्रन्थ-प्रवचन–वैलक्षण्य-दर्शन-जनित-परमानन्देन श्री-रङ्ग-नाथेन श्री-शैलेश-पद्यं पठितम् इति कल्पयद्भिर् अपि भगवद्-विषय-प्रस्तावस् तव कुतो न कृत इति चोद्य परिहर्तव्यम् इति कथं न गृह्यते । १७
9 सर्व-दिव्य-प्रबन्ध-साधारण्यस्याभिप्रेतत्वात् पात्र-पद्ये विशिष्यः कश्चिन् न निर्दिष्ट इति तत्त्वम् । १८
10 विभवः शुक्लो वेति प्रधानतम-देशिकावतार-वर्ष-निर्णय एव दुष्करे सति पद्य-विशेषस्य निष्कृष्य प्रादुर्-भाव-काल-निर्देशः किम् अर्थ इति पृच्छति । तस्य अस्य च कः सम्बन्धः ? कैश्चित् अथवा भूयिष्ठैः विभव इति निर्दिष्टे अन्यैः कैश्चित् शुक्ल इत्य् उक्तत्वात् निर्णायक-सामग्र्या अद्याप्य् अन्-अधिगमाच् च तत्राल्पः संशयः कामं भवतु । कुमार-वरदाचार्यानुग्रह-लब्ध-सर्व-योग्यताकस्य प्रतिवादि-भयङ्करार्यस्य वर-वर-मुनि-सम्बन्ध-सृष्टि-प्रवणैः तद्-अवतार-कालः षष्ट्या वर्षैर् डोलायमानः कृतः । स संशयो दुष्परि-हरः पूर्व-पक्षिण उभय-सम्प्रदाय-भ्रष्टतायां पर्यवस्यन् महतो ऽन्-अर्थस्य हेतुर् भवति । विभवः तद्-अन्-अन्तरः शुक्लो वेति देशिकावतार-वर्षानिर्णयेन कस्य का हानिः ? दिव्य-सूरीणां कालं गुरु-परम्परासु निर्दिष्टं न कश्चिद् इदानीं प्रत्येति । अर्वाचीनम् एव कालं परीक्षकाः कल्पयन्ति । तेन का हानिर् अस्माकम् । न हि तदीयं वैभवं कालायत्तम् ।
[[110]]
यत् तु पात्र-पद्य-प्रादुर्भाव-कालस्य तिथि-वारादि-विशेष-पूर्वक-निर्देशत एव तज्-जन्म-तत्तं सुगमम् इति तन् न तथा । तद्-अ-सहमानेन यत् सर्वदा तद्-एक-ध्यानेन, कथं कथं तद्-दूष्यम् इति चिन्तापरेण, कदाचिज् जुगुप्सया ग्लानिं कदाचित् क्रोधेन ज्वलनं, कदाचित् द्वेषेण गर्हा-प्रावण्यं, अ-विरतं आतुर-भावं च चित्ते भजता भूयते तेन स्पष्टम् एव देशिक-पात्र-पद्य-वैभवं कंसेनेव भगवन्-माहात्म्यम् अपारं ख्याप्यते ।
इदं चात्र वक्तव्यम् । यतीन्द्र-प्रवण-प्रभाव-नाम्नि ग्रन्थे वर-वर-मुनि-कृतस्य भगवद्-विषय-प्रवचनस्य उपसंहार-कालः तन्-मुखेन श्री-शैलेश-पद्य-प्रादुर्भाव-कालश् च वर्ष-मास-दिन-तिथि-वार-नक्षत्रादि-सर्व-विशेष-वर्णन-पुरस्सरं निर्दिष्टः । अयम् अनुकारो ऽलं प्राक्तनस्य रामानुज-दया-पात्र-पद्यस्य प्रादु-र्भाव-कालो विशिष्य निर्धारितः सर्व-विदित आसीद् इत्य् एतन् निरूपयितुम् इति ।
यथा श्रीमान् वेङ्कट-पद्ये प्रादुर्भूते सति ततः पूर्वम् अनुसंहितं ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामि-कृतं
नमः-पदम् इदं भूयात् तस्मै वेङ्कट-सूरये ।
यद्-वाग्-अमृत-सेकेन सञ्जीवितम् इदं जगत् ॥इति पद्यम् अनुसन्धानात् प्रच्युतं तिरोहितम् आसीत् । तथा श्रीमान् वेङ्कट-पद्यम् अपि तिरोहितम् अभविष्यत् यदि देशिक-जीवन-काल एव रामानुज-दया-पात्र-पद्यं प्रादुर्भूतम् अभविष्यत् ।
[[111]]
इति तर्क-विद्या-कुशल इवोर्जितम् आचष्टे । यस्मै यस्मै कार्याय ‘नमः-पदम् इदं भूयात्’ इति पद्यस्योत्पत्तिः तस्मै तस्मै कृत्स्नाय कार्याय श्रीमान् वेङ्कट-पद्यम् उत्पन्नम् इति सर्वत्र देशिकादि-सर्व-सम्प्रतिपत्त्या तत्-स्थानापन्नेनानेन तस्य निवृत्तिर् युक्ता । रामानुज-दया-पात्र-पद्यं तु उत्पद्यमानं दिव्य-प्रबन्ध-सेचन-विष्यतयैवोत्पन्नम् इति कथं पूर्ववद् अनेन तस्य आत्यन्तिकी निवृत्तिर् भवेद् इति विविच्य ग्रहणे विवेकिनां कः क्लेशो ऽस्ति ? २१
11 तनियन्-पद्यं एकैकस्य आचार्यस्य एकैकम् एवेति निर्निबन्धनं नियमं परिकल्पयन् अ-साधारणं तनियन्-पद्यं साधारणानि स्तुति-पद्यानीतराणीति अ-श्रुत-पूर्वं विभागं कञ्चन कल्पयन् किम् अप्य् आह । तत्-तद्-दिव्य-प्रबन्धोपक्रमे अनुसन्धीयमानानां सर्वेषाम् एव श्लोकानां गाथानां च अ-विशेषेण तनियन्-व्यवहारो ऽस्ति । ‘नालायिर-तनियन्’ इति नाम्ना पृथग् अपि ते सङ्कलिताः सन्ति । अन्-अध्ययन-काले आनुपूर्व्या अनुसन्धीयन्ते च । तद् आस्ताम् । गोदा-देवी-कृतस्य
तिरुप्पावै-प्रबन्धस्योपक्रमे नीला-तुङ्गेति संस्कृत-श्लोकः तत उपरि द्राविड-गाथा-द्वयं चानुसन्धीयते । तया देव्या रचितं यत्-प्रबन्धान्तरं नाच्चियार् तिरुमोळि
इति प्रसिद्धं तद्-उपक्रमे अन्या द्राविड-गाथा पठ्यते । इयं गाथा तनियन् न वा ? आद्ये गोदाया अन्-एक-तनियन्-पद्यवत्त्वं सिद्धम् । अन्त्ये किं प्रमाणम् ? न किञ्चिद् इत्य् एव वाच्यम् । तनियन् इति हि संस्कृतं गाथा-रूपं वा तत् पद्यम् उच्यते । यत् अधीयमान-ग्रन्तान् अन्तर्गतं ग्रन्थ-कारस्य उपदेर्ष्ट्वा स्तुति-रूपं भवति । तद्-एकस्य वा अन्-एकस्य वा तुल्यं लक्षणम् इति नास्ति विशेषः । एवं अन्येषाम् अपि बहूनां दिव्य-सूरीणां तत्-तत्-प्रबन्ध-मात्र-व्यवस्थिता नाना-तनियन्-गाथाः सन्ति । तस्माद् एकस्या व्यक्तेः एकम् एव तनियन्-पद्यम् इति नियमो नास्ति । तेन श्री-भाष्यादि-काल-क्षेपोपक्रमोपसंहारयोः श्रीमान् वेङ्कटः, श्रीमद्-रहस्य-त्रय-सारोपक्रमोपसंहारयोः तेन सह ‘शीरोन्रुतूप्पुल्’ इति गाथा च स्तोत्र-पाठानाम् उपक्रमे श्रीमान् वेङ्कटः, उपसंहारे कवि-तार्किक-सिंहाय श्लोकः, भगवद्-विषय-काल-क्षेपोपक्रमोपसंहारयोः श्रीमान् वेङ्कटेन सह पात्र-पद्यम् लक्ष्मी-नाथेत्य्-आदि-श्लोक-चतुष्टयं च, दिव्य-प्रबन्ध-पारायणोपक्रमोपसंहारयोः पात्र-पद्यम् अन्यच् च, इत्य् एवं व्यवस्थया देशिकस्य बहु-तनियन्-पद्यानुसन्धानं क्रियमाणं सुशोभनम् इति वेदितव्यम् । यद्य् अपि अहो-बिल-सन्निधौ वा मुनि-त्रय-शाखान्तरे वा कश्चन भेदो भवेत् तथापि अस्मिन् वा ईदृशे वा अनुसन्धान-क्रमे दूषकस्य दूषण-पदं न किम् अप्य् अस्ति ।
[[112]]
श्री-भाष्यादि-सेवावसरे स्वाचार्यादि-भगवत्-पर्यन्त-तनियन्-पद्येषु पठितेषु पुनः उपकार-विशेष-स्मरणेन देशिकादीनां पद्यानि पठ्यन्ते । तत्र देशिकस्य श्रीमान् वेङ्कट-पद्यम् एव । भाष्य-कार-व्यासयोः श्रुत-प्रकाशिकाचार्य-कृते पद्ये । इयं सर्वा व्यवस्था श्री-देशिक-कालात् प्रभृति अ-विच्छिन्नया परम्परया अस्मद्-अवधि आगतेति निस्सन्दिग्धं प्रतीयते । तत्र यथा शीरोन्रुतूप्पुल्, कवि-तार्किक-सिंहाय, इति पद्यान्तर-पाठः, न ह्य् अनयोर् विषये अन्यानुकारशङ्का ऽस्ति, तथैव रामानुज-दया-पात्र-पद्य-पाठो ऽपि तदा प्रभृति व्यवस्थितो ऽनुवर्तत इति प्रामाणिकाः प्रतीयुः । २२
12 पूर्व-पक्षी लिखति –
प्रकृत-पात्र-पद्य-विवादो यत्र यत्र दिव्य-देशेषु (‘दिव्य-देशे’ इति युक्तम्) जातस् तत्र तत्र तेन्-कलाचार्या एव नीति-स्थलेष्व् अभियोग-पत्रं प्रापय्य कलहास्पदम् अस्मदीय-ध्यान-विरोधि च नवीनं कृत्यम् इदं प्रतिरोद्धव्यम् इत्य् आचुक्रुशुः ।
इति । पाकि-स्थानिन एव सर्वदा सर्वम् आक्रोशं कुर्वन्तीति प्रत्यक्षम् इदानीम् ईक्षामहे । वाचाम् अ-गोचरं सर्वम् अन्याय्यं कुर्वन्ति । कुर्वन्त एव
अहो बत अन्याय्यं पीड्यामहे । अस्मान् अ-भावं नेतुं भारतीयाः सन्नह्यन्ति
इति गगन-स्पृशं दिग्-अन्त-प्रतिध्वानिनं भू-कम्प-कारिणं आक्रोशं कुर्वन्ति । एतेन सात्त्विकता प्रतिपक्षस्य सिध्यति । न आक्रोष्टृ-पक्षस्य न्याय्यता ।
आलयेषु पूर्व-पक्षि-प्रभृतिभिः क्रियमाणं ध्यानम् इदम् इति सर्व-विदितम् एव ‘येनापत्र-पते साधुर् असाधुस् तेन तुष्यति ।’
[[113]]
स हि देवैर् उदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥इति नीत्या सर्वान् अपि भगवद्-अवतारान् प्रति प्रार्थयितारो ह्य् अमृतान्धस एव न परे
इति च लिखति । अत्र न कस्यचिद् विप्रतिपत्तिः । किन्तु को रावण इति निर्णेतव्यम् । देव्या राम-तुल्यं वैभवम् असोढ्वा साभिनिवेशं आत्म-तुल्यं जीव-विशेष-भावं य इच्छति, यः साधु-जनान् बाधते, यो यज्ञानुष्ठानं निरुन्धे, यः कपट-वेषं धारयति, यो भगवत्-प्रपदनं द्वेष्टि स हि रावणः । किम् अतः परम् अपि विवरणीयम् । ‘किं नु चित्रम् अत्र चैद्यरावणानुसारिणाम् ।’ इति चिरन्तनी पताका स्थितैव ।
अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः ।
दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥
इति दैव-प्रकृतीनां
दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च ।
अ-ज्ञानं चाभिजातस्य पार्थ सम्पदम् आसुरीम्॥
इत्य् अन्येषां च विभज्य लक्षणं साक्षाद् भगवता उक्तम् । किं वृथा लोक-वञ्चनोद्यमेन ।
पौराणिके श्रीमुष्ण-क्षेत्रे अभिनवं श्री-शैलेश-पद्य-पाठम् आरभ्य साधून् उपद्रुत्य कथञ्चित् तद्-अनुमतिं लेभिरे । क्षेत्रान्तरेष्व् इव चिरन्तनं पात्र-पद्यान्तर-पाठं निरोद्धुं नाशक्नुवन् । क्षेत्रान्तरेषु वड-कलाः देशस्य अ-राजक-प्रायतया बन्धन-ताडनादिभिर् अपि घोर-कर्मभिः परैर् अतिमात्रं पीडिताः सात्त्विकतया भीरुतया च मध्ये कञ्चन कालं तूष्णीं स्थिताः । पश्चात् राज्ये सुप्रतिष्ठिते व्यवहार-पद्धतौ च विश्वास-दायिन्यां जातायां पुनः प्राचीन-पद्य-पाठे प्रवृत्ताः मध्ये पाठ-विच्छेदेन व्यवहारेषु दुर्बल-पक्षा अभवन्न् इति प्रतीमः । विस्तरं परस्तात् करिष्यामः ।
[[114]]
तिरुचिरापल्ली-डिस्ट्रिक्ट-मुन्सीप्-अधिकरणे श्री-रङ्ग-देवालयार्चक-प्रणाम-सम्बन्धिनं व्यवहारम् अधिकृत्य 10 - 1 - 1950 दिने दत्ते निर्णये १२० तमं पर्व संस्कृते ऽन्-उद्यमानम् एव भवति –
11-1-1980 दिने देवालये किम् अपि वृत्तम् । धर्म-परिपालन-समितेः शासनाद् इदं वयं जानीमः यत् तस्मिन् दिने श्री-कस्तूरि-रङ्ग-अय्यङ्गार्, आर्. श्रीनिवास-अय्यर्, स्थल-स्थ-धर्म-कर्ता उत्तम-नम्बिश् च ‘वेद-विज्ञापन’-कर्मणि सन्निहिता अभवन् । तद् वैकुण्ठैकादशी-दिनं, यत्र श्री-रङ्ग-देवालये महता समारोहेण प्रतिवर्षम् उत्सवः प्रवर्तते । कस्तूरि-रङ्ग-अय्यङ्गार् तस्मिन् दिने शासनम् एकम् अकरोत् – वेद-विज्ञापन-कर्मणि अर्चकैः एकाधिकः प्रणामो न कार्य इति । अर्चका इमाम् आत्मनो ऽवमाननां मेनिरे, निराचक्रुश् च । इदम् अत्र स्मर्तव्यं यत् ते ततः सप्ताहात् पूर्वम् एव व्यवहारं प्रवर्तितवन्तः, धर्म-कर्तृ-प्रतिरोध-प्रार्थनं च तदीयं निर्णेतव्यावस्थायां वर्तते । अर्चकानां निर्वाहक-धर्म-कर्तुश् च मध्ये वाक्-कलहो वृत्तः श्रीनिवास-अय्यर्-समक्षम् । ततः परं वड-कला–धर्म-कर्ता श्री के. वि. रङ्ग-स्वामि-अय्यङ्गार् सङ्घर्षम् आकर्ण्य सत्वरं देवालयम् आगच्छत् । तद्-आगमन-वार्ता-श्रवणानुपदं यत्र ‘वेद-विज्ञापन-कर्म’ प्राचलत् तस्यान्तः-प्राकारस्य कवाटं पिहितम् अभवत् । अतः सः अगत्या बहिर् एवावतस्थे । तदात्वे च अन्तः सकृद् एव प्रणन्तुं अर्चका निर्बद्धा अभवन्। अथापि निर्वाहक-धर्म-कर्ता न यत्न-साफल्यं लेभे, यतः अर्चकाः तस्य अवमाननस्य अ-सहने तथा दृढ-सङ्कल्पा अभवन् । तस्मिन् काले प्रतिवादिन उत्तरम् अपि अधिकरणे न समर्पितम् आसीत् । नूनं तत्-समर्पणात् पूर्वम् एव सकृत्-प्रणामानुष्ठानं आलये प्रतिष्ठितं कर्तुम् ऐच्छत् निर्वाहक-धर्म-कर्ता । इदं मे भाति यत् श्री श्री-निवास-अय्यर् अ-वैष्णवो ऽपि सन्, अस्मिन् वृत्ते भागितां प्राप्य तेन्-कला-पक्ष-पातित्वं प्रादर्शयद् इति । अस्मिन् वृत्ते निवेदिते धर्म-परिपालन-समितिः कस्तूरि-रङ्ग-अय्यङ्गार् अमुम् उपालभत । अवदच् च तस्मिन् महति देवालये निर्वाहक-धर्म-कर्तेत्य् एतादृशे उन्नतं महच् च स्थानम् अधिष्ठातुम् अन्-अर्हः स इति ।
[[115]]
अस्मिन्न् अपि काले एवं धीरं अन्याय्यं निर्बन्धं कर्तुं प्रवर्तमानाः तेन्-कला-आग्रहिणः समीचीन-राज्य-शासन-रहिते द्वित्र-शतकेभ्यः प्राक्तने काले किं किं न कृतवन्तः स्युर् इति सुधियश् चिन्तयितुम् अर्हन्ति ।
13 कण्ठी-रव–नर-सिंह–राज-वोडयार्-शासनेन सत्यापितम् एतत् यत् पूर्व-पक्षिणा प्रवर्तितः रामानुज-दया-पात्र-पद्यस्य बृहत्-पर-काल-स्वामि-कृतत्व-वादः केवलं मिथ्या-वाद इति । ये के ऽपि इतः परं न मनाग् अपि कलुष-मतयो भविष्यन्तीति निश्चितम् एतत् । पूर्व-पक्षी तु सप्तशः क्षालित-लज्जा-भीति-सङ्कोचत्वात् सम्प्रति मध्यन्दिने विस्तृते वियति प्रस्फुरन्तं सहस्र-किरणं ‘अयं चन्द्र एव’ इति वीरं प्रतिज्ञातुं धृष्णुवन् अत्र अन्यथा-सिद्धिं स्व-स्व-भावम् अन्-अतिक्रम्य कल्पयितुम् ईहते । शासने
यदु-गिरि-क्षेत्रे तिरु-नारायण-सन्निधौ तथा इतर-सन्निधिष्व् अपि प्रबन्धानुसन्धान-समये राज-वोडय-प्रभोर् आरभ्य अस्मत्-पितृ-पाद-दिन-पर्यन्तं ‘रामानुज-दया-पात्रम् ’ इति तनियन् श्लोकः अनुसन्धानेन यथा ऽनुवृत्तः
इति निर्णय-दातुर् महा-राजस्य कालात् चिरात् पूर्वम् एव पात्र-पद्यस्य अनुसंहितत्वम् उच्यते । तेन पूर्व-पक्षि-वादस्य शिरसि कुठारः पातितो भवति । अस्माद्-आत्मानं रक्षितुम् इच्छन् स्वायोग्यत्वे सर्व-लोक-साक्षिके स्थिते राज्ञि तद्-गुरौ च तत्-कल्पयति । यदि शिष्य-भूतो राजा स्व-वचनानुसारेण न्याय्यम् अन्याय्यं वा सर्वं करिष्यतीति दृढो विश्वासः पात्र-पद्य-विषये महान् आग्रहश् च पर-काल-स्वामिन आसीत् ; राजा च तथा विधेयः तर्हि पात्र-पद्यान्तर-पठनेन अत्यन्त-प्रतिरुद्धेन भाव्यम् इति अति मूढो ऽपीदं जानीयात् । स्वयम् उदीयमानं इमम् आक्षेपं समाधातुं प्रवृत्तः,
[[116]]
पर-काल-स्वामी श्री-शैलेश-पद्य-पाठं सर्वथा निरोद्धव्यम् अवदिष्यच् चेत् राजा तथैवाकरिष्यत् । अचातुर्यात् तु स स्वामी तन्-निकटे तथा नावोचद्
इति निर्लज्जं वदति । स्वयम् अभिनवं पद्यं कृत्वा सर्वत्र तत्-प्रचारे, देशिकार्चा-प्रतिष्ठापने च तीव्रोद्यम-कारितया, काञ्ची-पुरीम् आगत्य तत्रापि स्वाभिमत-करणाय ताताचार्य-वंश्यान् निर्बध्य तेषु तद् अ-कुर्वत्सु शापोदकं दत्त्वा प्रतिनिवृत्ततया च यः पर-काल-स्वामी वर्ण्यते स वस्तुतः यदि तथा अभिनिविष्टो व्यग्रश् च बभूव तर्हि सर्वाधिकार-शालिनि महा-राजे परम-विधेये सति कथं तन्-निरोधं कर्तुं नादिशेत् । किं तत्र अचातुर्यं नाम ? राजा वा तथा आचार्य-भक्ति-भरितः सर्व-स्व-तन्त्रश् च भवन् कथं अन्-आदिष्टो ऽपि स्वयं स्वाचार्याभिमत-पद्य-पाठं विना पद्यान्तरं न पठनीयम् इति नादिशेत् । इदं हि मुखम् अस्तीति भाषणम् । ‘कस् त्वं बाल’ श्लोक-पाठो ऽप्य् अत्रैव सुसङ्गतः ।
1 ‘शीरोन्रुतूप्पुल’ तनियन् गाथायाः पिल्लै-लोकार्य-कृतत्वम्, 2 सप्तति-रत्न-मालिकायाः प्रतिवादि-भयङ्करार्य-कृतत्वम्, 3 श्री-वेदान्ताचार्य-वैभव-प्रकाशिकायाः दोड्डयाचार्य-कृतत्वम्,
वास्स्याहो-बिलाचार्य-चन्द्र-गिरि-वेङ्कटाचार्यादि-कृत-व्याख्यान-ग्रन्थानां तत्-तत्-काल-प्रादुर्भूतत्वम् अन्-अपह्नुत्य, इत्य्-आदि-मिहिरस्य मयूख-मालित्वम् इव सुप्रसिद्धं अन्-अपलप्य, “प्रमाण-लेशेनापि रहिताः” आपाततो ऽप्य् अ-सम्भाव्याः मिथ्या-कल्पनाः अ-प्रकल्प्य च स्वाभिमत-साधनाय एकम् अप्य् अक्षरं लेखितुं न शक्यत इतीदं जानन् पूर्व-पक्षी, यदि परमार्थतो हृदयं नाम किञ्चिद् अन्तर्वर्तेत तर्हि, नूनं ग्रीष्मे कुठार-च्छिन्न-पतित-द्रुम-शोषं शुष्येत् । अ-हृदयः पुनः सः ।
[[117]]
रावण-वधानन्तरं हनूमन्तम् आदिश्य सर्वां लङ्कां निरवशेषां भस्म-सात्-कर्तुं शक्तो ऽपि रामः अचातुर्यात् तथा ऽकृत्वा सीता-प्रतिलम्भ-मात्र-सन्तुष्टो निववृत इति किल रावण-ज्ञातयः केचिद् अवोचन् । तादृग् इदं भवति । ३०
14
बृहत्-पर-काल-यति-वरः तेन्-कलाचार्यस्यैव सन्निधौ भगवद्-विषय-ग्रन्थम् अध्यैष्ट ।
इति निरनुक्रोशं लिखति । किं पुनस् तत्र प्रमाणम् ? तद् आह निपुणः
स तावत् स्वामी स्वकीयस्य शठ-कोप-गाथा-सहस्र-व्याख्यानस्यारम्भे
व्याख्यानं शठ-कोप-सूरि-वचसां यद् दाक्षिणात्यैः कृतं … स्वारस्यं परिगृह्य तद्-गतम्
इति वक्ति । तत्-स्वारस्यावगमः कथम् अस्य सम्पन्न इति चेत् दाक्षिणात्याचार्य-मुखाद् एवेति वक्तव्यम् । ननु पण्डिताग्रेसरः स स्वामी स्वयं ग्रन्थम् अवलोक्य तद्-गतं स्वारस्यम् अ-स्वारस्यं वा ज्ञास्यति । किं तस्य दाक्षिणात्याचार्योपसर्पणेनेति चेन् न ‘पत्रेक्षितो वा व्यर्थः स्यात्’ इति शास्त्रार्थं न खलु न विदन्ति ते यति-वराः । शास्त्र-वश्यास् ते कथं तद्-उल्लङ्घ्य पत्रे ग्रन्थम् ईक्षेरन्न् इति ।
सम्यक् तावद् उक्तम् एतत् । अतिनिपुणम् उक्तम् । तदीयम् इदं पद्यम् एव तत्र प्रमाणं, नान्यद् इति पर्यवसितम् । साधु । तत इदं चिन्तनीयम् ।
श्री-भाष्यादि-विरुद्धम् एव तद् इति ख्यातं यतः प्रायशः
इति यत् तत्र द्वितीय-पादे उच्यते तद् अपि किं तस्यैव तेन्-कलाचार्यस्य मुखाद् अवगतवान्, उत स्वयम् एव निर्धारयामास । द्वितीये तत् निर्धारणं किं तम् आचार्यं प्रति उपसदनात् पूर्वम् उत पश्चात् ? आद्ये व्याख्यानस्य श्री-भाष्यादि-विरुद्धत्वं शिष्याचार्य-परम्परया ऽभ्युपगतम् इति स्यात् । द्वितीये पत्रेक्षितो वा व्यर्थः स्याद् इति शास्त्रम् अतिललङ्घ एव स इति स्यात् । तृतीये आचार्यान् अभिमतम् अर्थं निश्चिन्वन् तस्मिन् कृतापचारः स्यात् । शास्त्र-वश्यस्य कथम् इदं युज्यते ।
[[118]]
भगवद्-विषय-व्याख्याने कस्मिंश्चित् यथा सम्प्रदायं गुरु-मुखाद् अधीते पुनः कुतूहलाद् व्याख्यानान्तर-परिचय-कारिणः सर्वे किं एकैकम् अपि व्याख्यान्तरं गुरु-मुखाद् एव गृह्णन्ति ? रङ्ग-रामानुज-स्वामी साक्षात् स्वामी वा किं दाक्षिणात्यस्य कस्यचिन् मुखाद् एव व्याख्यानान्तरम् अधिजगे ? दाक्षिणात्या वा किम् एतद् व्याख्यान-परिचय-काङ्क्षिणः पत्रेक्षितो वा व्यर्थः स्याद् इति बिभ्यतः वड-कलाचार्यम् उपसद्य एतदीय-तनियन्-पद्यानुसन्धान-पूर्वकम् अधीयते ? षट्-सहस्र्यां स्थितायाम् अपि विस्तृतत्वात् विविध-विशेषार्थ-प्रतिपादकत्वाच् च निगम-परिमलस्य गुरु-मुखाद् ग्रहणम् अ-कुरुतां वरदाचार्य-ब्रह्म-तन्त्र-स्वामिनौ ।
दाक्षिणात्य-व्याख्यानस्य भूयिष्ठं श्री-भाष्यादि-विरुद्धत्वात् तद्-दर्शिनो जनाः सिद्धान्तार्थान् अन्यथा गृहीत्वा मा स्म विनश्यन्न् इति हेतोः तथा विरुद्धान् अंशान् परित्यज्य व्याख्यानान्तरं मया लिख्यते ।
इति श्लोकस्य प्रधान-प्रतिपाद्यार्थः ।
एतेन तत्र स्वारस्यं सर्वथा नास्ति
इति मया नोच्यते ।
अस्त्य् एव स्वारस्यम् । तद्-अ-परित्यज्य तद्-घटयित्वैव लिख्यते ।
इति उपरि वदन् स्वामी
नाहं दूषण-परः । किन्तु लोकानुग्रहायैव निष्पक्ष-पातं प्रामाणिकत्वाप्रामाणिकत्व-सारासार-विवेचनं कृत्वा अ-प्रामणिकासार-परित्यागेन प्रामाणिक-सार-ग्रहणेन च अभिनवं व्याख्यानं करोमि
इति स्वस्य परमम् आर्जवं प्रकाशयति । एवं वस्तु-तत्त्वे स्थिते
1 ‘श्री-भाष्यादि-विरुद्धम् एव तत्’ इति लोकोक्तं श्री-भाष्यादि-विरुद्धत्वं सर्वथा अविद्यमानं कृत्वा 2 ‘स्वारस्यं परिगृह्य तद्-गतम्’ इति स्वारस्य-कीर्तन-मात्रेण स्वारस्यातिशय एवोक्त इति, 3 अयम् अस्य तत्-स्वारस्यावगमो दाक्षिणात्याचार्य-मुखाद् एवाधिगत इति, 4 पत्रेक्षितो वा व्यर्थः स्याद् इति शास्त्रे एवं विधेष्व् अपि विषयेषु प्रवर्तत इति,
[[119]]
2 प्रकीर्णकम् ।
1 काञ्ची-मण्डले अस्ति कश्चित् “आक्कूर्” नाम श्री-वैष्णवाग्रहारः । तन्-निवासिनः सर्वे तेन्-कला आसन् । तत्र शताद् वत्सरेभ्यो ऽर्वाचीन एव काले वेदवित् शास्त्र-ज्ञः धर्म-शास्त्रे गाढ-परिचयश् च महान् कश्चिद् आसीत् । ‘अण्णा’ इति स प्रथित इत्य् आचक्षते । तस्मिन् आग्र-हारिकाणां सुमहद्-गौरवम्, अभ्यधिका भक्तिः ।
स कस्मिंश्चिद् दिने स्नातुं गतः स्नात्वा धृत-वस्त्रः तद्-अवधि धृतं तेन्-कला-पुण्ड्रं परित्यज्य वड-कला-पुण्ड्रं धारयति स्म । तद्-दर्शिन इतरे एक–गृह-स्थ–वर्जं सर्वे तेन अन्-आदिष्टा अपि स्वयम् एव तद्वत् वड-कला-पुण्ड्रम् अधारयन् । स पुनर् गृह-स्थः तं महान्तम् उपेत्य कथम् एवं सम्प्रदायान्तरे आदरः ? इत्य् अन्वयुङ्क्त । तस्मै सः
स एव प्रामाणिकः पारमार्थिकः सम्प्रदायः । तथा मम निश्चयः । तेनाहं तं आश्रितवान् अस्मि । इतरान् अहं न निर्बध्नामि ।
इत्य् उत्तरम् अदात् । तदा प्रभृति तम् एकं कुटुम्बिनं वर्जयित्वा अन्ये सर्वे वड-कला एव विराजन्ते । अस्यैवाग्रहारस्य नाम्ना “आक्कूर् आण्डवन्” इति प्रसिद्धः श्री-रङ्गे महति आचार्य-पदे स्थितः उपदशेभ्यो वर्षेभ्यः प्राक् परम-पदं प्रपेदे । विदुषां प्रमाण-शरणानां धीराणाम् एवं स्थितिर् भवति ।
2 तेन्-कला-श्री-वैष्णवेषु च अद्यापि केचित् सन्ति, ये वड-कला श्री-वैष्णववद् एव वेदाध्ययन-वैदिक-कर्मानुष्ठानादिषु कुल-परम्परया ऽत्यन्तं श्रद्धालवो भवन्ति ।
[[120]]
3 ‘रामानुज-दया-पात्रम्’ इतीदं पद्यं कुत्सयन् अग्नि-बीजेन उपक्रान्तम् इदम् इत्य् आह । मूर्खा भ्रातरः परस्परं भण्ड-भाषया निन्दन्तः माता-पितृ-निन्दा-कारिणो भवन्तीति पश्यामः । तथेदं भवति
जगत्-प्रथम-मङ्गलं भगवतो नाम
यद् राम इति लक्ष्मणस्य श्री-कृष्णस्य श्रीमद्-भाष्य-कारस्य च यन्-नाम रामानुज इति तद् अपि अग्नि-बीजोपक्रमम् एव । किं तद् अपि कुत्सितं तत्र भवान् मन्यते न चेत् तद्-उपक्रमस्य पात्र-पद्यस्य को दोषः ? अहो बत अ-विवेकितायाः साम्राज्यम् ।
‘कंसस्योदरे अग्निवत् स्थित हे भगवन्’ इति भगवत उपमानतया तत्र-भवत्या श्री-गोदा-देव्या निर्दिष्टं, विद्या-स्थानेषु सर्वेषु अङ्गितया प्रधान-भूता ये वेदाः तेष्व् अपि सर्वत्र प्रथम-निर्देश-भाक्त्वेन प्रधान-भूतो य ऋग्-वेदः तेन सर्वादौ ‘अग्निमीळे पुरोहितम्’ इत्य् आम्नायमानं, आसुर-राक्षस-प्रकृतीनां दाहकत्वेन यायजूकानां हव्य-वाहित्वेन च सुप्रसिद्धं देवम् अग्निं बोधयता ऽक्षरेण उपक्रम्यमाणम् इदं परम-शोभनम् इति आशंसायां कर्तव्यायां साक्षाद् वैपरीत्येन निन्दां कुर्वन् विपर्यस्त-मतिः शोच्यः ।
अपि च अग्नि-बीजं ह्रस्व-घटितम् । इह तु दीर्धो ऽवर्णः स्थितः पञ्चोपनिषन् मन्त्रश् चायम् । तद् इह दुर्भेदो भ्रान्ति-ग्रन्थिः कपिर् अपि चेति न्यायेन पूर्व-पक्षिणम् अत्यन्तम् आकुलयति ।
4 नाच्चियार्-कोविल् इति सम्प्रति प्रथितं कुम्भ-घोण-समीपवर्ति दिव्य-क्षेत्र-तिरुमङ्गै आळ्वार् इति प्रसिद्धेन पर-काल-सूरिणा स्वकीये महति दिव्य-प्रबन्धे सर्व-क्षेत्रान्तर-वैलक्षण्येन दशभिर् दशकैः स्तुतम् । तत्र श्री-वञ्जुल-वल्ली-नायिका-समेतेन भगवता श्रीनिवासेन सहैव सर्वदा गर्भ-गृहे निगमान्त-महा-देशिको विराजते । तत्र अस्य कालात् प्रभृति एतत् कृत-व्यवस्थानुरोधेन अ-विच्छिन्नः रामानुज-दया-पात्र-पद्य-पाठ-पवित्रोपक्रमोपसंहारः प्रबन्ध-पारायण-क्रमः अद्याप्य् अनुवर्तते । तत्र गोष्ठयां तेन्-कला-जनैः तूष्णीं सन्निहितैर् अपि न भाव्यम् । प्रबन्ध-पारायणाधिकारवन्तः तद्-अर्थ-सर्व-बहु-मान-भाजश् च वड-कला एव ।
[[121]]
कलहम् उपक्रम्य तेन्-कलाः १८४५ वत्सरे न्याय-स्थले व्यवहारम् अकुर्वन् । तत उपर्युपरि बहवो व्यवहाराः । उत्तमाधिकरण-पर्यन्तं गत्वा अन्ततः (१८९२ - ९५ ) अन्याय्यम् अन्याय्यम् इत्य् एव निर्धारितं दृष्ट्वा शान्ता अभवन् ।
के भगवन्-मुखोल्लासाय चिरात् स्व-भावतो दिव्य-प्रबन्ध-पारायणम् आद्रियमाणाः, के स्पर्धा-मात्र-वशेन पश्चात् तत्र प्रदर्शिताभिमाना इति तत्त्वतो वेदितुम् इच्छद्भिः एतत्-क्षेत्र-स्था स्थितिः सम्यक् पर्यालोचनीया ।
5 अत्र कस्मिंश्चिद् दशके (६.५-५)
वेदांश् चतुरो यज्ञान्
पश्च-षड्-अङ्गानि ये स्वरान् सप्त ।
दक्षाः सञ्चारयितुं
तैर् आस्थितम् अधिवसन् प्रभुर् नरैयूर् ॥
इत्य् एवम् अर्था पर-काल-सूरि-श्री-सूक्तिर् दृश्यते । नरैयूर् इति प्राचीनं नाम तस्य क्षेत्रस्य । एवं साङ्ग-वेदाध्यायिभिः पञ्च-महा-यज्ञानुष्ठान-निरतैश् च श्रोत्रियाग्रे-सरैर् अध्युषितत्वेन क्षेत्रस्य तद्-वासिनो भगवतश् च वैशिष्ट्यं प्रतिपादयति दिव्य-प्रबन्धे वयम् एव भक्ति-भाजः नान्य इति यदि वेद–यज्ञ-विद्–द्वेष-परित्यागादिकम् एव स्व–स्व-रूप–निरूपक-धर्मं मन्यमाना वदन्ति तत्र किं बुद्धिमन्तः तत्त्व-प्रतिपत्तिं प्रति क्लेशम् अनुभविष्यन्ति ?
6
यस्मात् सङ्गे बलि-विजयिनस् तस्य मञ्जीरवान्तम्
पाथो दिव्यं पशु-पति-जटा-स्पर्श-शून्यं विभाति ।
इति हंस-सन्देशे देशिकेन नूपुर-गङ्गायाः पशु-पति-जट-स्पर्श-शून्यत्वेन विशेष-प्रतिपादनात् भागीरथ्या अ-शुद्धिर् उक्ता भवतीत्य् अपि केवला भ्रान्तिर् एव ।
अन्-उज्झित-क्षमा-योगम् अ-पुण्य-जन-बाधकम्।
अ-स्पृष्ट-मद-रागं तं रामं तुर्यम् उपास्महे॥
[[122]]
इत्य् अत्र देशिकेन पूर्वेषां त्रयाणां रामाणां यावान् अपकर्ष उक्तः तावान् एवेह त्रि-पथगाया इति क्षुण्ण-महा-कवि-मार्गाणां सुमनसां सुग्रहम् एतत्।
7 शास्त्र-रत्ना-कर-श्री-कोळियालं शठ-कोपाचार्येण न्याय-मीमांसा-शिरो-मणिना सम्पादितस्य अ-चिर-प्रकटितस्य विधि-त्रय-परित्राणस्योपोद्घाते तत्-कर्त्रा वेङ्कटाध्वरिणा कृतानां ग्रन्थानां प्रस्तावावसरे एवम् उक्तं दृश्यते –
एवम् अनेन तिरुवाय्मॊऴि-नामकस्य श्री-शठ-कोप-मुनि-कृतस्य द्राविड-भाषामय-गाथा-सहस्रस्य संस्कृत-भाषायां विवर्त-रूपः कञ्चन प्रबन्धो ऽपि कृतो ऽस्तीति शृणुमः । तत्र ग्रन्थे स्थितम् एकं पद्यम् अपि श्रुतम् इति डाक्टर् एम्. कृष्णमाचार्यैः ( M. A. ) स्वकीये संस्कृत-ग्रन्थ-जात-चरिते ( Classical Sanskrit Literature ) निर्दिष्टं विद्यते ।
तत्-पद्य-रूपं त्व् इत्थम् –
लोकं पुष्कलम् एक-नायकतया ये शासितारो नृपाः
श्यामाङ्गेन शुना प्रदष्ट-चरणास् ते भग्न-भिक्षा-घटाः ।
अस्मिन् जन्मनि सार्व-लौकिकतया भिक्षाम् अटन्ति स्वयम्
श्री-नारायण-पाद-सेवन-रता भो भोः समुज्जीवताम् (त)॥
(ओरु नायकमायोड )
इति । स्व-सम्प्रदाये ऽनुवृत्तेन दिव्य-प्रबन्ध-प्रावण्यातिशयेन प्रेरितो हि वेङ्कटाध्वरी एवं तस्य संस्कृतानुवादे स्वयं प्रावर्तत । सः स्वकीयानां तत्र अन्-आदरं स्थितम् आवेदयतीति वचः कस्य श्रद्धेयं भवेत् ।
8 लोकाचार्य-कृते ‘तनि-प्रणव’-रहस्ये एवं दृश्यते –
अथ च केचिद् आचार्याः एवम् आचक्षते । कथम् इति चेत् – अ-पत्नीकस्य यागान्वय इव प्रधान-महिषी-व्यतिरेकेण राज्ञो ऽभिषेक इव च अस्य (भगवतः) रक्षकत्व-शेषित्वे लक्ष्मी-व्यतिरेकेण न स्त
इति ।
[[123]]
वेदान्ति-मुनिः (नञ्जीयर्) अस्यार्थस्य प्रतिपादनावसरे
देव्याः सत्ता-सिद्धिर् भगवता । भगवतो निरूपक-सिद्धिः देव्या ।
इत्य् अन्वग्रहीत् ।
इति । एतेन देवी-सहितस्यैव भगवतो रक्षकत्वं, न केवलस्येति प्राचाम् आचार्याणां सिद्धान्त इति स्पष्टम् ।
9 तनि-द्वय-रहस्ये –
तद् अनेन मोक्षोपायः प्रपदनम् इत्य् एतेन प्रपत्य्-अधिकारी मुमुक्षुर् इत्य् एतच् चोक्तं भवति ।
इति स्पष्टं प्रपत्तेर् उपायत्वम् उक्तम् ।
10 चोल-सिंह-पुरम् इति प्रसिद्धे घटिका-चल-क्षेत्रे वसन्तः चण्ड-मारुत-कर्तृ-महाचार्य-वंश्याः प्रपत्तिम् अनुतिष्ठन्त एव वर्तन्त इति ज्ञायते ।
11 तथा यदु-गिरि-वासिनो ऽपि । एते च एतं विषयं प्रति अनुयुक्ताः,
देशिक-कृतं निरूपणम् अभ्युपेत्य पेरियवाच्चान्पिल्लै (चतुर्-विंशति-सहस्री-कारः श्री-कृष्ण-पाद-गुरुः) निष्कम्पं प्रपत्तिम् अवश्यम् अनुष्ठातव्यां मेने । तस्मात् तदा प्रभृति तद्-अनुष्ठानम् अविच्छिन्नम् अत्र प्रवर्तते
इत्य् अवोचन् इति श्रूयते ।
12
नीला-तुङ्ग-स्तन-गिरि-तटी
इति गोदा-तनियन्-पद्यं व्याचक्षाणो लोकार्यः
नम इदम् इदं भूय एवास्तु भूयः
इत्य् अत्र ‘नारायणाय नमः’ इति प्रणम्योत्थायोत्थाय पुनः पुनः प्रणम्य
इति भगवद्-भाष्य-कार–श्री-सूक्तिम् उदाहरति । ततः कायिक-सकृत्-प्रणाम-निर्बन्धो ऽत्यन्तम् अर्वाचीन इति निस्सन्धिग्धम् एतत् ।
13 ‘सेतौ स्नानं न कर्तव्यम्’ इति तु देशिका अभिप्रयन्ति –
तं वीक्ष्य सेतुम् अधुना ऽपि शरीरवन्तः सर्वे षड्-ऊर्मि-बहुलं जलधिं तरन्ति
इति ।
[[124]]
इति लिखति । वीक्षण-मन्त्राभिहितम्, न स्नानम् । अतो ऽत्र स्नान-प्रतिषेधो ऽभिसंहित इति विप्रलम्भको व्याचष्टे ।
स्तोष्यामि नः कुल-धनम्
नमो नमो वाङ्-मनसातिभूमये
इति यामुनाचार्यः भगवत्-पूजां प्रतिषेधति । स्तुति-नमस्कार-मात्राभिधानात् । तद्-अतिरिक्तार्घ्य-पाद्याचमनीय-धूप-दीप-नैवेद्यादि-समर्पणान् अभिधानेन तत्-प्रतिषेध-प्रतीतेः । इति कुतो न भवति । हन्त काष्ठागते जाड्य-कौटिल्ये ।
श्लोकानां अथवा यस्य कस्यापि वाक्यस्य अर्थ-प्रतिपादने
स्वयम् अपि न विबुध्यते सुतो ऽयं सुमति-जनस्य शृणोति नापि वाचम्
इतीयं पूर्व-पक्षिणः स्थितिः ।
वेदान्त-देशिक-पदे विनिवेश्य बालम्
देवो दया-शतकम् एतद् अ-वादयन् माम् ।
इत्य् अत्र बालम् इति वयः परम् एवेति प्रतिजानीते । देवो दया-शतकं मां अवादयत्, नाहं स्वयम् अ-वदम् इत्य् अस्य वाक्यार्थस्य वयो-विशेषो वा उपयुक्तः समुचित-योग्यता-राहित्यं वेति पर्यालोचयितुं स्वयं तपस्वी न क्षमः । सर्वज्ञताभिमानाध्मात-हृदयत्वाच् च पर-प्रश्न-कथा नास्ति । निर्लज्जत्वान् निर्भयत्वाच् च अ-सम्बद्धार्थस्य उच्चैर् घोषः ।
14 तेन्-कला-पुण्ड्रः शूर्पाकार एव । हरि-पादाकृति त्व् आदरे स पुण्ड्रः कथम् अपि न सेत्स्यतीति निरूपितवन्तः स्मः । तत्रेदम् अपि द्रष्टव्यम् । नासिकायां अङ्गुल-द्वय-परिमाणं पुण्ड्रस्य पूर्व-पक्षी अभ्युपगच्छति ।
ललाटे कण्ठ-देशे तु स्कन्धयोश् च त्रिके तथा ।
चतुर्-अङ्गुल-मानानि पञ्च-पुण्ड्राणि धारयेत् ॥
इति सच्-चरित्र-रक्षायां ललाट-पुण्ड्रस्य चतुर्-अङ्गुल-परिमितत्वे वचनम् उदाहृतम् । तत्र यदि नासिकायां अङ्गुल-द्वयं क्रियते तर्हि अङ्गुल-द्वयम् एव ललाटे कार्यम् इति अर्ध-ललाट एवं पुण्ड्राग्रम् अवतिष्ठेत । न चैवं भवतीत्य् एतद् अपि तस्याप्रामणिकत्वे लिङ्गम् इति प्रामाणिकाः प्रतिपादयन्ति ।
वृश्चिकान् सृज सर्वत्र सर्वेश्वर न तं जनम् ।
अ-सङ्गतैक-लेखाय ध्रियते येन लेखनी॥
इति प्रकीर्णक-परिच्छेदः । इति परिशिष्ट-काण्डः ।
[[125]]