अथ प्रतिवचनकाण्डः॥
अ-प्रमाणं न वक्तव्यं न त्यक्तव्यं प्रमाणवत् ।
राग-द्वेषौ न कृर्तव्यौ संरक्ष्या नियमा इमे ॥
अथात्र पूर्व-पक्ष-ग्रन्थोक्तदूषणानां तत्-सङ्ख्यानुसारेणैव समाधानं ब्रूमः ।
1 भगवन्-मन्दिरेषु दिव्य-प्रबन्ध-गाथा-पारायणोपक्रमः नाथ-मूनेः प्राक् पर-काल-कालात् प्रभृतीति विज्ञायते ।
प्रबन्ध-पारायणारम्भे लक्ष्मी-नाथ यो नित्यम् अच्युत, माता पिता, भूतं सरश् च इत्य् एतत्-पद्य-चतुष्टय-पाठः भगवद्-रामानुज-नियमना देवेति च ।
2 भगवान् श्री-रङ्ग-नाथः वर-वर-मुनेः शिष्यो बभूवेति स एव श्री-शैलेश-पद्यस्य कर्तेति च न वर-वर-मुनिः स्वयम् आह । नापि प्रतिवादि-भयङ्कर-महाचार्यादि-कल्पा विश्वसनीय-वाचो महान्त आहुः । केवलम् इयं अर्वाचीनानाम् अभिनिविष्टानां अत एव परलोक-भीति-रहितानां कल्पना । एवम् एवास्य पद्यस्य दिव्य-प्रबन्ध-पारायणारम्भे पठनीयत्वाज्ञावादो ऽपि । प्रमाणं हि सर्वत्र तत्त्व-निर्धारणे शरणम् । किम् अत्र तत् ? पर-प्रत्यायनाय हि ग्रन्थो लिख्यते । तत्र प्रतिज्ञा-मात्र-करणेन किं भविष्यति ? यद् इदानीं बहुषु स्थलेषु तत्-पाठो दृश्यते तद् एव तत्र कथञ्चित् प्रमाणम् इति चेत्, स सात्त्विकान् भीरुन् परिभूय तीक्ष्ण-प्रकृतिभिर् इतरैः कृतो विपर्यास इति न पूर्वस्थि-थित्यै प्रमाणी-भवितुं शक्नोति । पक्ष-पातिनाम् अर्वाचां वचनं न कश्चन श्रद्धत्ते ।
ननु साक्षाद् वर-वर-मुनि-शिष्येण देव-राज-गुरुणा तद् उक्तम्, न त्व् अर्वाचीनेन येन केनचित् । तत् कथम् अ-विश्वसनीयम् इति चेत् कुत्र तेन तद् उक्तम् ? तत्-कृते वर-वर-मुनि-शतके
[[20]]
अचार्यत्वं तद्-अधिकम् इति ख्यातम् आमाम्नाय-मुख्यैर्
एष श्रीमान् भजति भगवान् ईश्वरत्वं विहाय ।
मन्त्रं दाता वर-वर-मुने मन्त्र-रनं त्वदीयं
देवः श्रीमान् वर-वर-मुनिर् वर्तते देशिकत्वे ॥ ६३ ॥
इत्य् अस्मिन् श्लोक इति चेत्, इदं शतकं वस्तुतः किं तेन कृतम् अथवा वादि-भी-कर-कृतत्वेन प्रकटित-शतकान्तरवत् अर्वाचीन-यत्-किञ्चित्-कर्तृकम् इति न वयं परीक्षितवन्तः स्मः । अद्य तु तेनैव कृतम् इति कृत्वा प्रतिवदामः । अस्मिन् किम् उच्यत इति चक्षुर्-उन्मील्य सम्यग् दृश्यताम् ।
एष श्रियः पतिः ईश्वरत्वं स्वस्य स्वतस् सिद्धं विहाय आम्नाय-मुख्यैः प्रमाण-वचनैः तद्-अधिकं तस्माद् ईश्वरत्वाद् अप्य् अधिकं उत्कृष्टम् इति ख्यातं आचार्यत्वं भजति । किं कुर्वन् ? मन्त्रं दाता - श्रीमद्-अष्टाक्षरादि-मन्त्रम् उपदिशन् । यो यः आचार्यः स सर्वः भगवत एव रूपान्तरम् इति भावः । एवं सामान्यतो व्याप्तिः शिक्षिता । अथ तां प्रकृते योजयन् उत्तरार्धम् आह । हे वर-वर-मुने, श्रीमान् देवः रङ्ग-नाथः, त्वदीयं मन्त्र-रत्नं श्री-शैलेश-दया-पात्रम् इत्य् एतत् पद्य-रूपं त्वद् विषयं मन्त्र-श्रेष्ठं दाता ददत् यः वर-वर-मुनिः एतन्-नामा त्वद् अन्तेवासी तद्-रूपः सन् देशिकत्वे अस्मद्-आचार्य-स्थाने वर्तते ।
इति अस्य श्लोकस्यार्थः । व्युत्पन्नैः पण्डितैर् अत्र अन्यो ऽर्थो वक्तुं नैव शक्यते । वर-वर-मुनेः तन्-नामैव कश्चन शिष्य आसीत् । सः स्वाचार्य-विषयं ‘श्री-शैलेश-दया-पात्रम्’ इतीदं पद्यम् अकरोत् । आचार्यं वर-वर-मुनिं स्तुवन् देव-राज-गुरुः अस्य पद्यस्य मन्त्र-श्रेष्ठत्वं तन्-निर्मातुः शिष्य-वर-वर-मुनेः देशिकत्वं तद्द-द्वारा साक्षाद् भगवद्-रूपत्वं च कवि-पद्धतिम् आश्रित्य ब्रवीति । इमम् अर्थम् अवगन्तुम् अक्षमा जडा भ्रान्ता वा यदि मिथ्या-कथाः कल्पयन्ति ताः कथं प्राज्ञानां विश्वसनीयाः स्युः ?
[[21]]
3 कला-भेदो ऽर्वाचीन इति अभिधान-द्वयाभिधेयम् अर्थ-द्वयम् इदम् इति च पूर्वम् एवोक्तम् । आदौ श्री-वैष्णवेषु ये समग्र-प्रज्ञा-शालिन आसन् ते अ-विशेषेण श्री-भाष्यार्थाधिगम-प्रवचन-प्रतिष्ठापनेष्व् एव सम्पूर्णं परिश्रमम् अकुर्वन् । तत्र अ-शक्तास् तु दिव्य-प्रबन्ध-सङ्गिन आसन् । इदं च भगवद्-रामानुज-दिव्याज्ञानुसारात् । स किल एवम् अनुशशास –
प्रपन्नस्य आयुः-शेषे कर्तव्यानि पञ्च-कैङ्कर्याणि –
1 भाष्यम् अधीत्य तत्-प्रवर्तनम् । तत्र योग्यता-विरहे 2 दिव्य-प्रबन्धानां श्रवणं प्रवर्तनं च । तत्र योग्यता-विरहे 3 ‘अभिमतेषु’ दिव्य-देशेषु निवेद्यान्न-दीप-माला-संविधानम् । तत्र योग्यता-विरहे । 4 द्वयार्थानुसन्धानम् । तत्र योग्यता-विरहे 5 मदीयो ऽयम् इत्य् अभिमन्यमानस्य कस्यचित् श्री-वैष्णवस्याभिमान-विषयतया वर्तनम् ।
इति । तद् इदं श्रीमद्-रहस्य-त्रय-सारे शास्त्रीय-नियमनाधिकारे आचार्य-पादैः स्पष्टम् उक्तम् । षट्-सहस्री-गुरु-परम्परायाम् अप्य् उक्तम् –
पठित्वा भाष्यं तत्-प्रवचनम् अ-शक्तौ शठ-रिपोः
गिरि-श्रद्धा-वासः प्रभु-परिचित-स्थान-निवहे ।
प्रभोः कैङ्कर्यं वा प्रपदन-मनोर् अर्थ-मननं
प्रपन्नानां वा मे भवतु परिचर्या-परिचयः ॥
इति
अतः शक्तानां प्रथम-कर्तव्यं श्री-भाष्य-वैदुष्य-सम्पादनम् । स्वधीत-श्री-भाष्याः प्रज्ञा-वैभवे सति दिव्य-प्रबन्ध-परिश्रमम् अपि कुर्युर् एव । तावन् मात्रेण तु परिश्रान्ताः अलब्ध-काला वा अ-कृत-दिव्य-प्रबन्ध-परिचया ये आसन् ते ऽपि तेषु समग्र-भक्तयः अध्ययनासौकर्यं प्रति अतीवानुशयवन्तश् च अभवन् ।
[[22]]
एवम् एवाशक्त्या श्री-भाष्याध्ययनादाव् अ-प्रवृत्ता ये दिव्य-प्रबन्धाध्यायिनः ते श्री-भाष्ये न द्वेषं चक्रुः । प्रत्युत भक्तिमन्तो बभूवुः । प्राक्तनीयं सर्व-श्री-वैष्णवसाधारणी वृत्तिः । अर्वाञ्चस् तु कलह-वृत्तयः अ-विवेकित्वात् स्वयं वैदिक-प्रस्थानं सर्वं सर्वथा कुत्सयन्तः छिन्न-वाल-सृगाल-न्यायेन परेष्व् अपि तादृशं दोषम् आरोपयितु कामाः ‘दिव्य-प्रबन्ध-विमुखास् ते’ इति प्रथयितुम् आरभन्ते ।
ये ज्ञानिनः ते ज्ञानानुगुणं कर्मानुष्ठानं समयं कर्तुं प्रवृत्ताः नदी-तटाकादि-तीरेषु यथावत् सन्ध्यावन्दनाद्य्-आचरणे, गृहेषु औपासन-वैश्वदेवाद्य्-आचरणे च व्यापृताः, प्राप्तेषु कालेषु भगवन्-मन्दिरम् उपगम्य सेवित्वा अधीत-वेदा वेद-गोष्ठ्यां अधीत-दिव्य-प्रबन्धाः तद्-गोष्ठ्यां च प्रवर्तमानायाम् अन्विता भूत्वा शेषं कालं यथोचितं क्षिपन्ति स्म । अतादृशास् तु यथा-शक्ति नित्य-नैमित्तिक-कर्मानुष्ठायिनः श्री-भाष्य-कार-शासनानुरोधेन देवालयेषु यत् किञ्चित् कैङ्कर्यं कुर्वन्तः तद्-एक-परा अभूवन् । एवं चात्रापि ज्ञानाज्ञाने एव विभाग-हेतू । न तु कला-भेदः ।
अन्यत् सर्वम् अत्रोक्तम् –
श्रुति-श्रेणी-चूडा-पद-बहु-मते ‘देशिक’-मते
स्व-पक्ष-स्थान् दोषान् वितथ-मतिर् आरोपयति यः ।
स्व-हस्तेनोत्क्षिप्तैः स खलु निज-गात्रेषु बहुलं
गलद्भिर् जम्बालैर् गगन-तलम् आलिम्पति जडः ॥
इत्य् ऊहित-देशिक-श्री-सूक्ति-प्रतिपाद्य-न्याय–गो-चरताम् एतीति नात्र विस्तरः क्रियते ।
4 ‘वड-कलाख्यास् तु दिव्य-प्रबन्धेषु विमुखा एवासन्’ ‘वड-कलाख्य-विभागान्तर्गतानां तत्रानादरश् च’ इत्य्-आदि वदन्त एव
[[23]]
इतरेषु कतिपयेषु भगवन्-मन्दिरेषु वड-कलाख्या अमी दिव्य-प्रबन्ध-गोष्ठी-प्रवेश-प्रारम्भ-मुखेन ।
इत्य् अपि वदन्ति । तन्त्र विमुखाश् चेत् किम् इति तद्-गोष्ठी-प्रवेशम् एते इच्छन्ति । न हि वाद्य-काराणां गोष्ठीं प्रवेष्टुम् एते इच्छेयुः । विप्रतिषिद्ध-भाषणम् एषां प्रकृतिः ।
5 अधिकरणेषु व्यवहारं प्रवृत्तं प्रस्तुवन्ति । श्री-शठ-कोप-मुनि-प्रभृतीन् स्वाचार्यान् निर्दिशन्तो यद् एवं विवदमानाः महान्तं व्ययं कुर्वन्तः सम्प्रदाय-गन्धानभिज्ञैर् यैः कैश्चित् प्रशमनीय-विवादा भवन्ति तत्र लज्जितव्ये प्रमोदमाना इमे सज्जनानाम् अतीव शोचनीयाः । अधिकरणेषु पाश्चात्य-प्रक्रियया साक्षि-प्रमाणी-करणेन व्यवहार-दर्शिषु जय-पक्षः नियमेन परमार्थावलम्बीति पराजय-पक्षः नियमेन अन्यथा भूत इति च न कश्चिद् इदानीं प्रत्येति । प्रत्यक्ष-वध-कारिणो निरपराधा इति मुच्यन्त इति निरपराधास् तपस्विनः अपराधिन इति दण्ड्यन्त इति च वदन्ति । तस्मात् परमार्थे निश्चेतव्ये नाधिकरण-निर्णय-मात्रं प्रमाणं भवितुम् अर्हति । अस्मत्-पक्षानुकूलाश् च बहवो निर्णयाः सन्ति । राज-दण्ड-प्राप्तिम् अपि निर्दिशन्ति । अत्यन्त-शोच्यम् एतत् । श्री-वैष्णवानां राज-दण्ड-पर्यन्तां हिंसां कृत्वा यदि हृष्यन्ति तेषां का गतिर् भविष्यतीति शास्त्र-प्रमाणका निस्सन्दिग्धं जानन्ति । य एषाम् इदानीं हर्षः स सर्वः पश्चात् शत-सहस्र-गुण-दुःखात्मना परिणामम् एष्यतीति चिन्तयन्तो विमनायन्ते । तत्रापि सात्त्विकं तात्त्विकार्थवादिनं भागवतोत्तमं अतिग्राम्य-वृत्त्या उच्चावचं निन्दित्वा तेन कारणेन राज-दण्डं प्राप्य प्रायेण मासं कालं कारा-गृहे उषितवन्तः सम्प्रदाय-श्रद्धया पक्ष-द्वय-साधारण्येन सम्भाव्यमानं राज-दण्डम् अद्य एक-पक्ष-मात्रे स्थितम् इव यद् भाषन्ते तद् अन्-आनात्म-ज्ञतायाः अन्-ऋत-वादादि-व्यसनितायाश् च अत्यन्तम् उचितम् ।
[[24]]
6 भूत-पुर्यां कृशानु मुखेन ‘मुञ्चन्तः पञ्च-यज्ञान्’ इत्य्-आदि वर्णयन् विश्व-गुणादर्श-कारो वेङ्कटाध्वरी
‘तत्रत्याः श्री-वैष्णवाः सर्वे ऽपि तेन्-कलाख्या एवेति सुस्पष्टं प्रतिपादयति’
इति यद् उक्तं तत् तथा न । भूत-पुरी-पुर्य् अन्तर-साधारण्येन रामानुज-सिद्धान्तावलम्बिनः श्री-वैष्णवाः कविना निर्दिश्यन्ते । न तु भूत-पुरी-मात्र-निवासिनः । ‘तत्-पथानुधाविनां मेधाविनाम् अपि’ इत्य् एतावन् मात्र-श्रवणात् । ‘भूत-पुरी-निवासिनां’ इत्य् अकथनात । उत्तरत्र तेन्-कला-निर्देशे ऽपि “एतन्-मतानुवर्तिनां केषाञ्चिद् एषाम्” इत्य् एव श्रवणात् । न चात्र ‘एषाम्’ इत्य् अनेन तत्-पुर-निवासिन एव गृह्यन्त इति शङ्कितुं शक्यम् । स्थलान्तर-वासि-तेन्-कलानां वेङ्कटाध्वरि-काले पञ्च-यज्ञाद्य्-अनुष्ठानम् आसीद् इत्य् अभ्युपगमापत्तेः । किञ्च ‘केषाञ्चिद्-एषां’ इत्य् एव श्रवणात् ‘तत्रत्याः श्री-वैष्णवाः सर्वे ऽपि’ इत्य् अभिधानं अ-व्युत्पत्ति-मूलकम् एवेति ।
7
नैषां न्याय्य इह द्विजान्व-यजुषां भाषा-प्रबन्धे श्रमो
वेदे विश्व-पुम्-अर्थ-साधन-विधौ बद्धादरे जाग्रति ।
इति वेङ्कटाध्वरिणा कृता भाषा-प्रबन्ध-परिश्रम-निन्दा ‘तेन्-कला-जनान्’ प्रत्येव कृतेति कृत्वा
वड-कलाख्य-वैष्णवानां भाषा-प्रबन्धादर-निबन्धना दूषणी-यता नासीद् इति सम्यग् अवगम्यते । वड-कलाख्या अपि तदात्वे यदि द्राविड-वेद-पाठिनः स्युः तर्हि एक-देशि-विषये नैव दूषणम् अमवतीर्णं स्याद् इति बालिशो ऽपि ननु विजानीयात् । सो ऽयं कविः स्वकीये जीवित-काले स्व-चक्षुषा यां स्थितिम् अवैक्षत ताम् एव ग्रन्थतो निबबन्धेति निश्चीयते । तस्मिन् काले वड-कलाख्या वैष्णवा द्राविड-वेद-वैदेशिका एवासन्न् इति निश्चयं निरपायम् आकलयति स एष देश-चरित्र-प्रकाशको महा-ग्रन्थः ।
[[25]]
इति हन्त तपस्वी पूर्व-पक्षी लिखति । अ-व्युत्पत्ति-हतत्वात् अभिनिवेशान्धत्वाच् च स्पष्टम् अपि स्थितं ग्रन्थार्थं ग्रहीतुं नेष्टे । तत्र हि कृशानुः
तत्-पथानुधाविनां मेधाविनाम् मपि परावमन्तृत्वादयो दोषाः प्रसिद्धाः । तथा हि
इति, सामान्यत एवोपक्रम्य
श्री-रामानुज-दर्शनैक-रसिकः, किञ्च, नैषां न्याय्य इह –
इति श्लोक-द्वयं पठित्वा ततः परं “किञ्च, एतन्-मतानुवर्तिनां केषाञ्चिद् एषां चेष्टा नेष्टा वैदिकानाम् । पश्य
इति विशेषतः कांश्चिन् निर्दिश्य तद्-विषये “मुञ्चतः पञ्च-यज्ञान्” इत्य्-आदि वदति । तेन पञ्च-यज्ञ-परित्यागादिकम् एव तेन्-कला-विषयम् । ततः प्राक्तनं भाषा-प्रबन्ध-परिश्रम-दूषणं तु वड-कला-साधारणम् । ‘मेधाविनाम् अपि’ इत्य् उपक्रम-पर्यालोचनायां तु विशिष्य वड-कला एव बुद्धौ स्थिता इति सुवचम्। “वेदे …… जाग्रति” इत्य् अस्य चायम् अर्थः । एते हि गर्भाष्टमे उपनीता वेदम् अधीत्य धारयन्ति । तेनैव अपेक्षित-कलार्थ-ज्ञान-सम्पत्तौ सत्यां किम् इति वेदान् अधिकृतोपयोगि-भाषा-प्रबन्धादरम् अपि कुर्वन्तीति । एतेन ये वेदे ऽनादरं दर्शयन्ति तेषाम् इह ग्रहणे औचित्यं मन्दम् इति ज्ञेयम् । “वेदानाम् अवहेलनं व्यतिहतावर्णाश्रम-प्रक्रिया” इति ह्य् उत्तरत्र तेषां स्पर्शः क्रियते । ते हि वेद-वेदाङ्गाद्य्-अन्-अध्ययनेन मूढाः सन्तः भाषा-प्रबन्ध-परिश्रमं यदि कुर्वन्ति कुर्वन्तु । इमे तु तद्-अध्ययनेन मेधाविनः सन्तो ऽपि कथं कुर्वन्तीति भावो ऽत्र स्फुटः । तस्माद् ये उभय-वेदान्ताचार्याः तान् एवेह बुद्धौ कृत्वा भाषा-प्रबन्ध-परिश्रम-दूषणं क्रियत इति दृढम् एतत् प्रतिपत्तव्यम् । दूषण-परिहार-प्रकरण-परामर्शेनापि इदम् इत्थम् एवेति निश्चेतुं शक्यम् । तत्रापि खलु वेदाध्ययने कृते सति दिव्य-प्रबन्धाध्ययनं नोचितम् इति यद्य् उच्यते तर्हि स्मृति-पुराणाध्ययनम् अपि नोचितं स्याद् इत्यादि समाधानं सामान्यतो ऽभिधाय पश्चात् ‘यश् चैक-देशि-विषय-दूषणोपन्यासः’ इत्य् उपक्रम्य विशिष्य तेन्-कला-दूषण-परिहार उच्यते । तद् इह विश्व-गुणादर्श-महा-प्रन्थोदाहरणं साक्षात् स्वाभिमत-विपरीत-साधनतया उदाहर्तुर् अज्ञत्व-साम्राज्याभिषेकार्हन्तीम् एव गमयतीति तत्त्व-स्थितिः। एतेन अन्यद् अप्य् अत्र पूर्व-पक्षिणोक्तं रिक्तं वच इति सुज्ञानम् इत्य् उपेक्षते।
[[26]]
लक्ष्मी-सहस्रे भगवत्याः श्री-महा-लक्ष्म्याः भगवद्वद् एव विभुत्वे प्रामाणिके यत् कैश्चित् अणुत्वम् उक्तं तस्य तन्-महिम्नो ऽत्यन्त-दुर्ग्रहत्वे तात्पर्यम् इति निर्वाहो वेङ्कटाध्वरिणा कृतः । न खण्डनम् । व्याख्याने ‘अणुत्व-वादिनः भट्ट-पराशर-प्रभृतयः’ इत्य् उक्तम् । भट्ट-पाद-ग्रन्थेषु यत्र क्वापि लक्ष्म्या अणुत्वं नोक्तम् । प्रत्युत श्री-गुण-रत्न-कोशादौ तद्-वैभवम् एवोक्तं प्रतीयते। तस्मात् व्याख्याने ऽपि अ-तद्-गुण-संज्ञान-बहु-व्रीहिर् एव वाच्यः । तद् इदं सज्जनाराधन-नाम्नि ग्रन्थे चिरात् पूर्वम् अस्माभिर् उक्तम् । अथापि पुनर् अत्र लिख्यते असङ्गतम् एव । निर्लज्जत्वात् । यद् वा भट्ट-पराशरः आदिः कूट-स्थः येषां ते भट्ट-पराशरादयः, तेषाम् अपि च । ‘युवत्वादौ तुल्ये’ इत्य्-आदिषु स्पष्टं विभुत्वे स्व-कूट-स्थेन भट्टारकेण उक्ते ऽपि तद्-विरुद्धतया ये अणुत्वं वदन्ति तेषाम् अपीति व्याख्यान-पङ्क्तेर् अर्थः । अत्र ‘स्व-रूपं स्वातन्त्र्यं भगवत इदम्’ इत्य्-आदिषु प्रसिद्धस्य कूट-स्थ-सम्प्रदायस्य विरुद्धतया क्रियमाणो ऽयं विभागो ऽनुपपन्नः" इति सिद्धोपाय-शोधनाकार-सूक्तिः स्मारिता व्याख्याने ज्ञेयम् । अनया रीत्या प्राचां विरुद्धतया तेन्-कलाख्यत्व-प्रतिपादनं आशा-मोदक-तृप्ति-मात्रम् । अ-प्रामाणिकार्थ-प्रतिष्ठापन-प्रसितैः समञ्जस-युक्ति-प्रमाण-दौर्लभ्यात् एवम् एव किम् अपि किम् अपि प्रलपनीयम् । नान्या गतिर् अस्ति । विवेकिभिस् तु जागरूकैर् भावितव्यम् । अन्-ऋजवो हि अभिनिविष्टा अ-सत्य-निष्ठा अतिक्रूर-हृदयाः राग-द्वेष-वशं-वदाः स्वयं नष्टाः परान् नाशयन्ति ।
8
मद्र-राज-धान्यां प्रबल-वावदूक-पदे विराजमानाः हैकोर्ट्-जड्ज्-पदवीम् अप्य् अलङ्कृतवन्तो महा-मतयः बि. वि. श्रीनिवासय्यङ्गार् महाशयाः वड-कलाख्यानां परिबृढाः स्व-देश-मित्राख्यायां द्राविड-भाषामय-दैनिक-पत्रिकायां 22 - 7 - 1988 दिने प्रादुर्भूते अङ्के “रामानुज-दया-पात्र-पद्य-महोत्सवः” इति कृत-शीर्षकम् एकं दीर्घं लेखं विलिख्य प्राचीकशन् । तत्रैषा पङ्क्तिर् विराजते –
[[27]]
वड-कलाख्यास् तु बहोः कालाद् एव द्राविड-वेद-दिव्य-प्रबन्धेषु
आदर-दरिद्रा वर्तन्त इति भृशं परितापास्पदम् एतत्इति ।
इति
“एते वड-कलाख्याः सुचिराद् एव द्राविड-वेद-श्रद्धा-विधुराः’
इत्य् अत्र लिखति प्रबल-साक्ष्य-अन्तरम् अपि प्रदर्श्यते”
इत्य् अवतारिकां दत्त्वा लिखति ।
(‘तेन्-कलाख्याः चिराद् एव वेद-शास्त्र-विमुखाः वर्तन्ते’
इति तत्रैव तैः प्रकाशितम् ।
‘वेदेषु वेदान्तादि-शास्त्रेषु च श्रद्धा-विधुराः तेन्-कलाख्या’
इत्य् अत्र प्रबल-साक्ष्य्-अन्तरं किलेदम् ।) इहापि उल्मुकेन स्व-शिरः-कण्डूयनम् एव कृतं भवति । ‘रामानुज-दया-पात्रम्’ इतीदं तनियन्-पद्यं अर्वाचीनम् इति स्थापनं हि साम्प्रतम् उद्दिश्यते । तत्र देशिक-काल एव इदं पद्यम् उत्पन्नम् इति सिद्धान्तम् आश्रित्य तस्य षट्-छताब्दी-महोत्सवं महता समारोहेण प्रवर्तितवतो महाशयान् प्रकृत-विवाद-विषये प्रमाणी-कुर्वतो ऽस्य बुद्धि-वैभवं किम् इति वर्णयेम । ते हि महाशयाः वड-कला एव सन्तः स्वकीयानां दिव्य-प्रबन्धेषु आदर-विरहं प्रति शोचन्तः स्वस्य तेषु परमम् आदरं प्रदर्शितवन्तो भवन्ति । देशिक-प्रभृतिभिः परिपालितेषु दिव्य-प्रबन्धेषु पश्चात्तनैः सर्वैः महत्य्-आदरे प्रदर्शनीये तद्-अप्रदर्शनं प्रति शोकम् आविष्कुर्वद्भिश् च
हन्तेदाननीं बहवो वेदाध्ययनं न कुर्वन्ति, सुचिराद् एव सन्ध्या-वन्दनम् अपि त्यक्तवन्तः
इति शोचद्भिर् इव पूर्वं तत्र परम आदर असीद् इत्य् एव स्वाभिप्राय आविष्कृतो भवति । तद् इहापि पर-पक्ष-साधनम् एव तामस-बुद्धित्वात् स्व-पक्ष-साधकतया उदाहृतम् इति वेदितव्यम् ।
[[28]]
दिव्य-प्रबन्ध-प्रामाण्य-प्रतिष्ठापनादि-कारिणे भगवते निगमान्त-देशिकाय ये तत्-पद्य-पठन-प्रतिरोधादिभिर् दुश्चेष्टितैर् अन्-अवरतं द्रुह्यन्ति तेषां पापिष्ठतमानां श्री-पराङ्कुश–पर-कालाद्य्-उत्सव-करणे अन्-अधिकारित्वात् तेषां तत्-करण-प्रवृत्तिः यथा-शक्ति प्रतिरोद्धव्यैव धर्मत इति न तत्र काचन वाच्यता ।
9 स्वयं यद् वेद-विद्-वेषं बिभ्रति तत्-स्थाने परेषु दिव्य-प्रबन्ध-विद्-वेषम् आरोपयितुं वृथा प्रयस्यन्ति । न हि तत्र प्रमाण-लेशः प्रदर्शयितुं शक्यः । प्रत्युत
श्री-भाष्यं, श्रीमद्-गीता-भाष्यं, भगवद्-विषयः, श्रीमद्-रहस्य-त्रय-सारः
इत्य् अस्य ग्रन्थ-चतुष्टयस्य अ-विच्छिन्न-गुरु-परम्परया अध्ययन-सम्प्रदायो ऽनुवर्तमानः वड-कला-सम्प्रदाये उपनिषद्–ब्रह्म-सूत्रादि–तुल्यम् आदरं तत्र प्रदर्शितं प्रस्फुटं प्रकाशयति । वड-कलैक-देवालयेषु, गृहेषु च विवाहाचार्य-जन्म-नक्षत्र-माता-पितृ-श्राद्धादि-कालेषु वेद-पारायणादिवत् दिव्य-प्रबन्ध-पारायपाम् अपि अविच्छेदेन नियमेन क्रियमाणं तत्र प्रमाणं भवति । शिष्याचार्य-परम्परया अधीत-दिव्य-प्रबन्धाश् च सुबहवः सन्त्य् एव ।
निमीलयतु लोचने न हि तिरस्कृतो भास्करः ।
आर्जवम् ईषद् अपि नास्त्य् अमीषां हृदये
इति निस्सङ्कोचं लिख्यते । अज-शिशु-वृक-संवादो ऽत्र स्मृति-पथम् अधिरोहति ।
10 श्री-शठ-कोप-सूक्ति-सहस्रस्य “अष्टा-दश-सहस्री” इति प्रसिद्धं व्याख्यानं कृतवन्तं महा-पर-काल-स्वामिनं प्रति सत्य-लेशेनाप्य् अमिश्रिता शुद्ध-मिथ्या-कथा काचिद् इह लिख्यते,
विदुषाम् अपि मोहम् आवहन्तो वितथैति ह्य् अ-सहस्र-वर्णनेन।
…. खलाः किलामी विजयन्ते कपटालया जगन्ति ॥
इति वेङ्कटाध्वरि-वचनस्य मुख्य-विषयताम् आत्मन्य् एव ख्यापयतेव । अत्र तत्त्वं जिज्ञासमानैः मैसूर्-श्री-ब्रह्म-तन्त्र–स्व-तन्त्र–पर-कालास्थान–श्री- कार्य-कर्त्रा श्री-कस्तूरि–श्रीनिवास-रङ्गाचार्येण प्रकटितं “रामानुज-दया-पात्र-पद्य-तत्त्व-निरूपणं”, श्री-नृसिंह-प्रियायां हिन्दीमय्यां प्रकाशितः तद्-अनुवादश् च द्रष्टव्ये ।
[[29]]
अथ तद्-व्याख्यानं प्रस्तुत्य
तद्-उपक्रमे तेन निबद्धं पद्यम् इदम् अवधेयम् ।
व्याख्यानं शठ-कोप-दिव्य-वचसां यद् दाक्षिणात्यैः कृतं
श्री-भाष्यादि-विरुद्धम् एव तद् इति ख्यातं यतः प्रायशः ।
स्वारस्यं परिगृह्य तद्-गतम् अतस् तुष्ट्यै सतां धीमतां
त्यक्त्वा ऽन्यत् पर-काल-संज्ञ-यतिना तत्-सङ्रहो लिख्यते ॥
श्लोकस्यास्य तावद् अयं भावः – सहस्र-गीतेः तेन्-कला-ऽऽचार्यैर् विरचितं व्याख्यानम् अतीव रस-घनं विराजते ; परन्तु तत्र सन्त्य् अर्थ-विरोधाः । तथा नाम विरुद्धान् अंशान् विसृज्य रस-घनान् अंशान् परिगृह्य मदीयां व्याख्यां पूरयामि –
इति ।
इति लिखति । अ-व्युत्पन्नस्य तात्त्विको ऽर्थो न स्फुरति अ-तात्त्विकस् तु स्फुरति । तस्यैव पक्ष-पातित्वे सुतरां तत् तथा भवति ।
यद् दाक्षिणात्यैः कृतं व्याख्यानं तत् प्रायशः श्री-भाष्यादि-विरुद्धम् एवेति ख्यातम्
इति श्री-भाष्यादि-विरोध-भूयस्त्वं पूर्वार्धे उक्तम् । रसवत्त्वं नैव सूचितम् अपि । अयं तु भाव-वर्णने प्रवृत्तः
तेन्-कलाचार्यैः कृतं व्याख्यानं रस-घनं विराजते
इति प्रथमं न केवलं रसं अपि तु रस-घनत्वं तेन विराजनं चोक्त्वा पश्चात् अर्ध-हृदयेन ‘परन्तु सन्त्य् अर्थ-विरोधाः’ इति लिखति ‘श्री-भाष्यादि’ इति ‘प्रायशः’ इति च मूले स्थितं गज-निमीलिकयोपेक्षमाणः । एवं ग्रन्थानां स्थितम् अर्थं परित्यज्य अस्थितम् अर्थं कल्पयित्वा स्व-पक्ष-स्थापने कृतोद्यमाः सति सौकर्ये पर-शिरश्-छेदम् अपि निश्शङ्कं कुर्युर् इति ज्ञेयं विवेकिभिः ।
अयं तु श्लोकार्थः –
तद्-व्याख्यानं भूयिष्ठं श्री-भाष्यादि-विरुद्ध-सर्वम् एवेति ख्यातं यतः, अतः यत् तथा विरुद्धतया अस्वरसं, तत् सर्वं त्यक्त्वा तत्-सङ्ग्रहः व्याख्यान-सङ्ग्रहः संक्षिप्तं व्याख्यानम्
इत्य् अर्थः लिख्यते ।
[[30]]
यद् एवं श्री-भाष्यादि-विरोध-भूयस्त्वं तत्रोच्यते, यच् च व्याख्यानान्तर-करणे मया उद्यमः क्रियते न तेन एतन् मन्तव्यं यन् मम तत्र द्वेषो ऽस्तीति, तेनास्थाने ऽपि खण्डन-सम्भ्रमः प्रदर्शयिष्यत इति । “स्वारस्यं परिगृह्य तद्-गतम्” । श्री-भाष्याद्य्-अ-विरुद्धतया युक्ति-युक्ततया च यत् तत्र स्व-रसं भवति तत् सर्वम् अन्-उपेक्ष्य परिग्रहीष्याम्य् एवेति । एवम् अभिनव-व्याख्यानस्य किं फलम् । तद् उच्यते – “तुष्ट्यै सतां धीमताम्” इति । पूर्व-व्याख्याने धीमतां सतां तुष्टिर् नास्ति । ये हि अ-धीमन्तः ते श्री-भाष्यादि-विरोध-ग्रहणासामर्थ्यात् श्रद्धा-जाड्येन तुष्येयुः । ये च अ-सन्तः ते ऽपि विरोध-ग्रहणे सत्यपि सङ्केत-बन्धेन वा ममत्वाभिमानेन वा तुष्येयुः । ये पुनः विरोधांश् च गृह्णन्ति ऋजुत्वाच् च तत्-प्रच्छादनं नेच्छन्ति तेषां तत्रासन्तोषो भवति । तेषां तोषायेदम् अभिनवं व्याख्यानम् इति ।
एतेन संस्कृत-वेदान्तम् उपेक्ष्य ये दिव्य-प्रबन्ध-मात्र-निरता भवन्ति तेषां निबन्धनानि भगवद्-भाष्य-कारादि-सिद्धान्त-विरुद्धार्थ-शत-दन्तुराणि भवन्तीति दिव्य-प्रबन्धाधिकारो ऽपि मन्द एवेति सूचितं भवति ।
11-12 अत्र, निर्दिष्ट-पूर्वे ‘रामानुज-दया-पात्र-पद्य-तत्त्व-निरूपणे’ अ-प्रकम्प्यतया स्थापितं भूतार्थं प्रतिपादयामः । अयं अष्टादश-सहस्त्री-कारो महा-पर-काल-स्वामी 16551 वर्षे अवतीर्णः 1676 प्रभृति 1737 पर्यन्तं आस्थानम् अलञ्चकार । सः स्व-व्याख्याने प्रतिशतकम् अन्ते
मुनि-वाहन–मुनि-करुणालब्ध–द्रविड-श्रुत्य्-अर्थ-निष्ठा-गरिष्ठ-चन्द्राद्रि-वेङ्कट-देशिक-करुणैक-भाजनेन पर-काल-यतिना
इति स्वाचार्यं चन्द्राद्रि-वेङ्कट-देशिकं निर्दिशति । स वेङ्कट-देशिकः रामानुज-दया-पात्र-श्लोक-व्याख्याता ।
[[31]]
अयं महा-पर-काल-स्वामी श्री-पर-काल–मठा-स्थाने एक-विंशः । तत्र पञ्च-दशः ज्ञानाब्धि-ब्रह्म-तन्त्र-पर-काल-स्वामी । तस्य शिष्यः वात्स्याहो-बिलाचार्यः । तेन च इदं पात्र-पद्यं व्याख्यातम् । स्व-व्याख्यारम्भे च
‘द्वितीय-ब्रह्म-तन्त्र–स्व-तन्त्र–गुरुभिः विस्तरेण व्याव्यातस्य ‘रामानुज-दया-पात्रम्’ इत्य्-आदि-श्लोकस्य सङ्ग्रहेण मया व्याख्या क्रियते’
इत्य् अयम् अर्थो ज्ञापितः । एवं अष्टादश-सहस्री-कारात् प्राचीन-बहुभिर् व्याख्यातत्वात् इदं पद्यं तेन स्वामिना कृतम् इति वादः केवलं मिथ्या पर-लोकाद् अ-बिभ्यताम् एव शोभत इति मन्तव्यम् ।
अन्यद् अपि अत्यन्तावधेयं तत्र निदर्शितम् । कण्ठीरव–नर-सिंह–राज-वोडयार् नाम कश्चन महा-राजः मैसूर्-राज्ये 1704 प्रभृति 1714 पर्यन्तं शासनम् अमकरोत् । तस्मिन् समये मेल-कोट इत्य् अधुना ऽभिधीयमाने यदु-गिरि-क्षेत्रे तनियन्-पद्य-पाठ-विषये कला-द्वयावलम्बिनां विवादो ऽजायत । तत्र स महा-राजः स्व-निर्णयं (1709) विरोधि-वत्सरे एवं घोषयामास –
विरोधि-वत्सर-ज्येष्ठ-कृष्ण-त्रयोदश्यां श्रीमद्-यदु-गिरि–क्षेत्र-स्थाय चामय्याय विलेख्य प्रेषितम् इदं निरूपम् । यथा यदु-गिरि-सन्निधौ तथा इतर-सन्निधिष्व् अपि प्रबन्धानुसन्धान-समये राज-वोडेय-प्रभोर् आरभ्य अस्मत्-पितृ-पाद-दिन-पर्यन्तं ‘रामानुज-दया-पात्रम्’ इति तनियन्-श्लोकः अनुसन्धानेन यथा ऽनुवृत्तः तथा इदानीम् अपि तयैव रीत्या ‘रामानुज-दया-पात्रम्’ इत्य्-आदि-तनियन्-श्लोकः अनुसन्धानेनानुवर्तनीयः । अस्य निरूपस्य मातृकां गणक-कोशे लेखयित्वा रामानुजाचार्य-सन्निधाव् इदम् आसञ्जनीयम् । श्रीः (राज-मुद्रा)
इति । इदं निर्णय-पत्रं मैसूर्-राज्य-निर्वाहकैः 1940 वर्षे मुद्रित-प्रकाशितम् आस्ते । अस्मिन् निर्णय-पत्रे निर्दिष्टस्य राज-वोडेयर्-महा-राजस्य राज्य-शासन-कालः 1578 वत्सराद् आरभ्य 1617 वत्सर-पर्यन्तः ।
[[32]]
अस्मिन्न् एव काले इदं तनियन् पद्यं श्री-यदु-गिरि-क्षेत्रे भगवन् मन्दिरेषु अनुसन्धीयमानम् आसीद् इति सन्देह-गन्ध-रहितं ज्ञायमानत्वात् 1676 वत्सराद् आरभ्य आस्थानम् आस्थितेन महा-पर-काल-स्वामिना तद्-विरचितम् इति अनुन्मत्तो न वक्तुम् अर्हतीति इदं तावद् आस्ताम् । अन्यत् तु इदम् इह वक्तव्यम् । राज-वोडयार्-कालाद् आरभ्य स्व-पितृ-काल-पर्यन्तम् अस्य पद्यस्य अनुसन्धानम् आसीत् इति यत् श्री-कण्ठीरव-नर-सिंह-राजो वदति तेन तद्-अवधि तद्-अनुसन्धानेन कश्चिद् आक्षेप आसीद् इति निश्चेतुं शक्यम् । अथ तदानीं जात आक्षेपः कीदृश इति विमर्शे महा-राज-कृत-निर्णय-पर्यालोचनया तस्य निर्धारणं सुकरम् । पूर्ववत् रामानुज-दया-पात्र-पद्यानुसन्धानं कर्तव्यम् इति निर्णयस्य दर्शनात् तन् न कर्तव्यम् इत्य् अयम् आक्षेपस् तदा कृत इति सुग्रहम् । एवम् आक्षेप-कारिणः तेन्-कला-पुरुषा एवेत्य् एतत् अनुक्ति-सिद्धम् ।
अथ चिरात् प्रवर्तमाने तद्-अनुसन्धाने कथम् अष्टादश-शतकोपक्रमे तस्य आक्षेपः समजनीति चिन्तनीयम् । श्री-शैलेश-दया-पात्र-पद्यानुसन्धानं न कर्तव्यम् इति वड-कला-पुरुषा आक्षिपन्न् इत्य् अत्र न किम् अपि प्रमाणम् उपलभ्यते । तेन कलहारम्भ-कारिणः अन्य एव । एवं विषयाणां विवेचने इदम् अत्र अवश्यं वक्तव्यं भवति । कला-भेदम् अन्तरा सर्वैः श्री-वैष्णवैः देशिक-पद्यम् एव चिराद् अनुसन्धीयमानम् अभवत् । अथ काल-क्रमाद् भेद-बुद्धौ किञ्चिज् जातायां तेन्-कलाः तावन्तं कालं स्वैर् अप्य् अनुसंहितं देशिक-पद्यं परित्यज्य वर-वर-मुनि-पद्यम् अनुसन्धातुम् आरभन्त । सात्त्विकतया कलहम् अन्-इच्छन्तो वड-कलाः तत्र मनाग् अपि प्रतिरोधम् अन्-आचरन्तः स्वयं पूर्ववद् एव देशिक-पद्यानुसन्धानं कुर्वन्त आसन् । एवं कस्मिंश्चित् काले याते क्रमेण प्ररूढ-विषम-बुद्धयः तेन्-कलाः वर-वर-मुनि-पद्य-पाठानुमति-मात्रेणातृप्ताः ‘मृदुर् हि परिभूयते’ इति न्यायेन वड-कलान् अभिभूय देशिक-पद्य-पाठ-निरोधाय समनह्यन् । इदं सात्त्विकानाम् अपि तेषाम् अ-सह्यम् आसीत् । तेन व्यवहारो महा-राज-समीपम् अगच्छत् । देशिक-पद्यानुसन्धानम् कर्तव्यम् इति तेन्-कलानां पक्षः । चिरानुवृत्तं तत् अ-विच्छिन्नं कर्तव्यम् इति इतरेषाम् । अत्र यथा-पूर्वं कर्तव्यम् इति महा-राजो निर्णयं ददौ । वर-वर-मुनि-पद्य-पाठस्य वड-कला-पुरुषैर् अन्-आक्षिप्तत्वात् तत्र व्यवहारो वा निर्णयो वा नासीत् । तस्मात् तस्यापि अनुसन्धानम् अन्ववर्ततेति उभय-पद्य-पाठः सम्प्रति यदु-गिरि-भगवन्-मन्दिरे दृश्यते इति ।
[[33]]
एवं अष्टादश-शतकारम्भे यदु-गिरौ स्वकीय-पात्र-पद्यस्य प्रवेशं स्थैर्यं च जातं ज्ञातवन्तः देशान्तर-वासिनः तेन्-कला अपि स्व-स्व-क्षेत्र-वर्ति-भगवद्-आलयेषु तत्-सम्पत्तौ तीव्रम् उद्यमं कर्तुम् आरभ्य अद्याप्य् अनुपरता महान्तं क्षोभं कुर्वन्तः देवालयान् सर्वान् प्रायो युद्ध-खलत्वेन पर्यणमयन् ।
एवं वस्तु-स्थितौ सत्यां यद् वैपरीत्येन सर्वम् अभिधाय आत्म-वञ्चनां लोक-वञ्चनां च कर्तुं अ-विश्रान्तं विना ऽऽलस्यं अतिसम्भ्रमेण बहु प्रलप्यते तद् एवालं निरूपकाणां
मिथ्या श्री-वैष्णवा अभी अलभ्यं परकीयं गौरवम् आत्मन इच्छन्तश् चेष्टन्ते
इति प्रत्ययम् अधातुम् । पति-व्रतानां, अभिजातानां, पण्डितानां च किल सर्वदा परिवादान् कुर्वन्तो विकत्थमानाश् च, कुलटा इति, दुर्जना इति, अ-पण्डिता इति च स्व-स्व-रूपं जगति प्रख्यापयन्ति । तथा प्रकृते ऽपि ।
नाथ-मुनेर् अन्-अन्तरं दिव्य-प्रबन्ध-वैभव-प्रतिष्ठापनेन तेषां भगवन्-मन्दिरेषु पारायण-व्यवस्थापनेन च श्री-देशिकस्य यावद् गौरवं तावद् गौरवं न हि अन्यस्य यस्य कस्याप्य् आचार्यस्य दृश्यते । वर-वर-मुनिः सात्त्विको भागवत इति तावता यं सत्-कारम् अर्हति तं तस्मिन् कर्तुं न को ऽपि श्री-वैष्णवो मन्दायेत । परन्तु दिव्य-प्रबन्ध-पारायणावसरे उदासीनं कञ्चित् तपस्विनं केवलं स्वकीयत्वाभिमानेन देशिक-प्रतिभटतया ऽवस्थाप्य तत्-पद्यं पठित्वा तावता ऽप्य् अ-तृप्तैः कृत-घ्नैः महोपकारिणो देशिकस्य तनियम्-पद्य-पाठेन चिरात् क्रियमाणस्य सत्-कारस्य प्रतिरोधो विधीयमानः धार्मिकाणां स-हृदयानां दुःसहो भवति ।
[[34]]
वर-वर-मुनिः क्वापि श्री-देशिकोक्ति-खण्डनं न करोति । प्रत्युत अभियुक्तत्वेन तम् अन्-एकत्र निर्दिशति । तत् प्रशिष्यस्य शिष्यश् च बभूव । स तेन तं प्रति वड-कलानां नास्ति स्वल्पम् अपि द्वेष-कारणम् । कृष्ण-पाद-पिळ्ळै लोकाचार्याद् युक्ति-तात्पर्यस्य शास्त्राविरोधेन देशिकेन दर्शितत्वात् खण्डनं कृतम् इति भ्रान्तैस् तामसैस् तेन्-कला-पुरुषैः देशिके प्रबलो द्वेषः क्रियते । अयम् एव कुटिल-प्रकृतिः उच्चावचं अ-सकृद् देशिकं निन्दितवान् । मध्ये मध्ये अनुशयाभिनय-प्रकटनं च करोति । तथापि देशिक-द्वेष एवास्य देहोपादान-कारणम् इति इह जन्मनि तस्यापनयो ऽशक्यः । अन्तर् बहिश् च आचार्य-शिखा-मणौ एवम् उत्कटं द्वेषं बिभ्राणो ऽप्य् अयं अर्थार्जनोपायतया देशिक-दिव्य-सूक्तीर् उपजीवन् कालं क्षिपति । तावता च कतिपये अनेन वितते जाले पतिता भवन्ति । ईदृशम् एतत् स्व-रूपम् अ-गत्या सर्व-जन-वेद्यतया प्रकाशयत्सु अभिज्ञेषु अन्यत् किम् अपि कर्तुम् अ-शक्नुवन् अयं ‘यूगम् एव देशिक-द्वेषिणः’ इति वक्तुं प्रवर्तते । यथा महा-गज-प्रतारको जम्बुकः कश्चित् कलभान् ब्रूयात् यूयं महा-गज-द्वेषिण इति तादृग् इदं भवति ।
‘श्रीमान् वेङ्कटनाथार्थः’ इति तनियन्-पद्यस्य इह प्रस्तावः केवलं मौर्ख्यात् सुप्रसिद्धः।
[[35]]
13 श्री-काञ्च्यां ताताचार्य-वंशः सुप्रसिद्धः श्रीमन्-नाथ-मुनिर् अस्य कूट-स्थः । श्री-यामुनाचार्य–श्री-शैल-पूर्ण-कुरुकेश्वरा अस्मिन्न् एव वंशे जाताः । सर्वैर् आचार्य-गुणैः सम्पन्नाः प्रायः सर्वेषाम् एव देशिक-सम्प्रदाय-स्थ–श्री-वैष्णवानां राज्ञां च बहूनां आचार्यकं कुर्वाणा बहवो महान्त इह व्यलसन् । श्री-काञ्ची-देवाधिराज-दिव्यालय-कार्य-निर्वाह-कैङ्कर्य-भरः सर्वः एतैर् एव ऊढ आसीत् । परन्तु देशे तत्र तत्र विप्रकीर्णैः शिष्यैः स्व-स्व-ग्रामं प्रत्यागम्य पञ्च-संस्कारोपदेशादि-करणेन वयम् अनुग्राह्या इति सानुरोधं स-निर्बन्धं प्रार्थिताः तत्र तत्र सञ्चरन्तः सन्तः भगवन्-मन्दिर-कार्य-निर्वाहम् आप्तैर् अन्यैः कारयन्ति स्म । विश्वास-दार्ढ्यात् प्रतिनिधिभिः क्रियमाणे तस्मिन् निर्वाहे स्वयम् अ-प्रविशन्तः प्रायः उदासीन-कल्पा अभवन् । तथा विधेषु प्रतिनिधिषु आत्तान् जीयर् नाम कश्चित् । तस्य तेन्-कलात्वे ऽपि आदौ उत्कट-वैषम्य-दृष्टेर् अभावात् ताताचार्य-वंश्याः तस्मिन् अपि पूर्णं विश्वासं न्यधुः । तथापि सः इतरैः सन्धुक्षितः क्रमेण भगवन्-मन्दिरे स्वकीयान् पुण्ड्रान् तत्र तत्र निवेशयितुं प्रबन्ध-पारायण-काले स्वकीय-तनियन्-पद्यं अनुसन्धातुं चारभत । अत्र अतीव विमनायितैः स्व-सम्प्रदाय-स्थैः निवेदित-वृत्तान्ता अपि ताताचार्याः दाक्षिण्य-भूम्ना उपेक्षाशीला एवासन् ।
तस्मिन् समये तुरुष्काभियोग-भयेन अरण्योपगूढम्, ‘उडयार् पालय’ नाम प्रदेशं नीत्वा गुप्तं रक्षितः श्री-देवाधिराजस्य स्व-दिव्य-महिषी-सहितस्य उत्सव-दिव्य-मङ्गल-विग्रहः ततः प्रत्यानेतव्य आसीत् । प्रत्यर्पणं प्रार्थितः तत्-प्रदेश-प्रभुर् यवनः न तत् सम्मन्यते स्म । सर्वस्मिन्न् अपि प्रयत्ने विफली-भूते ताताचार्या अन्ये च भक्ताः अत्यन्तं विषण्णा इति कर्तव्यता-मूढा आसन् । तदात्वे स आत्तान् जीयर्
श्री-शैलेश-दया-पात्र-पद्यानुसन्धानाधिकारो ऽस्मभ्यं प्रतिज्ञायताम् । यथा कथचिद् अहं भगवन्तं प्रत्यानेष्यामि
इति स-शपथं प्रतिशुश्राव । गत्य्-अन्तर-विरहात् ताताचार्याः तत्र सम्मतिं ददुः । इदं 1711 वत्सरे वृत्तम् । प्राग् एवोप्त-कलह-बीजाः तेन्-कलाः एवं दृढे ऽधिकारे लब्धे सुतरां पराक्रमितुम् आरभन्त । यदा यदु-गिरौ कलहो ऽभवत् स एवायं कालः । तत्र वृत्तम् एव निदर्शनं कृत्वा इमे क्रमेण चिरानुवृत्त-रामानुज-दया-पात्र-पद्यानुसन्धान-निरोधे बद्ध-कच्छाः समपद्यन्त । असुर-राक्षस-चर्या-चारिष्व् एतेषु, दाक्षिण्य-स्वभावतया अ-किञ्चित् कारिषु अन्ये वड-कलाः सुमहद् वैमनस्यम् आपेदिरे । तेषु कस्यचनायं श्लोकः कर्ण-परम्परया श्रूयते –
[[36]]
अन्नार्थी तातयाचार्यः अर्थार्थी च बृहद्-यतिः ।
आत्तान्-जीयर् च पद्यार्थी शेषाः सेवार्थिनो वयम् ॥
इति । देशिक-पद्यानुसन्धान-प्रतिरोध-व्यसनिनो ऽमी महताम् अन्-अल्पां हिंसाम् अप्य् अ-कुर्वन्न् इति निश्चितं ज्ञायते । अत्रापि विषये वृद्धानां मुखात् कश्चन् श्लोकः श्रुतः ।
अशनिर् अशनि-पल्ली-वंश-जे ब्रह्मघातिन्य्
अभिपततु सुतीक्ष्णस् तूर्णम् आचार्य-नाम्नि ।
य इह निगम-चूडा-देशि-केन्द्रस्य पद्यं
न्यरुणद् अनघ-हृद्यं हन्त निर्बंध्य साधून् ॥
इति । एवं किल साक्षात् कृत तदानीन्तन दुरवस्थः कश्चिन् महात्मा अशोचत् । एवं यदु-गिराव् इव काञ्च्याम् अपि अष्टादश-शतकारम्भ एव साधिकार-तेन्-कला-पात्र-पद्य-प्रवेशो भगवन्-मन्दिरे । ततः पूर्वं तु देशिक-पद्यानुसन्धानम् एव चिरानुवृत्तम् । अस्य प्रतिरोधश् च तत्र विषय-वेदिनो धार्मिकस्य महा-राजस्य स्थितत्वाद् अ-शक्य आसीत् । इह तु तादृशस्य कस्यचिद् विरहात् या काचन स्थितिर् वर्तते । कीदृशी इयं स्थितिर् इति तु पश्चात् कदाचिद् विस्तरं करिष्यामः । इह हि देशिक-पद्यानुसन्धानम् एव प्राचीनम् इत्य् एतन् निरूपणम् एवोद्दिष्टम् ।
14 इतः 376 वर्षेभ्यः पूर्वं सिंहासनम् आरूढस्य राज-वोडयार्-महा-राजस्य काल एव देशिक-पद्यं यदु-गिरौ अनुसन्धीयमानम् आसीद् इति वस्तु-तत्त्वस्य निरूपितत्वात् 200 वत्सरेभ्यः पूर्वं तत् निर्मितम् इति वादो मायाविनां अ-पुनर् उदयं अगाधे गर्ते निखातः भगवता रामेण विराध इव । अत इह आग्रहिणा अन्-ऋजुना उच्यमानं सर्वं प्रलाप-मात्रम् ।
[[37]]
यद् उच्यते नाथ-मुनेर् आरभ्य वर-वर-मुनि-पर्यन्तानाम् आचार्याणाम् एकम् एव तनियन्- पद्यम् इति तेन किं फलति ? किम् इह अनुमानात् देशिकस्य पद्यान्तराभावः साधयितुम् इष्यते ? उत तत्-सामान्यात् सम्भावनामात्रं क्रियते ? नाद्यः । श्री-शठ-कोप-सूरेर् आचार्यस्य सहस्र-गाथार्थे बहु-पद्य-दर्शनात् । न चैकस्यैव तत्र तनियन्त्वम्, इतरत् सामान्य-स्तुति-मात्रम् सार्वत्रिक-व्यवहार-विरोधात् । ‘तिरुविरुत्ता’र्थे च पुनः पद्यान्तर-दर्शनात् । न द्वितीयः । शठ-कोप-सूरेर् इव देशिकस्यापि वैभवातिशयेन अन्-एक-पद्यवत् त्व् अस्यात्यन्तम् औचित्याद् इत्य् अलं अनभिज्ञं प्रति शास्त्र-प्रक्रिया-प्रसञ्जनेन ।
15 श्री-देशिक-पद्य-प्राचीनत्वे अप्रकम्प्ये स्थिते वर-वर-मुनि-पद्य-काराः किम् इति पद्यान्तरच्छायां विहाय रामानुज-दया-पात्रम् इत्य् एतत् पद्य-च्छायाम् एवान्वसरन्न् इति विमर्शो ऽत्र कर्तव्यः, नान्यः, तस्मिंश् च कृते यद् अत्र जड-मतिना परान् प्रत्युच्यते तत् सर्वं स्व-शिरस्येव पतितं ज्ञास्यते । कलह-काराः परेषां शिरसि प्रहरन्त इव उच्चैः शब्दायेरन्, न तूपांशु मुणमुणायेरन् ।
16 आडम्बर-सारः अज्ञ-सार्वभौमः केवलं पामर-व्यामोहनाय उक्तम् उक्तं पुनर् वदति । प्रतिज्ञातं प्रतिज्ञातं पुनः प्रतिजानीते । अ-सङ्गतम् एव बहु प्रस्तौति । अर्थ-शून्या एव वाचो विमुञ्चति । “श्रीमान् वेङ्कट-नाथार्य” इत्य् अस्मिन् पद्ये विद्यमाने किम् इति रामानुज-दया-पात्र-पद्यम् अकुर्वन् इति विमर्शस्य को नाम सम्प्रति प्रसङ्गः ? श्रीमान् वेङ्कट-पद्यम् अनुसन्धाय यदि वड-कला भगवन्-मन्दिरेषु दिव्य-प्रबन्ध-पारायणं कुर्युः किम् अयं एतदीयाश् च तत्र प्रतिरोधं नाचरिष्यन्ति ?
[[38]]
अत्र तत्त्वम् इदम् । यथा यथा शक्यं तथा तथा देशिक-पात्र-पद्यस्य कुत्सनं कर्तव्यम् इत्य् अस्यासुर-प्रकृतेर् नैसर्गिकं दुर्निवारं कौतूहलम् । तद्-अर्थं श्रीमान्-वेङ्कट-पद्य-प्रशंसाम् अपि कर्तुम् उत्सहते । यदि श्रीमान्-वेङ्कट-पद्यम् एकम् एव भगवतो निगमान्त-महा-देशिकस्य तनियन् अभविष्यत् यदि च तिं तद् एव दिव्य-प्रबन्ध-पारायणोपक्रमे अनुसन्धीयमानम् अभविष्यत् तदा ऽपि इदम् एव पद्यं रामानुज-दया-पात्र-पद्य-दशाम् एव एषां हस्ते प्राप्स्यत् ।
17
समाश्रयण-परम्परायां ग्रन्थ-काल-क्षेप-परम्परायां च तनियन्-पद्यानुसन्धान-प्रकरणेषु अमी रामानुज-दया-पात्र-पद्यं मनसा ऽपि न स्मरन्ति
इति लिखति । समाश्रयण-गुरु-परम्परायां देशिकस्यानन्तर्भावे सति श्रीमान् वेङ्कट-पद्यम् अपि नानुसन्धीयते । प्रसङ्गाभावात् । किं तेन । भगवद्-विषय-काल-क्षेपावसरे रामानुज-दया-पात्रम् इत्य् आरभ्य तनियन्-अनुसन्धानम् अस्त्य् एव । नेति मति-विभ्रम एव ।
प्रामाणिकाः शिष्टाश् च सर्वे ऽपि वड-कलाख्याः सर्वत्र श्रीमान् वेङ्कट-नाथ-पद्यम् एव ह्य् आद्रियन्ते
इति लिख्यते । भगवन्-मन्दिरे वा गृहे वा दिव्य-प्रबन्ध-पारायणोपक्रमे कः शिष्टः प्रामाणिकः श्रीमान् वेङ्कट-पद्यं पठतीति निर्देशस् तावत् कर्तव्यः । अन्-ऋत-वादस्य किम् अवधिर् एव नास्ति ?
श्री-शैलेश-दया-पात्र-पद्यं प्रतिद्वन्द्वि-भावेनैव रामानुज-दया-पात्रं निर्मितम् इति वस्तु-तत्त्वस्याभ्युपगम एव शरणम् अनपायम्
इति यद् उक्तं तत् ‘श्री-शैलेश’–‘रामानुज’ इत्य् अनयोर् अन्योन्य-स्थान-विनिमयं कृत्वा पठितव्यम् । कोटि-कृत्वो ऽपि आम्रेडितं अन्-ऋतं अन्-ऋतम् एव । न कदाचिद् अपि सत्यं भवेत् ।
18
वृत्ति-ग्रन्थे तु जैमिन्य्-उपरचिततया षोडशाध्याय्य्-उपात्ता
सङ्कर्षः काश-कृत्स्न-प्रभव इति कथं तत्त्व-रत्नाकरोक्तिः ।
अत्र ब्रमः सद्-उक्तौ न वयम् इह सुधा बाधितुं किञ्चिद् अर्हाः
निर्वाहस् तूपचारात् क्वचिद् इह [इति] घटते ह्य् एक-तात्पर्य-योगः ॥
[[39]]
इति अधिकरण-सारावल्यां देशिकः प्राचीनोक्तिषु विरोध-प्रतिभाने सति कथं निर्वाहः कार्य इत्य् अत्र अनुसर्तव्यां दिशं दर्शयति ।
ब्रह्म-तन्त्र-चतुराय योगिने
वेद-मौलि-युगलं ह्य् उपादिशत्
इति महाचार्य-श्री-सूक्तिः कुरुकेश्वर-कृत-षट्-सहस्त्री-पर्यन्त-भगवद्-विषय-ग्रन्थ-विषया । श्री-देशिक-सन्निधाव् अन्-अधीत्य तत्-पुत्र-सन्निधौ अध्ययनोक्तिः निगम-परिमल-विषयेति को विरोधः ? गुरु-परम्परा-ग्रन्थ एव एवं विषय-विभाग उक्तः ।
19 ‘पुनर् अपि सुष्ठु विशदयाम एतत्’ इति प्रतिज्ञाय तृतीय-ब्रह्म-तन्त्र-स्वामि-लिखिततया किञ्चिद् अमिधाय अन्ते
तद् इदं लज्जा-भय-लेशम् अन्तरा कल्पितम् ऐतिह्यम् इत्य् अत्र कस्यापि विवेकिनो हृदयं नैव विसंवदेत ।
इति लिख्यते । हन्त ! कियद् रमणीयं, कियन् निपुर्ण, कियत् समञ्जसं विशदी-करणम् !
ऐतिह्य-वर्णने वयम् एव अधिकारिणः, वयम् एव तत्र लब्ध-पताकाः । तस्माद् अस्माभिर् एव निर्लज्जेर् निर्भयैश् च भूयते । इतरैः प्रामाणिकैः कथं तथा भवितुं शक्यम् इति विस्मयत इव । अ-सत्यत्व-सत्यत्व-प्रत्ययाभ्याम् अत्र महान् विशेष इति तु घोषणम् अद्य कर्तव्यं मन्यामहे । ‘वितथैतिह्य-सहस्र-वर्णनेन’ इति हि पताका दत्ता । अन्येषां तु अ-सत्यत्व-प्रत्यये सति नैव तन्-निबन्धने प्रवृत्तिः स्याद् इति लज्जाया वा भयस्य वा नास्त्य् अवकाशः ।
रामानुज-दया-पात्र-पद्यस्य आलयेषु अनुसन्धान-प्रतिबन्धो यद्य् अस्ति तेन तस्य ब्रह्म-तन्त्र-स्वामि-कृतत्वे का क्षतिः । यस्माद् इदानीं श्रीमद्-रामायणम् अनुस्मृति-कोशौ दहन्ति तेन किं तयोर् वाल्मीकिम् अनुकृतत्वं नास्तीति स्वस्थ-बुद्धिना केनापि साधयितुं प्रयत्येत ।
[[40]]
आळ्वारादीनां दूषणं कृतम् उच्यते । शठ-कोप-सूरिः भक्तो वा प्रपन्नो वा इति विमर्शम् उपक्षिप्य अपशूद्राधिकरण-न्याय-सञ्चार-पूर्वकं उपनिषद्-विहितायां भक्तौ तस्यानधिकारात् प्रपन्न एव सः इति सिद्धान्तः षट्-त्रिंशत्-सहस्री-ग्रन्थे कृतः सर्व-लोक-विदितः । किम् इदं नम्माळ्वार्-सूरेः दूषणं उत भूषणम् ? इतो ऽधिकं दूषणं परैः किं कर्तुं शक्यम् ? ‘जन्म-वृत्तादिभिर् विहीनः’ इति मुनि-वाहन-सूरि-विषये व्याख्यात्रा उक्त चावधेयम् ।
20 पुनर् इन्द्र-जालान्तरम् इह प्रतन्यते । द्राविड-ग्रन्थ-सम्बन्धि–ताल-पत्र–कोशेषु उपक्रमे पात्र-पद्यं क्वापि न दृश्यते । अत इदं न प्राचीनम् इति । क्वापि न दृश्यत इत्य् एतत् प्राच्य-त्वद्-ऊषणान् उपयुक्तम् । इदं पद्यं महा-पर-काल-स्वामिना कृतम् इति ह्य् उच्यते । तस्य आस्थान-कालः 1676 वत्सरात् प्रभृति 1787 पर्यन्तः । अत इदं पद्यं अद्य अवरतः सप्त-दशाधिक-शत-द्वय-वर्षैः प्राचीनम् । तत्र नास्ति संशयः । तस्मात् कालात् प्रभृति वड-कलानां अस्मिन् पद्ये अभिनिवेशो ऽस्तीति चाभिधीयते । अद्य विद्यमानाः प्रायः सर्वे ताल-पत्र-कोशाः अस्मिन्न् एव काले लिखिताः । एतेन प्रचारे स्थितम् एव पद्यं कोशेषु न लिखितम् आसीद् इति निस्सन्दिग्धं प्रतीयते । एवं सति कोशेषु तस्यादर्शनं कस्मै निर्णयाय उपयुज्यते ? अध्ययन-काले ऽनुसन्धेयस्यापि कोशेषु लेखन-निर्बन्धो नासीत्, यथा श्री-भाष्यादि-कोशेषु शान्ति-पाठादीनाम्, इत्य् एतद् एव हि ततः सिद्ध्यति । तस्मात् कोशेष्व् अ-दर्शनम् आलम्ब्य विजृम्भणं अ-ज्ञत्व-विलसितस्य अपरः कश्चित् प्रकार इति ज्ञेयम् ।
[[41]]
अपि च स्वकीयं अपर-मति-गाढम् अज्ञानम् इह पूर्व-पक्षी प्रकाशयति । न हि रहस्य-ग्रन्था द्राविड-ग्रन्थाः । मणि-प्रवाल-रूपतया द्राविड-पद-सत्त्वे ऽपि स्मृति-वचनानाम् इव दिव्य-प्रबन्ध-गाथानाम् उदाहरणे ऽपि च श्री-भाष्याद्य्-उक्त-तत्त्वार्थ-विशदी-करणार्थत्वेन श्रीमद्-अष्टाक्षरादि-विवरण-परत्वेन च संस्कृत-प्रधानत्वात् । मुनि-वाहन-भोगस् तु एको ऽत्रापवादः । सो ऽपि तादृशानां भूयिष्ठानां मध्ये घटकत्वात् तथैव भाव्यते । मूल-भूत-गाथा-दशकस्य श्रीमद्-अष्टाक्षर-रूपतयैव तत्राध्यवसितत्वाच् च । अत एव तद्-विवरणस्य मुनि-वाहन-भोगस्य रहस्य-ग्रन्थत्वम् । न हि दिव्य-प्रबन्ध-व्याख्यानानां सर्वेषां रहस्य-ग्रन्थत्वम् इष्यते । तद् एषु द्राविड-ग्रन्थत्वं कृत्वा तत्-सम्बन्धि-कोशेषु पात्र-पद्यादर्शनेन न्यूनताभिधानं उपनिषद्-भाष्योपक्रमे भक्तामृत-श्लोकादर्शन-कृत-न्यूनताभिधानम् उपनिषद् इति वेदितव्यम् ।
वस्तुतस् तु बहुषु ताल-पत्र-कोशेषु श्रीमान् वेङ्कट-पद्येन सह च विना च पात्र-पद्यं लिखितं दृश्यत एव । तिरुपति-क्षेत्र-स्थ–श्री-वेङ्कटेश्वर–प्राच्य-विद्या-विमर्श-शाला-सम्बन्धिनि पुस्तकालये स्थिताः कोशा अवेक्षणीयाः । तत्र 815 सङ्ख्यावति कोशे 124 पत्ते प्रधान-शतकारम्भे
श्रीमान् वेङ्कट … सदा हृदि, रामानुज-दया-पात्रं… वन्दे वेदान्त-देशिकम्
इत्य् उभयं दृश्यते । 132 पत्रे
रामानुज-दया-पात्रं… वन्दे वेदान्त-देशिकम्
इत्य् एतद् एकम् एव । 3047 सङ्ख्यावति कोशे 18 पत्रे तत्त्व-सन्देशोपक्रमे 21 पत्रे रहस्य-सन्देशोपक्रमे च
श्रीमान् वेङ्कट … हृदि, रामानुज-दया-पात्रं…. देशिकम्, शीरोन्रुतूप्पुल् … वाऴ्वु
इति त्रयम् अपि लिखितम् । परं त्व् इमे रहस्य-ग्रन्थ-कोशाः । प्रकृतोपयोगितया द्रष्टव्यास् तु दिव्य-प्रबन्ध-कोशा एव । 1408, 2531, इति सङ्ख्यातयोः श्री-वेङ्कटेश्वर-विमर्श-शाला-सम्बन्धि-पुस्तकालय-स्थयोः ‘मुदलायिर’ (प्रथम-सहस्र)-कोशयोः रामानुज-दया-पात्र-पद्यं अन्यानि च ‘लक्ष्मी-नाथ-समारम्भाम्’ इत्य् आदीनि पद्यानि दृश्यन्ते । 3672 सङ्ख्यावति कोशे केशवार्य-कृपा-पात्रम्, रामानुज-दया-पात्रम् उभयम् अप्य् अस्ति ।
[[42]]
अपरो विशेषो ऽत्रास्ति । ‘मुदलायिर’ (प्रथम-सहस्र)-कोश एव अन्यः कश्चिद् अस्ति । तत्र आन्ध्री-लिपिः । तस्य सङ्ख्या 653 अत्र उपक्रमः –
श्रीमते रामनुजाय नमः । गुरुमुखम् अन्-धीत्य’
इति । उपसंहारश् च –
मधुर-कवि-चरणाव् एव शरणम् । अस्मद्-गुरुभ्यो नमः । श्रीमद्-रघु-नाथ-गुरवे नमः । वादि-भी-कर-गुरवे नमः । तोताद्रि-रामानुज-गुरवे नमः ।
इति । अस्य लेखकः लेखने कृत-हस्तः । पार्श्व-द्वये शङ्ख-चक्राभ्यां सह तत्-तद्-दिव्य-सूरि-रूपम् अपि तत्र तत्र पत्र-मध्ये लिखति । अयं तेन्-कला-गृहाद् आहृतः कोश इत्य् अत्र नास्ति संशयस्यावकाशः । तादृशे ऽस्मिन् श्री-शैलेश-पात्र-पद्यं वा लक्ष्मी-नाथ-समारम्भाम् इत्य्-आदिकं वा किम् अपि न दृश्यते । अन्ते बहूनां नमस्कारे क्रियमाणे वर-वर-मुनेः स नास्ति । अपरः कोशः ‘तिरुवाय्-मॊऴि-व्याख्यानम्’ इत्य् आख्यातो वर्तते । तत्रापि ‘श्रीमते रामानुजाय नमः’ इत्य् एतावन्-मात्रम् आदौ दृश्यते ततः साक्षाद् व्याख्यानारम्भ एव । तस्मात् ताल-पत्र-कोशेषु तनियन्-पद्य-लेखन-निर्बन्धः तेन्-कला-सम्प्रदाये ऽपि नास्तीति प्रतीतेः अन्-अभिज्ञेन अस्थान एव सम्भ्रमः पदर्श्यत इति ज्ञेयम् ।
वेदान्त-देशिक-वैभव-प्रकाशिकाया मणि-प्रवालमयो भागः ताल-पत्र-लिखितः मद्र-राजकीय-प्राच्य-लिखित-पुस्तकालये वर्तते । तस्य सङ्ख्या R. No 104. H. 38–14 इत्य् एवं रूपा । तत्र रामानुज-दया-पात्र-पद्यं न दृश्यते
इति विलिख्याट्ट-हासः क्रियते । तस्मिन् ताल-पत्र-कोशे तनियन्-श्लोक-भागस्य यद् रूपं तत् परिपूर्णतया तथैव कुतो नोच्यते ? पात्र-पद्ये न दृश्यत इत्य् एतावन्-मात्रं कथम् उच्यते ? शुद्धा वञ्चना ह्य् एषा । वैभव-प्रकाशिका-ग्रन्थः अचिरातीत-प्रमाथि-संवत्सराद् अपि प्राक्तने प्रमाथि-संवत्सरे (1879 ) मुद्रितः ।
[[43]]
स इतः पञ्च-सप्त-त्रि-वत्सरेभ्यः पूर्वं प्रकाशितः । स प्राचीनानेक-मातृका-परामर्शेन सम्पादित इति सम्पादका वदन्ति । तत्र 130 पुढे कुमार-वरदाचार्य-कृतयोः श्रीमान् वेङ्कट, कवि-तार्किक-सिंहाय, इत्य् एनयोर् मध्ये ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामि-कृतं ‘रामानुज-दया-पात्रम्’ इत्य् एतत् पिल्लै-लोकाचार्य-कृतं ‘शीरोन्रूतूय्पुल्’ इत्य् एतच् च पद्यं दृश्यते । निर्दिष्ट-पूर्वे मद्र-राजकीय-पुस्तकालय-स्थे ताल-पत्र-कोशे कुमार-वरदाचार्यीय-पद्य-द्वय-मध्ये न केवलं ‘रामानुज-दया-पात्रम्’ इत्य् एतद् एव अपि तु ‘शीरोन्रुतूप्पुल्’ इत्य् एतद् अपि न दृश्यते । न चैतयोर् अ-दर्शन-मात्रम् एव किन्तु मुद्रित-वैभव-प्रकाशिका-पुस्तके 74 पुढे पराजित-डिण्डिम-कवि-कृतत्वेन पठितः ‘घोटी-धाटी-कठोर’ इत्य्-आदिः श्लोकः तयोः स्थाने लिखितो दृश्यते । न चास्य श्लोकस्यात्र स्तोका ऽपि सङ्गतिर् अस्ति । तेन तत्र पद्यान्तर-स्थितिः स्फुटम् एवावगम्यते । अस्य लिखित-कोशस्य या मातृका तत्र परमार्थ-पद्ययोः कीट-खादनेनान्यथा वा लोपे जाते तत्-स्थान-पूरणाय महान् श्लोको ऽयं लेखकेन लिखितो भवेत् । पूर्व-पक्षि–स-जातीयेन वा केनचित् बुद्धि-पूर्वम् एव एकं तत् पत्रम् अपनीय विपर्यस्य प्रतिनिहितं भवेत्, तस्य कोशस्य पुस्तकालय-प्राप्तेः पूर्वं वा पश्चाद् एव वा कथम् अपि । किं हि न क्रियेत साहसिकैः । यथा-दृष्टं सर्वम् अन्-उक्त्वा निजाभिमत-दुस्सिद्धान्तानुकूल-मात्रं विदुषाम् अपि मोहावहम् उच्चैः पदे पदे घोषयतां किं नाम साहसं लोके अ-करणीयम् अस्ति ।
21 अत्रापि स्वयं बलवद्व्यामुग्धः परान् अपि व्यामोहयितुम् उद्युङ्क्ते । मुद्रण-यन्त्र-प्रादुर्भावात् प्राक् नैव जज्ञे देशिक-पात्र-पद्यम् इति अत्र प्रतिज्ञायते । महा-पर-काल-स्वामिना कृतम् इति पूर्वं प्रतिज्ञायते । तस्य च स्वामिनः कालस्य ज्ञातत्वात् पद्यस्यापि तद्-रीत्या स एव कालः । पुनर् अनेन प्रतिज्ञान्तरेण किं कृतं भवति । मुद्रण-यन्त्र-प्रादुर्भावः किं स्वामिनः प्राचीनः उत सम-कालिकः उत अर्वाचीनः । आद्ये तत्-प्रादुर्भावानन्तरत्वे ऽपि स्वाम्य्-अवतारात् प्राग् एव अन्येन केनापि तत्-करण-सम्भवात् स्वामि-कृतत्व-प्रतिज्ञा-हानिः । द्वितीये प्रतिज्ञान्तर-वैयर्थ्यम् । अन्त्ये पुनः स्वामि-कृतत्व-प्रतिज्ञा-हानिः । एवं ताल-पत्र-मुद्रा–यन्त्रालयादि-प्रस्तावः सर्वः बुद्धि-प्रसादात्यन्ताभाव-कृतः मृदु-धियां व्यामोह-मात्र-फलकः प्रस्तोतुर् वाचाम्-अ-गोचर-बालिश्य-व्यञ्जकः विदुषां नितान्तम् उद्वेजकः ।
[[44]]
अत्रापि किञ्चित् स्व-पक्ष-प्रतिकूलम् एव लिखन् आत्मनि अत्यन्तं शोचनीये परान् प्रति शोकम् आविष्करोति । तूप्पुल्-वेङ्कटाचार्येण मुद्रिते पञ्च-व्याख्यान-सहिते श्रीमद्-रहस्य-त्रय-सार-कोशे आरम्भे पात्र-पद्यं न दृश्यत इत्य् उक्त्वा, सद्यः ‘श्रीमान् वेङ्कट-पद्यं वा किं दृश्यत’ इति स्वयम् उत्तिष्ठतः प्रश्नस्य समाधानं ब्रुवन्न् इव ‘श्रीमान् वेङ्कट-नाथार्य-पद्यम् एव विलसति’ इत्य् अभिधाय तत्र स्वकीयां छल-वृत्तितां छादयन्
तच् च पद्यं मुद्रण-कारैर् न मुद्रितम् । अपि तु सारास्वादिनी-नामक-प्रधान-व्याख्या-प्रणेत्रा महात्मना स्व-हस्तेन लिखितं तत् पद्यम् इति स्पष्टं प्रतीयते ।
इत्य् अनुबध्नाति ।
व्याख्याता स्व-व्याख्यानारम्भे श्रीमान् वेङ्कटनाथार्य-पद्यम् अनुसन्धत्ते । न तु मूलारम्भे तत्-पाठो दृश्यते
इत्य् एवोक्तं भवति । एवम् एव तिरुच्चेरै-क्षेत्र-मुद्रणे ऽपि काञ्ची-मुद्रणे ऽपि च श्रीमान् वेङ्कट-पद्यम् अपि मूलारम्भे न दृश्यते, न परं पात्र-पद्यम् एव । एवं च प्रामाणिकैः कृतेषु एषु मुद्रणेषु श्रीमान् वेङ्कट-पद्यस्यादर्शनात् इदं पद्यं तस्मात् कालाद् अन्-अनन्तरम् एवोत्पन्नं न ततः पूर्वम् आसीद् इति वा प्रतिज्ञायताम् । श्री-भाष्य-कार-तनियन्-पद्यस्य श्री-भाष्यादिष्व् इव ग्रन्थेषु तनियन्-पद्यस्य लेखने वा मुद्रणे वा नास्ति निर्बन्ध इति ग्रन्थ-मुखे ऽदर्शन-मात्रेण पात्र-पद्यस्य प्राचीनत्वं न विहन्यत इति तद्-अर्वाचीनत्व-प्रतिज्ञाभङ्गो वा ऽभ्युपगम्यताम् । न तृतीया गतिर् अस्ति ।
[[45]]
22 वस्तुतो रहस्य-ग्रन्थेषु पात्र-पद्यानुसन्धानस्य नास्त्य् अवसर इत्य् उक्तं पूर्वम् । तेन तस्य कोशेष्व् अ-मुद्रणं न वाच्यत्वाय कल्पते । रहस्य-ग्रन्थाध्ययनावसरे अनुसन्धीयमान-श्रीमान् वेङ्कट-पद्य-मुद्रणे ऽपि नास्ति निर्बन्ध इत्य् उक्तम् । यदि केचित् सम्पादकास् तन्-मुद्रयन्ति तत् तेषां श्री-देशिके भक्ति-प्रकर्ष-वशात् । अत एव हि केचित् तत्-पद्य-मात्रेणातुष्यन्तः पात्र-पद्यं इति प्रति ‘शीरोन्रुतूप्पुल्’ इति द्राविड-पद्यं च मुद्रयन्ति । यथा इतः चतुः-पञ्चाशद्-वत्सरेभ्यः पूर्वं (शार्वरी-वत्सरे) मद्र-रिप्पन्-मुद्रणालये मुद्रिते सप्त-दश-रहस्य-कोशे इदं तनियन्-त्रयम् अप्य् आदौ दृश्यते ।
23 मुद्रा-यन्त्राण्य् अपि शकटासुर-न्यायेन आविश्य रामानुज-दया-पात्र-पद्यस्य क्वापि मुद्रणं यथा न भवेत् तथा प्रबलारभटीकरणौपयिकीं माया-शक्तिं सम्पादयितुं तपश्चर्या कुतो न चर्यते ?
मुद्रा-यन्त्रं तावत् न किम् अपि पद्यं वाक्यं पदम् अक्षरं वा निरोद्धुं प्रभवति
इतीदं सत्यं वयम् अतिमात्रं शोचामः । अन्यथा हि ईदृश-बालिश-भाषित-श्रवण-दौर्भाग्यं विदुषां कर्णयोः कदापि परिणतं न भवेत् ।
जय-पराजयौ घुष्येते । श्री-राघवावतारात् पूर्वं दण्डकारण्य-वासिनाम् ऋषीणां तन्-मांसानि भक्षितवतां अन्येषां च यौ जय-पराजयौ तादृशाव् इमाव् इति शास्त्राणि येषां प्रमाणं तैर् ज्ञायत एव ।
अनुपदं वर्धमानेन कलिना ध्वस्त-प्रायेषु वैदिकेषु सर्वेषु धर्मेषु, घोरेषु दुराचारेषु च सर्वत्र भूयिष्ठं लब्ध-प्रचारेषु,
कलौ पञ्च-सहस्रान्ते विष्णुस् त्यक्ष्यति मेदिनीम्
इत्य् उक्त-रीत्या त्यक्तवति च भगवति जगतीम् इमां जय एवाधर्म-लक्षणं पराजय एव धर्म-लक्षणम् इति न न विदन्ति विद्वांसः । किम् अनेन सर्वेण । पात्र-पद्यस्यार्वाचीनत्व-साधनोपयुक्तं हि किम् अपि वाच्यम् ।
24-25 अत्यन्तम् अ-सङ्गतम् एव बह्व् अत्र लिख्यते ।
[[46]]
देशिकानां प्रभावातिशयान् तेन्-कलाख्या एव ग्रन्थ-मुखतो ऽपि प्राकाशयन् । वड-कलाख्यास् तु देशिक-सम्बन्धं मध्य-काल एव स्वात्मन्य् अध्यारोपितवन्त इत्य् अस्यार्थस्य साक्षिणस् सन्ति विविधाः । तेषु चान्यतमं साक्षिणम् इह निरूपयामः ।
इति प्रतिज्ञाय
“चण्ड-मारुतं-दोड्डयाचार्यस् तावत् तेन्-कलाचार्य एव ।”
“स तु देशिक-भक्त एव ।”
वेदान्त-देशिक-वैभव-प्रकाशिका न तत्-प्रणीता। अपशब्द-भूयिष्ठत्वात् ।
अस्मत्-कूट-स्थः प्रतिवादि-भयङ्कराचार्यः सप्तति-रत्न-मालिकाकार इति वदन्ति । तन् न । तस्या अपि अपशब्दवत्त्वात् ।
इति स-संरम्भं निरूपयति । देशिक-वैभवं तेन्-कलाचार्या एव ग्रन्थ-मुखेन प्राकाशयन् इति प्रतिज्ञा ऽत्र प्रथमं कृता । तस्याः स्थापनाय
देशिक-वैभव-प्रकाशकतया ऽद्य प्रसिद्धौ द्वौ ग्रन्थौ – चण्ड-मारुत-दोडुयाचार्य-कृता वैभव-प्रकाशिका च प्रतिवादि-भयङ्कराचार्य-कृता सप्तति-रत्न-मालिका च । इमाव् उभाव् अपि कर्तारौ तेन्-कलाचार्यौ
इत्य् उपपादनं कर्तव्यम् । इदं तु वस्तुतो देशिक-स्तुति-पर्यवसायित्वान् नेष्टम् । अतः अपशब्द-प्राचुर्यात् इमौ ग्रन्थौ ताभ्याम् आचार्याभ्यां न कृतौ इति आन्तरस्य, आजन्म-सिद्धस्य, अप्रति-विधेयस्य, अ-परिच्छेद्यस्य, अनुक्षणम् अभिवर्धमानतया तदा तदा परिवहतः आचार्य-द्वेषस्यानुरूपं भाषते । परं तु इदम् एवं भाष्यमाणं तेन्-कलाचार्यः को ऽपि देशिक-वैभवं ग्रन्थतो न प्राकाशयत् इति विपरीत-साधकम् एव भवतीति कु-मतिर् अयं ज्ञातुं न क्षमः । एवं तावत् द्व्यंशायां प्रतिज्ञायां एको ऽंशः सुष्ठु स्थापितः । अथ वड-कलाख्या-मध्ये देशिक-सम्बन्धं प्राप्ता इत्य् अस्यांशस्य कथं सिद्धिः । तम् अशं प्रति किम् उक्तम् ? को मध्य-पदार्थः ? कदा आरम्भः कथं तद् ज्ञायते ? शिशुर् अपि कश्चिद् अन्यः किम् एवम् अर्थ-शून्यं भाषेत ?
[[47]]
शत-दूषण्यां शठ-कोप-सूरि-दूषणं देशिकेन कृतम् इति अयम् एव पूर्व-पक्षी बहु-कृत्वो दूषितवान् । अस्याः शत-दूषण्याः अतिभक्ति-भरितो दोड्डयाचार्यः
तुरग-वदन-तेजो-बृंहिताश्चर्य-शक्तिः
कवि-कथक-मृगेन्द्रः सर्व-तन्त्र–स्व-तन्त्रः । जयति गुरुर् अ-बाधां वेद-चूडार्य-संज्ञाम्
अन्-इतर-जन-लभ्यां लम्भितो रङ्ग-भर्त्रा ॥
इति देशिकोत्तमं स्तुवन् चण्ड-मारुत-नाम्नीं प्रौढ-विस्तृतां व्याख्यां विधाय चण्ड-मारुत-दोड्डुयाचार्य इति प्रसिद्धो बभूव । एवं सति देशिक-भक्त्या दोड्डयाचार्यः वड-कला-सम्प्रदाय-प्रविष्टो बभूवेति किं वाच्यम्, वैपरीत्येन देशिकः तेन्-कला-सम्प्रदाय-स्थ इति । स हि अप्पय्य-दीक्षितेन सह वादे प्रसक्ते बहु-दिनानन्तरं अतिविषण्णः स्वाराध्य-भगवत्-सन्निधौ प्रपत्तिं कृत्वा शयितः स्वप्ने प्रादुर्भूतेन भगवता सानुकम्पं ‘वेदान्ताचार्य-कृतां शत-दूषणीम् अधीष्व, जेष्यसि’ इत्य् अनुगृहीतः सम्प्रदायान्तराभिमानेन तद्-अवधि-देशिकं प्रति स्थितम् औदासीन्यं परित्यज्य सानुशयः तं प्रत्यत्यन्तं प्रवणः सन् शत-दूषणीं सेवित्वा वादिनं विजित्य तदा प्रभृति तद्-भक्ताग्रगण्यो ऽभूत् । सिद्धान्त-परिपालनं प्रति किम् अप्य् अ-कृत्वा केवल-सङ्केत-मात्रेण आचार्यतया परिगृहीतान् श्री-भाष्यादि-परिश्रम-विरहेण अन्-उचितातिवाद-प्रवणतया चासाम्प्रदायिकार्थ-वादिनश् चान्यान् प्रति
अ-परिचित-सम्प्रदायैर्
अविदित-यति-राज-सूक्ति-तात्पर्यैः ।
अ-शमित–कु-दृष्टि-गर्वैर्
अलम् अलम् अन्यैर् अनागमान्तार्यैः ॥
[[48]]
इत्य् अभ्यधिकाम् अवज्ञां प्रकाशयन् वैभव-प्रकाशिकां च निर्ममे । तस्मात् भारद्वाज-श्रीनिवासाचार्यवत् साङ्केतिकान् सम्प्रदायान्तराचारान् सर्वान् दूरतः परित्यज्य दोड्डयाचार्यः देशिक-ग्रन्थ-शिक्षितान् एवावलम्ब्य परिपूर्ण-वड-कलाचार्यों बभूवेति वस्तु-स्थितिः । आधुनिकाः पुनर् अपि तेन्-कला बभूवुर् इति चेत् तेषां तद् दौर्भाग्यम् । तत्र वक्तव्यानि अ-वक्तव्यानि च बहूनि कारणानि स्युः । इदानीन्तन-तेन्-कला-जन-पूर्व-पुरुष-पूज्यत्वेन देशिकस्य तेन्-कलात्व-साधनं लङ्का-राक्षस-सन्तति-भवैः स्व-पूर्व-पुरुष-विभीषण-पूज्यत्वेन रामस्य राक्षसत्व-साधन-कल्पम् इति ज्ञेयम् ।
प्रतिवादि-भयङ्कराचार्यश् च कुमार-वरदाचार्य-कटाक्षाधीन-सर्व-वैभव इति तस्य वड-कलाचार्यत्वम् अ-प्रकम्प्यम् । तस्य च वर-वर-मुनेश् च न को ऽपि सम्बन्ध इत्य् अन्यैः सुनिरूपितम् एव । इदानीन्तनास् तद्-वंश-जाः तेन्-कला इति चेत् पूर्ववद् एव बहुभिः कारणैर् जातो ऽयं विपर्यास इति वाच्यम् । तद्-वंश-जा एते नैव भवन्ति । स-गोत्रत्व-मात्रेण आरोपित-तद्-वंश-सम्बन्धा इति वा ।
यत् तु अपशब्दा इति कांश्चित् प्रदर्श्य ग्रन्थस्य प्रसिद्ध-कर्तृ-कृतत्व-बाधने यत्नः क्रियते स स्व-सम्प्रतिपन्ने ऽपि सर्वत्र सुकरः ।
अपशब्द-शतं माघे भारवौ तु शत-त्रयम् । कालिदासे नगण्यन्ते
इति चाहुः । पिल्लै-लोकाचार्य-रहस्य-ग्रन्थेषु अपशब्दान् अन्वयादि-दोषा अ-परिमिता अन्यैर् दर्शिता एव । कूर-नाथ-पञ्च-स्तव्यां अ-पाणिनीयानि रूपाणि कति न सन्ति ? श्री-कृष्ण-पादाचार्य-द्वय-कृतयोः चतुर्-विंशति-सहस्री–षट्-त्रिंशत्-सहस्री–ग्रन्थयोः प्रायेण पद-पदार्थ-वाक्य-वाक्यार्थ-दोषाः प्रमाण-ग्रन्थ-विरोधाश् च दर्शयितुं शक्यन्ते । तस्माद् अयं मार्गः अत्यन्तं सापाय इति गृह्यताम् ।
[[49]]
न च निर्दिष्टाः प्रयोगाः सर्वथा अ-साधव एवं । सहस्रम् इति सङ्ख्या-परं, न तु सङ्ख्येय-परम् । सहस्रं सहस्र-सङ्ख्या एषां पद्यानाम् अस्तीत्य् अर्थे अर्श-आद्य्-अच्-प्रत्यये सहस्राणि सहस्र-सङ्ख्याकानि पद्यानीति युज्यत एव बहु-वचनम् । एवं क्लिष्टो ऽप्य् अयं प्रयोगो न सर्वथा प्रयोजन-शून्यः । यद्य् अप्य् एकम् एव सहस्रं श्लोकानाम् इह वर्तते तथाप्य् एकैकस्य बह्व्-अर्थ-गर्भतया बहूनि सहस्राणीत्य् एव मन्तुम् उचितम् इत्य् अभिप्रायात् ।
चतुः-सप्ततिभिर् इत्य् अपि समञ्जसम् एव । चत्वारि च सप्ततिश् चेति द्वन्द्वात् । दृश्यते चैवं प्रयोगः पश्चात् सुन्दर-यति-कृत–गुरु-परम्परा–ग्रन्थोदाहृते
संसेवितः संयमि-सप्त-शत्या
पीठैश् चतुस्-सप्ततिभिः समेतः ।
अन्यैर् अन्-अनन्तैर् अपि विष्णु-भक्तैर्
आस्ते ऽधिरङ्गं यति-सार्वभौमः ॥
इत्य् अस्मिन् श्लोके । “सप्तत्या तैश् चतुर्भिः” इति यति-राज-वैभवे व्यस्तस्य च प्रयोगः । तेन विग्रहः सुग्रहः । एकं सहस्रम् । द्वे सहस्रे । त्रीणि सहस्राणि । एवं चत्वारि च सप्ततिश् च सहस्राणि । इति सुशोभनो ऽयं प्रयोगः । सप्ततिः सप्तती सप्ततयः । इत्य् एक-वचनवत् द्वि-वचन–बहु-वचने अपि भवत एव । केनोक्तं नेति ।
सप्तति-पदस्य वा सहस्र-पदस्य वा बहु-वचनान्तता न शास्त्र-सम्मता
इति गम्भीरं निर्भयं निर्लज्जं च अन्-आनाघ्रात यत् किञ्चिच् छास्त्र-गन्धो ऽपि शास्त्रं प्रमाणयन् घोषयति । केन शास्त्रेण तव बहु-वचनं निषिध्यत इति हि वक्तव्यम् । ‘विंशत्य्-आद्याः सदैकत्वे’ इति निघण्टोर् अर्थः अभिज्ञेभ्यो ऽधिगन्तव्यः । द्वे विंशती चत्वारिंशत् ; तिस्रो विंशतयः षष्टिः ; इत्य्-आदि हि साध्व् एव । यदि सहस्र-पदान् न बहु-वचनं तर्हि दशमे पर्वणि स्वेनैव प्रयुक्तस्य ‘अष्टादश-सहस्रिका’ इति पदस्य कथं विग्रह इति हि बत पर्यालोचने नास्ति बुद्धि-प्रसरः दिव्य-प्रबन्धेषु आहत्य कति गाथा इति प्रश्ने ‘चत्वारि सहस्राणि’ इत्य् एतद् विना किम् अन्यद् उत्तरं दीयेतेत्य् आस्तां तावत् अ-व्युत्पन्नस्याति विमर्दनम् ।
[[51]]
प्रौढिम-पदे ऽपि साधुत्व-द्रढिमा दुर्निवारः । वामनेन कविभिः प्रयुक्तम् इदम् उपलभ्य ‘अत्र इमनिच् दुर्लभः’ इत्य् उक्तं जानद्भिर् एव हि एवं प्रयुज्यते । अतः योग-विभागादिना वा उदरम्भरिः इत्य्-आदिवद् व्याकरणान्तरानुसारितया वा साधुत्वम् अत्र समर्थनीयम् इत्य् एषाम् अभिप्रायः ।
26 शब्द-जालेन वृथा ग्रन्थ-शरीरं वर्ध्यते । अणुम् अपि सारांशम् अन्तरा पुनर् उक्तिमय-बहु-भाषणं केवलं पाप-फलम् इति यदि बुध्येत लोकस्य क्षेमो भवेत् । पात्र-पद्य-करणात् पूर्वं श्रीमान् वेङ्कट-पद्यम् अनुसंहितम् आसीत् । तत्-करणानन्तरं तद्-अनुसन्धाने कर्तव्ये प्रसक्ते
श्रीमान् वेङ्कट-पद्य-स्थाने वा इदम् अनुसन्धेयम् ? समुच्चयेन वा ? तत् क्वचित् इदं क्वचिद् इति व्यवस्थया वा ?
इति विमर्शो ऽवश्यम् उत्तिष्ठेद् एव । कृतस्य च पद्यस्य आचार्यानुमतिं प्राप्यैवानुसन्धेयत्वात् तत्-सन्निधौ तन्-निवेदनावसरे अनुसन्धान-विषयं स्व-संशयम् अपि निवेद्य व्यवस्थया ऽनुसन्धेयम् इति तन्-नियमनम् अलभ्यतेति एवं निबद्धे वृत्तान्ते न खलु सुधियां किञ्चिद् आक्षेप्तव्यम् अस्ति । ग्रन्थ-कर्तरि वृत्ते पश्चाद् अन्-एकैः अन्-एक-स्तुति-पद्य-करणे ततो ऽप्य् अर्वाचीनैः कुत्र किम् उपादेयं इत्य् अत्र विनिगमनाविरहात् समुच्चित्य तानि पठ्यन्तां नाम । प्रकृते तु जीवति गुरौ तद्-विषये च एकस्मिन् पद्ये ऽनुसन्धीयमाने स्थिते कृतस्य पद्यान्तरस्य तन्-नियमनानुसारेण काचन व्यवस्था सम्पन्नेति वैषम्यं महत् ।
‘अपहास्यं ननु ’ इत्य् अभिधान-मात्रेण तत्त्वार्थ-निरासो यदि भवति स कुत्र दुष्करः ? पूर्व-पक्ष्य्-अभिमतं सर्वम् अत्यन्तम् अपहास्यम् इति समये सुविशदं दर्शयिष्यामः ।
[[51]]
27 व्यवस्थाम् अर्वाचीना नानुपालयन्तीति न । सर्वथा परिपालयन्त्य् एवेति निरूपितम् । अथ यत् श्रीमान् वेङ्कट-पद्ये अ-स्वारस्यं पश्यन् ब्रह्म-तन्त्र-स्व-तन्त्र-स्वामी पद्यान्तर-करणे प्रावर्ततेत्य् उक्तम् इव कृत्वा बहु जल्प्यते तद् अप्य् अस्थाने । औचित्यं तत्र निबन्धनम् उक्तं, न त्व् अ-स्वारस्यम् । अनयोर् यदि भेदो न गृहीतः वृद्धोपसेवनेन सो ऽधिगन्तव्यः । भगवद्-विषयाध्ययनावसरे भगवद्-अनुभवौपयिकाचार्य-परम्परा-कटाक्ष-पात्रत्वानुसन्धानम् उचितम् इत्य् अभिप्रायेण तत्-प्रतिपादक-पद्यान्तर-करणम् उच्यत इति विवेक्तव्यम् ।
विषयम् अ-गृह्णतैवात्र वर्णाडम्बर-मात्रं रचनाया वैशिष्ट्य-हेतुर् इति मन्यमानेन यत् किम् अप्य् उच्यते तद् उपेक्षामहे, अलं बधिर-कर्ण-जापेनेति ।
बालिश-कविना केनापि कृतम् इति सम्यग् अवधारणार्हम् इदं पद्यम्
इति द्वेषाभिष्यन्द-वमनं करोति । ननु भोः अ-बालिश-कविना कृतस्य श्री-शैलेश-पद्यस्य तद्-अपेक्षया कस्मिन्न् अंशे को विशेष इति स्थित्वा पर्यालोच्य उच्यताम् । वर्ष-शतेनापि, साक्षाद् रङ्ग-नाथेनापि, स दुर्वच इत्य् आस्ताम् एतत् । दोषास् त बहवः सन्ति । परन्तु प्रतीकार-विधया ऽपि तद्-उद्घाटनम् अस्मभ्यं न रोचते । तद् इदानीम् उदास्यते । निर्बन्धे जाते पश्चाद् अन्-इच्छया ऽपि तान् उदाहरिष्यामः ।
प्रादुर् भाव-कालात् प्रभृति आसेतु-शीताचलं भूयिष्ठां प्रतिष्ठां प्राप्त श्री-शैलेश-दिव्य-पद्यम्
इत्य् आह । अत्र ब्रूमः । ए, बि, सि, डि इत्य् अक्षराणि आ उत्तर-ध्रुवात् आ च दक्षिण-ध्रुवात्
आच प्राच्य-प्रतीच्य-क्षिति-धर-युगलादर्क-सोमावतंसात्
आसमुद्र-तलात् आच दिवः सुप्रतिष्ठितानि । देश-व्याप्त्या यदि विशेषः तर्हि तान्य् एव सर्वोत्तमानि ।
सर्वतः कर-वीरादीन् सूते सागर-मेखला ।
मृत-सञ्जीविनी यत्र मृग्यमाण-दशां गता॥
[[52]]
28 अथ पारमार्थिकी स्थितिं चोद्य-रूपेणोपक्षिप्य पूर्व-पक्षी-कुर्वन् समाधानाभासं लिखति । देशिकः प्राचीनः । अतः तदीयं पात्र-पद्यं च प्राचीनम् । वर-वर-मुनिर् अर्वाचीनः । अत एतदीयं पात्र-पद्यं पूर्व-पद्यानुकारेण रचितं ततो ऽर्वाचीनम् एवेति कुतो न भवतीति चोद्यम् । अत्रोत्तरम् आह –
यदि रामानुज-दया-पात्र-पद्यम् एकम् एव वेदान्त-देशिकानां तनियन् पद्यत्वेन विराजेत, यदि च श्रीमान् वेङ्कट-नाथार्य-पद्यं नैव स्यात् तर्हि रामानुज-दया-पात्र-पद्यम् अवलोक्य तत्-प्रतिद्वन्द्वि-भावेनैव श्री-शैलेश-दया-पात्र-पद्यं प्रणीतम् इति कथनीयम् एव । तद् वयम् अपि निराबाधम् अङ्गीकुर्याम ।
इति । अत्र प्राज्ञैर् विमर्शनीयम् । श्रीमान् वेङ्कट-पद्य-विरहे पात्र-पद्यस्य महा-पर-काल-स्वामि-कृतत्वाभिधानम् उपेक्ष्य प्राचीनत्वाभ्युपगमः कार्य एवेत्य् अयम् अत्र वदति । तेन तत्र न काचिद् अन्-उपपत्तिर् अस्तीति सिध्यति । अथ पर्यालोचनीयं श्रीमान् वेङ्कट-पद्य-सत्त्वं तथा ऽभ्युपगमस्य कं प्रतिबन्धं कथम् आचारतीति । शास्त्र-रीत्या हेतु-साध्य-प्रक्रियया किम् अपि वक्तुम् अत्र न शक्यते । तद् अयं न जानाति । देशिकस्य जीवित-काल एव तनियन् द्वयम् उत्पन्नम् । तयोर् एकं दिव्य-प्रबन्धानुसन्धान-समय-मात्रे उपयुक्तम् । इतरद् इतरत्र सर्वत्र । तत्र वर-वर-मुनि-शिष्याः दिव्य-प्रबन्ध-प्रधानत्वात् तत्-सम्बन्धि-पद्यानुसारेण ‘श्री-शैलेश-दया-पात्रम्’ इत्य् एव अस्य तनियन्-पद्यं चक्रुर् इति वस्तु-स्थितौ न खलु किम् अप्य् अन्-उपपन्नं भवति । तस्माद् अयम् एव सिद्धान्तः ।
श्रीमान् वेङ्कट-पद्यानुकारेण कैश्चित् प्रकाशितं
श्रीमान् श्री-रङ्ग-नाथार्यो वेदान्त-द्वय-केसरी ।
मुनिः कान्तोपयन्ता मे सन्निधत्तां सदा हृदि ॥
[[53]]
इति वर-वर-मुनि-विषयं पद्यं दृष्ट्वा इदं पद्यं कृत्रिमम् इति, स्पर्धया कल्पितम्" इति च वयम् एव प्रतिपाद्य तत्-प्रचारं न्यषेधामेति वदन् स्वस्य प्रामाणिकत्वं प्रथयितुम् इच्छति । का नामात्र स्पर्धा ? अस्मिन् श्लोके लब्ध-प्रचारे यथा ऽयं श्लोकः श्रीमान् वेङ्कट-पद्यानुकारेण कृतः तथैव श्री-शेलेश-श्लोकः रामानुज-दया-पात्र-श्लोकानुकारेण कृत इति स्फुटम् एव सर्वैर् गृह्येतेति भीति-भारेण तन्-निवारणम् इति कस्येदं दुर्ग्रहम् ?
29 पात्र-पद्यं परित्यज्यात्र पद्यान्तर-विमर्शे प्रवर्तते ।
नमो रामानुजार्याय वेदान्तार्थ-प्रदायिने ।
आत्रेय-पद्म-नाभार्य-सुताय गुण-शालिने ॥
इत्य् अस्मदीयैर् अनुसन्धीयमानं निगमान्त-महा-देशिक-मातुलस्य तद्-आचार्यस्य वादि-हंसाम्बु-वाहार्यस्य स्तुति-पद्यम् । अस्य स्थाने तेन्-कलाः
नमः श्री-शैल-नाथाय कुन्ती-नगर-जन्मने ।
प्रसाद-लब्ध-परम् अप्राप्य कैङ्कर्य-शालिने ॥
इतीदम् अनुसन्दधते । अत्रापि पौर्वापर्यं पूर्ववद् एव स्थितम् । पूर्व-पक्षी तु बहु-भाषित्वा ऽपि अन्ततः पूर्व-युक्तिम् एवाश्रित्य विपर्यासं कल्पयितुम् ईहते । वादि-हंसाम्बु-वाहस्य श्री-देशिक-कृतम् एव
यस्माद् अस्माभिर् एतद् यति-पति-कथित-प्राक्तन-प्रक्रियोद्यत्-
कर्म-ब्रह्मावमर्श-प्रभव-बहु-फलं सार्थम् अग्राहि शास्त्रम् ।
तं विष्वग्-भेद-विद्या-स्थिति-पद-विषय-स्थेय-भूतं प्रभूतं
वन्देयात्रेय-रामानुज-गुरुम् अन्-अघं वादि-हंसाम्बु-वाहम् ॥
इति गम्भीरं पद्यान्तरम् अस्ति । ग्रन्थाध्ययन-काले सर्वत्र इदम् एव पद्यम् अनुसन्धीयते । तथा सति प्रयोजनान्तर-शून्यस्यास्य नमो रामानुजार्यायेति अनुष्टुप्-पद्यस्य प्रबन्ध-पारायणोपसंहार-काले परैः ‘नमः श्री-शैल-नाथाय’ इत्य् अस्मिन् पद्ये ऽनुसन्धीयमाने तद्वद् एवानुसन्धान-सौकर्याय प्रणयनम् इति ।
[[54]]
अत्र सिद्धान्तिभिर् अपि पूर्ववद् एव समाधेयम् । पद्यान्तर-सत्त्वे ऽपि वक्ष्यमाण-कारणेन कृतं ‘नमो रामानुजार्याय’ इतीदं पद्यान्तरं पूर्व-कालाद् अनुवृत्तम् अनुसृत्यैव विषम-प्रकृतिभिः पश्चात् नमः श्री-शैल-नाथायेत्य् एतत् पद्यं कृतम् इति परमार्थः इति ।
केन कारणेन पद्यान्तर-करणम् इति तु सम्प्रति वक्तव्यम् । पद्यार्थ-पर्यालोचनेनैव तत् सुज्ञानम् । स्व-विषये यथा आचार्य-कटाक्ष-गर्भ-पद्यान्तर-प्रवृत्तिः तथा स्वाचार्य-विषये ऽपि तद्-आवश्यकतां मन्यमानो देशिक इदं प्रणिनायेति ।
नमो रामानुजार्यायेति नाम-ग्रहणम् । वेदान्तार्थ-प्रदायिन इत्य् उपकार-स्मृतिः । वेदान्तानां दिव्य-प्रबन्ध-रूपेण परिणतो यो ऽर्थः तं यथावद् उपदिष्टवत इत्य् अर्थः । अभिजनवद्-आचार्य-सम्पत्तिः उच्यते ‘आत्रेय–पद्म-नाभार्य-सुताय’ इति । जन्मना विद्यया च तत्-सुतायेति भावः । ‘कृपया निस्पृहो वदेद्’ इत्य् उक्ताचार्य-गुण-पौष्कल्यानुसन्धानं ‘गुण-शालिने’ इति ।
30 अथ दिव्य-प्रबन्ध-पारायणारम्भे पात्र-पद्य-पठनानन्तरं पठ्यमानं श्लोक-चतुष्टयं प्रति यथा-शीलम् अ-समञ्जसं बह्व् आह । लक्ष्मी-नाथ-समारम्भां, यो नित्यम् अच्युत, माता पिता युवतयः, भूतं सरश् च इतीमे ते चत्वारः श्लोकाः । अत्र आद्य-द्वयं कूरेश-कृतम् । तृतीयं यामुनाचार्य-कृतम् । अन्तिमं तु कुरुकेश्वर-कृतम् इति प्रबन्धानुसन्धान-दीपिका । भट्ट-कृतम् इत्य् अन्ये । एते श्लोकाः तेन्-कलानाम् एव स्व-भूताः इतरेषां तत्-सम्बन्धो नास्तीति साधनीयम् इत्य् अस्य मनो-रथः । युक्तिः पुनः का ? इयम् । यो नित्यम् अच्युत इति द्वितीयः श्लोकः श्री-भाष्य-कार-विषयः । अन्-अन्तरः माता पिता युवतय इत्य् अयं श्री-शठ-कोप-सूरि-विषयः । ग्रन्थ-काल-क्षेपावसरे सर्वत्र इमौ श्लोकौ तनियन्-पद्यत्वेन तेन्-कला-जनैः पठ्येते, न वड-कला-जनैः । एतैः ‘प्रणामं लक्ष्मण-मुनिः’, ‘यस्य सारस्वत-स्रोतः’ इत्य् अन्याव् एव द्वौ श्लोकौ पठ्येते । एवं लोकान्तर-पाठात् इमौ वड-कलानां न स्वकीयाव् इति । इयं मध्यमयोः श्लोकयोः तदीयत्वे अन्येषां तव स्वत्त्व-विरहे च सुक्तिः । प्रथम-चरमयोस् तु
लक्ष्मी-नाथ, भूतं सरश् च पद्ययोर् अमी वैदेशिका इति साधने नैव पृथक् प्रयत्नावश्यकता
इत्य् अस्योक्तिर् एव तथात्व-स्थापने अलम् ।
[[55]]
बत अ-विवेक-दौर्जन्ययोः काष्ठा । ननु पूर्वाचार्यैः कृतान् श्लोकान् प्रति ‘इमे अस्मदीयाः न युष्मदीयाः’ इति प्रतिश्रवणेन किं कृतं भवति ? न हि अयं सूर्यो मदीयः न त्वदीय इत्य् उक्तेः कश्चिद् अर्थो विद्यते ।
ग्रन्थ-काल-क्षेपावसरे ऽपि वयं ताव् उपयुञ्ज्महे, न भवन्तः । अतो ऽस्माकं अधिकः सम्बन्धः
इति चेत् वयम् अपि भगवद्-विषय-काल-क्षेपावसरे उपयुञ्ज्मह एवेत्य् उक्त-पूर्वम् । कश्चित् कृत्स्नम् अहः आतप एव वर्तते । कश्चित् तु गृहान्तः स्थितः कदाचिद् एव सूर्यं सेवते । किं तावता आतप-स्थस्यैव सूर्यः, नेतरस्य ? वयं तयोः प्रथमोपयोक्तारः अस्मद्-अनुकारिणो भवन्त इति चेत् कदा भवतां तद्-उपयोगारम्भः किं वर-वर-मुनि-कालाद् अर्वाक् उत ततः पूर्वम् एव । आद्ये किं प्रमाणम् ? न किम् अपीति चेत् साधु । तद् एव वक्तुं शक्यम् । नान्यत् । अन्त्ये देशिक-तत्-कुमार-वरदाचार्य-काल एव तेषाम् अनुसन्धानम् आसीद् इति सिद्धेः उभय-साधारण्यम् एवेति एकतर-पक्षे प्रथमोपयोगोक्तिः प्रलापः । तद् इह महता संरम्भेण वृथैव वाग्-विसर्गः कृतः । अथ वा सर्वत्र एवम् एव, किं विशिष्यात्रेति ।
31 अत्रापि विद्वेष-सन्निपात-ज्वरोपाधिकानि प्रलपितान्य् एव कानिचिद् ईक्ष्यन्ते । प्रबन्ध-पारायणोपसंहारे अनुसन्धीयमानं
सर्व-देश-दशा-कालेश्व् अ-व्याहत-पराक्रमा।
रामानुजार्य-दिव्याज्ञा वर्धताम् अभिवर्धताम् ॥
रामानुजार्य-दिव्याज्ञा प्रतिवासरम् उज्ज्वला ।
दिग्-अन्त-व्यापिनी-भूयात् सा हि लोक-हितैषिणी ॥
इति पद्य-द्वयम्
[[56]]
श्रीमन् श्री-रङ्ग-श्रियम् अनुपद्रवाम् अनुदिनं संवर्धय श्रीमन् श्री-रङ्ग-श्रियम् अनुपद्रवाम् अनुदिनं संवर्धय
इत्य् आवृत्तम् इदं वाक्यं चाधिकृत्य वड-कलानां एतद्-अनुसन्धाने सर्वथा औचित्यं नास्तीत्य् आह । श्रीमन् श्री-रङ्गेत्य् आदिकं केवलं वाक्यम् । इदं पद्यम् इति भ्राम्यन्न् अयं महतां दूषणे प्रवर्तते, ग्रन्थ-लेखन-व्यसनी भवति, अन्यान् अन्यान् सिद्धान्तान् स्थापयितुम् ईहत इति किम् अतः परं विस्मयावहं किम् अप्य् अज्ञ-चेष्टितं लोके सम्भाव्येत ।
अथ को हेतुः येन वड-कलानाम् एतद्-अनुसन्धाने औचित्यं नास्ति ? तत्राह । इह प्रस्तुता रामानुजार्य-दिव्याज्ञा भगवद्-आलयेषु तत्-कृत-विविध-व्यवस्था-परिष्कार-विषया । सा ‘वर्धताम् अभिवर्धताम्’ इत्य् आशंसा-विषयी भवति । देवालयेषु च वड-कलानां श्रद्धा भक्तिः सम्बन्धश् च नास्ति । एवं च एतद्-विषय-रामानुजार्य-दिव्याज्ञाया मङ्गलाशासनं कथम् एषाम् उचितं भवतीति ।
उन्मत्त-भाषितम् इदं गणना-पदं कृत्वा प्रतिवक्तुं लज्जामहे । तथा ऽपि आप्तानां तत्त्वं जिज्ञासमानानां कृते परमार्थ-बोधनम् आवश्यकं भवति ।
श्रुतिः स्मृतिर् ममैवाज्ञा यस् ताम् उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्रोही मद्-भक्तो ऽपि न वैष्णवः ॥
इति भगवद्-उक्तेः
ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात्
इत्य् अत्र श्रीमद्-गीता-भाष्ये
ये तु परम-पुरुषेणेन्द्राद्य्-आत्मना स्वाराधनाय दत्तान् आत्मार्थतयोपादाय विपच्याश्नन्ति ते पापात्मानो ऽघम् एव भुञ्जते । अघ-परिणामित्वाद् अघम् इत्य् उच्यते आत्मावलोकन-विमुखा नरकायैव पचन्ते ।
[[57]]
इति भगवद्-रामानुजोक्तेश् च अवश्यानुष्ठेयानि यानि वैदिकानि कर्माणि तानि परित्यक्तवतां अत एव पातित्य-जुषां देवालय-प्रवेशे ऽपि नाम को ऽधिकारः, दूरे तिष्ठतु श्री-सूक्ति-पारायणाद्य्-अधिकारः । एवं च
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था नान्यस् तत् तोष-कारकः ।
इति प्रमाण-बलात् अत्यन्तं शास्त्र-पर-तन्त्रस्य भगवद्-रामानुजस्य दिव्याज्ञा-परिपालन-परा वड-कला एव । तैर् वेद-पारायणेन, तद्-उदितैर् मन्त्रैर् आराधन-प्रतिष्ठा-प्रायश्चित्तादि-करणेन, जाज्वल्यमान–ब्रह्म-वर्चस–श्रोत्रिय–कर-स्पर्श–मङ्गलाशासनादिभिश् च भगवत्-सान्निध्ये समग्रे सम्पन्ने तत्र पात्रे समितैः, कर्म-भ्रष्टैः दुर्विनीतैः केवलं रथ्यासु क्षुद्र-चतुष्-पाद्भिर् इव दन्ता-दन्ति हस्ता-हस्ति केशा-केशि च कुर्वद्भिः क्रियमाणो घोषो घोषण-कृतां आत्म-हानये भगवद्-आलयानाम् अपरिशुध्यै च कल्पते, न तु फलान्तराय कस्मैचिद् इति बाहूत्क्षेपं रोदितव्ये सति प्रत्युत आहो पुरुषिका क्रियत इति हा हन्त कलेर् इयं करा-लता कया वाचा वर्ण्यताम् ।
इदम् अत्र सुधीभिर् विभाव्यम् – आचार्याणां तनियन्-अनुसन्धान-क्रमः श्री-देशिक-कालावधि-कथम् आसीद् इति पर्यालोचनं कर्तव्यम् । श्री-शठ-कोप-सूरेः नाथ-मुनेश् च श्री-यामुनाचार्य-कृते ‘माता पिता युवतयः ’ ‘नमो अचिन्त्याद्भुताक्लिष्ट’ इतीमे द्वे पद्ये क्रमेण तनियन्त्वेन इदानीन्तनैः कैश्चिद् अनुसन्धीयेते । इमे द्वे अपि पद्ये यामुनाचार्येण तनियन्त्वेनैव कृते इत्य् अवधार्य वक्तुं न शक्यम् । तदीय-स्तोत्र-रत्नान्तर्गतत्वात् । एवम् अपि सौकर्यात् कर्तरि बहु-मानातिशयाच् च इमे पद्ये तथात्वेन यामुनाचार्य-शिष्य-कोटि-प्रविष्टैः परिगृहीते इति मन्तुं युक्तम् । यामुनाचार्यात् पूर्वं तु शठ-कोप-सूरि-विषये नाथ-मुनि-प्रभृतिभिः, नाथ-मुनि-विषये तच्-छिष्यैश् च किं पद्यम् अनुसंहितम् आसीत् ।
[[58]]
एवं यामुनाचार्यस्य भगवता भाष्य-कृता श्रीमद्-गीता-भाष्यारम्भे अनुगृहीतं ‘यत्-पदाम्भोरुह-ध्याने’ति पद्यं तनियन् कृतम् । साक्षात् यामुनाचार्य-शिष्यैस् तु तद्-विषये किं पद्यम् अनुसंहितम् ? एवं राम-मिश्र-पुण्डरीकाक्षयोर् विषये केन किं पद्यं कृतम् इति न जानीमः । एतत्-पर्यालोचने,
पद्य-करणे प्राङ्-नियमो नादृतः । सामान्यतः ‘अस्मद्-गुरुभ्यो नमः’ इति, विशिष्य ‘श्रीमते शठ-कोपाय नमः’ इति चोक्त्वा प्रणामान् कृत्वा उपदेशः श्रुतः"
इत्य् एवं निर्धारयितव्यं भवति । इत्थम् उत्थितान्य् एव वाक्य-तनियन्-नामानि नमो ऽन्तानि वाक्यानि अद्याप्य् अनुसन्धाने वर्तन्त इति सुवचम् । एवं यथा-सम्भवं श्लोकानां वाक्यानां च पाठ इत्य् अ-नियमो देशिक-कालात् पूर्वं प्रतीयते । भगवान् निगमान्त-महा-देशिकस् तु भगवता श्री-रङ्ग-नाथेन स्वस्य वेदान्ताचार्य-बिरुद-प्रदेन सिद्धान्त-सम्बन्धि–सर्व-विषय–व्यवस्थापनम् आत्मना कर्तव्यम् आदिष्टं मन्यमानः अन्येषु सर्वेषु विषयेष्व् इव अत्रापि व्यवस्थां चकार –
श्रीमान् वेङ्कट, यस्माद् अस्माभिर् एतत्, वन्दे ऽहं वरदाय तं, श्री-विष्णु-चित्त-पद–पङ्क-ज, विख्यातो यति-सार्व-भौम,
ततः ‘प्रणामं लक्ष्मण-मुनिः’ इत्य् आरभ्य ‘कम् अप्य् आद्यं गुरुं वन्दे’ इत्य् अन्तम् इत्य् एवं तनियन्-पद्यानुसन्धानं कार्यम् इति । भगवद्-विषय-श्रवण-काले तु ततः परं रामानुज-दया-पात्रं, लक्ष्मी-नाथ-समारम्भां, यो नित्यम् अच्युत, माता पिता युवतयः, भूतं सरश् च इत्य् एतान्य् अप्य् अनुसन्धेयानीति च ।
अत्र लक्ष्मी-नाथेत्य् आदीनां चतुर्णां श्लोकानां दिव्य-प्रबन्ध-पारायणोपक्रमे पाठः भगवद्-भाष्य-कारेणादिष्टः । अन्ते
सर्व-देश-दशा-कालेषु , रामानुजार्य-दिव्याज्ञा, श्रीमन् श्री-रङ्ग-श्रियम् अन्-उपद्रवाम् अनुदिनं संवर्धय,
इत्य् एषां च । इदं श्रीमन्न् इत्य्-आदि-वाक्यं भगवता भाष्य-कृता स्वयं विरचय्य अनुसन्धेयतया ऽऽदिश्यत । अस्य आवृत्त्या पठनं पुनः देशिकेनादिष्टम् । एवं श्री-देशिकेन स्वयं परिष्कारस्य कृतत्वात् स्वातिशयस्य सर्वस्य स्वाचार्य-करुणा-कटाक्षाधीनत्वं स्मरता कृत-ज्ञता–पारवश्येन ‘नमो रामानुजार्याय’ इत्य् एतद् अप्य् अन्ते पठनीयतया ऽऽज्ञाप्यत । ततः परं देशिक-भक्ति-भरितैः ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामि-प्रभृतिभिः ‘रामानुज-दया-पात्रम्’ इत्य् अस्याप्य् अनुसन्धाने प्रार्थिते देशिकेनान्यैश् च तद् अनुमेने । ततः परं द्राविड-गाथानां च कासाञ्चित्।
[[59]]
एवं देशिकाधिष्ठितायां श्री-वैष्णव-शाखायां तनियन्-नियमे निष्पन्ने ऽपि शाखान्तरे पूर्ववद् अ-नियम एवासीत् । ग्रन्थारम्भेष्व् अपि मङ्गलं वा आचार्य-वन्दनं वा न न्यबध्यत । स चानियमः वर-वर-मुनि-वार्धकावधि अन्ववर्तत । तथा हि ।
रङ्गी वत्सरम् एकम् एवम् अशृणोद् व्यक्तं यथोक्तं क्रमात्
इति बहु-दिव्य-देश-यात्रानन्तरं श्री-रङ्गम् अधिवसन् वर-वर-मुनिः तत्र भगवद्-विषय-विवरणं सर्व-हृदयङ्गमं वत्सरम् एकम् अकरोत् । तद्-अन्-अन्तरं तत्र श्री-शैलेश-दाया-पात्र-पद्यं प्रादुर् अभवद् इत्य् उच्यते । तद्-अवधि तच्-छिष्यैः किं नाम तनियन्-पद्यम् अनुसंहितम् आसीत् ? न हि पूर्वं पद्यान्तरं किञ्चिद् आसीद् इति ज्ञायते ऽभ्युपगम्यते वा । एवं वर-वर-मुनेर् जीवित-काले सुचिरम् अस्य पद्यस्योत्पत्तिर् नाभूत् । तच्-छिष्याश् च तत्-सन्निधौ विद्या-ग्रहण-काले एतद् अनुसन्धानं नाकुर्वन् इति स्फुटं ज्ञायते । एतत्-पद्योत्पत्य्-अन्-अनन्तरम् अपि अस्योपयोगं प्रति वर-वर-मुनिनैव किञ्चिद् उक्तम् इति न क्वचिच् छ्रूयते । नापि दिव्य-प्रबन्ध-पारायणोपक्रमोपसंहारयोर् इदम् इदं वक्तव्यम् इति तेन व्यवस्था कृतेति श्रूयते । तत्र प्रष्टव्यं – पूर्व-पक्षि-गोष्ठ्यां दिव्य-प्रबन्ध-पारायणोपक्रमोपसंहारयोर् इदानीं यः प्रकारो वर्तते स कदा केन शिक्षित इति । देशिक-काल-निष्पन्न एवायं प्रकारः ऊहित्वा ऽस्माभिः स्वीकृत इत्य् एव प्रामाणिकैर् वक्तव्यम् । न चैवं तात्त्विकार्थाभ्युपगमे काचन हानिर् भवति । न चात्र लज्जास्पदं किम् अप्य् अस्ति । वर-वर-मुनौ प्रावण्यातिशयेन वयम् एवं ऊहं कृतवन्त इति निस्सङ्कोचं वक्तुं शक्यत्वात् ।
[[60]]
रामानुज-दया-पात्रम् इत्य् अस्यानुकारेण श्री-शैलेश-पद्य-निर्माणम् इति भवितुम् अर्हत्य् एवेत्य् अभ्युपगतम् एव । किन्तु श्रीमान् वेङ्कट-नाथ-पद्यस्य स्थितत्वेन तेन सह पद्यान्तरस्य स्थितत्वं दुर्वचम् इति कृत्वा तस्यार्वाचीनत्वम् आस्थीयते । अत्रेदं बोध्यम् । रामानुज-पद्यं यदि पूर्वम् एव नाभविष्यत् पश्चाद् अपि नाभविष्यत् । श्रीमान् वेङ्कट-पद्यस्यैवानुसन्धातुं शक्यत्वात् । यत् तु उपांशु-उच्चारण-सौकर्याय पद्यान्तर-करणम् इत्य्-आदि तद् अत्यन्त-मुग्ध-जल्पितम् । कलहाय सन्नद्धानां पर-ध्वन्य्-अभिभवोचितोद्घोषण-प्रवृत्तेर् एव स्वाभाविकत्वात् । न च द्वितीयादिषु पादेषु प्रस्फुटे भेदे प्रथम-पाद-मात्रे अर्धस्यानुच्चारणेन अर्धस्य साम्य-सम्पादनेन च आत्मा रक्षितो भविष्यतीति भीतानाम् आश्वासो भवेत्। अ-विवेक-साम्राज्य-विजृम्भितेयं अत्यन्तम् उपहास्या कल्पना । तस्मात् देशिक-पात्र-पद्यम् एव प्राचीनम् । तत् परिहृत्य तत्-स्थाने पठनायैव श्री-शैलेश-पद्यं विरचितम् इति नेदम् अपह्नोतुं शक्यम् ।
अथ देशिकस्य स्वयं व्यवस्था-कारित्वात् स्वकीय-कृत-ज्ञत्वानुरूपं नमो रामानुजार्यायेति स्वाचार्य-पद्यानुसन्धानादेशनं तेन कृतम् इति युक्तम् एतत् । एतद्-अनुकारेण नमः श्री-शैल-नाथायेति पठितम् इति च। अस्य तु प्राचीनत्वे अस्य पाठ एव निर्निबन्धनः । वर-वर-मुनिर् यदि व्यवस्थापकः स स्वाचार्य-पद्यानुसन्धानम् आदिशद् इति युक्तम् । स तु न तथेत्य् उक्तम् । तद्-अन्तेवासिषु कश्चित् व्यवस्थापक इति चेत् तेन स्वाचार्य–वर-वर-मुनि–पद्य-पाठ-मात्रेण विरतेन भाव्यम् । न तु तद्-आचार्य-पद्य-पाठे ऽपि प्रवर्तितव्यम् । अन्-अवस्थापत्तेः । अत इदम् अपि अनुकार-सिद्धत्वे लिङ्गम् ।
अथ या द्राविड-गाथाः ताः पश्येम । यतीन्द्र-प्रवण-प्रभाव-नाम्नि (1907 वत्सरे मद्र-नगर-मुद्रिते ) ग्रन्थे (90. पु)
पञ्च-वयस्कं बालं (श्री-शैलेश-पद्य-वक्तृत्वेन प्रतिपादितम्) प्रति ‘वाऴितिरुनामं ब्रूहि’ इत्य् उक्तवत्सु तत्रत्येषु सः “वाऴि तिरुवाय्-मौलि-प्पिल्लै” “शेय्यतामरै” “अडियार्गळ् वाऴ” इति अवोचत्
इत्य् आसां गाथीनां प्रादुर्भाव-प्रकार उच्यते । श्री-शैलेश-पद्ये बालेनोक्ते तावता विस्मय-विवशैः परम-तृप्तैर् हि भाव्यम् । उपरि “वाऴितिरुनामं ब्रहि” इति प्रश्नस्य का नाम प्रसक्तिः ? एतेन स्फुटम् एव हि ज्ञायते देशिक ‘वाऴितिरुनाम’ संस्कारः बुद्धौ दृढ-प्ररूढः एवं ग्रन्थ-कारं लेखयतीति । एवं चायम् एव ग्रन्थ-कारः प्रकृते विवादे तत्त्व-निर्णयं प्रति उत्तमः साक्षीति वेदितव्यम् ।
[[61]]
वालितिरुनाम-गाथाः स्व-कूट-स्थेन प्रतिवादि-भयङ्करार्येण कृता इति क्वचित् लिखति । शिष्यैः कैश्चित् इति सामान्यतो ऽन्यत्र । अप्पिळ्ळै नाम्नेति परत्र । पात्र-पद्य-वक्त्रा बालेन इति यतीन्द्र-प्रवण-प्रभाव-ग्रन्थः । इत्य् एवं मिथो व्याहताः कल्पनाः दृश्यन्ते, याः अनुकारेण अर्वाचीन-कल्पितत्वे दुरपलपाः साक्षिण्यो भवन्ति ।
अन्यद् अपीदम् अत्याश्चर्यं किञ्चित् परामर्शनीयम् । आसु द्रमिड-गाथासु चरमायां चरमः पादः ‘इन्नमोरुनूर्राण्डिरुम्’ इत्य् उभयत्र समानो दृश्यते ।
अपरम् अपि शतं वत्सरान् भवान् इह विलसतु
इति तद्-अर्थः । श्री-देशिकः शतं वर्षाण्य् अजीवत् । तं प्रति तस्य वार्धके कतिपय-वर्ष-न्यूनतायाम् अपि
एकं शतं वत्सरान् अत्र स्थित्वा भवान् लोकानुग्रहम् अकरोत् । तथैव अपरम् अपि शतं वत्सरान् तिष्ठतु
इत्य् आशासनं युज्यते । वर-वर-मुनिः साग्र-सप्ततिं वर्षाण्य् अजीवत् । तस्मिन्न् इदं नान्वेति । तस्य वार्धके क्रियमाणम् आशासनं
अपराम् अपि षष्टिं सप्ततिं वा वर्षाणि भवान् विजयताम्
इत्य् एव स्व-रसतो भवितुम् अर्हति । तस्मात् ‘शतं वर्षाणि’ इति इह स्थितं केवलम् अनुकारेणागतम् इत्य् एव वक्तव्यं, न गत्य्-अन्तरम् अस्तीति देशिक-पात्र-पद्य-घटित एव प्रबन्ध-पारायणोपक्रमोपसंहार-क्रमः प्राचीनः नेतर इति ।
[[62]]
32
वड-कलाख्या वैष्णवाः केवलं कर्मठा एव स्थित्वा दिव्य-सूरिषु दिव्य-प्रबन्धेषु दिव्य-देशेषु च विमुखा दूषकाश् चासन् । बहोः कालाद् अन्-अन्तरम् एव कलहार्थम् एवामी देवालयान् प्राविशन्
इत्य् आह ।
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो ऽन्-असूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥
इति भगवत्-प्रशंसा-विषय-भूतानां निर्मलान्तः-करणानां कर्म-योगिनां अ-कृत्य-करणे कृत्याकरणे च न प्रसङ्ग-लेशो ऽपि ।
ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टानचेतसः ॥
इति भगवद्-गर्हाविषय-भूतानां कर्म-भ्रष्टानाम् उत्तरोत्तरं मनो-मालिन्योपचयात् सर्व-विधानि पापानि सम्भावितानि ।
दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदम् आसुरीम् ॥
इत्य् उक्तां आसुरीं सम्पदं तेषां सम्पन्नां प्रत्यक्षम् ईक्षामहे च । तद् इह बहुषु विषयेषु विशिष्य तस्य तस्य दूषणस्य समाधानं न वक्तव्यम् । यो यो दोषः परेषु पूर्व-पक्षिणा उच्यते स सर्वः परेषु अल्पशो ऽपि नास्ति । तत्-पक्षे तु समग्र इत्य् अवगन्तव्यम् । तेन्-कलाचारवन्त एव स्थिताः कतिपये देवालयाः पश्चात् परैर् आक्रान्ता इति वदति । तत्र तत्त्वम् इदं सर्वदा बुद्धौ धार्यम् । वर-वर-मुनि-कालावधि–प्रमाण-वाक्याचार्य–श्री-सूक्त्य्-आदीनां तत्र तत्र योजनाभेद-मात्रम् आसीत् । न तु सिद्धान्ते वा आचारे वा कर्मानुष्ठाने वा । तेन देवालयेष्व् अपि तद्-अवधि अ-भिन्ना एक-रूपैव प्रक्रिया अभवत् । तद्-अन्-अन्तर-कालिकाः केचित् तेन्-कला-व्यवहारम् आत्मनः कुर्वन्तः भेदान् परेषु द्वेषं च वर्धयन्तः सात्विकान् विश्वस्तांश् चाभिभूय शक्यैः सर्वैः प्रकारैर् देवालयान् आक्रम्य स्व-कल्पित-नूतन-सम्प्रदाय-चिह्नानि तेषु निवेश्य प्राक्तनीं प्रक्रियां विपरिलोप्य स्वाभिमत-प्रक्रियया तन्-निर्वाहं कर्तुम् आरभन्त । अयम् एषां स्व-भावः, जन्मनः प्रभृति अ-विश्रान्तं हठात् येन केनापि सह कलह-करणेन कटु-भाषणेन विकत्थनेन पामर-वञ्चनेन च कृत्स्नं कालं यापयतो ऽस्य पूर्व-पक्षिणो दर्शनेन सर्वैर् अन्-आयासम् अवगन्तुं शक्यः ।
[[63]]
एवम् एषु आक्रान्तवत्सु स्व-भावत एव शान्ताः परे कलहाद् बिभ्यतः प्रायेणोदासीना एवाभवन् । अन्-आक्रान्तेषु केषुचिद् आलयेषु प्राचीना प्रक्रिया अप्रतिहता ऽन्ववर्तत । काले गच्छति केचन महान्तः कांश्चन देवालयान् प्रत्याहर्तुं प्रावर्तन्तेति सत्यम् एतत् । बहुत्र चोर-हृतं हृतम् एव भवति । क्वचित् पुनः प्रत्याहरण-यत्नः कृतः कदाचित् फलति । तथा प्रकृते ऽपि द्रष्टव्यम् ।
33 दिव्य-सूरीणाम् अवतार-स्थलानि सर्वाणि अधुना तेन्-कला-सम्प्रदायानुसारीण्य् एवेति तपस्वी परिगणयति । ततः किं सिध्यति ? धर्म-क्षेत्रं कुरु-क्षेत्रं प्रसिद्धम् । तद् इदानीं निर्दिश्य तत्र या प्रक्रिया सम्प्रति दृश्यते सैव प्राचीना शास्त्र-सिद्धा प्रामाणिकी सर्वोत्कृष्टा श्रेयस्करी इति यदि कश्चिद् आतिष्ठेत तत्र किम् अस्माभिः प्रतिपत्तव्यम् ?
आग्रहिणः अर्वाञ्चः तेन्-कलाः अद्यतन-मतान्तरालम्बिन इव साङ्केतिक्याः स्व-प्रक्रियायाः सर्वत्र प्रचारे तथा तीव्रम् उद्यमम् अकुर्वन् यथा कायान्न-स्थल-शुध्य्-आदि-स्वैराचार-श्रवण-हृष्टाः पामराः सर्वे तद्-वश्या अभवन् । वड-कलाः पुनः उपसन्नान् अपि सहसा शिष्यत्वेनापरिगृह्य चिर-परीक्षानन्तरं स्वीचक्रुः । एवम् अभियोगातिशयेन, वर्णाश्रमाचार-निर्बन्ध-विरहेण, सर्व-सौकर्य-भूम्ना च भूयिष्ठानां तत्र आकर्षणं सम्पन्नम् । तेन देवालयाक्रमणम् अपि सुकरम् अभूत् ।
[[64]]
परं तु तत्र तत्र श्री-देशिकालयो विद्यमानः प्राचीनं स्व-रूपं प्रदर्शयन्न् एवास्ति । यथा ऽऽळ्वार् तिरुनगर्याम् । तत्र हि देशिकः काल-विशेषेषु भगवद्-आलयस्यान्तर् नीयते सर्वैर् उपचारैर् बहु-मान्यते चेत्य् अयं क्रमश् चिरात् प्रवर्तते । स देशिकः अद्यापि वड-कला-पुण्ड्रम् एव धारयति । स एव यदि भगवद्-आलयस्यान्तर् अवर्तिष्यत चिरात् पूर्वम् एव तस्य पुण्ड्रान्तरम् अ-धारयिष्यन् भगवत इव । श्री-शैल-पूर्णाद्य्-अवतार-स्थलानि वड-कला-सम्प्रदायानुसारीण्य् एव दृश्यन्ते ।
34
कियल् लिखति, किं किं लिखति, कियतः पुटान् लिखति,
इति विस्मय-जननेन पामरान् वञ्चयितुं बहु लिख्यते । तत्र इदम् अपि पर्वोदाहरणम् । किम् आचार्येषु एकैकस्यापि अर्चा-प्रतिष्ठा कार्येति विधिर् अस्ति ? निमित्त-विशेषैर् भगवन्-नियमने ज्ञाते तद्-अनुसारेण केषाञ्चित् तथा अर्चा-परिकल्पनं भवति । आलयोपजीविनः वृत्य्-अर्थतया अर्चा-विग्रह-वृद्धौ यदि श्रद्दधते इतरेषां तत्र का वाच्यता ?
35 श्री-विष्णु-चित्ताचार्यः, तद्-वंश-जाः पेरियवाच्चान्-पिळ्ळै-पर्यन्ताः सर्वे च अ-मिश्र-शुद्ध–वड-कला एव । विपर्यासो ऽत्यर्वाचीनः । अर्वाचीन-स्थित्या पूर्व-पुरुपस्थिति-कल्पनं शुष्क-पर्ण-पटल-पतन-कलुष-कषाय-क्षुद्र-ग्राम-पल्वल-पानीय-गुणानुरोधेन वर्ष-धारा-नीर-गुण-कल्पन-कल्पम् इति ज्ञेयम् ।
36 अत्रोक्तम् अपि दत्तोत्तरम् । निर्बन्धाद् एव कृत-पुण्ड्र-विपर्यासाः सर्वे श्री-रङ्ग-देव-स्थान-पुरुषाः । इदं तत्-क्षेत्र-सम्बन्धि ऐतिह्यम् अनुवर्तते । श्राद्धे निमन्त्रितैः किल भोजनान्ते तृप्ति-कथनावसरे भगवद्-आलय-कुञ्चिकासु दत्तास्व् एव तृप्तो ऽस्मीति कथयिष्याम इति श्राद्ध-कर्तारं निर्बध्य तस्मात् देव-स्थान-निर्वाहाधिकार आच्छिन्न इति । अन्यच् चेदम् अवधेयम् । अद्य श्री-रङ्गे भगवन्-मन्दिरे दिव्य-प्रबन्ध-गाथा-गायिनः ‘अरैयर्’ नाम-भाजः तेन्-कला-पुण्ड्र-धारिणः सन्ति। तेषां ज्ञातयः पुनः भगवन्-मन्दिर-सम्बन्ध-रहिताः वड-कला-पुण्ड्रम् एव धारयन्ति । एतेषां ज्ञातित्वापलापे प्रवृत्ता गायकाः वंशावली-निरूपणेन ज्ञात-तत्त्वैर् अधिकारिभिः शिक्षिता अभूवन् । एतेन हि स्फुटम् एव ज्ञायते निर्बन्धात् जीविका-हेतोः पुण्ड्र-विपर्यासं कार्यन्त इति । बहूनां तेन्-कली-भवने इदम् एव ईदृशम् एव च कारणम् इति तत्त्वम् इदं न कदाचिद् विस्मर्तव्यम् ।
[[65]]
37 गृह-स्थेषु निर्बन्ध-पर-वशेषु सन्न्यासिनः कुतो न भविष्यन्ति ? सकृद्-विपर्यासे जाते तद्-वंश्याः सन्न्यासिनो ऽपि हि विपर्यस्ताम् एव पद्धतिम् अनुसरिष्यन्ति । किम् एषां पृथङ् निर्देशेन ?
पात्र-पद्य-चरितं लिखामीत्य् उपक्रम्य स्व-बुद्धि-विभ्रम-चरित्रं लिख्यते परेण ।
38 वर-वर-मुनि-स्तुतत्वेन तत्-स्तोतृत्वेन च श्री-रङ्ग-नाथस्य बिरुदावली पठ्यत इत्य् आह । तेन किं प्रकृतस्य । देशिक-स्तुतत्वेन, बिरुद-प्रदानादिभिः तद्-बहु-मन्तृत्वेन च रङ्ग-नाथो न स्तूयत इत्य् अभिधाने तात्पर्यम् इति चेत् ततो ऽपि किम् ? प्राञ्चो बहव आचार्याः । तैः सर्वैः स्तुतत्वं नोच्यते । तथा देशिक-स्तुतत्वम् अपि नोच्यताम् । को विशेषः । अन्ये आचार्याः सन्तु नाम । युष्मत्-पक्ष-पूज्यो देशिकः । अस्मत्-पक्ष-पूज्यो वर-वर-मुनिः । अस्मत्-पक्ष-पूज्य-स्तुतत्वाभिधानाद् वयं विजयिन इत्य् आकूतम् इति चेत् अस्य कुत्र पर्यवसानम् इति सम्यक् परामृश्यताम् । ममतायां पर्यवसानम् इति गृह्यताम् । तादृश-बिरुदावली-पाठेन देवो रङ्ग-नाथः किं मन्यते, देशिकः किं मन्यते, वर-वर-मुनिर् एव वा किं मन्यत इति सर्वम् इदं शास्त्र-मुखेनैव अवधार्यम् । पठतां तु स्वकीयत्वाभिमानाद् एव तत्र तृप्तिः । आत्मोत्कर्ष-पर-निकर्ष-बुद्धि-गर्भो ऽयम् अभिमानः रामानुजार्य-दिव्याज्ञा-भङ्ग-लक्षणम्।
[[66]]
39 श्री-रङ्ग-क्षेत्रे अर्चका अन्-आदि-कालात् वड-कला एव । प्रधान-कैङ्कर्य-कारिणाम् एषां स्थितिः पर्याप्ता प्राचीनां देवालय-स्थिति-यथावद् अवगमयितुम् । परैः कृतो बलवान् अपि निर्बन्धो न तेषां विषये फले ग्रहिर् आसीत् । परं तु अधुना तेषां विषये निर्बन्धं कर्तुं तेन्-कला आरब्धवन्तो भवन्ति । सकृद् एव तैः प्रणामः कार्य इति निर्बध्नन्ति । सेवार्थिनो ऽपि जनान् नूनं इतः परं तथा निर्बध्नीयुः । अयं व्यवहारोधिकरणं गतः । प्राड्विवाकः अ-वैष्णवः अ-शास्त्र-ज्ञः ।
सकृत्-प्रणामः शास्त्र-सम्मतो न वा, नाहं किम् अपि जानामि । यस्मात् देवालयः तेन्-कला-सम्प्रदायानुसारी तस्मात् सकृत्-प्रणाम एव अर्चकैः कार्यः
इति निर्णयम् अकरोत् । वड-कलाः सन्तो ऽर्चकाः यत्र पूजां देवस्य कुर्वन्ति तत्र तेन्-कला-सम्प्रदायानुरोधित्वं नाम किम् । एवं सति कुम्भ-घोणे वड-कला-सम्प्रदायानुरोधिनि भगवद्-आलये स्थितैः तेन्-कला-अर्चकैः अ-सकृद् एव प्रणन्तव्यं न सकृद् इति आपतति, इतीदं सर्वं तस्याधिकरणिकस्य बुद्धौ न भातम् । अन्यैर् अपि न सम्यग् उपपादितम् इति भाति । सम्प्रदाय-विषय-व्यवहारेषु प्राय एवं विध एव निर्णयः । तस् तु । क्रमेण इमे बलात्कारात् परान् स्व-सम्प्रदायानुरोधिनः कुर्वन्तीत्य् अत्र प्रत्यक्ष-प्रमाणम् एतद् भवतीति सर्वैर् अवगन्तव्यम् ।
भगवद्-रामानुज-मुनीन्द्रः स्व-विरचिते नित्य-ग्रन्थे भगवद्-आराधनोपक्रमे सकृत्-प्रणामम् एव समशिक्षयत् ।
इति लिखति । “मूल-मन्त्रेण दण्डवत् प्रणम्य” इति तत्र वाक्यम् । तत्र सकृद् इति न श्रुतम् । तस्मात् ‘सकृत्-प्रणामम् एव समशिक्षयद्’ इति मिथ्यैवोच्यते लोक-वञ्चनार्थम् । ननु अ-सकृद् इत्य् अपि नोक्तम् इति चेत् सत्यं नोक्तम् । तावता सकृत्त्व-निर्धारणं कथम् । अ-सकृत्त्व-निर्धारणं कथम् इति चेत् –
प्रदक्षिण-प्रणामांश् च युग्मान् एव तु कारयेत् ।
नैक-त्रि-पञ्च-सप्तादि-गणना-विषमं हि यत् ।
इति विधि-निषेधाभ्याम् इति ज्ञातव्यम् । तथा चाशास्त्र-ज्ञेन अधिकरणिकेन कृतो निर्णयः प्रागृतोः कन्या-प्रदान-प्रतिषेधि-राज-शासन-तुल्य इति स्थितिर् इत्य् अलम् अधिकेन ।
[[67]]
40 रामानुजार्य-दिव्याज्ञेति, श्री-रङ्ग-श्रीः इति च किम् उच्यत इत्य् अजानन् अव्युत्पन्नः आधुनिक-कलहोद्धर-सयूथ्य-गोष्ठीम् एव बुद्धौ कुर्वन् किम् अप्य् आह । रामानुजार्य-दिव्याज्ञेति प्रथम-श्लोके तस्याः सर्व-देश-काल-व्यापित्वं प्रार्थितम् । द्वितीय-श्लोके तद्-अनूद्य तथा प्रार्थनायां हेतुर् उक्तः – सा हि लोक-हितैषिणीति । यस्माद् इयम् आज्ञा सर्व-लोक-हितैषिणी तस्मात् तस्या दिग्-अन्त-व्यापित्वं प्रार्थनीयम् इति भावः । एतेन सर्वस्यापि लोकस्य यत् हितं तद्-विषयेयम् आज्ञेति अ-सन्दिग्धं प्रतीयते । किं तत् सर्व-लोक-हितम् ? प्रपदनम् एव । ‘पशुर् मनुष्यः पक्षी वा’ इत्य्-आदिना हि सर्व-निश्श्रेयस-साधनत्वं तस्य प्रसिद्धम् ।
अर्चा-रूपेण सर्व-सुलभतया सर्व-चक्षुर् गोचरतया अवतिष्ठमानं सर्वेश्वरेश्वरं श्रीमन्-नारायणं शरणम् उपगम्य दाय-धन-क्रमात् प्राप्तव्यं भगवच्-चरणारविन्दयोर् नित्य-कैङ्कर्य-साम्राज्यं सर्वे प्राप्नुवन्तु । तथा अभिज्ञा प्रयतन्ताम्
इत्य् एवं रूपा सा रामानुजार्य-दिव्याज्ञा । भगवन्तं यथा-विधि आराध्य संस्कृत-द्राविड-स्तोत्रैः स्तुत्वा प्रीणितस्य तस्य सन्निधौ तस्या एवाज्ञायां दिग्-अन्त-व्यापित्वं प्रार्थ्यते ।
दिग्-अन्त-वासिनो ऽपि जनाः भगवतो महिमानं वात्सल्य-सौलभ्यादिकं चावगम्य भक्तिवद्-दुष्करत्व-रहितां शरणागतिम् अनुष्ठाय उज्जीवन्तु । तथा हे भगवन् त्वं दयस्व
इति प्रार्थना-तात्पर्यम् ।
श्रीमन् श्री-रङ्ग-श्रियम् इत्य्-आदेर् अयम् अर्थः । दिव्य-देशस्य श्रीर् द्वेधा – भगवत आराधनोत्सवादि-प्रवर्तन-कृता तत्त्व-ज्ञान-सम्पन्न-श्रोत्रिय-समृद्धि-कृता च । इयम् उभयी श्रीर् वर्धताम्, वृद्धिर् अपि उत्तरोत्तरम् अभ्यधिका भूयाद् इति प्रार्थ्यते । तत्रापि प्राधान्यं अनुपद्रवाम् इत्य् अस्य । बौद्धादि-मतान्तर-विजृम्भणेन राज-दोषेण देश-क्षोभेण जनानां वर्णाश्रमाचार-प्रच्यवेन वा दिव्य-देश-श्रिय उपद्रवो भवेत् । तादृशोपद्रव-रहिता श्री-रङ्ग-श्रीर् वर्धताम् इति । अत्रापि श्री-रङ्गे उक्त-विधया श्रिया दीप्यमाने सर्वे जना भगवन्तं सेवित्वा परमं श्रेयः प्राप्तयुर् इत्य् एव तात्यर्यम् ।
[[68]]
एवं सति ये शरणागति-मार्गं विध्वंसयितुम् उद्युक्ताः तेषां च रामानुजार्य-दिव्याज्ञायाश् च वध्य-घातुक-भावं विना को ऽन्यः सम्बन्धः ? तद्-वृद्धि-प्रार्थने च को ऽधिकार इति विवेकिनो विवेक्तुम् अर्हन्ति । केवलम् अनुकारेणैव एभिर् एतद् अनुसन्धानम् ।
श्री-रङ्गे भगवत्-सन्निधौ प्रपदनं कुर्म इत्य् अभिसन्धाय यदि वयं गच्छामः न तत्-कार्यम् इति तत्रत्याः तेन्-कलाः सम्प्रति प्रतिषेधन्ति । कियद्-उत्तमाः श्री-वैष्णवाः, कियद्-दिव्य-सूरि-सूक्ति-सार-ज्ञाः, कियद्-रामानुजार्य-दिव्याज्ञा-परिपालका इति सुव्यक्तं तावद् एतेन ज्ञातुं शक्यम् ।
दिव्य-प्रबन्धानां भाषा यद्य् अपि द्राविडी तथाप्य् अर्थः कार्त्स्न्येन वैदिक एव । तं सर्वथा परित्यक्तवन्त इमे तेन्-कलाः वस्तुतः तेन्-कला अपि न भवन्ति । वेद-मार्ग-विद्वेषिण इत्य् अस्मिन्न् अर्थे तु स शब्दः सम्प्रति सङ्क्रान्तः ।
41 ‘वाऴितिरुनाम’-गाथा-विषये प्रकृतोपयोगितया यद् वक्तव्यं तद् वयम् उक्त-पूर्विणः । वेदान्ताचार्य-विषय-गाथासु दौस्थ्यम् अस्तीत्य् आह । अस्य बुद्धि-दौस्थ्यम् एव तासु दौस्थ्यं भासयति न तु परमार्थतः तत्र तद् अस्तीति अन्यत्र उक्तवन्तः स्मः ।
42 तेन्-कला-जनैर् आक्रमण-शीलैर् आक्रान्तानां स्थलानां पुनर् वैदिकत्व-निष्पत्त्यै प्रत्याहरणं हि न्याय्यम् एव । तत्र श्री-कृष्ण-ताताचार्याः कञ्चन यत्नम् अकुर्वन् । स फलेग्रहिर् आसीत् । देवालय-प्रतिष्ठा-पूजनादि-राज-राष्ट्राभिवृद्धि-फलकतया आगमेषु विधीयते । तन् नास्तिकैर् आक्रान्तं क्रीडन-स्थानतां यदि नीतं तत् कस्य आस्तिकस्य लोक-योग-क्षेम-प्रणिहित-मतेः शोकाय न भवेत् ।
काञ्च्यां भगवतो देवाधिराजस्य मन्दिरे परं तथा पूर्णम् आक्रमणं तेषां न शक्यम् आसीत् । तेन स भगवान् अद्यापि शास्त्रीयेणैव ऊर्ध्व-पुण्ड्रेण विराजते ।
[[69]]
देशिक-पात्र-पद्यानुसन्धानाधिकारो वर्तत एव वड-कलानाम् । परं तु कलहम् अन्-इच्छन्तस् ते न तत्र प्रवर्तन्ते ।
सादेः सर्वस्य सान्तत्वात् दिव्य-सूरीणाम् आचार्याणां च भक्ति-श्रद्धा-भूयिष्ठेम आदरातिशयेन जातो भगवन्-मन्दिराणां विशेषः सम्प्रति अतिप्रवर्धमाने कलौ एवं विधानां कर्म-भ्रष्टानाम् उन्मर्यादैश् चेष्टितैर् विनष्ट इति वैमुख्यम् एव सात्त्विकानां शोभते । परन्तु प्रतिपक्ष-विजृम्भणेन उद्दीपित-क्रोधाः तथा शान्तिम् अधिगन्तुं न प्रभवन्तीति सत्यं महत् शोक-स्थानम् एतत् ।
तत्र तत्र प्रवृत्तान् व्यवहारान् निर्णयान् तद्-अनुसारि अनुष्ठानं च प्रति पश्चाद् विस्तरेण लेखिष्यामः ।
43 अपूर्वम् इह किम् अपि नोच्यते । उच्यमानम् अपि व्याहतम् उच्यते ।
श्री-शैलेश-दाया-पात्र-पद्यानुसन्धाने यत्र कुत्रापि वा प्रतिरोधः सञ्जातो चेति विमृश्यताम्
इत्य् अभिधायानुपदम् एव
येषु कतिपयेषु दिव्य-देशेषु वड-कलाख्याः काल-देशादि-वैगुण्य-वशाद् आक्रमणम् अकुर्वत तत्र नूतन-पात्र-पद्यादिकम् अमी स्वल्प-कालात् प्रभृति कथयन्तीति प्राग् एवोक्तम् एतत् । नैतद् अपलपामः
इत्य् आह । एषु दिव्य-देशेषु तस्य प्रतिरोधः समजनीति ह्य् अभ्युपगम्यते । एवं सति सामान्यतः यत्र कुत्रापि वा प्रतिरोधः सञ्जातो वेति विमृश्यताम्" इति कुतः प्रतिज्ञायते ? आक्रमणं तु कैर् इति ज्ञायत एव ।
तेषु कतिषु च न दिव्य-देशेषु तेन्-कलाचार्याणां वसति-विरह एव एतादृश-क्षोभ-कारणम् अभूद् इति नैतद् विस्मर्तव्यम्
इत्य् आह । ‘क्षोभ’ इत्य् एतत्-स्थाने ‘क्षेम’ इति कृत्वा पठ्यमानं यथार्थम् एतद् भवेत् । तेषां केषाञ्चित् तत्र वासे हि कलहो ऽभविष्यद् एव । एवञ्चान्यत्र यत्र यत्र ते वसन्ति तत्र तत्र तन्-मूल एव क्षोभ इति भूतार्थो ऽयम् । अत्र अन्ते पुनर् अपि लिखति –
[[70]]
नन्व् इदम् एव प्रतिष्ठापितं भवति – वड-कलाख्या दिव्य-सूरिषु दिव्य-प्रबन्धेषु दिव्य-देशेषु च अनादेः कालात् विद्वेषिणः स्थिता अर्वाग् एव एतेषु प्रवेशम् उपचक्रमिरे ।
इति । पूर्व-प्रलापानां अस्य च साध्य-साधन-भावं देवो जानाति । अस्माकं गुरु-परम्परा –
श्री-भाष्ये
1 देशिकः 2 ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामी 3 वरदाचार्यः 4 आदि-वण्-शठ-कोप-स्वामी 5 वरद-विष्ण्व्-आचार्यः 6 महा-दयाधीशः 7 अहो-बिलाचार्यः 8 षष्ठ-पराङ्कुश-स्वामी 9 पञ्च-मत-भञ्जन-ताताचार्यः 10 अनन्ताचार्यः 11 रङ्ग-रामानुज-स्वामी 12 रङ्ग-नाथार्यः 13 वीर-राघव-गुरुः 14 रङ्ग-नाथार्यः 15 रङ्ग-नाथार्यः 16 वेदान्त-लक्ष्मण-मुनिः 17 गोपाल-देशिकः
भगवद्-विषये च
1 देशिकः 2 कुमार-वरदाचार्यः 3 ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामी 4 वरदाचार्यः 5 आदि-वण्-शठ-कोप-स्वामी 6 पराङ्कुशः 7 पराङ्कशः 8 श्रीनिवासाचार्यः 9 श्रीनिवासाचार्यः 10 अनन्ताचार्यः 11 मुनि-वाहनः 12 वेङ्कटेशः 13 रङ्ग-नाथार्यः 14 वेदान्त-लक्ष्मण-मुनिः 15 पादुका-सेवक-रामानुज-स्वामी 16 गोपाल-देशिकः
[[71]]
इत्य् एवं रूपा विभाति । अन्येषां चान्य-रूपा । यथा श्री-भाष्यादिकं तथा भगवद्-विषयम् अपि अधीतवताम् एव वड-कलानां अध्यात्म-ग्रन्थ-काल-क्षेप-पूर्तिर् भवति । लेख-प्रतिलेखेषु ‘उभय-वेदान्त-ग्रन्थ-काल-क्षेपातिशय’ इति निर्देश-क्रमश् चिराद् अनुवर्तते । एषु चाचार्येषु बहवः दिव्य-प्रबन्ध-व्याख्यातारो ऽपि । तस्माद् वड-कलानां दिव्य-प्रबन्धादि-विद्वेष-वचनं श्री-राम-पुत्रयोः कुश-लवयोः रामायण-विद्वेष-वचन-कल्पम् इत्य् आस्तां तावद् एतत् । “आर्तोपच्छन्दनं गद्यं भाष्यं तु पर-रञ्जनम्” इति स्वकीयं भगवद्-भाष्य-कार-तदीय-श्री-भाष्यादि-विद्वेषं घण्टा-घुष्टं कृतवतां परेश्व् अपि तादृशं किञ्चिद् वाच्यं कल्पनीयम् इत्य् अभिनिवेश एव एवं परिवाद-करणे निदानम् इति को न जानाति ?
दिव्य-प्रबन्ध-स्थासु तत्-तद्-दिव्य-देश-स्तुतिषु तत्रत्यानां श्रोत्रियाणां वेदाध्ययन-तत्-प्रतिपाद्य-कर्मानुष्ठानादि-कृतो विशेषो भक्ति-श्रद्धा-पुरस्सरं दिव्य-सूरिभिर् वर्णित इति तद्-विद्वेषिण एत एव दिव्य-प्रबन्धादि-विद्वेष-साम्राज्य-भाज इति तत्त्वम् ।
44 पुनर् अप्य् अ-सम्बद्ध-प्रलाप एव ।
वड-कलानां देशिकेन सह सम्बन्ध आदितो नासीत् । मध्ये केवलम् आवाहितो ऽभूद् इत्य् अमुं परमार्थं प्रकार-द्वयेन प्रतिष्ठापयामः । 1 भगवद्-आलयेषु देशिक-विग्रहानुभवे अमी चिराद् एव विमुखा अभूवन् 2 देशिक-दिव्य-सूक्तिषु अनुगृहितानाम् अर्थ-विशेषाणां अत्यन्त-विपरीतान् एवार्थान् प्रायशो ऽमी आद्रियन्ते – इत्य् एवं प्रकार-द्वयं प्रामाणिक्या पद्धत्या प्रतिपादयामः,
इति प्रतिज्ञाय प्रथमं प्रकारम् उपपादयितुं प्रवृत्तः
श्री-रङ्गे देशिकालयस्य मुख-विटङ्के तेन्-कला-पुण्ड्रः अस्ति
इति, तेन देशिक-विग्रहे ऽपि स एव पुण्ड्र आसिद् इति सिद्धम् एवेति, वड-कला-पुरुषैस् तद् विपर्यासः कृत इति, तदानीं कलहो ऽभवद् इति, अद्य वड-कला-पुण्ड्र-धारणेन अनुभूत-पूर्व-सर्व-बहु-मान-हानिर् अभूद् इति च लिखति । अत्र बुद्धिमद्भिः पर्यालोचनीयम् । देशिकालये स्वाधीने सत्य् एव हि वड-कला-जनैः पुण्ड्रादि-विपर्ययः कर्तुं शक्यः । तेन तत्र देशिक-विग्रह-स्थापन-कालात् प्रभृति वड-कला एव तन्-निर्वाह-कारिण आसन्न् इति स्वयम् अयम् अभ्युपगच्छति । तथा च “भगवद्-आलयेषु देशिक विग्रहानुभव-विमुखाः” इत्य् अस्याः प्रतिज्ञायाः साक्षाद् विपर्यय-साधक एव हेतुर् उपन्यस्तो भवति ।
[[72]]
पुण्ड्रम्
अथ पुण्ड्र-कथां पश्येम । बहिः पुण्ड्रान्तर-दर्शनेन को ऽर्थो ऽनुमीयते । आक्रमण-शीलाः तेन्-कलाः बहिर् देशावधि-विक्रियाम् उत्पाद्य अन्तर् गन्तुम् अन्-इच्छन्तो वा कथम् अप्य् अ-शक्ता वा अन्तः स्थितं तथैवामुञ्चन् इत्य् एतद् अनुमीयते । अत्र तत्त्वं जिज्ञासमानानां स-विधे इदं विनिवेदयामः । श्री-रङ्गे भगवतो रङ्ग-नाथस्य आराधन-कारिणो ऽर्चकाः अनादेः कालात् वड-कला एव । अद्यापि ते तथैव वर्तन्ते । आदौ भगवतः श्री-वेङ्कटाद्रीश्वरस्येव कला-द्वय-साधारणं कञ्चिद् ऊर्ध्व-पुण्ड्रं समार्पयन् । ततः परं १८९४ वर्षे तम् अपनीय बलिष्ठाः तेन्-कलाः स्वकीयं शूल-पुण्ड्रं धारयन्ति स्म । तत्र उत्तमाधिकरण-पर्यन्तं व्यवहारे प्रवृत्ते नवीन-पुण्ड्रापनयनम् आदिष्टम् आसीत् । तथा ऽपि वड-कलानां सात्त्विकत्वात् इतरेषाम् अत्यभिनिविष्टत्वाच् च तैः कृतो विपर्यासो ऽनुवर्तते ।
अथ तत्रैव श्री-रङ्गे भगवद्-आलयान्तर्गते कस्मिंश्चिद् आलये श्री-शठ-कोप-सूरिः श्री-पर-काल-सूरिः मधुर-कवि-सूरिः इत्य् एषां त्रयाणां विग्रहाः सन्ति । तत्र आद्यस्य उत्सव-विग्रहे अधो दर्शिताकारः पुण्ड्रः ललाटे दृश्यते ।
स न गर्त-रूपः अपि तु ललाट-तलाद् उद्गतः उत्सेधात्मा । एवं तत्रैव अन्तर्गतालयान्तर-स्थे भगवद्-रामानुज-विग्रहे ललाटे एवम् आकारः पुण्ड्रः।
[[73]]
उभाव् इमौ पुण्ड्रौ व्यवहार-विशेषे श्री-रङ्ग-डिस्ट्रिक्ट्-मुन्सीप्-कोर्ट्-अधिकरणिकेन 1-2-1908 दिने स्वयम् आगत्य प्रतिकृति-ग्रहणेन प्रकटिताकारौ । एवं प्राचीने वड-कला-पुण्ड्रे अन्-अपनेयतया स्थिते ऽपि अद्य तत्रोभयत्र तद्-उपरि घन-मृत्तिक-लेपेन शूल-पुण्ड्रम् एव धारयन्ति । इदम् अलं तेषाम् आक्रमण-शीलतां सत्यापयितुम् । तस्माद् देशिक-दिव्य-मङ्गल-विग्रह-स्थ एव चिरन्तनः पुण्ड्रः । स बहु निर्बन्धे ऽपि देशिक-भक्तैः कथम् अपि रक्ष्यत इति ।
श्री-वैष्णवानां अभ्यर्हिततमेषु त्रिषु दिव्य-देशेषु श्री-रङ्गे उक्त-रीत्या अतिसन्निहित-काल एव तेन्-कला-पुण्ड्रो भगवतो ललाटे धारितः । तिरुपति-क्षेत्रे भगवतः श्रीनिवासस्य पुण्ड्रः सर्व-विदित एव । स न तेन्-कला-पुण्ड्रः । श्री-काञ्ची-पुरे प्रधानतमस्य भगवतो देवाधिराजस्य पुण्ड्रः अद्याप्य् अ-परिलुप्तो देदीप्यते । महा-प्राज्ञैः श्रोत्रियैर् अधिष्ठितेषु क्षेत्रान्तरेषु आग्रहिभिः विपर्यये कृते मूढ-जनाः तम् एव क्रमम् अनुवर्तयन्ति ।
45 आचार्येषु भगवता रङ्ग-नाथेन वेदान्ताचार्य-बिरुद-प्रदानेन सम्भाव्य सिद्धान्त-स्थापने ऽभिषिक्तत्वात् देशिकस्य सर्व-प्राधान्यम् । तेन तस्य विभव-दशायाम् एव तत्-सन्निहित-काल एव च बहुषु दिव्य-देशेषु तद्-विग्रह-प्रतिष्ठा ऽकारि । काले गच्छति तेन्-कला-जनाः स्वाक्रान्तेषु आलयेषु क्वचित् तस्य विग्रहम् एवापनिन्युः । क्वचित् नामान्तरम् अकुर्वन् । क्वचिच् च पुण्ड्रान्तरं धारयित्वा परिभवन्ति । तेन खेद-भाजो देशिक-भक्ताः स्व-भक्ति-परिवाह-भूतं तद्-आराधनोत्सवादिकं कर्तु-कामाः जनान्तरोपद्रव-रहितं पृथग् आलयं निर्माय मनो-रथं पूरयन्तः तृप्यन्ति । बहिर् भूमि-निविष्टान् अपि अनुद्रुत्य पीडयन् घुर्घुरायमाणो जन्तुः शोचनीयः । शान्तं पापम् ।
यथा ऽनार्याक्रान्तत्वात् आर्यावर्तो नेदानीं पूर्ववत् तथात्यन्तं सताम् आवास-योग्यः तथा नास्तिकाक्रान्ता दिव्य-देशा अपि । “सा काशीति न चाकशीति” इति ह्य् अत्रापि निष्कर्ष कृतवान् एव देशिक-सार्व-भौमः
[[74]]
46
प्रायः सर्वेषु च आळ्वाराचार्याणाम् अवतार-स्थलेषु निराबाधं भ्राजमानाकार एव पुण्ड्रः देशिकेन विभव-काले स्वाङ्गे धृतः
इति कल्पना-पाण्डित्यं प्रकाशयन्न् आह । अनयैव रीत्या अद्य यतः प्रायः सर्वे दिव्य-देश-वासिनः देवालय-सम्बन्धिनश् च जनाः अन्-अधीत-वेदाः अ-कृत-सन्ध्योपासनाः तथैव देशिक आसीत् अन्ये चाचार्या इत्य् अनुमाने किम् उत्तरम् ?
देशिकस्य लोकोत्तर-महिमा-सहतया अवस्था-द्वय-कल्पनादि-मुखेन पात्र-पद्यापलाप-परिवादादि-मुखेन च कुल-परम्परया ये तस्मै द्रोहम् आचरन्ति तैर् आदृतः पुण्ड्रो न देशिकेन धृतो भवितुम् अर्हतीति तु सुखेनात्र निश्चयः कर्तुं शक्यः, कार्यश् च ।
47 अद्य मुखे ध्रियमाणस्य तेन्-कला-पुण्ड्रस्य अत्यर्वाचीनत्वात् पर-काल-सूरि-काल एव सत्त्वं न कश्चन श्रद्धास्यति । अभिनिविष्टैर् बलिष्ठैः साहसिकैः यत् किम् अपि कर्तुं शक्यत इति न स्तम्भेषु गाध-महा-पुण्ड्र-दर्शनम् अपि तत्-प्राचीनत्व-प्रत्यायनायालम् । श्री-रङ्ग-देवालय-स्थ–श्री-शठ-कोप-सूरि-भाष्य-कारादि-विग्रह-दर्शनेन प्राचीन-पुण्ड्र-तत्त्वे निर्णिते सर्वम् अन्यत् तद्-अनुरोधेन निर्णेयम् ।
राय-गो-पुरे अन्तः पार्श्वे शिलायाम् एव उट्टङ्कितो महान् वड-कला-पुण्ड्रो दीप्यते । स एव प्राचीनः । भगवद्-भाष्य-कारावतार-स्थल-भूत–श्री-भूत–पुरी-स्थ–तद्-विग्रहे स्थितं पुण्ड्राकारं अयम् एव पूर्व-पक्षी श्री-रामानुज-पत्रिकायां प्रकाशितवान् ।
[[75]]
नासा-मूले अङ्गुल्या मृदो विन्यसन-काले किञ्चिद् वैशाल्यम् अवर्जनीयम् तद् एवात्र वर्तते । अयं वड-कला-पुण्ड्र एव । न तु तेन्-कला-पुण्ड्र इति स्फुटं पश्यामः । किम् अत्र ततः परं विवादेन ?
48 देशिक-द्रोहेणैव स्वायुषि एकैकम् अपि क्षणं गमयन् अयं स्वकीयेषु दुराचारेषु देशिकम् एव प्रमाणी-करोतीत्य् अतिशोचनीयम् एतत् । कुतः कृष्ण-पादं लोकाचार्यं अन्यं वा कश्चित् प्रमाणतया नाश्रयति ?
अस्माकं विभ्रमाय विनाशाय च दिव्य-प्रबन्धादि-विवरण-व्याजेन केचिद् अतिवादाः परं तैः कृताः । अवश्य-ज्ञातव्येष्व् अपि अन्येषु सर्वेषु विषयेषु ते मूका एवाभवन् । तस्माद् देशिक एव नः शरणम्
इत्य् एव अनेनोत्तरं देयम् । तत्र देशिको यद् आह तद् यथावद् ज्ञात्वा ऽनुष्ठेयम् । न तु स्वेन दुराग्रह-गृहीतो यो ऽर्थः स देशिक-सूक्तिषु निधेय इति प्रतिबोधयामः ।
49 अयम् अस्माकं पुण्ड्राकार इति देशिकं विना अन्यो यः को ऽप्य् आचार्यो नोक्तवान् । देशिकश् च पुण्ड्र-प्रस्तावे भगवद्-रामानुज-शिष्य-परम्परासु क्वापि पुण्ड्र-भेद आसीद् इति न सूचितवान् अपि । यदि कश्चन भेदो ऽभविष्यत् स नूनं तं प्रत्यपादयिष्यद् एव । तथा प्रतिपादन-विरहात् सर्वेषां देशिक-काल-वर्ति-पर्यन्तानां एक-रूप एव पुण्ड्र इति निस्सन्दिग्धम् एतत् । एवम् एव ललाटे अङ्गान्तरेषु च विन्यस्यमानस्य पुण्ड्रस्य यदि तदा आकार भेदो ऽभविष्यत् तं स नियतं प्रदर्श्य प्रमाणम् अपि तत्र उदाहरिष्यत् । तद्-अन्-उदाहरणात् तद् अपि वैरूप्यं नासीद् इति निश्चीयते ।
[[76]]
50-51 दीप-शिखाद्य्-आकार-पुण्ड्रापेक्षया हरि-पादाकार-पुण्ड्र एव परमैकान्तिनां प्रशस्त इति श्री-सच्-चरित्र-रक्षायां देशिक आह । तत्र वड-कला-पुण्ड्रस्य शूर्पाकारतां पूर्व-पक्षी दर्शयति । तत् केवलं दौर्जन्यात् । शूर्पस्याकारः अयम् –
हरि-पादाकारश् चायम् –
[[77]]
शूलस्य एवम् आकारं दर्शयति ।
तद् अपि स्व-पुण्ड्रस्य तद्-आकारत्वात् परिरक्षण-तृष्णा विजृम्भितम् । शूलम् इति ह्य् आयुध-विशेष उच्यते । तस्य त्सरुर् अप्य् अवयवः । उपरि त्रि-शिखः अधः पुङ्ख-घटितः आयुध विशेषः शूलम् इत्य् उच्यते ।
इत्य् अयम् एव तस्याकारः ।
तद् एवं वड-कला-पुण्ड्र एव विशिष्टाधिकारि-धार्यतया सच्-चरित्र-रक्षा-सम्मतः,न तेन्-कला-पुण्ड्रः।
[[78]]
52-53 अद्यतन-स्वकीय-पुण्ड्राकारस्य प्रामाणिकत्व-सिद्धये बह्वीः कल्पनाः करोति । “हरेः पाद-द्वयाकृतिम्” इति वचनं न देशिकेनोपात्तम् । अत इदम् अ-विश्वसनीयम् । “हरेः पादाकृतिम् आत्मनो हिताय” इति, “दीपाकारं ततश् चापि वेणु-पत्र-समाकृतिम्” इत्य् उपक्रम्य “मम पादाकृतिं तथा” इति च वचनोदाहरणं सच्-चरित्र-रक्षायां दृश्यते । न च द्वि-वचनान्तेनेह समासः । प्रथमातिक्रमे कारणाभावात् । दीपाकार-वेणु-पत्रादि-समभिव्याहाराच् च । न हि दीप-द्वयाकारत्वं वेणु-पत्र-द्वयाकारत्वं वा इष्यते । तस्मात् ‘हरि-पाद-द्वयाकृतिम्’ इति केवलं कल्पितम् इदं वचनम् । नेत्रोपरोधितया अ-शक्यार्थ-विधायकत्वाच् च इदं वचनम् प्रमाणम् । शक्यत्वे च नेत्रोपरोधम् अपि सोढ्वा यथा-विध्य् एव धारणं कार्यम् । अङ्गान्तर-पुण्ड्र-वैरूप्य परिहारार्थं च ।
यत् तु
प्राकार-मण्टप-गो-पुरादिषु नेत्रोपरोध-वार्ता-प्रसक्त्य्-अभावे ऽपि मुखे विलसत आकारस्यैव मुख्यत्वम् इति हेतुना मुख-धार्यमाण-पुण्ड्राकार एव प्राकारादिषु प्राचीनैः पर्यकल्प्यत
इति तद् बालिश-भाषितम् । तस्य विकलत्वेनामुख्यत्वात् । अ-विकलत्वेनाङ्गान्तर-वर्तिनाम् एव मुख्यत्वात् । कलहोचितस्य प्रस्फुट-पुण्ड्र-भेदस्य तत्रैव स्थितेः पर-हृदय-ताप-जननम् उद्दिश्य तस्यैव प्राकार-भित्य्-आदिषु विनिवेशनम् इति तु युक्तम् ।
पादयोर् अधस्तात् नेत्रा वारक-भाग-मात्र-परित्यागे इत्य् अयम् आकारो निष्पद्यते ।
तत्र श्री-चूर्णस्य उपरि नयनम्, तस्य अधस्तात् पादांश-द्वयान्तराल-पूरणम्, एवं पूरितस्य पाद इत्य् अभिधीयमानस्य भागस्य अधो-भाग-पार्श्व-द्वये अश्रि-द्वयं विलोप्य
इत्य् आकार-कल्पनम्,
[[79]]
इति सर्वम् इदं विनैव प्रमाणं स्वेच्छयैव क्रियते । इदं सर्वम् अस्य पुण्ड्रस्यार्वाचीनत्वे लिङ्गम् ।
54 ‘हरि-पाद-द्वयाकृतिम्’ इति वचनं कल्पितम् इत्य् अवोचाम । कल्पनम् अपीदं अत्यन्तम् अ-समर्थस्येति प्रतीयते । पुण्ड्राकारे ज्ञातव्ये येषां वस्तूनाम् आकारो लोके व्यवस्थितः प्रसिद्धः तेषाम् एव दृष्टान्ततया प्रदर्शनं न्याय्यम् । दीप-शिखा–वेणु-पत्र–पद्म-मुकुलादीनां व्यवस्थितम् एव रूपम् । न च दीप-शिखाया वात-विक्षेपणेनान्यथा ऽपि रूपं भवतीति शङ्क्यम्। तस्यौपाधिकत्वात् । निवाते स्थितस्य स्वाभाविकस्यैव रूपस्य ग्राह्यत्वात् । अन्यथा अजादिभिः अर्ध-जग्धस्यापि वेणु-पत्रस्य दृष्टान्तत्वापत्तेः । न चैवं पाद-द्वयस्य व्यवस्थितं रूपं किञ्चिद् अस्ति । अवस्थाने आसने शयने सञ्चरणे वा सर्वदा पाद-द्वयस्य इच्छानुसारेण विविध-सन्निवेशं स्थाप्यमानत्वात् । अयं सन्निवेशः स्वाभाविक इति दुर्वचत्वात् । इदं तावद् अ-सामञ्जस्यम् एकम् । अन्यद् उक्तं पूर्वम् –
इत्य् एव पुण्ड्राकारः स्यात् ।
न तु एवम् इति । अत्र प्रतिविधानेच्छया “कुण्डली-कृत–सर्प-स्थ–हरि-पाद-द्वयाकृतिम्” इति कल्पनान्तरं कुर्वन्ति । दीप-शिखाद्य्-आकारान्तरस्य न खलु आधार-निर्देशो ऽस्ति । तेन अत्र परं यद् विशेषतस् तन् निर्देशः क्रियते तद् अपरं नवीन-पुण्ड्र-सृष्टि-प्रयासस्य लिङ्गम् । अत्राप्य् अ-सामर्थ्यम् एव कल्पकस्य दृश्यते । सर्पस्य कुण्डली-करण-मात्रं ह्य् उच्यते । तत्र फणोद्धारः कथं प्रदर्श्यते । अ-विस्तृत-फणस्य शिरसो ऽपि कुण्डल-सङ्गितया अ-पृथग् उपलम्भ एव सम्पाद्यः ।
[[80]]
तस्य च कुण्डलस्योपरि कृत्स्न-पाद-द्वय-निधाने इति अन्य एव कश्चिद् आकारः सम्पद्यत इति नेष्ट-सिद्धिर् इति । एवम् उत्फुल्ल-कमलस्य अष्टमीन्दु-कलायाश् चाधारत्व-कल्पने ऽपि कृत्स्नस्य पाद-द्वयस्य तद्-उपरि निधानं न्यायतः कर्तव्यम् ।
अथ च आधारस्यापि सान्तरालत्वं कार्यम् ।
द्वि-जः पुण्ड्रम् ऋजुं सौम्यं सान्तरालं तु कारयेत्’,
विमलान्य्-ऊर्ध्व-पुण्ड्राणि सान्तरालानि यो नरः’,
निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं विमोहितः’
इति पुण्ड्रत्वावच्छेदेन सान्तरालत्व-विधानात्, निरन्तरालत्व-निषेधाच् च । एवं अहि-कुण्डलं वा कमलं वा अर्ध-चन्द्रं वा पर्याप्तं आधारं परिकल्प्य तद्-उपरि पाद-द्वयं कृत्स्नं सान्तरालं निधाय आधारस्यापि सान्तरालत्वे कृते एक-हरि-पादस्य य आकारः स एव सम्पद्यत इति घट्ट-कुट्यां प्रभातम् । वृथा परिश्रमो महान् ऊरी-कृतः । अ-विकलस्यार्ध-चन्द्रस्योपरि पार्श्व-द्वये कृत्स्न-पाद-द्वय-निधाने अर्ध-चन्द्रस्य अन्तराल-विरहे ऽपि वड-कला-पुण्ड्र एव भवतीत्य् अपि ज्ञेयम् ।
तद् एवं हरि-पाद-संस्थानत्वं सान्तरालत्वं च सोपबृंहण-श्रुति-सिद्धम्
इति निष्पन्नाकारस्य कृत्स्नस्य पुण्ड्रस्य हि हरि-पाद-संस्थानत्वं श्री-सच्-चरित्र-रक्षायाम् उच्यते ।
श्री-देशिक-कालात् चिरात् पूर्वम् एव पृथग् भूताः सोमाशि-आण्डान्-वंश्याः वल्लभ-सम्प्रदाय-स्थाः अन्ये च गोपी-चन्दन-धारिणः कीर्नाम-धारिणो मतान्तर-स्थाः इति सर्व एव वड-कला-पुण्ड्रम् एव बिभ्रतीति प्राचीनत्वम् अस्य अ-प्रकम्प्यम् । अतो वैपरीत्यात् पुण्ड्रान्तरम् अत्यन्तम् अर्वाचीनम् इत्य् एतद् अपि तथैवाप्रकम्प्यम् । तद्-अद्यतन-तेन्-कला-पुण्ड्र-सन्निवेशानुग्राहकं न किम् अपि प्रमाणम् अस्तीति वेदितव्यम् ।
[[81]]
परं तु कदा कथं तस्य प्रादुर्भाव इति जिज्ञासा सर्वेषां बलवती वर्तते । तत्र कैश्चित् कथ्यमानम् इदं विश्वसनीयं मन्यामहे । वर-वर-मुनि-काले ततः परं वा स्थिताः केचिद् आचार्याः अवर-जाति-जनान् अपि वैष्णवान् कुर्वन्तः ब्राह्मण-श्री-वैष्णवेभ्यस् तेषां झटिति वैलक्षण्य-प्रतीतये पुण्ड्रस्याधस्तात् किम् अपि चिह्नं न्यधापयन् । तत् तैः पुण्ड्रावयवत्वेन गृहीतं क्रमेण साम्प्रतिक-तेन्-कला-पुण्ड्राकार-निष्पत्ति-हेतुर् बभूव । शिष्याणां पुण्ड्रे तद्-आकारे निष्पन्ने पश्चात् अन्यादृशाकार-पुड्र-धारिण आचार्याः तेषाम् अ-विश्वसनीया भवन्तीति पश्यन्त इमे स्वयम् अपि तम् एव धारयितुम् आरभन्तेति । तिरुपति-देवालय-गजानां मुखेषु मूले सम-रेखावतः पुण्ड्रस्याधः वर्तुलं चिह्नम् एव साम्प्रतम् अपि दीयते ।
श्रीमद्-भागवते कालिय-सर्पं प्रति
स सुपर्णस् त्वां नाद्यान् मत्-पद-लाञ्छितम्
इति भगवद्-वचनं श्रूयते । सर्पाणां शिरसि यद् वर्तते तत् हरि-पद-रूपं लाञ्छनम् इति अनादेः कालाद् व्यवहृतम् आसीद् इति निस्संशयम् इतो जानीमः । तद्-आकारश् चेत्थम् –
तस्मात् हरि-पादाकृतिम् इति पुण्ड्राकारे उपदिश्यमाने एक-पादाकार एव आधार-रहितः पुण्ड्रस्य आकारो ऽभिमत इति प्राज्ञैर् अवगन्तव्यम् ।
[[82]]
55 अथ सूर्य-किरणानां सूर्येण सम्बन्धो नासीद् इति वदन् राहु-बन्धु-जन इव वड-कलानां देशिक-सम्बन्धो नासीद् इति प्रतिजानानो ऽयं देशिक-ग्रन्थोक्तार्थ-विरुद्धार्थ-वादिनो वड-कला इति लोकस्य भ्रमम् उत्पादयितुं प्रवर्तते । चिराद् अयम् एवं वदन्न् आस्ते । तत्त्वम् अत्र शत-कृत्वो
निरूपितं च अस्माभिस् च अन्यैश् च । तथा ऽपि निर्लज्जं तद् एव पुनः पुनर् मुद्रयित्वा प्रकाशयति । कथम् एवं क्रियत इति पर्यनुयोगे
भवन्तो ऽपि भवद्-उक्त-पुनर् मुद्रयित्वा प्रकाशयन्तु, को निवारकः ?
इति प्रतिवक्ति । देशिक-श्री-सूक्तिभ्यः तेन्-कला-सम्प्रदायार्थ-प्रतिष्ठापनोद्यमः श्री-भाष्यात् अद्वैत-सिद्धान्त-स्थापनोद्यम-तुल्य इति विदां कुर्वन्तु विद्वांसः।
56-57 1 तेन्-कलाचार्या अपि
सर्वज्ञो ऽपि हि विश्वेशः सदा कारुणिको ऽपि सन् ।
संसार-तन्त्र-वाहित्वाद् रक्षापेक्षां प्रतीक्षते ॥
इतीदं प्रमाण-वचनम् उदाहृत्य रक्षापेक्षाम् आवश्यकीं वदन्ति । तस्माद् उभयेषां भगवद्-दया-स्व-रूपे निर्हेतुका । फल-सिद्धौ तु व्याजसापेक्षेत्य् एव मतम् । अस्मासु यं कम् अपि यत्नं विना भगवत्-कृपैव स्वयं फलं दिशतीति न कस्याप्य् आचार्यस्य मतम् । पूर्व-पक्षिणा उदाहृते परम-पद-सोपान-ग्रन्थे ऽपि ‘व्याजतयोपादाय’ इत्य् अस्ति ।
उन्निनीषाधो-निनीषयोर् निर्हेतुकत्वे परमात्मनो वैषम्य-नैर्घृण्य-प्रसङ्गात्
इति श्रुत-प्रकाशिका ।
‘अव्याजोदारभावात्’ इत्य् अत्र यशो-लिप्सादि-व्याज-शून्यम् औदार्यम् इत्य् अयम् एवार्थः । न तु प्रार्थना-राहित्ये ऽपि फल-प्रदत्वम् इति ।
2 प्रपत्तिर् नोपाय इति, मुमुक्षोः प्रपत्तिर् अन्-अपेक्षितेति, न के ऽपि तेन्-कलाचार्या आतिष्ठन्ते । श्री-शठ-कोप-सूरिः प्रपन्न इति स्पष्टं ते आचक्षते । प्रपत्तिर् अधिकारि-विशेषणम् इति पिल्लै-लोकाचार्य आह । देशिकस् तु “प्रपन्नाद् अन्येषां न दिशति मुकुन्दो निज-पदम्” इति श्रीमद्-रहस्य-त्रय-सारे सावधारणम् आह । न्याय-सिद्धाञ्जने प्रपत्य्-अनुष्ठान-काले तस्या उपायत्वेन प्रतीतिर् न भवतीत्य् आह । न तूपायत्वं नास्तीति ।
भक्त्या परमया वा ऽपि प्रपत्त्या वा महा-मुने । प्राप्यो ऽहं नान्यथा प्राप्यः
इति प्रमाण-शत-सिद्धत्वात् तस्य ।
[[83]]
3 एक-लाभोक्तौ इतर-लाभस्यापि तन्त्रान्तर्गतत्वात् एक-व्यवच्छेदेन इतरावधारणं अ-विवेक-कृत्यम् इति श्री-देशिक-चरणाः कण्ठ-रवेण कथयन्ति ।
अत्र स्व-लाभापेक्षा ऽपि स्वामि-लाभावसायिनी ।
स्वामि-प्रयोजनापेक्षा ऽअप्य् अतः स्वानन्द-हेतुका ॥
इति श्रीमद्-रहस्य-त्रय-सारे मूल-मन्त्राधिकार-श्री-सूक्तिः । चत्वारः पुरुषार्था इत्य् अतिप्रसिद्धम् एतत् । यदि मोक्षः ईश्वरस्यैव पुरुषार्थः इतरे ऽपि तस्यैव कुतो न भवन्ति ? अथवा किं त्रय एव चेतनस्य पुरुषार्थाः ? ‘रसँ ह्येवायं लब्ध्वा ऽऽनन्दी भवति’ इति कस्य लाभः कस्योच्यते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम्’
इत्य् अत्र ‘मत्-प्राप्ति-लक्षणं योगम्’ इति भाष्यम् । ‘मत्-प्राप्तीति अ-लब्ध-लाभो योगः’ इति तात्पर्य-चन्द्रिकायां श्री-देशिकः । ‘स्व-लाभं मत्वा’ इत्य् अनेन इतर-लाभो न व्यवच्छिद्यत इति तपस्वी न जानाति ।
4 स्व-गत–पर-गत–स्वीकार-विमर्शो ऽपि पूर्ववद् एव । चेतनेन स्वीकृतो भगवान् तं स्वीकरोति । तद् इदं स्पष्टम् उक्तं ‘अन्-अन्य-चेताः सततम्’ इति गीताष्टमाध्याय-श्लोक-भाष्ये । तथाहि –
एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्व-प्राप्यानुगुणं भगवद्-उपासन-प्रकार उक्तः । अथ ज्ञानिनो भगवद्-उपासन-प्रकारं प्राप्ति-प्रकारं चाह –
इत्य् अवतारिका ऽत्र दत्ता । उपरि च
सततं सर्व-कालं अन्-अन्य-चेता यः स्मरति अत्यर्थ-मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियां स्मृतिं यः करोति, तस्य नित्य-युक्तस्य नित्य-योगं काङ्क्षमाणस्य योगिनो ऽहं सुलभः, अहम् एव प्राप्यः न मद्-भाव ऐश्वर्यादिकः ; सुप्रापश् च ।
[[84]]
इति विवव्रे । यथा ऐश्वर्यार्थी कैवल्यार्थी च तद्-उपाय-भजन-विषयतया भगवन्तं स्वीकरोति तथैव मोक्षार्थी ज्ञान्य् अपि स्वीकरोतीति अवतारिकायां भाष्य-कृद्–अभिप्रायः सुस्पष्टः ।
अन्-अन्य-चेताः सततं यो मां स्मरति
इति श्लोके च स्व-गतः स्वीकारः स्पष्टम् उक्तः । भाष्ये च
यः स्मरति तस्य नित्य-योगं काङ्क्षमाणस्य
इत्य्-अन्तेन ग्रन्थेन स स्पष्टतरः कृतः । एवं कृत-भगवत्-स्वीकारस्य पुरुषस्य कथं भगवान् सुलभो भवतीत्य् एतद् उपपादयन् भाष्य-कारः
तद्-वियोगम् अ-सहमानो ऽअहम् एव तं वृणे । मत्-प्राप्त्यनुगुणोपासन-विपाकं तद्-विरोधि-निरसनं अत्यर्थ-मत्-प्रियत्वादिकं च अहम् एव ददामीत्य् अर्थः । ‘यम् एवैष वृणुते तेन लभ्यः’ इति हि श्रूयते ।
इत्य् आचष्ट । अत्र अवतारिकायां श्लोके तद्-भाष्ये च कण्ठोक्तं मोक्षार्थिनः स्व-गत-व्यापारं सर्वथा उपेक्ष्य श्लोक-तात्पर्य-विवरणाय अन्ते भाष्य-कृता उक्तं ‘अहम् एव तं वृणे’ इत्य् एवम् आदिकं ‘पर-गत-स्वीकार एव रक्षकः’ इति स्वाभिमत-दुरर्थोपष्टम्भकतया उदाहरतः वञ्चना-परत्वं सर्व-सुगमम् । षट्-त्रिंशत्-सहस्रिकायां च
अधिकारिणो लाभे ऽपि उपायस्य सिद्धत्वे ऽपि च स्वीकार-विरहे जीवनाभावात् तस्य स्वीकारस्य स्व-रूपं ‘चरणाव् एव शरणं कृतवत्’ इति, साङ्गानुष्ठान-काले ‘चरणयोर् अधस्तात् निभृतं प्रविष्टो ऽस्मि’ इति च प्रत्यपादयत् श्री-शठ-कोप-सूरिः ।
इति स्व-गत-स्वीकारः श्री-शठ-कोप-सूरिणा स्वयम् अनुष्ठिततया उक्तः । तद् इहापि पूर्व-पक्षिणोक्तं सर्व-पूर्वाचार्याभिप्राय-विरुद्धम् । तात्पर्य-चन्द्रिकायां
उक्तस्यातिवादत्व-शङ्काव्युदासाय श्रुति-मूलताम् आह
इति देशिक-श्री-सूक्तौ ‘उक्तस्य’ इत्य् अस्य कृत-भगवत्-स्वीकारं पुरुषं स्वीकर्तुं भगवान् स्वयं यतत इत्य् उक्तस्येत्य् अर्थ इति न कश्चिद् विरोधः । नायम् आत्मा श्रुतिः –
[[85]]
प्रियतम एव हि वरणीयो भवति । यस्यायं निरतिशय-प्रियः स एवास्य प्रियतमो भवति ।
इति श्री-भाष्ये चेतन-गत-भक्ति-गर्मतयैव व्याख्यातेति पर-गत-स्वीकार-मात्रे तस्याः प्रमाणतयोदाहरणं साक्षात् भाष्य-कार-तिरस्कार-साहसम् अवलम्ब्यैव कृतम् ।
5
प्रपत्तिम् अपराध-कोटि-प्रविष्टां वदन्तु । परमं दोषं वदन्तु । स्व-भाव-विरुद्धं वदन्तु । एवम् अन्यद् अपि बहु वदन्तु । ‘प्रपत्तिर् अन्-अनुष्ठेया’ । ‘मुमुक्षोः सा अन्-अपेक्षिता"
इति वदन् यः को ऽपि वर-वर-मुनि-पर्यन्तेषु आचार्येषु किम् अस्ति ? तत्-पर्यालोच्यताम् । मुमुक्षुप्पडि-रहस्ये
तस्य स्वीकार एव रक्षकः । अन्येषाम् उपायानां निवृत्तिर् दोषः । अस्य प्रवृत्तिर् दोषः
इति वदन्न् एव पिल्लै-लोकाचार्यः अत्र ‘इदं सर्वम् उक्ति-प्रसङ्ग-परिहारार्थम्’ इति, परन्द-पडि-रहस्ये
अतः पूर्वार्धे … स्वीकार-प्रकारं स्वीकारं चाह
इति, तनि-चरम-रहस्ये
अयं चोपायः (भगवान्) एकेनाकारेण सापेक्षः अपरेणाकारेण निरपेक्षश् च भवति । कथम् इति चेत् आश्रयण-काले अधिकारि-सापेक्षः, फल-प्रदाने इतर-निरपेक्षश् च
इति, तत्रैव
तस्मात् त्याग-विशिष्टः स्वीकारः, स्वीकार-विशिष्टो ऽधिकारः, गुण-विशिष्ट उपायः इत्य् उक्तं भवति ।
इति च आह । तस्मात् मुमुक्षुभिः प्रपत्तिर् अनुष्ठेयेत्य् अत्र तेन्-कलाचार्याणाम् अपि नास्ति विप्रतिपत्ति-लेशो ऽपि । सर्व एव तद्-अनुष्ठानं आवश्यकं मन्यन्ते । अन्यथा सर्वम् उक्ति-प्रसङ्गात् । अनुष्ठीयमाना प्रपत्तिस् तु किं रूपा ऽस्माभिर् भावयितव्येत्य् अत्र विप्रतिपत्तिर् अस्ति । तद्-विमर्शेन नास्ति नः प्रकृते किम् अपि फलम् । एवं चानुष्ठेयत्वे सिद्धे तत्रापराधत्व-वचन-तात्पर्यं बुद्धिमद्भिर् उपलब्धव्यम् ।
चैतन्य-स्व-भावः आत्म-समर्पणं विना न तिष्ठेत् ।
यथावत् प्रतिपत्ति-रूपं समर्पणं सर्व-प्रायश्चित्त-रूपं स्व-रूप-लाभश् च
इति प्रमाणान्तरेषु दृश्यम् ।
[[86]]
‘निरुपाधिको यागः आत्म-समर्पणम्’ इति तनि-प्रणवान्ते समर्थितं लोकाचार्येणैव ।
कैङ्कर्य-प्रार्थनाया अपराधत्व-वादिन्याः देशिक-श्री-सूक्तेस् तात्पर्यं धिग् अ-शुचिम् अ-विनीतं … … तव परिजन-भावं कामये काम-वृत्तः
इति यामुनाचार्य-स्तोत्र-श्लोकस्य तेन यत् तात्पर्यम् उक्तं तद् एवेति नाद्य अस्माकं तत्र किञ्चिद् अभिधातव्यम् अस्ति ।
6 कर्म-ज्ञान-भक्तीनां स्व-रूप-विरुद्धत्वं नैव सम्भवतीति श्रीमद्-रहस्य-त्रय-सारे साध्योपाय-शोधनाधिकारे
तस्माद् आत्म-स्व-रूपं प्रति उपासनादीनां नाशकत्वासम्भावितत्वानर्थावहत्व-विरहेण स्व-रूप-विरोध-प्रसङ्गो नास्ति
इति कण्ठोक्त्या श्री-देशिक आह । एवम् अस्य कण्ठोक्त्य्-उपलम्भात् तद्-विरुद्धाभिप्रायानुमानं अ-व्युत्पत्ति-विजृम्भितम् इति सज्जनाराधने उक्तवन्तः स्मः । एवं स्व-रूप-विरुद्धत्ववाद् अ-खण्डन-मात्रेण न विश्राम्यति देशिकः ।
इत्थं यथाधिकारं शास्त्र-विहितेष्व् अपि उपासनादीनि स्व-रूप-विरुद्धानीति केचिद् आहुः एते ऽपि प्रपत्ति-प्रशंसार्थं अतिवादं कृतवन्त इत्य् एतावद् एव ।
इति तेषां तात्पर्य-कल्पनेन एकाभिप्रायत्वम् एव स्थापयतीत्य् अपि द्रष्टव्यम्।
7 पुरुष-कार-भूता च श्री-महा-लक्ष्मीः उपायभूता चेति स्फुटम् आह देशिकः । सिद्धोपाय-शोधनाधिकारे
केचित् द्वय-मन्त्रे पूर्व-खण्डे श्रीमच्-छब्द उपलक्षण-पर इति उत्तर-खण्डे श्रीमच्-छब्दो विशेषण-पर इति च विभक्तम् आचचक्षिरे । अत्र शब्दे एक-रूपे स्थिते स्वारस्य-बाधके चासति ‘स्व-रूपं स्वातन्त्र्यं भगवत इदम्’ इत्य् आदिषु प्रसिद्ध–कूट-स्थ–सम्प्रदाय-विरोधेन क्रियमाणो विभागो ऽन्-उपपन्नः ।
[[87]]
इत्थं प्रपत्ति-विद्यायां तत्-तन्-मन्त्रानुसारतः।
विभुः पत्न्या गुणाद्यैश् च विशिष्टो विषयो ऽत्र नः ॥
इति च तद्-उक्तिः प्रसिद्धा । पूर्व-पक्ष्य्-उदाहृते रहस्य-रत्नावली-वाक्ये च
पुरुष-कार-भूता सती चेतनानां शरणम् इत्य् अत्र पुरुष-कारत्वं शरणत्वापर-पर्यायम् उपायत्वं च पृथग् उक्तम् इति व्युत्पन्नानां सुग्रहम् । ‘केचिद् आचार्याः’
इत्य् आदिना देशिक-पक्षो ऽयं तनि-प्रणवे लोकाचार्येणापि स्थिरी-कृतः ।
8 प्रतिवस्तु-पूर्णत्वं भगवतः शास्त्रेषूच्यमानं शत-कृत्वो बोधितम् अपि नायं ग्रहीतुं शक्नोति । घटत्व-गोत्वादि-रूपाया जातेः तस्यां तस्यां व्यक्तौ पूर्णत्वं यादृशं तादृशम् एव पूर्णत्वं भगवत एकैकस्मिन् वस्तुनि भगवता भाष्य-कारेण प्रत्यपादि । इदम् एव दिव्य-प्रबन्ध-व्याख्यातारो देशिकश् च स्व-स्व-ग्रन्थेषु निरूपितवन्तः । अत्र प्राचाम् आचार्याणां वैमत्यम् एव नास्ति । अर्वाञ्चस् तु तेन्-कला-दुर्ग्रहत्वाद् इमं विषयम् अन्यथा गृह्णन्तः
कृत्स्नं भगवतः स्व-रूपं एकैकस्मिन् वस्तुन्य् अन्तर्भवति । एकत्रान्तर्भूतं चेत् अन्यत्र कथं वर्तेत, तस्यैव वस्तुनो बहिर् वा कथं वर्तेत, इति चेत् अ-घटित-घटना-सामर्थ्येन तत्-सर्वम् उपपद्यत
इत्य् अ-प्रामाणिकं बहु वदन्ति । एवं चेत् जाति-दृष्टान्तो भाष्य-कारेण दत्तः कथं घटेतेत्य् अपि बत न पर्यालोचयितुम् ईशते । सर्व-शक्ति-नामके ग्रन्थे इदं वितत्य निरूपितवन्तः स्मः ।
9 एकस्मिन् जन्मनि जाति-विपर्ययः वर-वर-मुनि-पर्यन्तेषु आचार्येषु यस्य कस्यापि न सम्मतः । आजन्मनो विलक्षण-ज्ञान-भक्ति-सम्पन्नस्य श्री-शठ-कोप-सूरेर् अपि विषये अपशूद्राधिकरण-न्यायं सञ्चारितवतां षट्-त्रिंशत्-सहस्री-कार-प्रभृतीनां अभिप्रायस् तत्र व्यक्त एव । आचार्य-हृदय-ग्रन्थे अभिप्रायान्तरम् आपाततः प्रतीयत इव । तत्रापि सूक्ष्मेक्षिकायां क्रियमाणायां धर्म-शास्त्र–व्यवस्था-भञ्जन-प्रवृत्तिर् नास्तीत्य् एव निश्चेतव्यं भवति । परन्तु ततो भ्रान्ताः केचित् विपरीत-सिद्धान्त-स्थापन-प्रवणा आसन्न् इति
देशिक-श्री-सूक्त्या ऽवगम्यते । स हि श्रीमद्-रहस्य-त्रय-सारे प्रभाव-व्यवस्था-ऽधिकारे तेषां पक्षं निरस्यति । ‘सुरभेर् अपि सत्याः गोत्वं नापैति’ इति
शारीर-गुण-विशेष-मूलतया व्यवस्थिताः शारीर-जाति-विशेषाः उत्पत्ति-सिद्धा मरणान्तं स्थिरा भवन्ति ।
इति,
[[88]]
चातुर् र्वण्यं चतुर्-विधाश्रम-मुखे भेदे यथावस्थिते
वृत्तं तन्-नियतं गुणानुगुणया वृत्त्या विशिष्टं श्रिताः ।
इति च आह । तद् इयं जाति-विपर्यय-वार्ता पामर-वशी-करणाय अ-हृदयम् एव अर्वाचीनैः तेन्-कला-जनैर् उच्यते । विपरीत-पक्षावलम्बित्व-साधकतया ‘शिलादेः स्त्रीत्वादिर्’ इत्य्-आदिं देशिक-श्री-सूक्तिम् उदाहरन् जाति-शब्दार्थम् एव न जानातीत्य् आस्ताम् एतत् ।
10 ‘पर-दुःख-दुःखित्वम्’ इत्य् एष व्यवहारः भगवतो विषये सहस्र-नाम-भाष्ये कृतः । अस्य ‘पर-दुःख-दर्शनेन स्वयं दुःख-भाक्त्वम्’ इत्य् अर्थम् अल्प-प्रज्ञा गृह्णन्ति । वस्तुतस् तु पर-दुःखाभिन्न-दुःखवत्त्वम् इति तत्र विवक्षितो ऽर्थ इति तं ग्रन्थं पश्यतां सुधियां सुगमम् । अस्माकं जातं दुःखं स्वकीयम् एव भावयति भगवान् इति तात्पर्यम् । इदं वयं उद्यान-पत्रिकायां विशदम् उपपादितवन्तः स्मः ।
दया हि नाम स्वार्थ-निरपेक्षा पर-दुःखासहिष्णुता
इति रचनानुपपत्य्-अधिकरणे श्री-भाष्यम् ।
जीवानुप्रवेशेषु शोकादयो जीवांश-गताः । साक्षाद् अवतारेष्व् अभिनय मात्रम् ।
इति अन्तर्-अधिकरण-श्रुत-प्रकाशिकायां सिद्धान्तितम् । तद् इह पर-दुःख-जन्य-दुःखवत्त्वं दयेति श्री-भाष्य-श्रुत-प्रकाशिकादि-स्थितो निर्णय इति कथनं वञ्चनामात्रम् । ईदृशं पर-दुःख-दुःखित्वं देशिकः विरोध-परिहार-नाम्नि रहस्य-ग्रन्थे
सर्व-कर्ता सर्व-ज्ञः सर्व-शक्तश् च सन् ईश्वरः स्वयम् एव पर-दुःखम् उत्पाद्य तद्-अवलोकनेन स्वयम् एव शोचतीत्य् एतत् जरद्-गवादि-वाक्य-तुल्यम् ।
[[89]]
इति निराचकार । ‘जात-निर्वेदा’ इति दया-शतके भृगवद्-दया-विषयः प्रयोगः औपचारिकः । औपचारिकश् चायं न दुःख-विषयः । निर्वेदस्य दुःखाद् अर्थान्तरत्वात् । प्रतिबोधितो ऽप्य् अयं पूर्व-पक्षी यत् पुनर् अपीदम् अत्राह तत् केवलं निर्लज्जत्वात् । वचनार्ह-विषयान्तर-दरिद्रत्वाच् च ।
11 वात्सल्यं प्रत्यपि पिष्ट-पेषणम् एव कर्तव्यं भवति । अस्य रूपं श्रुत-प्रकाशिकायां त्रिषु स्थलेषु प्रत्यपादि जिज्ञासाधिकरणान्ते सामान्यतः “दोषान् अवभासः दोषेषु गुण-बुद्धिः” इति । समन्वयाधिकरणे दोषेष्व् अपि गुणत्व-बुद्धिः यथा ‘धेनोर् वत्से’ इति । अन्तर्-अधिकरणे
दोषान् आदर-हेतुः स्नेहः, यथा मातुः पुत्रे
इति । अत्र दोषेषु गुणत्व-बुद्धेर् भगवत्य् अ-सम्भवात् औपचारिक्य् एव भगवति तद्-रूप-वात्सल्योक्तिर् इति स्पष्टं देशिकः श्रीमद्-गद्य-भाष्ये आह । प्राचां तथा वात्सल्य-स्व-रूपं लक्षयतां लौकिक-पुरुष-वात्सल्यम् एव बुद्धौ स्थितम् इति नात्र अभिप्राय-भेदे अभिनिवेष्टव्यम् । दोषेषु गुणत्व-बुद्धिः भ्रम-रूपा प्रमा-रूपा वा भगवति दुर्वचेत्य् अन्यत्र विस्तरो द्रष्टव्यः ‘दोषो यद्य् अपि तस्य स्यात्’ इति रामायण-श्लोकस्य देशिकोक्तम् अभिप्रायम् अन्यथा गृह्णन् पूर्व-पक्षी यत् किञ्चित् कथयति, तद्-अभिज्ञैः सर्वथा उपेक्ष्यम् ।
12
आचार्य-सन्निधौ पञ्च-संस्कारोपलम्भ-काले द्वयोच्चारणान् अन्-ऊच्चारणेन प्रपत्तिः सिद्धयतीति तेन्-कलाचार्याः
इति लिखति । पूर्वं “प्रपत्तिर् नोपायः” इति “प्रपत्तिर् अपराध-कोटि-प्रविष्टा” इति तेन्-कला-मतम् आह । तादृश्याः प्रपत्तेः सिद्धिः किमर्थम् इहोच्यते ? व्याहतं ह्य् एतत् । कथं च द्वयोच्चारणान् उच्चारणेन प्रपत्ति-सिद्धिः ? पञ्चसु संस्कारेषु मन्त्र-संस्कारो ऽप्य् एकः । तत्र यथा श्रीमद्-अष्टाक्षर-मन्त्रस्य चरम-श्लोकस्य च गुरुच्चारितस्यानुच्चारणेन शिष्यस्य तद्-ग्रहणं भवति तथैव द्वयस्यापि । तत्र प्रपत्तेः कः प्रसङ्गः ?
श्री-भाष्य-कारेणैवानुष्ठिता नास्माभिर् अनुष्ठेया प्रतत्तिर्
इति चाह । द्वयोच्चारणानूच्चारणं पञ्च-संस्कार-कालिकम् अपि दत्त-जलाञ्जलि-स्व-पक्षे स्याद् इति विवेक्तुं न शक्नोति ।
[[90]]
तेन्-कला-सम्प्रदाय-समाश्रयण-प्रयोगे ताप-पुण्ड्र-नाम-मन्त्र-याग-रूप-पञ्च-संस्कार-समाप्त्य्-अनन्तरं आचार्यः शिष्यम् आदाय भगवत्-सन्निधिं गत्वा तत्र प्रपत्तिं कारयेद् इत्य् अपि लिखितं दृश्यते । एतन्-मूलकः समाश्रयण-काल एव प्रपदनम् इति प्रवादः । तम् इमं अयं विपर्यस्त-मतिः अन्यथा गृह्णातीति स्पष्टम् एवैतत् । देशिक-ग्रन्थस्यार्थश् च यथा-शीलं दुर्गृहीतः ।
13 प्रणाम-चर्चा कृत-पूर्वा । विषम-प्रणामो देशिकेन श्री-पाञ्च-रात्र-रक्षायां प्रतिषिद्ध इति चोक्तम् । तद् अत्र देशिक-सम्मति-वचनं अ-नृत-भयराहित्य-मूलकम् । स्तोत्र-भाष्ये नमो नम इत्य् अत्र ‘पौनःपुन्यम् अलङ्कृतिः’ इत्य् एतद् उदाहृत्य यद् उक्तं तत्र
आवृत्तिः शब्दालङ्कार-मात्रम् एव न पुनर् अनुष्ठाने आवृत्तिं सहते इति हि तद्-अभिप्रायः
इति लिखति । कथम् एतत् ? यत्रैकत्वं सिद्धं सर्प-चोरादौ तत्र सर्पः सर्पः चोरश् चोरः इति शब्दावृत्ति-मात्रम् । यत्र क्रियया प्रीति-व्यञ्जनं तत्र तस्याः क्रियाया आवृत्तिर् भवत्य् एव । ‘चम्बुज्जइ सत-हुत्तं’ चुम्ब्यते शत-कृत्वः इत्य् आरभ्य ‘प्रिये जने नास्ति पुनर् उक्तम्’ इत्य् अलङ्कारिका उदाहरन्ति । तद् इह नमस्कारस्याप्य् आवृत्तिर् अभिमतैव । भाष्य-कारस्य साक्षाच् छिष्यैः वङ्गि-वंशेश्वरैः स्व-कारिकासु मन्त्रासन-प्रकरणे
पादुकाग्र्ये प्रदायाग्रे प्रणम्य च पुनः पुनः ।
इति, अलङ्कारासने
दत्त्वा शुभानि पुष्पाणि प्रणम्य च पुनः पुनः
इति पूजा-समाप्तौ
देव-पार्श्वम् उपागम्य प्रणम्य च पुनः पुनः
इति, क्षमा-प्रार्थनायां
समुत्थाय ततस् तस्मै भूयो भूयः प्रणम्य च
इति, पर्यङ्कासने
प्रणम्य दण्डवद् भूमौ भूयो भूयः पुरो हरेः
इति चोच्यते । अन्यन्त्र सामान्यतः ‘प्रणम्य’ इत्य् उक्तस्य विशदी-करणम् एतत् । तस्मात् सर्वत्र पुनः पुनः प्रणाम एव विहित इति ध्येयम् । भाष्य-कारैर् एव श्री-वैकुण्ठ-गद्ये
दूराद् एव भगवन्तं शेष-भोगे श्रिया सहासीनं वैनतेयादिभिः सेव्यमानं
समस्त-परिवाराय श्रीमते नारायणाय नमः
इति प्रणम्योत्थायोत्थाय पुनः पुनः प्रणम्य
इत्य् अगद्यत । अत्रायं पूर्व-पक्षी अपार्थं कञ्चित् कथितवान् । अन्ये तं निरस्तवन्तश् च ।
[[91]]
भगवता निगमान्त-देशिकेन प्रदक्षिण-प्रणामान् युग्मान् एव सभाचरणीयान् कथितवता विस्तरेण शङ्का-समाधानाद्य्-अकरणात् तस्य काले केषाम् अपि तत्र विप्रतिपत्तिर् नासीद् इति, सर्व एव आचार्या युग्म-प्रणामान् एव कुर्वन्त आसन्न् इति च अ-सन्दिग्धं प्रतीयते । एवं विषम-प्रणाम-निषेध-वादिनं देशिकं एक-प्रणाम-पक्षानुकूलतया निदर्शयतः हृदयं कीदृशम् इति प्रायः सर्वे जिज्ञासेरन् ।
58 उपरि कृतैर् निरूपणैः पूर्व-पक्षि-तुल्या भूयिष्ठा अद्यतनास् तेन्-कलाः न परं वेदान्त-देशिक-द्रोहिणः अपि तु तेषाम् एव स्वकीयत्वेनाभिमता ये भट्टारक-प्रभृतयो वर-वर-मुन्यन्ता महान्त आचार्याः तद्-उक्तान् एवार्थान् अन्-आदृत्य मूढ-ग्राहेण अभिनिवेशेन सङ्केतेन च अ-शास्त्रीयान् उन्मर्यादान् पण्डित-जुगुप्सावहान् लोक-क्षोभ-हेतु-भूतान् दुरर्थान् कल्पयन्तः तद्-द्रोहिणो ऽपि भवन्तीति स्फुटी-कृतं भवति ।
वस्तुत इमे न तेन्-कला अपि । अपि तु सर्व-शास्त्र-मर्यादातिलङ्घित्वात् केवलं अ-कला विकला निष्कला वा ।
59 यथा यथा निरूपणं क्रियेत तथा तथा वड-कला-सम्प्रदायस्य प्राचीनत्वं अन्यस्यात्यन्तार्वाचीनत्वं च स्थिरी-कृतं भवेद् इत्य् अत्र नास्ति सन्देह-गन्धो ऽपि ।
60 परैर् अन्याय्यम् आक्रान्तस्य भगवन्-मन्दिरस्य प्रत्याहरणम् एव श्रीमद्-अहो-बिल-मठ-स्वामिभिः कृतम् इति परमार्थे स्थिते किम् इदानीं तद्-विषयेण रोदनेन ?
[[92]]
61 प्रत्याक्रमणानन्तरं पुनः प्रवृत्तम् आचारं नवीनं कृत्वा ततः प्राक्तनः आक्रमण-कारैः प्रवर्तित-आचारः प्राचीनत्वेन निर्दिश्यते पूर्व-पक्षिणा । ततो ऽपि प्राक्-स्थितम् आचारं पश्येति तत्र प्रतिवचनं श्रीमद्-आस्थान-सम्बन्धिनो दित्सन्ति ।
62
यमो वैवस्वतो राजा यस् तवैष हृदि स्थितः ।
तेन चेद् अ-विवादस् ते मा गङ्गां मा कुरून् गमः ॥
इति मनुः अन्-अर्घम् उपदेशं करोति । तम् अवधाय अन्-ऋतं अहङ्कार-मम-कारौ पर-हिंसा-रुचिं लोक-वञ्चना-ऽभिसन्धिं अन्-आर्जवं च दूरतः परित्यज्य विषयाः परामृश्यन्ताम् । तदा यद् बुद्धौ भाति तत् परमार्थिकं भविष्यति । तत् तत्त्वम् इति निश्चेतुं शक्यम् ।
इत्थम् उत्तरम् अदायि तात्त्विकं
क्षुद्र-बुद्धि-कृत-दूषणोच्चये।
तुष्टिर् अत्र भविता न दुर्मतेर् यत्न एष स-फलः सतां मुदा ॥
इति
मीमांसार्णव–मीमांसा-केसरि–पूर्वोत्तर-तन्त्र-प्रदीप–देशिक-दर्शन-धुरन्धर–पण्डित-राज–श्री-शैल-ताताचार्यस्य न्याय-मीमांसा-शिरो-मणेः प्राच्य-विद्येश्वरस्य कृतिषु सम्प्रदाय-प्रदीपे प्रतिवचन-काण्डः ।
[[93]]
-
अत्र वर्ष-सङ्ख्या सर्वा क्रैस्तु-शकीया । ↩︎