०५ कला-भेद-परिच्छेदः

अथ काले कस्मिंश्चिद् याते पूर्वोक्त-रीत्या कलि-परवशी-भूतैः कलहैक-रुचिभिः पामरतया श्री-शठ-कोप-नाथ-मुनि–यामुनार्य-यति-पति-प्रमुखैः प्रवर्तितस्य सिद्धान्त-विशेषस्य गौरवं सर्व-लोक-क्षेमङ्-करतां च यथावद् अवगन्तुम् अक्षमैः पिल्लै-लोकाचार्य-रहस्य-ग्रन्थेषु क्वचित् क्वचित् आपाततः प्रतीताः ये सिद्धान्त-विरुद्धा अर्थास् तेषु अत्यन्ताभिनिविष्टैः, काम-चार-वाद-भक्षानुगुणतया नवीन-सम्प्रदायान्तर-प्रवर्तने सञ्जातोत्कट-रागैः तद्-अननुगुणतया श्री-देशिके तद्-उक्तार्थेषु च जात-प्रबल-द्वेषैः देशिक-सम्प्रदायो ऽन्यः लोकाचार्य-सम्प्रदायो ऽन्य इति निरूपणोद्यतैः यो यो भेदः प्रदर्शयितुं शक्यः तत्-तत्-कल्पने प्रसितैर् बभूवे ।

तथा च अनयोः सम्प्रदाययोर् अष्टादश-भेदाः सन्तीति परिगणना कृता । अनेन क्रमेण पुण्ड्रे ऽपि भेदो ऽकल्प्यत । श्री-देशिक-पद्य-निरोधेन पद्यान्तर-पाठ-संरम्भः प्रादर्श्यत । एवं बहु ।

[[14]]

एवम् एतैर् उपक्रान्तस्य नवीनस्य सम्प्रदायस्य ‘तेन्-कला’ इति व्यवहारः । ‘तेन्’ इति दक्षिण-दिग्-वाची शब्दः । तद्-द्वारा द्राविड-भाषा-वाची च । कलेति विद्योच्यते । एवं च द्राविड-भाषा-मय-विद्या-रूपाणां दिव्य-प्रबन्धानां ‘तेन्-कला’ इति मुख्यम् अभिधानम् । तद्-एक-प्रधानत्वात् सम्प्रदायो ऽपि तद्-अवलम्बिनो जना अपि तेन शब्देनाभिधीयन्ते । ‘वड-कला’ इत्य् अनेन शब्देन श्री-देशिक-सम्प्रदायस्य तद्-अवलम्बिनां च व्यवहार उदभूत्। वड-कला उत्तर-कला । संस्कृतमयी वेदान्त-विद्येत्य् अर्थः । तद्-अवलम्बिनश् च उत्तर-कलाः । अत्र कश्चन विशेषः सर्वैर् अत्यन्तम् अवधेयः । अर्वाचीनाः अन्-अभिज्ञाः आग्रहिणः इमे तेन्-कलाः वेदान्, तत्-प्रतिपाद्यान् धर्मान्, कर्म-ज्ञान-भक्ति-योगान्, प्रपत्तिं च कुत्सयन्तः परित्यजन्ति स्म । द्रमिडोपनिषदां पारमार्थिकं भावम् अ-गृह्णन्तो ऽपि तत्र स्वकीयत्वाभिमानं विशेषतः प्रदर्शयन्तः इतर-व्यवच्छेदेन द्रमिड-कला-मात्रसक्ता इत्य् अभिप्रायेण तेन कला पद-वाच्या अभवन् । इतरेषां वड-कला-पद-वाच्यत्वं तु नैवेदृशम् । श्रीमन्-निगमान्त-महा-देशिक-प्रतिष्ठापित-प्रामाण्यान् दिव्य-प्रबन्धान् प्रति न हि तद्-अनुसारिणः सात्त्विकाः केचित् मनसा ऽपि स्वप्ने ऽपि ईषद् अपि अन्-आदर-प्रदर्शने मतिं कुर्युः । उभयोर् अपि कलयोर् अविशिष्ट-प्रतिपत्तय एव इमे । तस्मात् वड-कला एषु अस्ति, न तु इतरेष्व् इव नास्ति इति व्युत्पत्त्या इमे ‘वड-कलाः’ भवन्ति । न तु ‘वड-कलैव एष्व् अस्ति, न तु ‘तेन्-कला’ इत्य् अनया व्युत्पत्त्या ।

[[15]]

तेन्-कलैव अस्माकं प्रधानम्, नेतरेति स्वयं ते निश्शङ्कं घोषयन्ति । तेन तेषां नामधेयं कलान्तर-व्यवच्छेद-गर्भम् । अन्यत्र तु वड-कला एष्व् अस्तीत्य् एतावन्-मात्रेण तद्-उपपत्तेः तेन्-कलायां एतेषाम् उपेक्षा-विरहाच् च कलान्तर-व्यवच्छेद-गर्भता नास्ति । ब्रह्म-विष्णु-रुद्राणां सृष्टि-स्थिति-संहारा व्यापारा इति विभज्य व्यवहार-सत्त्वे ऽपि एतद्-अनुरोधेन स्थिति-हेतुर् विष्णुर् इत्य् उक्तेर् युक्तत्वे ऽपि ‘स्थितेर् एव विष्णुर् हेतुः’ इत्य् एतद् यथा नोपपद्यते, संज्ञा-मूर्त्य्-अधिकरण-न्यायेन सृष्टाव् अपि संहारे ऽपि च तस्य कर्तृत्वात् तथा प्रकृत इति बुद्धिमद्भिर् विवेक्तव्यम् । उभय-कला-सम्बन्धे श्रीमन्-नाथ-मुनि-कालात् प्रभृति अविच्छेदेन प्राप्ते अर्वाचीने काले ये वड-कलां पर्यत्यजन् ते ‘तेन्-कलाः’ इत्य् आख्यां लेभिरे । ये तु तां न तथा पर्यत्यजन् ते तत्-प्रतिसम्बन्धितया ‘वड-कलाः’ इत्य् आख्यां लेभिर इति ।

ते इमे विभक्ते आख्ये वर-वर-मुनि-पर्यन्त-पूर्वाचार्य-काले नैव अभवताम् । ततो ऽर्वाक्, तत्रापि द्वित्र-शतकानन्तरम् उद्भूते ।

वेद-वेदान्तादि-विद्या-परिश्रम-विरहात् वर्णाश्रमादि-धर्मानुष्ठान-विरहाच् च कालं सर्वं सम्प्रदाय-भेदाभिवर्धने कलह-करणे सम्प्रदायान्तरोपरोधे सात्त्विक-जन-पीडने च विन्ययुञ्जत । श्रीमद्-भाष्ये हि भगवद्-रामानुजेन वर्णाश्रम-धर्म-परिपालनावश्यकता स-संरम्भं निरूपिता; भक्तेर् उपायता च । गद्ये शरणागतिर् अनुष्ठिता । तत् सर्वम् एषाम् अत्यन्तम् अरुचये ऽकल्पत । अतः “आतपच्छन्दनं गद्यं भाष्यं तु पर-रञ्जनम्” इति तयोर् अन्यथा-सिद्धिं फलतः अत्यन्तानादरणीयत्वं च निश्शङ्कं निर्भयं वर्णयाञ्चक्रुः ।

द्राविड-भाषा-मये ‘प्रबन्धसार’-नाम्नि ग्रन्थे श्री-देशिकः दिव्य-सूरीणां अवतार-स्थल-मास-नक्षत्र-निर्देश-पूर्वकं तत्-तत्-प्रबन्ध-गाथानां सङ्ख्याम् अपि परिच्छिद्य प्रतिपादयति । तत्र आहत्य सर्व-गाथा-सङ्ख्या चतुः-सहस्री (४०००) । अत्र ‘रामानुज-शत-अन्तादि’ संज्ञया ‘तिरुवरङ्गस्तमुदनार्’ इत्य् अनेन कृताः भगवद्-रामानुज-विषयाः अष्टोत्तर-शत-सङ्ख्या-गाथा अप्य् अन्तर्भूताः ।

[[16]]

वर-वर-मुनिः उपदेश-रत्न-माला-नाम्नि स्व-निबन्धे प्रायः देशिकवद् एव दिव्य-सूरीणाम् अवतार-कालादिकं कीर्तयन्न् अपि गाथानां सङ्ख्यया परिच्छेदं न करोति । तेन देशिक-कृते गाथा-गणने तत्-पर्यन्तानां श्री-वैष्णवानां विमतिर् नासीत् इति स्फुटी भवति । भगवद्-रामानुजस्य साक्षाच् छिष्येण बटुक-पूर्णेन स्व-कृते यति-राज-वैभवे रामानुज-शतान्तादेः द्विव्य-प्रबन्धान्तर्भावः तद्-विषय-भूतेन भगवतैवाज्ञप्तः इति सुस्पष्टम् उच्यते –

तत्र श्रीमान् यतीशः कम् अपि शठ-रिपुं संप्रतिष्ठाप्य तेन
श्री-रङ्गाधीश्वरस्याध्ययनम् अहम् अहर् विंशतिं कारयित्वा ।
पश्चात् कैश्चित् प्रबधैस् स्व-विषयक-कथं तं प्रबन्धं मिलित्वा
रङ्गं संश्राव्य चक्रे स तद्-इतर-महा-सूरि-गोदा-प्रविष्ठाम् ॥

इति ।

एवं सम्प्रदाय-क्रमे स्थिते अर्वाचीनाः तेन्-कलाः “रामानुज-शत-अन्तादि’-प्रबन्धं दिव्य-प्रबन्देभ्यो बहिश् चक्रुः । चतुः-सहस्री-सङ्ख्यां प्रकारान्तरेण कथञ्चित् पूरयन्ति स्म । एवं न परं समानुज-विरचितं भाष्यं गद्यं च अपि तु तद्-विषयं निबन्धम् अपि ते अन्-आदरणीयं निरचिन्वन् । इत्थं वस्तु-तत्त्वे निरूप्यमाणे भगवद्-रामानुजस्य एषां न को ऽपि सम्बन्धः । यदि कश्चिद् अवश्यं वक्तव्यः तर्हि सः दोग्धृ-दोग्धव्य-भाव एव, नेतरः इत्य् एतत्सु सुग्रहम् ।

भगवद्-रामानुजं प्रत्येव एवम् आचरितवन्तः इमे देशिकं प्रति अन्यद् अन्यद् आचेरुर् इत्य् एतन् न् विस्मयावहम् । स घण्टावतार इति भगवद्-आराधन-काले घण्टां नोपयुञ्जते । देवालयेषु तत्-पद्य-पठनं यथा-शक्ति उपारुन्धत । तत्र तत्र प्रतिष्ठिताः तत्-प्रतिमाः अपनयति स्म ।

अ-नियन्त्रित-प्रसरण-कल्पना-वैभवेन भगवत्याः श्री-महा-लक्ष्म्याः जीव-कोटि-प्रवेशम् आतस्थिरे ।

‘कस्य पादोदकेन स शिवः स्व-शिरो-धृतेन’

[[17]]

इति सुस्पष्टं यामुनाचार्ये भगवच्-चरणारविन्द-प्रभवया गङ्गया शिवस्य परिपूतत्वम् अभिदधाने सकल-श्रुति-स्मृतीतिहास-पुराण-प्रसिद्धं अस्याः पुण्य-नद्या वैभवम् अपह्नुत्य वैपरीत्येन शिव-शिरः-स्पर्श-हेतुकम अपरिशुद्धत्वम् आचचक्षिरे । बहु-पाप-प्रायश्चित्त-तया धर्म-शास्त्रेषु विहितं पञ्च-गव्य-प्राशनम् अकार्यं मेनिरे ।

इत्थम् अतिसंरब्धैः आसुर-सम्पदा सम्पन्नैः महता विपर्यासेन सम्प्रदाये ऽस्मिन् स्थापिते, तत्र तत्र गत्वा बहुभिर् उपायैः बहु-जन-परिग्रहं प्रापिते च अन्-अन्तर-सन्तति-भवाः सर्वे तम् एव समीचीनं सम्प्रदायं मन्यमानाः तत्रैव श्रद्धालवो भवन्तीति सहजम् एतत् । परन्तु यदि तेषु केचित् ऋजु-मतयः अधीत-विद्या-विवेकिनो भवन्ति तेषां तत्-तत्-द्वन्द्व-परामर्शे सति स्व-सम्प्रदाय-गता न्यूनताः न न स्फुरेयुः । ते ऽपि तु प्रायः विषय-विमर्शेषु दूरावगाहने आलस्यात् सङ्केत-भङ्ग-भीरुत्वात् स्व-पूर्व-पुरुषादृत-क्रम-विपर्यास-करणे सहसा धैर्यासम्भवाच् च यथा-पूर्वम् एव वर्तन्ते । एषां हेतूनां विरहे तु तिरस्कृत्य तं सम्प्रदायं देशिक-चरणारविन्द-शरणा भवेयुर् एव । अभवच् च तथा भारद्वाज-श्रीनिवासाचार्यो नाम कश्चित् । स हि प्रथमं तेन्-कला-भूतः पश्चात् श्री-देशिक-ग्रन्थ-निषेवणेन प्रबुद्धः तद्-एक-शरणो बभूवेति तस्यैव वचनेन ज्ञायते । श्री-काशी-चौखाम्बा-मुद्रणालये मुद्रित-प्रकाशितस्य श्री-देशिक-कृता या न्याय-परिशुद्धिः तद्-व्याख्यानस्य कर्ता स प्रौढो विद्वान् भारद्वाज-श्रीनिवासाचार्यः । स तत्र स्वस्य पूर्वदशां प्रति महान्तम् अनुशयं उत्तर-दशां प्रति परमं प्रहर्षं च प्रकाशयन् निस्सङ्कोचं इदम् आह –

इयतः समयान् अहं महान्तं
मति-भेदं विवशः प्रपद्यमानः ।
स्वम् अवञ्चयम् अञ्जसा ऽद्य देवान्
निगमान्तार्य-निबन्धतः प्रबुद्धः ॥

इति ।

[[18]]

अति सन्निहिते काले च उलग्-पाक्कं–रामानुजाचार्यो नाम पण्डित-प्रवरः सुकृत-विशेष-परिपाक-वशेन जन्मना प्राप्तं सङ्केत-प्रधानं तं सम्प्रदायम् अवधूय, ‘सङ्केत-भीति-रहितस् सतृणेष्व् असक्तः’ इति देशिक-सम्भावितं सुसम्प्रदायम् आश्रितः तावता ऽप्य् अ-सन्तुष्य पूर्व-सम्प्रदाय रहस्य ग्रन्थानां अत्यन्तासामञ्जस्यं च बहुना ग्रन्थ-विस्तरेण घोषयामास ।

इति कला-भेद-परिच्छेदः पञ्चमः । इति सम्प्रदाय-प्रदीपे विवेक-काण्डः ।

[[19]]