वर-वर-मुनि-शिष्याः स्वाचार्यस्यास्य तनियन्-पद्यं निर्मातुं प्रवृत्ताः दिग्-अन्त-विश्रान्तेन यशसा विद्योतितस्य अचिरातीतस्य भगवतो निगमान्त-महा-देशिकस्य यादृशं तादृशं तत् कर्तुम् इच्छन्तः स्व-गुरु-परम्पराया द्राविड-वेदान्त-प्रधानत्वात् देशिकस्य यत् दिव्य-प्रबन्धानुसन्धानावसरे उपयुज्यमानं तनियन्-पद्यं ‘रामानुज-दया-पात्रम्’ इति तद् वानुसृत्य
श्री-शैलेश-दया-पात्रं धी-भक्त्य्-आदि-गुणार्णवम् ।
यतीन्द्र-प्रवणं वन्दे रम्य-जामातरं मुनिम् ॥
इतीदं पद्यम् अकुर्वन् । आदौ आचार्य-दया-पात्रत्वं तत्रोक्तम् अत्राप्य् उक्तम् । ज्ञान-वैराग्य-भूषणम् इत्य् एतत् कथञ्चित् ‘धी-भक्त्य्-आदि-गुणार्णवम्’ इति परिवर्तितम् । श्रीमद्-वेङ्कट-नाथार्यम् इति तत्र तृतीय-पादे नामोक्तम् । अत्र तु रम्य-जामातरं मुनिम् इति चतुर्थ-पादे तत् । ‘वन्दे’ इत्य् उभयत्र समानं पाद-भेदे सत्यपि । वेदान्त-देशिकम् इति यत् तत्र स्थितं तत्-स्थाने किम् अत्र वक्तव्यम् इति पर्यालोचनायां विवक्षित-वाक्यार्थे साक्षात् अत्यन्तोपयोग-विरहे ऽपि स्वाचार्य-गतं कञ्चन विशेषं स्फोरयिष्यतीत्य् अभिसन्धाय ‘यतीन्द्र-प्रवणम्’ इत्य् एतद् अयोजि । विशिष्ट-प्रभावेषु पूर्वोत्तरेषु महत्सु आचार्येषु बहुषु सत्स्व् अपि भगवति भाष्य-कारे वर-वर-मुनेर् अभ्यधिका भक्तिः । व्यक्तम् इदम् आर्ति-प्रबन्धादि-परिशीलन-पराणाम् । तस्या भक्तेर् इदं फलं यत् भगवद्-रामानुज-सिद्धान्तावलम्बिषु सर्वेषु तस्य विशिष्टा प्रतिपत्तिर् आसीत् । विशिष्य च तत्-सिद्धान्त-प्रतिष्ठापन-परिपालन-धुरन्धरे श्री-देशिके तस्य महद् गौरवम् । अत एव पिल्लै-लोकाचार्य-कृत-रहस्य ग्रन्थ-व्याख्यानावसरे सम्प्रतिपत्ति-स्थले क्वचित् क्वचित् श्री-देशिक–श्री-सूक्तीर् उदाहरन् विप्रतिपत्ति-प्रतीति-स्थले क्वचिद् अपि देशिक-श्री-सूक्ति-खण्डने नैव प्रवर्तते । स्थितं तु विशदं विवृत्य विरमति । स्वोक्तार्थान् प्रति श्री-देशिकेन यद् उक्तं तत् सर्वं मूल-कारेण स्व-प्राचार्येण पिल्लै-लोकाचार्येणैव अभ्युपगतम् । अत एव ग्रन्थतो वा उपदेशतो वा मनाग् अपि तत्र विप्रतिपत्तिर् न कृतेति जानन् स्वभावतश् च प्रशान्तो वर-वर-मुनिः इतर-निरसने वा स्वयं कस्यचिद् अर्थस्य स्वातन्त्र्येण स्थापने वा नैव प्रावर्तत ।
[[13]]
महताम् अपि केषाञ्चिद् अतिवादाः पृथग् विधाः ।
तत् तद्-अर्थ-प्रशंसादि-तत्परत्वाद् अबाधिताः ॥
इति विरुद्धवद्-अवभासमानानां उक्तीनां सङ्गमन-प्रकारं श्री-देशिक-दर्शितम् आश्रयन्तः सर्व एव आचार्याणां सर्वेषाम् ऐक-कण्ठ्यं सम्प्रदायस्य भाष्य-कार-प्रवर्तितया एकतां च प्रतिपेदिरे । तथा वर-वर-मुनिर् अपि । एवम् अस्य भगवद्-भाष्य-कार-सिद्धान्ताविलम्बिषु प्रतिपत्त्य्-अतिशयं तत्र सम्प्रदाय-भेद-प्रवर्तन-प्रावण्य-विरहं च व्यञ्जयतीदं यतीन्द्र-प्रवणम् इति विशेषणम् । तद् इदं तनियन्-पद्यं अर्वाचीनैः तेन्कलाजनैः देशिक-पात्र-पद्य-स्थाने अनुसन्धीयते । ततः पूर्वं तु देवालयादिषु दिव्य-प्रबन्धानुसन्धानारम्भावसानयोः तु देशिक-पद्यम् एव सर्वैः श्री-वैष्णवैर् अनुसंहितम् अभूत् ।
इति पद्यान्त-रपरिच्छेदश् चतुर्थः ।