रामानुज-दया-पात्रं ज्ञान-वैराग्य-भूषणम् ।
श्रीमद्-वेङ्कट-नाथार्यं वन्दे वेदान्त-देशिकम् ॥
इतीदं श्री-देशिकस्य तत्-कुमार-वरदाचार्यस्य च शिष्य-भूतेन श्री-ब्रह्म-तन्त्र-स्व-तन्त्र-स्वामिना निर्मित तनियन्-पद्यम् । देवालयेषु वा गृहेषु वा यदा यदा दिव्य-प्रबन्धानुसन्धानं प्रसक्तं तदा तदा आदौ अवसाने च दिव्य-प्रबन्ध-विषये श्री-देशिकेन कृतं परमोपकारं स्मरद्भिः सर्वैः श्री-वैष्णवैः तस्मात् कालात् प्रभृति अनुसन्धीयमानम् अभवत् ।
अस्मिन् पद्ये आद्येन पादेन सदाचार्य-कटाक्ष-समृद्धिर् उच्यते । एतत् फलं द्वितीयेन पादेन । ज्ञानं परापर-तत्त्व-विषयं हित-पुरुषार्थ-विषयं च । वैराग्यं भगवद्-व्यतिरिक्तेषु विषयेषु । तेन भगवति भक्तिः फलिता ।
[[11]]
‘परमात्मनि यो रक्तो विरक्तो ऽपरम् आत्मनि’
इति ह्य् उच्चते । एवम् आचार्यत्वोपयुक्त-गुण-पौष्कल्यम् उक्तम् । अथ अचार्यत्वं साक्षाद् उच्यते वेदान्त-देशिकम् इति । अन्ये आचार्याः प्रवचन-करणेन हेतुना आचार्य-पदाभिधेयतां लभन्ते । अयं तु न तावतैव अपि तु भगवता श्री-रङ्गनाथेन स्वयं वेदान्त-तत्त्वार्थ-निष्कर्पे अयम् एव प्रगल्भ इति निश्चित्य वेदान्ताचार्य-पदे निवेशितत्वाद् अपीति भावः । सर्वस्यास्य वैशिष्ट्यस्य यन्-मूल-कारणं
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः ।
सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थ-चिन्तकः ॥
इति स्मृत-जायमान-कटाक्ष-रूपं, तत्-सम्पत्तिर् उच्यते श्रीमद्-वेङ्कट-नाथार्यम् इति । एवं गभीरार्थ-गर्भितम् एतत् पद्यं न पद्यान्तर-सामान्येन द्रष्टव्यम् । मन्त्र-शास्त्रोक्त-प्रक्रियया वर्णोद्धार-प्रभृति-सकल-संस्कार-करण-पूर्वकम् आवर्त्यमानम् इदं श्री-देशिक-साक्षात्-कार-सम्पादकतया मन्त्र-विशेष-रूपं भवतीति, तथा केचिद् आवर्त्य तत्-साक्षात्-कारं लेभिर इति च वदन्ति ।
श्रीमान्-वेङ्कट-नाथार्यः कवि-तार्किक-केसरी ।
वेदान्ताचार्य-वर्यो मे सनिधत्तां सदा हृदि ॥
इत्य् अस्मिन् तनियन्-पद्ये कुमार-वरदाचार्य-कृते यत् कवि-तार्किक-केसरित्व-विशेषणं दत्तं तदप्य् अत्र ज्ञान-पदेन सूचितम् । भगवद्-अनुभव-रूप-दिव्य-प्रबन्धानुसन्धानावसरे देशिकस्य सकलाचार्य-कृपा-पात्रत्वानुसन्धानम् आवश्यकम् इति मन्यमानेन ब्रह्म-तन्त्र-स्व-तन्त्र-स्वामिना –
‘श्रीश-श्री-शठ-जिद्-यतीश-निगमान्तार्य-प्रभावोज्वलं रामानुजोक्त्य्-आदिमं दिव्य-महिमा
इदम् अन्यत् तनियन्-पद्यं निरमीयत ।
इति पात्र-पद्य-परिच्छेदस् तृतीयः ।
[[12]]