श्री-देशिकः या
वित्रासिनी विबुध-वैरि-वरूथिनीनां
पद्मासनेन परिचार-विधौ प्रयुक्ता
भगवतो दिव्या घण्टा, तद्-अवतार-रूपः । तस्मात् तं ये द्विषन्ति तेषाम् अ-सुरांशत्वम् अ-वर्जनीयम् ।
श्री-देशिकः ‘वेदान्त-देशिकः’ इति ‘सर्व-तन्त्र–स्व-तन्त्रः’ इति च बिरुद-विशेष-प्रदानेन दिव्य-दम्पतिभ्यां सम्भावितः । तस्मात् तं ये द्विषन्ति तेषां भगवद्-द्रोहित्वम् अपरिहार्यम् । नास्तिकत्वं च ।
श्री-देशिकः
विश्वग् व्यापिन्य्-अगाधे यति-नृपति-यशः सम्पद्-एकार्णवे ऽस्मिन्
श्रद्धा-शुद्धावगाहैः शुभ-मतिभिर् असौ वेङ्कटेशो ऽभिषिक्तः ।
प्रज्ञा-दौर्जन्य-गर्जत् प्रतिकथ-कवचस् तूल-वातूल-वृत्त्या
प्रौढ-गम्भीरोदार-सन्निबन्ध-संहत्या भगवद्-रामानुज-सिद्धान्तं सुस्थिरं स्थापयामास । तं ये रामानुजीया द्विषन्ति तेषां ‘कृत-घ्ने नास्ति निष्कृतिः’ इति बहु कुत्सितं कृत-घ्नत्वम् अन्-अपनोद्यम् ।
अद्यापि यदा यदा माया-वादिभिर् इतरैर् वा अस्मत्-सिद्धान्त आक्षिप्यते तदा तदा श्री-देशिक एकः शरणी-करणीयो भवति । तस्मात् तं ये द्विषन्ति तेषां ‘तम् इमं क्रियमाण-घ्नः’ इति गर्हितं कृत-घ्नत्वाद् अपि पापतरं क्रियमाण-घ्नत्वम् अप्रतिविधेयम् ।
घोरा इमे दोषा अस्माकं “मा स्म प्रसजन्न्” इति आत्म-हितार्थिभिः सर्वैः श्री-वैष्णवैः अस्मिन् आचार्य-चूडामणौ द्वेष-प्रसक्ति-वर्जने अतिजागरूकैर् भाव्यम् । अत एव हि तस्मिन्
अ-द्वेष-मात्रम् अपि वा येषां वेदान्त-देशिके । वीटी-चेटो ऽस्म्य् अहं तेषाम् इति वीथीषु घुष्यताम् ॥
[[10]]
इत्य् अभिज्ञा अ-द्वेष-मात्रम् अपि प्रशंसन्ति । एवं महतो ऽनर्थस्य परिहाराय भगवति निगमान्त-महा-देशिके द्वेषो न मनाग् अपि कर्तव्य इत्य् उक्तम् । अथ यदि पुरुषार्थेषु उत्तमस्य मोक्षस्याधिगमे ऽभिलाषः तर्हि तस्मिन् भक्तिर् अवश्यं कर्तव्येत्य् एतद् अपि सम्यग् अवधारणीयम् । अन्यथा ऽत्यन्त-दुर्लभत्वात् तस्य । तद्-उक्तं सप्तति-रत्न-मालिकायां प्रतिवादि-भयङ्करार्यैः ।
गुरौ वादि-हंसाम्बु-दा-चार्य-शिष्ये
जना भक्ति-हीना यतीन्द्राप्रियाः स्युः ।
यतीन्द्राप्रिया विष्णु-कारुण्य-दूराः
कुतो मुक्ति-वार्ता हि तादृग् विधानाम् ॥
इति ।
इति देशिक-वैभव-परिच्छेदो द्वितीयः ।