०१ उपोद्घात-परिच्छेदः

तत्र तावत्

दृष्टे ऽपह्नुत्य्-अभावाद् अनुमिति-विषये लाघवस्यानुरोधात्
शास्त्रेणैवावसेये विहति-विरहिते नास्तिकत्व-प्रहाणात्।
नाथोपज्ञं प्रवृत्तं बहुभिर् उपचितं यामुनेय-प्रबन्धैस्
स्नातं सम्यग् यतीन्द्रैर् इदम् अखिलतमः कर्शनं दर्शनं नः॥

इति भगवान् निगमान्त-महा-देशिकः विशिष्टाद्वैत-वेदान्त-नाम-धेयस्य अस्मत्-सिद्धान्तस्य इतर-सकल-सिद्धान्त-विलक्षणतां प्रतिपादयामास। प्रमाण-शुद्धिः प्रमातृ-शुद्धिः तद्-उभय-मूला प्रमेय-शुद्धिर् इति त्रितयम् इदं यस्माद् अस्मत्-सिद्धान्ते सम्पन्नं तस्माद् अयम् अन्येभ्यः सर्वेभ्यो विशिष्यत इत्य् उक्तं भवति । यद्य् अपि ‘त्रातं सम्यग् यतीन्द्रैः’ इति श्रीमद्-भाष्य-कारैः अस्मद्-दर्शनस्य सम्यक् परित्राणं कृतम् आचार्य-चरणाः प्रतिपादयन्ति; तथा ऽपि

आपाद-चूडम् अन्-अपायिनि दर्शने ऽस्मिन्
आशासनीयम् अपरं न विपक्ष-हेतोः।

इतीयं दशा तत्त्व-मुक्ता-कलाप-सर्वार्थ-सिद्धि-शत-दूषणी-प्रभृति-बहुतम-प्रबन्ध-निर्मातृभिर् एतैर् एव महनीयैः सम्पन्नेति वस्तु-स्थितिं प्रपश्यद्भिर् अस्माभिः

नाथोपज्ञं प्रवृत्तं बहुभिर् उपचितं यामुनादि-प्रबन्धैः।
सन्त्रातं देशिकेन्द्रैर् इदम् अखिल-तमः-कर्शनं दर्शनं नः।

इत्य् ऊहित्वा पद्यम् इदम् अनुसन्धेयम् इत्य् अत्र औचित्यं प्रति सर्व एव सुमनसः सम्प्रतिपद्येरन्[[??]]।

[[2]]

बाह्यादिभिश् चिर-निरुद्ध-निज-प्रकाशे
पाणिन्धमी भवति वेद-पथे समीचि ।
श्रीमद्-यतीन्द्र-कृति-रत्न-रुचि-प्रचारैस्
सञ्चारयन् जयति नः कवि-वादि-सिंहः ॥

इति शत-दूषणी-व्याख्याने चण्ड-मारुते एक-विंश-वादारम्भे तत्र भवान् महाचार्यः श्री-देशिकस्य श्रीमद्-वेद-मार्ग-प्रतिष्ठापकत्वम् आह ।

अस्मत्-सम्प्रदायः उभय-वेदान्त-श्रिया विराजितः । ईशावास्याद्य्-उपनिषद्-आत्मकतया संस्कृत-रूप एकः । द्राविड-दिव्य-सूक्ति-रूपो ऽपरः । अयं द्राविड-वेदान्तो नष्टः पुनर् नाथ-मुनिना योग-बलेन प्रतिलब्धः । शिष्य-प्रशिष्य-परम्परया प्रवर्तितश् च । अस्य वेदान्तस्य द्रष्टारं श्री-शठ-कोप-मुनिम्

माता पिता युवतयस् तनया विभूतिः
सर्वं यद् एव नियमेन मद्-अन्वयानाम् ।
आद्यस्य नः कुल-पतेर् वकुलाभिरामं
श्रीमत् तद्-अङ्घ्रि-युगलं प्रणमामि मूर्ध्ना ॥

इति श्री-यामुनाचार्यः स्वकीय-स्तोत्रारम्भे प्रणतवान् । भगवद्-भाष्य-कारः पुनः केनापि कारणेन दिव्य-प्रबन्धेषु वा तत्-कर्तृषु दिव्य-सूरिषु वा यं कम् अपि स्व-ग्रन्थेषु यत्र क्वापि सकृद् अपि नोदाजहार । तथापि

व्याख्यां भाष्य-कृद्-आज्ञयोपनिषदां यो द्रामिडीनां व्यधात्

इत्य् आदिभिर् आप्त-वचनैः तस्य तत्र विशेषतः प्रतिपत्तिर् आसीद् इति प्रस्फुटम् अवगम्यते । एवम् उभय-वेदान्त-सम्प्रदायः श्रीमन्-नाथ-मुनेः प्रभृत्य् अन्ववर्तत । भगवन्-मन्दिरेष्व् अपि यथा वेदानां तथा दिव्य-प्रबन्धानाम् अपि पारायणं संविहितम् आसीत् ।

[[3]]

श्री-देशिकस्य काले औपनिषदस्य अस्मत्-पूर्वाचार्य-प्रतिष्ठापितस्य श्रीमद्-विशिष्टाद्वैत-सिद्धान्तस्येव दिव्य-प्रबन्धानां प्रामाण्यस्य तेषां भगवन्-मन्दिरेषु उपयोगस्य च आक्षेप-कारिणः अतिसंरम्भिणः प्रबला दुर्वादिन आसन् । तान् सर्वान् वाद-गोष्ठीषु विजित्य तत्-प्रामाण्यं तेषां भगवन्-मन्दिरेषु पारायणाद्य्-औचित्यं च देशिकः सुस्थिरं स्थापयामास । तद् इदं श्री-शत-दूषणी-व्याख्यानस्य चण्ड-मारुतस्य कर्त्रा श्री-महाचार्येण स्व-कृतौ श्रीमद्-वेदान्त-देशिक-वैभव-प्रकाशिकायाम् –

कार्या न भाषाकृति-गीतिर् अत्र
1तत्-कल्पकार्चाश् च न पूजनीयाः।
इत्य् उक्त-पक्षं नृ-पतेः समक्षं यः प्राक्षिपत् तं गुरुवर्यम् ईडे॥79॥
जित्वा तु तान् भूप-समक्षतः श्री- रङ्गेश्वरस्याध्ययनोत्सवादीन्।
आकल्पम् अव्याहतम् आदिशद् यस् तं वेद-चूडा-गुरुम् आश्रयामि॥८०॥

इति प्रत्यपादि। एवं दिव्य-प्रबन्ध-प्रामाण्यादिकम् असहमानानां प्रतिवादिनां प्रशमने एकतः स्थिते, योग्येभ्यः शिष्येभ्यः प्रवचनवत् द्रमिडोपनिषत्-सारः, द्रमिडोपनिषत्-तात्पर्य-रत्ना-वलिः, निगम-परिमलः, मुनि-वाहन-नभोगः, मधुर-कवि-हृदयं, इत्य् एषां ग्रन्थानां निर्माणेनापि दिव्य-सूरि-श्री-सूक्ति-रक्षां श्री-देशिकः अकरोत्। तत्र निगम-परिमलः (लुप्तः) चतुः-सप्तति-सहस्र-ग्रन्थात्मा श्री-कुरुकेश्वर-कृतायाः षट्-सहस्रधा व्याख्यान-रूपः। इदम् उक्त्तं वैभव-प्रकाशिकायां महाचार्येण –

[[4]]

ग्रन्यैश् चतुस्-सप्ततिभिः सहस्रैश्
चतुस्-सहस्रार्थ-विशेष-युक्तैः।
यः षट्-सहस्रस्य चकार वृत्तिं
तं देशिकं नौमि शतं सहस्रम्॥११९॥

इति । अतः उभय-वेदान्ताचार्यत्वं भगवति निगमान्त-देशिके स्थितम्। मुख्यं चैतद् अत्र। लक्ष्मी-नाथ-समारम्भा श्री-देशिक-पर्यन्ता गुरु-परम्परा एवम् अनुसन्धेया।

1 भगवान् 2 लक्ष्मीः 3 विष्वक्सेनः 4 शठ-कोप-मुनिः 5 नाथ-मुनिः 6 पुण्डरीकाक्षः 7 राम-मिश्रः 8 यामुनाचार्यः 9 महा-पूर्णः 10 रामानुज-मुनिः (श्री-भाष्य-कृत्) कुरुकेश्वरः (षट्-सहस्री-कृत्) विष्णु-चित्तः वरदाचार्यः(अम्माळ्) रामानुजाचार्यः (वादि-हंसाम्बु-वाहः) श्री-देशिकः इति।

भगवद्-रामानुज-मुनेः (श्री-भाष्य-कारस्य) अन्-अन्तरं भिद्यमाना अन्या ऽपि गुरु-परम्परा अस्ति । इयं सा –

10 रामानुज-मुनिः 11गोविन्द-गुरुः(एम्बार्) 12 पराशर-भट्टारकः (कूर-नाथ-सुतः सहस्र-नाम-भाष्य-कृत् ) 13 वेदान्ति-मुनिः (नञ्जीयर्। श्री-शठ-कोप-गाथा-सहस्रस्य नव-सहस्री-व्याख्यान-कृत्) 14 कलि-वैरि-दासः (लोकाचार्यः। नम्पिल्लै) 15 कृष्ण-गुरुः (षट्-त्रिंशत्-सहस्त्री-कारः) 16 लोकाचार्यः (अष्टा-दश-रहस्य-ग्रन्थ-कारः आचार्य-हृदय-कारस्य भ्राता) 17 श्री-शैल-नाथः 18 वर-वर-मुनिः । इति ।

[[5]]

कलि-वैरि-दासस्य कृष्णनामैव अपरो ऽपि शिष्य आसीत् । सः शठ-कोप-गाथानां चतुर्-विंशति-सहस्री-व्याख्यान-कारः। अन्येषाम् अपि दिव्य-प्रबन्धानां व्याख्याता च । एष्व् आचार्येषु कलि-वैरि-दास-प्रभृतयो ऽर्वाञ्चः दिव्य-प्रबन्धेष्व् एव परमं परिश्रमम् अकुर्वन् । कलि-वैरि-दास-शिष्याभ्यां द्वाभ्यां कृष्णाभ्यां भगवद्-गुणातिशय-प्रतिपादन-संरम्भ-वशेन स्वंकृतयोः श्री-शठ-कोप-सूक्ति-सहस्र-व्याख्ययोः चतुर्-विंशति-सहस्री-षट्-त्रिंशत् सहस्त्रयोः अन्येषु च ग्रन्थेषु तत्त्व-हित-विषया अतिवादाः कृताः । केवलम् अर्थ-वादा इमे, न तेषां यथा श्रुतो ऽर्थो ग्राह्य इत्य् एतत् तयोर् एव ग्रन्थयोः अन्येषां च ग्रन्थानां पूर्वापर-परामर्शं कुर्वतां व्युत्पन्नानां वाक्य-न्याय-विदां विदुषां सुग्रहम् । किन्तु तथा विविच्य अर्थम् उपलब्धुम् अ-क्षमाः केचन श्रद्धा-जडाः आपात-प्रतीतं अक्षरार्थं पारमार्थिकं गृहीत्वा तम् एव स्व-शिष्येभ्य उपदिशन्तो ग्रन्थेषु निबध्नन्तश् च सम्प्रदायाध्वनि महतीं वैयाकुलीम् उत्पादयामासुः । यथा बौद्धादि-वैलक्षण्येन वेद-प्रामाण्यम् अभ्युपेत्यापि तत्र माया-वाद–निर्गुण-ब्रह्म-वादादि-संश्रयणेन अन्ये वेदान्तिनः कु-दृष्टय इत्य् अभिधान-भाजो ऽभवन् तथा दिव्य-प्रबन्ध-प्रामाण्यम् आश्रित्यापि भगवतो दुःखित्वं, लक्ष्म्या अन्-ईश्वरत्वं, भगवत्या गङ्गाया अ-शुद्धत्वं, सेतु-स्नानस्य वर्जनीयत्वं, नित्य-नैमित्तिक-कर्मणाम् अनाचरणीयत्वं, भक्त्यादीनाम् अन्-उपायत्वम् इत्यादि-सर्व-शास्त्र-सम्प्रदाय-विरुद्धम् अभ्युपगच्छन्तस् ते ‘संप्रदाय–कु-दृष्टयः’ इत्य् अभिधान-योग्यतां भजन्तः,

बाह्याः कु-दृष्टय इति द्वितये ऽप्य् अपारं
घोरं तमः समुपयान्ति न हीक्षसे तान्।
जग्धस्य कानन-मृगैर् मृग-तृष्णिकेप्सोः
कासार-सत्त्व-निहतस्य च को विशेषः॥

[[6]]

इति कूर-नाथ-प्रदर्शितस्य न्यायस्य अन्याविशेषेण मुख्य-लक्ष्या अभवन्। सत्-सम्प्रदायस्य घोरं विप्लवं एवम् आपतितं अवलोक्य अतिमात्रं विषण्णः श्री-देशिकः सयूथ्य-कलहात् अत्यन्तं भीतो ऽपि वेदान्ताचार्य-बिरुद-वितरण-मुखेन भगवता श्री-रङ्ग-नाथेन श्री-शठ-कोप-नाथ-मुनि-यामुनार्य-यति-पति-प्रमुखैर् आचार्य-तल्लजैः प्रवर्तितस्य लोकोत्तरस्य सर्व-लोक-श्रेयः सम्पत्तेर् एकोपायस्य वैदिक-सिद्धान्तस्य सर्वेभ्य उपप्लवेभ्यः परिरक्षण-भरं आत्मनः शिरसि आरोपितम् अवगच्छन् श्रीमद्-रहस्य-त्रय-सारादि-रहस्य-ग्रन्थजात, चतुः-श्लोकी-भाष्य–स्तोत्र-रत्न-भाष्य–निक्षेप-रक्षादि-बहु-ग्रन्थ-प्रणयनेन उद्भावित-सम्भावित-सकल-शङ्का-समाधान-पुरस्सरं शास्त्र-विहितां सम्प्रदाय-सिद्धां च तत्त्व-हित-गोचरां मर्यादां अ-चञ्चलं पुनः प्रतिष्ठापयामास । ततः प्रतिबुद्धाः अहं-मम-रहिततया प्रसन्न-मनसः परे बहवः पूर्व-गृहीतम् अर्थम् उपेक्ष्य तात्त्विकार्थाधिगम-सन्तुष्टाः कृत-कृत्याः कृतार्थाश् च बभूवुः । ‘पेरियवाच्चान् पिल्लै’ इत्य् आख्यातः चतुर्-विंशति-सहस्त्री-कारः श्री-कृष्ण-पाद-गुरुः चत्वारिंशद् अधिकैर् वर्षैः वर्षीयान् अपि श्री-देशिकस्य शास्त्रोपदिष्ट-सम्प्रदाय-सिद्ध-सर्वार्थ-निष्कर्षण-विचक्षणतां लोक-विलक्षणां प्रसमीक्षमाणः तस्य सकाशात् प्रपत्ति-विषये सुनिश्चितं ज्ञानम् अधिजिगमिषति स्म । तदीयाम् अभ्यर्थनाम् अनुसृत्य देशिकः न्यास-विंशतिं संक्षिप्तां तद्-व्याख्यां च निरमिमीत । षट्-त्रिंशत्-सहस्री-कारस्य कृष्ण-गुरोः पुत्रः सम्प्रदायान्तरे आदृतानां अष्टादश-रहस्य-ग्रन्थानां कर्ता लोकाचार्यः स्वयं देशिकस्य साक्षात् शिष्यो भूत्वा अस्मात् श्री-भाष्यार्थं जग्राह । अनेन कृतम् एव श्री-देशिक-विषयं द्राविड-तनियन्-पद्यं ‘शीरोन्नु तूप्पुल्’ इत्य् आदि-देशिक-कृत-द्राविड-प्रबन्धानुसन्धानावसरे अद्यापि सर्वत्र पठ्यते । अस्यानुजः आचार्य-हृदय-नाम्नो ग्रन्थस्य कर्ता तु देशिकं प्रति अत्यन्तम् असूयावान् आसीत् । स एव कवित्वे श्री-देशिकेन स्पर्धमानः अत्युत्तम-स्तोत्र-काव्यस्य श्री-पादुका-सहस्रस्यावतार-हेतुर् आसीत् । एवं विधान् कतिपयान् प्रत्येव

[[7]]

आपात-शान्ति-मधुरान् पुनर् अस्मदीयान्
अन्योन्य्-अवैर-जननी विजहात्व् असूया ।

इति देशिकः प्रार्थयाञ्चक्रे । एतादृशेषु कतिपयेषु स्थितेष्व् अपि अन्ये सर्वे श्री-देशिकस्य अलोक-सामान्यं वैभवातिशयं यथावद् अवगच्छन्तः स्वोक्ते ऽपि तद् अनभिमते ऽर्थे आदर-रहिताः तस्मिन् नितान्तं बहु-मानवन्त आसन् । अष्टादश-रहस्य-ग्रन्थ-कारस्य लोकाचार्यस्य प्रशिष्यः तेषु ग्रन्थेषु कतिपयानां व्याख्याता च वर-वर-मुनिः तस्मिन् सम्प्रदाये श्री-भाष्य-प्रवचनं प्रति तद्-अर्थाधिगमं प्रति च प्रावण्य-विरहात् तत्र निरूढ-ज्ञान-लिप्सया श्री-देशिक-प्रशिष्यं ‘किडाम्वि-नयिनार्’ इत्य् आख्यातम् आचार्यम् उपसद्य तद्-अध्ययनम् अकरोत् ।

एवम् आपात-प्रतीतार्थ-भेदावलम्बनेन श्री-देशिकादृत-सम्प्रदाय-विरुद्धस्य सम्प्रदायान्तरस्य प्रादुर्भावे प्रसक्ते ऽपि श्री-देशिक-ग्रन्थैः शिक्षित-मतयः परे स्वोक्तम् अर्थान्तरं स्वकृतान् ग्रन्थांश् च स्वयम् एव उपेक्षितवन्तः । वस्तुतः सम्प्रदाय-भेदो नैवासीत् । सर्वैः श्री-वैष्णवैर् आश्रितः एक एव तु सम्प्रदायः । स च श्री-देशिकेन प्रतिष्ठापितः । आह च श्री-देशिकः ‘सम्प्रदाय-परिशुद्धि’नाम्नि रहस्य ग्रन्थे –

भाष्यकार-शिष्य-परम्परासु योजनाभेद-मात्रम् अस्ति, नार्थ-भेदः ।

इति । एवं स्थिते कस्यचित् कालस्यानन्तरं क्रूरेण कलिना शास्त्र-सिद्ध-सकल-धर्म-मार्ग-विध्वंसन-धुरन्धरेण विशिष्य सकल-कल्याण-हेतु-भूतोत्तमोत्तम-श्री-वैष्णव-सिद्धान्त-सम्प्रदाय-द्रोहम् ईहमानेन इमे मम दूरम् उपकरिष्यन्तीति दृढ-परिगृहीतैः कैश्चिद् आसुर-प्रकृतिभिः, अप्रामाणिकान् शास्त्र-विरुद्धान् श्री-देशिक-निरस्तान् अत एव पूर्वैः स्वयम् एव परित्यक्तान् अपार्थान् एव अभिनिविश्य सिद्धान्ती-कुर्वद्भिः अस्मत्-सम्प्रदायो ऽत्यन्तं भिन्न इति घोषयद्भिः, शास्त्रात् दैवाच् च अ-बिभ्यद्भिः, श्री-देशिक-दूषणोत्सवैः,

[[8]]

श्री-देशिकेन उभय-वेदान्त-प्रामाण्य-प्रचार-प्रतिष्ठापन-द्वारा कृतम् उपकारं स्मरता आस्तिक-जनेन तत्र तत्र देवालयेषु तद्-बिम्बं प्रतिष्ठाप्य पूजनं तत्-पद्य-पठनं च क्रियमाणम् अत्यन्तम् असहमानैः श्री-देशिक-प्रप्रशिष्यं सन्तं वर-वर-मुनिं तत्-प्रतिद्वन्द्वि-पदे कृत्वा तत्-पूजन- पुरस्कारादिषु समुज्जृम्भित-निस्सीम-सम्भ्रमैः हा हन्त श्री-वैष्णव-गोष्ठ्याम् आन्तर-क्षोभो महान् उत्पादितः ।

इदं सन्निकृष्ट-पूर्व-काल-वृत्तम् । अथाद्यत्वे पाश्चात्य-प्रक्रियावलम्बेन प्रायः सर्वेष्व् एव जनेषु वेदः शास्त्राणि, धर्मः सम्प्रदायः, आचारो भक्तिः, इत्य् एतत् सर्वं प्रति उदासीनेषु प्रतिकूलेषु च संवृत्तेषु पुरातन-वेद-शास्त्र-सम्प्रदायस्य आत्यन्तिके लोपे प्रसक्ते, ततो भीतैः आकुलैः विषण्णैः तत्र किं प्रतिविधानं, तत् कथं कर्तव्यम् इति चिन्ता-सन्तान-समाक्रान्त-स्वान्तैश् च भवितुम् औचित्ये सति प्रत्युत अति क्षुद्रैः अति क्रूरैः अति नृशंसैः अति कुटिलैः बहुधा बहुभिः सुनिरस्तान् अपि अपार्थान् आम्रेडयद्भिः निर्लज्जैः नक्तन्दिवं सर्वास्व् अवस्थासु सदाचार्याणां तत्-सूक्ति-रत्नानां, परम-भागवतानां च उत्कट-दूषण-तत्-परैः पामर-प्रतारण-परायणैश् च भवद्भिः कैश्चित् पदे पदे पूति-गन्धो द्वारि दुर्वचः-पटल-प्रकटनेन सज्जनानां शिरश्-शूलम् उत्पाद्यते । एतद् उक्तान् सर्वान् दुरर्थान् तदा तदा निरस्तवन्तो वयम् इदानीं अ-चिर-प्रकटिते ‘रामानुज-दया-पात्र-पद्य-चरित्र’ नाम्नि दुर्निबन्धे जड-व्यामोहनाय लिखितानां अ-प्रामाणिकानाम् अनृतमयानां विषयाणां विमर्शनेन तत्त्व-स्थितिं बोधयितुं तद्-अपेक्षि-साधु-जन-प्रार्थनाम् अङ्गीकृत्य प्रवर्तामहे ।

इत्य् उपोद्घात-परिच्छेदः प्रथमः ।

[[9]]


  1. तत्-कल्पकानां भाषा-प्रबन्ध-रूप-दिव्य-प्रबन्ध-कृतां शठकोपादीनाम् अर्चाः प्रतिमाः । ↩︎