०० भूमिका

विवाद-विषयाः

श्री-वैष्णवानां गोष्ठीषु
चिराद् अचिराद् वाङ्कुरिताः साम्प्रदायिकार्थ-विषया वाद-प्रतिवादाः
क्रमेण वर्धमाना एव दृश्यन्त
इति विदन्ति विश्वे ऽपि ।
ते चार्थाः
पात्र-पद्यं, प्रणामः, प्रदक्षिणम्, प्रपत्तिः, पद्मा, पुण्ड्रः, पञ्च-यज्ञाः इत्य् एते
ऽन्ये च केचन ।+++(4)+++
तेषु विशिष्य निर्दिष्टा इमे पादि-पदार्थाः
वादिभिः कलुषिताः पूर्ण-विपदाद्य्-अर्था भवन्ति
कला-द्वयस्यापि ।

‘अन्तश्-छिद्राणि भूयांसि…….’

इति ह्य् आहुः ।

रचना-कारणम्

ततस् तत्र तत्त्व-बुभुत्सया कैश्चिद् अर्थिताः
विश्व-विश्रुत-वैदुष्यातिशयाः श्रीमत्-ताताचार्य-स्वामिनः
लोकस्य तत्त्वालोकाय सम्प्रदाय-प्रदीपम् इमं प्रदिशन्ति ।

रामानुज-दया-पात्र-पद्य-विषये
विश्व-विदित-विविध-परीक्षा-विशोधिते
प्रवर्तितो ऽयं प्रदीपः –

श्रुत-विविध-परीक्षा-शोधिते क्वापि पात्रे।
अनघ-गुण-दशायाम् आहित-स्नेहम् आर्यः
प्रदिशति निरपायं सम्प्रदाय-प्रदीपम्॥

इत्य्-आचार्य-कृत्याधिकार– श्री-सूक्तिं नामतो विषयतश् चानुस्मारयति ।

प्रदीपो ऽयं वादि-व्यतिरिक्तानाम् आलोकम् उपजनय्य
उपकरिष्यतीति निश्चप्रचम् ।

वादिनस् तु
तत्त्वार्थं कण्ठे नियच्छन्तः
स्वान्तस्-ताप-परीवाहानुरूपैः
मिथो व्याहतैर् एव व्यवहारैः
दन्तादन्ति प्रवर्तयन्तीति
तेषां अयं प्रदीपो
नेत्रातुरस्येव प्रतिकूल एव भविष्यति । +++(5)+++

[[i]]

रामानुज-दया-पात्र-पद्यम्

१५७८

1578-तमे वर्षे राज-वोडयार्-प्रभोः राज्याधिपत्यम्।

तस्मात् प्रभोर् आरभ्य रामानुज-दया-पात्र-पद्यं
यदु-गिरि-क्षेत्रे तिरु-नारायण-सन्निधौ
तथा इतर-सन्निधिष्व् अपि
प्रबन्धानुसन्धान-समये यथानुवृत्तं
तथा, इदानीम् अपि तथैव रीत्या ऽनुवर्तनीयम्

इति राजकीयं शासनं
पात्र-पद्यावतारस्य विविध-कल्पनं सुदूरतो निरस्यति ।
हन्त राजकीय-शासन-स्वरूपम् एवान्यथयद्भिः

किं नवीनं किं प्राचीनम्

इति

न वयं विद्मः;
न च वेदितुं प्रभवामः;
यद् वा तद् वा स्वैरम् उच्यतां भक्तैः;
ये तावद् आक्षिप्य युद्ध-सन्नद्धा भवन्ति
ते नियतं दण्ड्येरन्

इति

एतादृशम् एव निर्धारणं तत्र निष्पन्नम्

इत्य्-एवम् आदिभिः स्व-परातिसन्धान-वाक्यैर् एव पूर्यन्ते
पात्र-पद्यानुबन्धिनो वादिभिर् निबन्धाः ।

मैसूर-राजकीय-शासन-काले 1709 १६४९-तम कि.पि.वर्षे
श्री-शैल-पद्यानुसन्धानं यदु-गिरि-क्षेत्रे नासीद्

इत्य् एव दर्शित-शासनाद् अवगम्यते।

विश्वास-टिप्पनी

वस्तुतस् तु, १६४९ इति वर्षम् एवात्र ग्राह्यम्।

अनन्तर-काले, तद् अपि तत्र सम्पादितास्पदम् इति त्व् अन्यत् ।
रामानुज-पद्यं तु
इतः 376 वर्षेभ्यः पूर्वं सिंहासने स्थितस्य
राज-वोडैयार्-महा-राजस्य काल एवानुसन्धीयमानम् अभूद्
इति सार्वभौमी स्थापना ।

ततः प्राक्तनी स्थितिर् अद्य विमृश्यते।

१३३८

कि. पि. 1338 बहु-धान्य-वत्सरे

सुश्लोको ऽवततार दिव्य-महिमा रामानुजोक्त्य्-आदिमः

इति द्वैतीयीक-ब्रह्म-तन्त्र–स्व-तन्त्र–स्वामिनां द्वादश-साहस्री।
कृतिर् इयं तार्तीयीकैर् ब्रह्म-तन्त्र–स्व-तन्त्र-गुरुभिः
त्रि-सहस्री-ग्रन्थे तत्र तत्र विशिष्य तत्-तद्-वचन-निदर्शन-पूर्वकं प्रमाणीक्रियते।

अथ च 1550 तम-वर्षे स्थितैः वात्स्याहोबिल-गुरुभिः
रामानुज-पद्यादि-तनियन्-व्याख्यायां
तत्र तत्र सेयं द्वादश-सहस्री विशेषत उदाह्रियते,
तथा तद्-उत्तर-कालिकैः चन्द्र-गिरि-वेङ्कट-देशिकैर् अपि
रामानुज-पद्य-व्याख्यातृभिश् च ।+++(4)+++

तथैव प्रबन्ध-निर्वाहो नाम निबन्धो ऽपि
देशिकस्य साक्षाच्-छिष्यैस् तिरुमलै-श्रीनिवासाचार्यैर् अनुगृहीतः।

त्रिभिर् अप्य् एतैः
स्व-स्व-निबन्धनेषु विशिष्य निदर्श्यते।

[[ii]]

वात्स्य-गुरु-प्रबन्धः

किञ्च प्रबन्ध-निर्वाहे नातिसङ्क्षेप-विस्तरः

इति वात्स्य-गुरु-व्याख्योपक्रमः।
प्रबन्ध-निर्वाह-निबन्धो ऽयं
रामानुज-पात्र-पद्याङ्कितः
मद्र-पुरीय–राजकीय-विश्व-पुस्तकालये ऽद्यापि दृश्यः।

अतो द्वादश-साहस्री प्रबन्ध-निर्वाहश् चेति

द्वे चक्षुषी तद्-अनुभावम् अवेक्षितुं नः।

यद् अत्र शिक्षणीय-सत्य-वचनाः वादिनो लिखन्ति –

राजकीय-पुस्तकालयेष्व् एव परं न;
प्राचीन-ताल-कोश-सङ्ग्रहो यत्र यत्र विद्यालयेषु मठेषु वा वर्तते
तत्र सर्वत्रापि कामं परीक्ष्यताम्,
रामानुज-दया-पात्र-पद्य-लेखन-शालि–पुस्तकं
एकत्राप्य् एकम् अपि न सुलभम्
इति स-शपथं ब्रूमः ।
(रामानुज-दया-पात्र-पद्य-चरित्रम् पु.१५)

इति ।
अत्र शत-पथो ऽपि शपथो मुधेति प्रतिष्ठापितम् इह सम्प्रदाय-प्रदीपे (42 पु)।

महीशूर-पुर्यां (Mysore) अन्यत्र च सुचिरं परीक्ष्यैव
एवं विस्रब्धं विलिखामः –
प्राचीन-ताल-कोश-संग्रहो यत्र यत्र विद्यालयेषु मठेषु वा
तत्रैकत्रापि रामानुज-पात्र-पद्य-लेखन-शालि-पुस्तकं एकम् अपि न सुलभम्।
(रा.पा.चरित्रम् 15 पु)

इति स्वैरं लिखन्तः
परातिसन्धान-विद्यायां वैदग्ध्यं वितन्वन्ति वादिनः।+++(4)+++

अत्र पात्र-पद्य-तत्त्व-निरूपणे
श्री-कार्यम्-कस्तूरी-श्रीनिवास-रङ्गाचार्य-स्वामिनो ऽपि –

द्वितीय-ब्रह्म-तन्त्र–स्व-तन्त्र–गुरुभिर् विस्तरेण व्याख्यातस्य
‘रामानुज-दया-पात्रम्’ इत्यादि-श्लोकस्य

सङ्ग्रहेण मया (वात्स्याहोबिलाचार्येण) व्याख्या क्रियते।

इत्यर्थकोक्तिः,
तदातन-प्राचीन-कोशेषु
इतः परं मुद्रितेषु च कोशेषु सर्वत्र दृश्यते

इति प्रत्यूचुः।

1709 १६४९ तम वत्सर-रूपः
प्रकृत-पद्य-विषये राजकीय-निर्णय-कालः
ताल-कोश-काल एव किल। +++(4)+++

वात्स्याहोबिल-गुरु-विषये विपर्यासं प्रदर्शयन्ति वादिनः।
त एते वात्स्य-गुरवः
ज्ञानाब्धि-ब्रह्म-तन्त्र–पर-काल–मुनीनां स्वाचार्याणां
पर-काल–मठास्थाने पञ्च-दशानां मङ्गलाचरण-पूर्वकं रामानुज-पद्यादि-व्याख्यानम् आरभन्ते।
तेषां साक्षात् शिष्या इमे 1550 तमे वर्षे आसन्।

राज-वोडयर्-महा-राज–समकालिका इति प्रपञ्चिते तत्त्वे
अदर्शनम् अभिनयन्तो हन्त तत्त्वापह्नवे प्रवर्तन्त इत्य् अतिसाहसम् एतत् ।

निगमनम्

अतः एतद्-उदाहृत ‘प्रबन्ध-निर्वाह’ ‘द्वादश-सहस्र’ निबन्धनानुरोधात् 1338 कि. पि. रामानुज-पात्र-पद्य-काल इति सुस्थम्।

[[iii]]

श्री-शैलेशाष्टकम्

श्री-शैलेशाष्टकं नाम
श्री-शैलेश-दया-पात्र-पद्य-विषया काचनाल्पाकृतिः देव-राजार्य-कृतत्वेन प्रथते।
अस्याः शब्दार्थ-दोष-जटिलत्वात्
तेन विद्वद्-वरेण्येन कृतत्वे अभिज्ञा अतीव विप्रतिपन्नाः।
अथापि तेन्कला-जन एव कश्चित् कर्तेत्य् अत्र नास्ति संशयः।

तत्र, अष्टमे श्लोके

वेदारम्भ उच्चार्यमाणयोः “हरिः, ओम्” इत्य् अनयोर् मध्ये
यथा कृष्णेति पदं नोच्चारणीयं,
तथा प्रबन्धारम्भे श्री-शैलेश–लक्ष्मी-नाथ इत्य् अनयोर् मध्ये
अन्यत् पद्यं न पठनीयम्
इति श्री-रङ्ग-नाथस्यादेश

इत्य् उच्यते।
तेन

तयोर् मध्ये किम् अपि पद्यं पठ्यमानम् आसीत्,
तत्-प्रतिषेधायेहैवम् उच्यत

इति स्पष्टम् एतत् । +++(5)+++
प्रसक्तं हि प्रतिषिध्यते।
तत्र “किं तत् पद्यम्” इति विमर्शे

‘रम्य-जामातृ’ इत्य् उपक्रमं
तत् तेन्कला-सम्प्रदाय-स्थैः कैश्चिद् अनुसन्धीयत

इति तद्-दूषणायैवेयं कृतिः प्रवृत्तेति च
तदीया एव वदन्ति।

ऊहः

रामानुज-दया-पात्रम्, लक्ष्मी-नाथ-समारम्भां इत्य् एवं देशिक-कालात् प्रभृत्य् अनुसन्धान-क्रमे स्थिते
वर-वर-मुनि-शिष्यैः प्रथमं श्री-शैलेश-पद्यम् अनुसन्धाय
ततः परं रामानुज-दया-पात्रं, लक्ष्मी-नाथ-समारम्भां इति प्राचीन-क्रमागत-पद्यानुसन्धानं क्रियमाणम् आसीत्
यथेदानीं केशवार्य-कृपा-पात्रं, रामानुज-दया-पात्रम्, इति श्री-सन्निधि-सम्प्रदाय-स्थैः। +++(4)+++

काले गच्छति, देशिक-द्वेषे विवृद्धे,
श्री-शैलेश–लक्ष्मी-नाथ, इत्य् अनयोर् मध्ये ऽनुसंहितं रामानुज-दया-पात्र-पद्यं पर्यत्यजन्।

अस्य परित्यागस्य न्याय्यत्व-समर्थन-संरम्भवतैव केनचिद्
एवं मिथ्या भगवद्-आदेशो निबद्धः,
परन्तु स्वकीयम् असामर्थ्य-मात्रं प्रकटितम् अभूत्,
इत्य् अप्य् अत्र प्रतीतिर् भवति।

तथा चेत्
देशिक-पात्र-पद्य-प्राचीनत्वे
इदम् अपि प्रबलं प्रमाणम् ।

देव-राजार्य-कृतत्वे तु - सुतराम्।

[[iv]]

वडकलाचारः

वेङ्कटाध्वरि-वर्णनम्

असकृल् लिखन्ति वादिनः –

वडकलाः नादितो द्राविडाः।
ते हि केवलं कर्मठाः,
वेदान् अधीयते, यजन्ति, जुह्वति,
असकृत् प्रणमन्ति भगवन्तं भगवद्-भक्तांश् च।
देवालयेषु क्वचिन् निभृतम् उपविश्य जपादिभिर् उपासते।
गङ्गाम् अवगाहन्ते, निमज्जन्त्य् अम्भोधौ, पञ्च-गव्यं प्राश्नन्ति
द्राविड-वेद-वैदेशिका अमी ।

अस्माकं तु सम्प्रदाय-स्थितिः इतः सार्ध-शत-द्वय-वत्सरतः प्राक्
वेङ्कटाध्वरिणा प्रणीते विश्व-गुणादर्शे सुप्रसिद्धा।
सो ऽयं कविः स्वकीये जीवित-काले
स्व-चक्षुषा यां स्थितिम् ऐक्षत
ताम् एव ग्रन्थतो निबबन्धेति निश्चीयते ।
स एष देश-चरित-प्रकाशको-महाग्रन्थः।

तेन्कलाख्यान् प्रति इत्थं सुस्पष्टं प्रतिपादयति कविः –

‘मुञ्चन्तः पञ्च-यज्ञान्’

इत्यादिना।
‘मुञ्चन्तः पञ्च-यज्ञान्’ वयम् एव । ‘द्रविड-फणितिभिर् मोहयन्तो ऽनभिज्ञान्’ वयम् एव ।
‘घण्टा-घोषं त्यजन्तो, हरि-परिचरणे सर्व-लोकाविगीतं’
वयम् एव ।
‘ख्यातं त्रैलोक्य-मातुः श्रुतिभिर् अभिहितं वैभवं खण्डयन्तः’ वयम् एव ।
‘केचिद् विप्लावयन्ते जगत्’ ते वयम् एव ।
‘न गाहन्ते गङ्गाम् अपि’ वयम् एव ते ।
‘न मज्जन्त्य् अम्भोधौ’ वयम् एव ते ।

चम्पू-ग्रन्थो ऽयं देश-चरित-प्रकाशकः,
स्व-चक्षुषा यां स्थितिम् अवैक्षत कविः
ताम् एव ग्रन्थतो निबबन्धेति निश्चीयते

इति ।

अत्र प्रतिवक्तारः तेन्कला-श्री-वैष्णवा एव।

उचिताचारवन्तः

श्रीमद्-भट्ट-पराशर-वंश्येषु घण्टा-घोषः स्व-गृहाराधनेष्व् अद्याप्य् अनुवर्तते ।
गङ्गा-स्नानादिकं चानुतिष्ठन्त्य् एव ।

स्मर्यन्ते पञ्च-यज्ञा मुनिभिर् अपि नमस्कार-मन्त्रेण शूद्रे

इति एक-जातीनाम् अप्य् अवर्जनीयाः पञ्च-यज्ञाः । तेन्कला-पुरुषान् सर्वान् अप्य् आत्मीयान् पश्यन्तो
नास्तिकयन्ति वादिनः । +++(4)+++

द्राविड-वेद-पारङ्गतता

“स-देशिकाः द्राविड-वेद-वैदेशिका” इति साहस-लेखनम् उपहास्यम् ।
देशिक-सम्प्रदाय-सिन्धुः त्रि-पथ-गेव त्रेधा प्रवहतीति प्रसिद्धम् ।
ये न गाहन्ते गङ्गां
ते त्रि-पथ-गाम् इमां न गाहन्त एव।

सम्प्रदाय-नामानि

(1) श्री-पर-काल-मठ-सम्प्रदायः = +++(दिव्य-सूरि-)+++पर-काल-मुनेर् दास्य-नाम्ना विश्रुतो विजयते।
(2) श्रीमद्-अहोबिल-मठ-सम्प्रदायः = अवयवि-भूतस्य +++(दिव्य-सूरि-)+++श्री-शठ-कोप-मुनेर् दास्य-नाम्ना प्रथितो ऽनुवर्तते ।
(3) श्रीमन्-मुनि-त्रय-सम्प्रदायस् तु सरो-मुनि–भूत-मुनि–महद्-आह्वय–मुनि-रूप– मुनि-त्रय–नाम्ना विद्योतते । व्याकरणवद् विशिष्टाद्वैतम् अपि मुनि-त्रय–दर्शनम् ।
दिव्य-सूरिष्व् आदि-मुनि-त्रयम्,
अचार्येषु श्रीमन्-नाथ-यामुन-यतीन्द्राख्यं मुनि-त्रयम्
इति तन्त्रेण तद्-उभय-नाम्ना मुनि-त्रय-सम्प्रदाय इति व्यवह्रियते ।

[[v]]

रहस्य-त्रय-सारे

श्रीमद्-रहस्य-त्रय-सारस्यारम्भे आचार्य-मुनि-त्रयम्,
अवसाने दिव्य-सूरि-मुनि-त्रयं च
दर्शन-प्रवर्तकम् इति विशिष्य स्तुतम्।

‘पाट्टुक्-कुरिय-पलैय् अवर् मूवरै’ इतीदम् इहानुसन्धेयम्।

मुनित्रयानुगत्वम्

मही-शूर-राजकीय-शाखायां मुद्रिते
श्रीमन्-महा-राज-वंशावली-ग्रन्थे

दोड्ड-कृष्ण-राज-प्रभुः
तिरुपति-क्षेत्रे स्थितान् मुनि-त्रय-सम्प्रदाय-धुरन्धरान्
महा-पर-काल-गुरून्
तत आनाय्य, समाश्रयणादि-श्री-वैष्णव-दीक्षाम् अङ्गीकृत्य

इत्य्-आदिकं दृश्यते ।
तद् इदं पात्र-पद्य-तत्त्व-निरूपणे श्री-कार्य-स्वामिभिः प्रकाशितम्।
पर-काल-मठीया मुनि-त्रय-सम्प्रदाय-प्रवर्तका इति महा-राज-वंशावली-सिद्धम् । विशिष्य च

श्रीमन्-नाथ-मुनि– श्रीमद्-यामुन-मुनि– श्रीमद्-रामानुज–मुनि-रूप– मुनि-त्रय–सिद्धान्त-स्थापनाचार्याः

इत्य् अनुसन्धानं देशिक-सम्प्रदाय-स्थेष्व् एव दृश्यते।

नाथोपज्ञं प्रवृत्तं बहुभिर् उपचितं यामुनेय-प्रबन्धैस् त्रातं सम्यग् यतीन्द्रैर् इदम् अखिल-तमः-कर्शनं दर्शनं नः ॥

इति देशिक-दर्शनं मुनि-त्रय-सम्प्रदाय इति व्यपदिश्यते ।

श्री-वैष्णव-समयाचार-निष्कर्षः

किं बहुना देशिक-सम्प्रदाय-स्थानां द्राविड-वेद-निष्ठत्वं
“श्री-वैष्णव-समयाचार-निष्कर्ष”-कर्त्रापि नापलप्यते।
तद् आह – सदाचार्य-विवेके -

द्राविड-वेदादि-दिव्य-प्रबन्धान्वितेषु श्री-वैष्णव-कुल-स्थेष्व् अपि

इति। +++(4)+++

द्रविड-प्रबन्धाध्ययन-परम्परा

श्रीमन्-नाथ-मुनीन्द्र-वंश्य– यति-राड्-अब्धीन्दु– तत्-प्रेरित-
श्रीमच्-छ्रीकुरुकेश-कॢप्त– शठ-जिद्–वेदान्त-भाष्यं शुभम् … ।

तत्-कालाद् आरभ्य सम्प्रदाय-क्रमेणाधीयानाः देशिक-सम्प्रदाय-स्थाः षट्-सहस्री-भाष्य-परित्यागिभिः वेदान्त-सम्प्रदाय-वैदेशिकैर् वादिभिर् अमीभिर् दूष्यन्त
इतीदं भूषणम् एव।

सम्प्रदाय-शुद्धिः

अनाघ्रात-शैव-संस्कारैः, अपरिचितावैष्णव-वर्त्मभिः, सप्त-पूरुष-विख्यातैः श्री-वैष्णवाग्रगण्यैर् आचार्यैः
आदित आरभ्याद्य पर्यन्तं प्रवर्त्यमाने वडकला-सम्प्रदाये
का नाम द्राविड-वेद-वैदेशिकता ।

[[vi]]

श्री-पाञ्च-रात्रे भारद्वाज-संहितायां
मुख्य-गौणाचार्य-विभागः स्पष्टी-कृतः –

सप्त-पूरुष-विख्याते
सन्ततैकान्ति-निर्मले ।
कुले जातो गुणैर् युक्तो
विप्रश् श्रेष्ठतमो गुरुः ॥ 39 ॥
स्वयं वा भक्ति-सम्पन्नो
ज्ञान-वैराग्य-भूषितः ।
स्वकर्म-निरतो नित्यं
अर्हत्य् आचार्यतां द्विजः ॥ 40 ॥

इति ।

यतीन्द्र-माहानसिक-कुरुकेश्वरादयः श्रेष्ठतमा गुरवः ।
तद् इदं उभय-सम्प्रदाय-गुरु-परम्परासु सिद्धं सम्प्रतिपन्नं नापलपितुं क्षमम् ।
देशिकात् पूर्वतनवद् देशिकवच् च
तस्य शिष्य-प्रशिष्यादयः
पर-कालाहोबिल–मुनि-त्रय-सम्प्रदाय-स्थाः सर्वे ऽपि
अनादि-श्री-वैष्णवाः सप्त-पुरुष-विख्याता
इति वस्तु-स्थितिः ।

अ-विच्छिन्न-सत्-सम्प्रदायार्थ-वेदी गुरुर् वेङ्कटेशो
गुरूक्तिष्व् अतुल्यः

इति हि श्लाघितो देशिक-सम्प्रदायः
सप्तति-रत्न-मालिकायाम् ।

संस्कृत-वेदान्त-वैदेशिकत्वम्

आर्तोपच्छन्दनं गद्यं
भाष्यं तु पर-रञ्जनम् +++(4)+++

इति वादि-गोष्ठी-गरिष्ठैः स्वयम् आर्जिता
संस्कृत-वेदान्त-वैदेशिकत्व-पताका षट्-सहस्री-भाष्य-वैदेशिकत्वं च सम्मतम् ।
अतः उभय-वेदान्त-वैदेशिका वादिनः।

युग्म-प्रणामः

प्रणाम-विषये युग्म-प्रणाम एव प्रामाणिकः साम्प्रदायिकश् चेति
वङ्गीश-कारिकासु नाना स्थलोदाहरण-पूर्वकं प्रतिष्ठापितम् इह (99 तम पुटे)

‘प्रणम्योत्थायोत्थाय
पुनः पुनः प्रणम्य’

इति श्री-वैकुण्ठ-गद्य-सूक्तिः।

‘नीला-तुङ्गे’ति श्लोकस्य व्याख्यायां
अ-सकृत्-प्रणामे प्रमाणी-कृता ऽनन्यथा-सिद्धेति च दर्शितम् ।

षट्-सहस्री-गुरु-परम्परा-प्रभावे

श्री-भाष्यकारा अ-सकृत् प्रणेमुर्

इति बहुषु स्थलेषु कण्ठोक्तम्।

गोविन्द-राजः

आमन्त्रयितुम् आरेभे
चरणाव् उपगृह्य च ।
ततः प्रदक्षिणं कृत्वा
भरद्वाजं पुनः पुनः

[[vii]]

इत्य् अत्र

प्रदक्षिण-विशेषणेन
प्रणामस् तु सकृद् एव

इत्य् उक्तं भवतीत्य् आचार्याः

इति स्व-सम्प्रदायं प्रथमं प्रदर्शितवन्तः श्री-गोविन्द-राजार्याः

केचित् तु

एक-हस्त-प्रणामैक-प्रदक्षिणयोर् इव
एक-प्रणामस्यापि निषिद्धत्वात्
पुनः पुनर् इति विशेषणस्यात्रार्थिके वा पूर्व-श्लोकोक्ताभिवादन-बल-लब्धे वा प्रणामे ऽप्य् अन्वयेन
न कोपि विरोधः

इत्य् आहुः

इति सोपपत्तिकं पक्षान्तरं समर्थयामासुः।

निपीड्य मातुश् चरणौ पुनः पुनः।
जगाम सीता-निलये महायशाः ।

इत्य् अत्र

निपीड्य निपीडन-पूर्वकम् अभिवाद्येत्य् अर्थः’

इति स्वयम् एव व्याचख्युः ।

रामस्य निपतिष्यामि
सीतायाश् च पुनः पुनः

इति पाठ-भेदः
गोविन्द-राजार्यैः स्वीकृतश् च ।

पूर्वस्मिन्, आचार्य-पक्षे
श्री-रामायण-पूर्वोत्तर-प्रकरण-विरोधः प्रमाणान्तर-विरोधश् चेति,
पक्षान्तरे न को ऽपि विरोध

इत्य् अनेनासूचयन् ।

प्रदक्षिण-सङ्ख्या

प्रदक्षिण-विषये तु
अद्य यावद् अ-निर्धारणम् एव वादिनां पक्षे दृश्यते ।
दर्शित-श्लोक-व्याख्यान एव

एकं प्रदक्षिणं न कार्यम् इत्य् उक्तम्

इति,

एक-हस्त-प्रणामैक-प्रदक्षिणयोर् इव एक-प्रणामस्यापि निषिद्धत्वात्

इति च प्रदक्षिणाऽवृत्तिं आचार्याभिमताम् आहुः ।+++(4)+++

श्री-वैष्णव-समयाचार-निष्कर्ष-कर्ता लोकाचार्य-शिष्यस् तु
सकृत् प्रदक्षिणम् एव महता संरम्भेण समर्थयति साम्प्रदायिकम् इति ।+++(4)+++

लक्ष्मी-विभुत्वम्

लक्ष्मी-विभुत्वं श्री-विष्णु-चित्तार्यैः पुराण-रत्न-व्याख्यातृभिः

‘यथा सर्व-गतो विष्णुस् तथैवेयम्’

इत्य् अस्य व्याख्याने दर्शितम्
श्री-सूक्त-भाष्ये च वेदान्ति-मुनिभिः (नञ्जीयर्)~~ रङ्गनाथमुनिभिः।
तद्-अनुसारिणी लोकाचार्य-रहस्य-श्री-सूक्तिश् च निरदर्शि प्रदीपे । +++(4)+++

पुण्ड्रादौ

प्रदीप-ग्रन्थे ऽस्मिन् पात्र-पद्यवत् पुण्ड्रादि-विषये ऽपि
प्रमाण-प्रदर्शन-पूर्वकं वडकला-पुण्ड्रस्यैव हरि-पादाकृतित्वम् इत्यादीनि समर्थ्यन्ते सुबहूनि सम्प्रदाय-तत्त्वानि ।

निगमनम्

तत्त्व-बुभुत्सूनां विशदावलोकनाय कल्पेतायं सम्प्रदाय-प्रदीपः ।

राजकीय-कलाशाला पञ्चनदम्
२९-१०-१९५४

ति. ई. वीर-राघवाचार्यः
श्री-मधुरान्तकम्

[[viii]]