Source: TW
।। श्रीः ।।
सम्प्रदाय-प्रदीपः ॥
एटूर्-इम्मडि-तिरुमलै-लक्ष्मीकुमार-कोटि-कन्यकादान-
श्री-देशिक-ताताचार्य-नन्दन-
मीमांसार्णव-मीमांसा-केसरि-
पूर्वोत्तर-तन्त्रप्रदीप–देशिक-दर्शन-धुरन्धर–
पण्डित-राज–तिरुमलै-ताताचार्य–
न्याय-मीमांसा-शिरोमणि–प्राच्य-विद्येश्वर-विरचितः।
न्याय-वेदान्त-केसरि-मधुरान्तकं-
श्री-वीर-राघवाचार्य-स्वामि-साहाय्येन
तिरुवैयारु–नगर-स्थ–श्री-श्रीनिवास-मुद्रणालये मुद्रितः॥
जय-कन्या १९५४॥
मूल्यम् रु. 1-0-0 ॥
।। श्रीः ।।
श्रीमते रामानुजाय नमः॥
।। श्रीः ।। श्री श्री-निवास-पर-ब्रह्मणे नमः। श्रीमते रामानुजाय नमः । श्रीमते निगमान्त-महा-देशिकाय नमः ।
सम्प्रदाय-प्रदीपः॥
आद्यं गुरुं कमलया कमलायताक्षम्
आचार्य-वर्गम् अपरं च मुहुः प्रणम्य।
यत्-सम्प्रदायम् अन्-अघं प्रति विप्रलम्भ-
शीलेन दूषणम् अकथ्यत तत्-क्षिपामः॥
आस्था यद्य्-आस्तिकत्वे यदि रूचिर् अन्-अघोदार-चर्यानुसारे
तृष्णा श्री-वैष्णव-श्री-महिमनि यदि यद्य्-आदरस् तत्त्ववित्तौ।
श्रद्धा-सिद्धान्त-शुद्धिं प्रति यदि यदि धीः सर्व-लोकोपकारे
धीरा निष्पक्ष-पाताः स्व-वहित-मनसः प्राध्वम् ईक्षध्वम् एतत्॥
[[1]]