Source: TW
परिष्कार्यम्
[वन्दे जगद्-गुरुं श्रीशं
यस्य चाज्ञा श्रुति-स्मृती ।]
यस्य लीला जगज्-जन्म-
स्थिति-संहरणादयः ॥
प्रणमाम्य् अस्मद्-आचार्यान्
तद्-गुरून् भाष्य-कृन्-मुखान् ।
यैर् अ-कण्टकिता मार्गा
दैविकाः पाञ्चरात्रिकाः ॥
कुमार-तातयाचार्यं
सदाचार-पदं सदा ।
वेदान्ताचार्य-सिद्धान्त-
विजय-ध्वजम् आश्रये ॥
शत-क्रतु-चतुर्-वेदि-
श्रीनिवासार्य-देशिकः ।
पञ्च-काल-क्रिया-दीपं
कुरुते विदुषां मुदे ॥
[ तत्र नित्यस्य भगवत्-
समाराधन-कर्मणः ।]
याग-ध्यानादि-रूपस्य
प्रयोगो ह्य् अभिधीयते ॥