०४ श्रौते हिंसा

आक्षेपः

प्रपन्नानां परमैकान्तिनां हिंसा-युक्तेषु श्रौत-कर्मसु प्रवृत्तिर् अयुक्तेत्याक्षेपः॥

परमैकान्तिनां श्रौत-कर्मसु हिंसादि-युक्तेषु उपरि चरादीनां प्रवृत्य्-अदर्शनात् कथं तेषां करणीयत्वम् ? कृतेष्व् अपि श्रौत-कर्मसु तत्-फल-भोगस्यावश्यं भावित्वात् ।

नाभुक्तं क्षीयते कर्म कल्प-कोटि-शतैर् अपि

इति वचनात् ।

एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते

इति क्षयिष्णुत्वेनावगतानां तत्-फलानां परमैकान्त्य्-अनपेक्षितत्वात्वाच् च ।

पिष्ट-पशु-खण्डनम्

प्रपन्नानां परमैकान्तिनां पिष्ट-पशु-खण्डन-पूर्वकं भगवद्-आराधन-रूप-श्रौत-कर्मानुष्ठानावश्यकता-निरूपणम्॥

अतः प्रपन्नानां श्रौत-कर्मसु प्रवृत्तिर् अयुक्तेति चेत् मैवं पाञ्च-रात्रे मन्त्र-सिद्धान्तागम-सिद्धान्त-तन्त्र-तन्त्रान्तर-सिन्द्धान्त-रूपेषु चतुर्ष्व् अपि मन्त्र-सिद्धान्त-मार्गेण तापादि-पञ्च-संस्कारैः चक्राब्ज-मण्डले यथा-विधि दीक्षितान् परमैकान्तिनः प्रति श्रौत-कर्मणां भगवद्-आराधन-रूपत्वेन विहितत्वात्वात् ।

[[27]]

उपरिचरोपाख्यानम्

महा-भारतस्थोपरिचरोपाख्यान-तात्पर्य-निरूपणम्॥

ब्राह्मणैः क्षत्रियैर् वैश्यैः शूदैश् च कृत-लक्षणैः ।
अर्चनीयश् च सेव्यश् च नित्य-युक्तः स्व-कर्मसु ॥
सात्वतं विधिम् आस्थाय गीतस् सङ्कर्षणेन यः ।
द्वापरस्य युगस्यान्ते ह्य् आदौ कलि-युगस्य च ॥

इत्य् अत्र सङ्कर्षणोक्त-सात्वत-शास्त्र-विधौ स्थित्वा ताप-पुण्ड्रादि-कृत-लक्षणैः वेदोक्त-नित्य-नैमित्तिकादि-स्व-स्व-कर्मसु नित्य-युक्तैस् तत्-कर्मसु भगवतो ऽर्चनीयत्व-सेव्यत्वस्योक्तत्वात्वात् । मोक्ष-धर्मे उपरि-चर-वसूपाख्याने

काम्य-नैमित्तिकाजस्रा याज्ञिकाः परम-क्रियाः ।
सर्वं सात्वतम् आस्थाय विधिं चक्रे समन्वित

इति वसुनापि नित्य-नैमित्तिक-काम्यानां यज्ञानां पाञ्च-रात्रोक्त-मार्गेण कृतत्वेनोक्तत्वात् । विशिष्य तेन अश्व-मेधादि-काम्यानां कर्मणाम् अपि तत्रैवानुष्ठितत्त्व-प्रतिपादनाच् च । न च वसुनापि नित्य-नैमित्तिक-काम्येषु यज्ञेषु पिष्ट-पशोर् एव कृतत्वाद् एव ऋषि-संवादे साक्षि-भूतेन अनेन देवेषु पक्ष-पातात् । पश्व्-आलम्भे धर्मत्वेन प्रतिपादिते सति अस्य वसोः शास्त्र-वचन-दोषात् गर्ते पातित्य-दर्शनाच् च पिष्ट-पशु-सहित-यज्ञ-कर्मस्व् एव प्रवृत्तिर् युक्ता न तु पश्व्-आलम्भ-कर्मस्व् इति वाच्यम् । तत्रैव मोक्ष-धर्मे अधिकार-चोदनाध्याये कृत-युगे पिष्ट-पशुः त्रेता-द्वापरयोः पश्व्-आलम्भः कलि-युगे धर्मस्यैक-पादेन स्थितिर् इत्य् उक्त्वा-

पिष्ट-पशुः कार्त-युगे

पिष्ट-पशुः कार्त-युग-धर्म-निष्ठाधिकारि-विशेष-विषयः॥

गुरवो यत्र पूज्यन्ते साधु-वृत्ताश् च मानिताः ।
वस्तव्यं तत्र युष्माभिः यत्र धर्मो न हीयते ॥
यत्र वेदाश् च यज्ञाश् च दमः सत्यं तपस् तथा ।
हिंसा च धर्म-संयुक्ता प्रचरेयुस् सुरोत्तमाः ॥
स वै देशो हि वस्तव्यो मा वो ऽधर्मः पदास्पृशेत् ।

[[28]]

इत्यादिना क्वचित् क्वचित् पश्व्-आलम्भ-युक्त-धर्माविर्भावस्योक्तत्वात् । तस्मात् कृत-युगादि-व्यवस्थया पिष्ट-पशोः साक्षात् पशोश् चालम्भः । पिष्ट-पशु-विधेश् च इदानीं पठ्यमान-शाखासु सूत्रेषु चादर्शनेन तत्-प्रयोगस्याधुनिकैर् ज्ञातुम् अ-शक्यत्वात् बहु-शाखा-दर्शिनां कार्त-युगाणाम् ऋषीणाम् एवात्राधिकारो युक्तः । नन्व् एवं साक्षात् पश्व्-आलम्भे “न हिंस्याद् इति” शास्त्र-विरोधः । न चाग्निषोमादि-हिंसायाः विशेष-विधानेन “न हिंस्याद्” इति शास्त्रस्य आहवनीयादि-शास्त्रस्य विशेष-विहित-पद-हामेतर-होम-विषयत्ववत् तद्-इतर-हिंसा-विषयत्वम् इति वाच्यम् ।

प्रत्यक्ष-पशु-याग-समर्थनम्

पदे क्रियमाणस्य होमस्याहवनीये कर्तुम् अशक्यतया विरोधेनाहवनीय-शास्त्रस्य तद्-इतर-विशेष-विषयत्वे ऽपि इहाविरोधेन उत्सर्गापवाद-न्यायासम्भवाद् अग्नीषोमीय-शास्त्रस्य अहिंसा-शास्त्रस्य च क्रमेण क्रतूपकारं प्रत्यवायश् च प्रतिपश्व्-आलम्भस्य साधनत्वावबोधकत्वात् । न चाग्नीषोमीयादि-विधिना बलवद्-अन्-इष्टाजनकत्व-विशिष्टेष्ट-साधनत्व-शक्तेन सह बलवद्-अन्-इष्ट-जनकत्व-बोधकाहिंसा-शास्त्रस्य विरोधो ऽवर्जनीय इति वाच्यन् । अहिंसा-शास्त्राविरोधाय अग्नीषोमीयादि-विधेः विशिष्ट-शक्तस्यापि श्येनादि-विधेर् इव इष्ट-साधनत्व-मात्र-परत्वस्योचितत्वाद् इति चेत् मैवं अग्नीषोमीय-पश्व्-आलम्भस्य हिंसात्वासम्भवात् । तद् धि न तावत् दुःख-जनकत्व-मात्रम्। छेदनादेः चिकित्सक-व्यापारस्यापि हिंसात्वापत्तेः । नापि प्राण-वियोगोद्देश्यक-व्यापारत्वं, सर्व-स्व-हरणादेः हिंसात्वानापत्तेः सर्वत्व-हरणादेर् अपि हिंसकत्वेन लोक-व्यपदेशात् । न चायम् औपचारिकः वैपरीत्यस्यापि सुवचत्वात् । किन्तु परम-प्रयोजनापर्यवसायित्वे सति तादात्विक-दुःख-जनकत्वं । चिकित्सादि व्यावृत्तये कलञ्ज-भक्षणादि-व्यावृत्तये च विशेषण-द्वयम् ।

[[29]]

ततश् चाग्नीषोमीयादि-व्यापारस्य तादात्विकाल्प-दुःख-जनकत्वे ऽपि परम-प्रयोजन-पर्यवसायितया उक्त-लक्षणाभावात् श्रुत्या हिंसात्व-निषेधाच् च नाहिंसा-शास्त्र-निषेध्यता । अ-हिंसन् सर्व-भूतान्य् अन्यत्र तीर्थेभ्य इत्य् अत्र तु अग्नीषोमीय-पश्व्-आलम्भस्य पामर-प्रसिद्ध्या हिंसात्वम् आशङ्क्य अन्यत्र तीर्थेभ्य इत्य् उक्तम् । अत एव “तस्माद् यज्ञे वधो ऽवधः” इति मनु-वचनेन पामर-प्रसिद्ध्यावध्यत्वेन शङ्कितस्य पश्व्-आलम्भस्य तत्त्व-दृष्टि-बलाद् अवध्यत्वम् उक्तम् । अत एव भगवता वेदान्ताचार्येण तात्पर्य-चन्द्रिकायां अग्नीषोमीयादि-पश्व्-आलम्भस्य “न वा उवे तन्म्रियसे” इत्य् आदि-हिंसात्वाभावः, पिष्ट-पशोः कार्त-युग-धर्म-निष्ठाधिकारि-विशेष-नियतत्वं च सिद्धान्तितम् ।

स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥

इति श्लोक-भाष्य-व्याख्यानावसरे “यज्ञानां जप यज्ञो ऽस्मीति” तत्रत्य-भाष्य-व्याख्यानावसरे च अनुगीतायाम् अध्वर्यु-यति-संवादे -

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञ-कर्मण्य् अथाब्रवीत् ।
यतिर् अध्वर्युम् आसीनः हिंसेयम् इति कुत्सयन् ॥
तम् अध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।
श्रेयसा योक्ष्यते जन्तुः यज्ञ-श्रुतिर् इयं तथा ॥
यो ह्य् अस्य पार्थिवो भागः पृथिवीं सम्यग् इष्यति ।
यद् अस्य वारिजे किञ्चित् तद्-अपः प्रतिपद्यते ॥

[[30]]

सूर्यश् चक्षुर् दिशः श्रोत्रं प्राणो ऽस्य दिवम् एव च ।
आगमे वर्तमानस्य न मे दोषो ऽस्ति कश्चन ॥

शान्ति-पर्वणि व्यास-युधिष्ठिर-संवादे धर्माधर्म-विभागाध्याये

वृथा पशु-समालम्भं नैव कुर्यान्न् न कारयेत् ।
अनुग्रहः पशूनां हि संस्कारो विधि-चोदितः ॥

इत्य् आदिभिः श्लोकैः मन्त्र-महिम्ना पशोः प्राण-चक्षुः श्रोत्रादीनां स्व-स्व-योनिषु सूर्यादिषु प्रापितत्वात् वह्नाव् इन्धन-प्रक्षेपवत् संज्ञपनस्य अ-हिंसात्वेनोपपादितत्वाच् च न पिष्ट-पशुः कार्यः । अमुम् एवार्थं हृदि निधाय गीता-भाष्ये भगवता भाष्य-कारेणोक्तम्

अग्नीषोमीयादिषु न च हिंसा पशोर् निहीनतर-च्छागादि-देह-परित्याग-पूर्वक-कल्याण-देह-स्वर्गादि-प्रापकत्व-श्रुतेर्

इति । श्री-भाष्ये च “अशुद्धम् इति चेन्न् न शब्दात्” इति सूत्रे शब्दाद् अग्नीषोमीयादेः संज्ञपनस्य स्वर्ग-लोक–प्राप्ति-हेतुतया हिंसात्वाभाव-शब्दात् पशोर् हि संज्ञपन-निमित्तां स्वर्ग-लोक–प्राप्तिं वदन्तं शब्दम् आमनन्ति । “हिरण्य-शरीरः ऊर्ध्व-स्वर्गं लोकम् एति” इत्य् आदिकम् अतिशयिताभ्युदय-साधन-भूतो व्यापारो ऽल्प-दुःखतो ऽपि न हिंसा प्रत्युत रक्षणम् एव । तथा च मन्त्र-वर्णः

न वा उवे तन्म्रियसे नरिष्यसि देवाँ इदेषि पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस्सविता दधातु
[[TODO: परिष्कार्यम्]]

इति। चिकित्सकं च तादात्विकाल्प-दुःख-कारिणम् अपि रक्षकम् एव वदन्ति । पूजयन्ति च तज्ज्ञाः । इति उपरि-चर-वसुना ऽपि –

पशु-हिंसा वारिता च यजुर्-वेदादि-यत्नतः ।
न चाहं वारये हिंसां द्रक्ष्याम्य् ऐकान्तिको हरिम् ॥

[[31]]

इति पिष्ट-पशुस् त्वया कारित इति वदन्तं क्रुद्धं बृहस्पतिं प्रति वाक्यस्योक्तत्वात् तस्यापि हिंसा त्व् अ-बुद्ध्य्-अभाव एव । यजुर्-वेदे कस्याञ्चिच् छाखायां पिष्ट-पशु-विधाने ऽपि तच्-छाखायाः प्रच्छन्नत्वात् आपस्तम्बादिभिर् अन्-उक्तत्वात् परम-भागवतेन वैष्णव-शास्त्र-प्रवर्तकेन परमैकान्तिनाम् अग्रसरेण सर्वदा नरायण-परेन नित्य-नैमित्तिक-काम्य-यज्ञानां नारायण-ध्यान-पूर्वकं तद्-आराधनत्वेन विधायकेन भगवता विखनसा ऽपि वैखानस-सूत्रे ऽपि पिष्ट-पशोर् अन्-उक्तत्वाच् च तस्य न कार्यत्वम् इत्य् अलम् अतिविस्तरेण ।