०४ सोमे महा-पुरुष-ध्यान-प्रकारः

॥ अथ महा-पुरुष-ध्यानम् ॥

सहस्र-शीर्षं पुरुषं सहस्र-नयनं विभुम् ।
सहस्रोदर-बाहुं तं सहस्र-चरणं विभुम् ॥
शुद्ध-चन्द्र-प्रतीकाशं कोटि-सूर्य-सम-प्रभम् ।
क्वचित् कुशानुवर्णाभं क्वचिद् धिष्ण्याकृति-प्रभम् ॥
शुक-पत्र-निभं देवं क्वचित् स्फटिक-सन्निभम् |
नीलाञ्जन-चय-प्रख्यं जात-रूप-निभं क्वचित् ॥
प्रवालाङ्कुर-वर्णं च श्वेत-वर्णं क्वचित् प्रभुम् ।
क्वचित् सुवर्ण-वर्णाभं वैडूर्यम् इव दृक्छविम्॥
नील-वैडूर्य-सदृशं इन्द्र-नील-निभं क्वचित् ।
मयूर-ग्रीव-वर्णाभं मुक्ता-हार-निभं क्वचित् ॥

[[58]]

तांस् तान् वर्णान् बहु-विधान् रूपे बिभ्राणम् अव्ययम् ॥
ओंकारम् उद्गिरन्तं च सावित्रीं च तद्-अन्वयाम् ।
आरण्यकं चतुर्-वेद-गतं गायन्तम् ईश्वरम् ॥
वेदिं कमण्डलुं दर्भान् मणि-रूपांस् तथा स्रुचः ।
अजिनं दण्ड-काष्ठं चं ज्वलितं च हुताशनम् ॥
यज्ञायुधानि चान्यानि बिभ्राणं सोम-रूपिणम् |
विष्णुं यज्ञं यज्ञ-पतिं पुरुषं लोक-जीवनम् ॥
स्तूयमानम् अथो रुद्रैः दक्षिणं पक्षम् आश्रितैः ।
तथादित्यैर् द्वादशभिः वामं पक्षं समाश्रितैः ॥
अष्टभिर् वसुभिश् चैव स्तूयमानम् अथाग्रतः ।
तथा नासत्य-दस्राभ्यां भिषग्भ्यां पृष्ठतस्स्तु स्तुतम् ।
सप्तर्षिभिस् स्तूयमानं प्रजा-पतिभिर् अग्रतः ।
वेद-यज्ञ-पशु-स्त्र्या च सरस्वत्या श्री-लक्ष्मी-कीर्ति-भूमिभिः ।
परितस् संवृतं देवं नारदेन ध्रुवेण च। अम्भोधरैस् समुद्रैश् च मूर्तिम् अद्भिः समन्ततः ।
सरिद्भिश् च सरोभिश् च स्तूयमानं महा-प्रभुम् ।
चतुर्भिर् मूर्तिम् अद्भिश् च त्रिभिर् मूर्ति-विवर्जितैः ।

[[59]]

स्तूयमानं पितृ-गणैः देवं नारायणं प्रभुम् ।
महान्तं यज्ञ-पुरुषं चिन्तयाम्य् अत्र केशवम् ॥

इति महा-पुरुष-ध्यानम् ।

अथवा

श्वेत-द्वीपाध्वरे स्थाने स्वयं भासावभासिते ।
तेज इत्य् अभिविख्याते शुद्ध-सत्वमये शुभे ॥
वेदिम् अष्ट-तलोत्सेधां अधितिष्ठन्तम् ईश्वरम् ।
एक-पाद-स्थितं देवं ऊर्ध्व-बाहुम् उदङ्-मुखम् ॥
साङ्गान् वेदान् उच्चरन्तं तपः परमम् आस्थितम् ।
प्रिय-भक्तं परमात्मानं भगवन्तं द्विज-प्रियम् ॥ अर्च्यमानं सुर-गणैः सदा भागवत-प्रियम् ।
सृष्टि-स्थित्य्-अन्त-कर्तारं बान्धवं भक्त-वत्सलम् ॥
कर्तारं कारणं चैव कार्यं चातिबल-द्युतिम्।
ब्रह्म-रुद्रादि-देवैः दैत्य-दानव-राक्षसैः ।
नागैर् यक्षैश् च गन्धर्वैः सिद्धैर् राजर्षिभिस् तथा ॥
ब्रह्मर्षिभिः हव्य-कव्यैः सततं विधि-पूर्वकम् ।
इज्यमानं देव-देवं पूज्यमानं पदाब्जयोः ॥

[[60]]

परमैकान्तिभिर् दत्तं हव्यं कव्यं विधानतः ।
शिरसा प्रतिगृह्णन्तम् आदरातिशयात् स्वयम् ॥
चिन्तयामि श्रियोपेतं सदा नारायणं विभुम् ॥