सोमे उत्तर-वेद्यां यज्ञ-वराहं मोक्ष-धर्मोक्ति-महा-पुरुषं वा ध्यायेत् ।
सहस्र-शीर्षं पुरुषं व्यक्ताव्यक्तं सनातनम् |
सहस्राक्षं सहस्राख्यं सहस्र-चरणं विभुम् ॥
सहस्र-बाहुं साहस्रं देवं नाम सहस्रिणम् ।
सहस्र-मुकुटोपेतं विश्व-रूपं महा-द्युतिम् ॥
[[56]]
अधृष्यं सर्व-भूतानां वाङ्मयं ब्रह्म-संज्ञितम् ।
शत-योजन-विस्तारम् उच्छ्रितं द्वि-गुणं ततः ॥
नील-जीमूत-सङ्काशं मेघ-स्तनित-निःस्वनम्।
गिरि-संहननं भीमं श्वेत-दीप्तोग्र-दंष्ट्रिणम् ॥
विद्युद्-अग्नि-प्रकाशाक्षम् आदित्य-सम-तेजसम्।
पीन-वृत्तायत-स्कन्धं दृप्त-शार्दूल-विक्रमम् ॥
पीनोन्नत-कटी-देशं सर्व-लक्षण-लक्षितम् ।
वेद-पादं यूप-दंष्ट्रं यज्ञ-दत्तं चिती-मुखम् ॥
अग्नि-जिह्वं तथा दर्भ-रोमाणं ब्रह्म-शीर्षकम् ।
अहो-रात्रे क्षण-धरं वेदाङ्ग-श्रुति-भूषणम् ॥
आज्य-नासं स्रुचा-तुण्डं साम-घोष-स्वनं प्रभुम् ।
सत्य-धर्ममयं देवं क्रम-विक्रम-सत्-कृतम् ॥
प्रायश्चित्त-महा-घोणं पशु-जानुं महा-कृतिम् ।
उद्गातृ-होम-लिङ्गं तं बीजैर् विधि-महा-बलम् ॥
धर्मासृजं वायु-चितं मन्त्र-स्थं सोम-शोणितम् ।
वेद-स्कन्धं हविर् गन्धं हव्य-कव्यादि-वेगिनम् ॥
प्राग्-वंश-कायं तेजिष्ठं नाना दीक्षाभिराजितम् ।
दक्षिणा-हृदयं देवं महा-सत्रमयं विभुम् ॥
[[57]]
उपाकर्मोष्ठ-रुचकं प्रवर्ग्यावर्त-भूषणम् ।
नाना-च्छन्दो-गति-पथं गुह्योपनिषद्-आननम् ॥
छाया-पत्नी-सहायं वै मणि-शृङ्गम् इवोच्छ्रितम् ।
महा-यज्ञ-वराहं तं स्मरामि पुरुषोत्तमम् ॥
इति यज्ञ-वराह-ध्यानम् ॥