…
अग्नि-होत्र-दर्श-पूर्ण-मास-व्रतोपायन-पशु-बन्ध-सोम-याग-महाग्नि-चयनानां परमैकान्ति-प्रपन्नैर् अनुष्ठेय-क्रमः॥
आहिताग्निः सोम-याजी वा परमैकान्ती अनुदित-होमी स्नात्वा ऽग्नि-होत्रं कृत्वा सन्ध्योपासनादिकं कुर्यात् । उदित-होमी तु स्नात्वा सन्ध्याम् उपास्य यथा-शक्ति गायत्री-मूल-मन्त्रं च जपित्वा ऽभ्युक्षणाम्बु-गृहीत्वोदयात् पूर्वं मन्दिरं प्रविश्य भगवद्-गृहं अग्नि-होत्र-गृहं च प्रोक्ष्य भगवन्तं प्रणम्य “स्व-शेष-भूतेन मये"ति श्लोकम् उक्त्वा “कृतं च करिष्यामी"त्य् आद्य्-अग्नि-होत्रेज्यया “भगवतो बलेने"त्य् आद्य्-अनुसन्धाय “शं नो मित्र’ इत्य् अनुवाकं जपित्वा अष्टाविंशति-शत-कृत्वः प्रणवं द्वात्रिंशत् कृत्वो मूल-मन्त्रं च जपन् प्राणानायम्य
[[48]]
देवस्य त्वा सवितुः प्रसवे … पूष्णो हस्ताभ्याम्
“आचार्य-हस्तेन आचार्य-वचसा आचार्य-मनसा प्रातर्-अग्नि-होत्रं सायम्-अग्नि-होत्रं वा होष्यामी"ति सङ्कल्प्य “धृष्टिर् असीत्या"दि कुर्यात्। अन्-अन्त-गरुड-विष्वक्सेनाद्य्-अन्-अन्त-परिजन-परिच्छेदैर् ब्रह्मादिभिर् देवैः ऋग्-यजुस्-सामोपनिषद्भिः विष्णु-सूक्तेन श्रिया वाग्-देव्या च स्तूयमान-भगवन् श्रियः पते “उद्बुद्ध्यस्वेत्य्” उक्त्वा “उद्बुद्ध्यस्वाग्ने” इत्य् आदि कुर्यात् ।
यजमानः “ओं नमो नारायणाय ओम् उद्धरेत्य्” आदि स्पृशेत् “वाचात्वे"त्यादि त्वया विनिदधामि
ओं भूर् भुवस् सुवरों नमो नारायणाय विष्णु-रूपाहवनीये विष्णुम् अग्नि-पुरुषं प्रतिष्ठापयामि
इति प्रणीय-मार्जनादि-रङ्गवल्य्-अन्तं कृत्वा मूल-मन्त्रम् उच्चरन् सुगन्धि-श्वेत-पुष्पैस् तुलसीभिर् वा आयतनानि वेदिं चालङ्कृत्य उदिते सन्ध्याम् उपस्थाय “इदं विष्णुर्” इत्य् उक्त्वा अथर्व-शिरस्-संज्ञ-नारायणोपनिषदा पूर्वोत्तर-पुरुष-सूक्ताभ्यां “हिरण्य-वर्णाम्” इति श्री-सूक्तेन “चित्तिस् स्रुग्” इत्य् आदिभिर् होतृभिर् “विष्णोर्नुकम्"इति विष्णु-सूक्तेन विष्णु-रूपान् अग्नीन् उपस्थाय “ओं नमो नारायणाये"ति जपित्वा “विश्व-दानीमि"त्य् आदि-जपन् कर्माणि कृत्वा पूषासि, “अयक्ष्मावः” इत्य् आरभ्य “तद्-यजमानम् अमृतत्वे दधात्व्” इत्य् अन्तम् उक्त्वा
ओं नमो नारायणाय भगवन्न् इदं हविर् जुषस्व
“विष्णो हव्यं रक्षस्वे"ति कुर्यात् । पयसा मुमुक्षोः श्री-कामस्य वेति वैखानस-सूत्र-वचनात् प्रपन्नानां पयसा ऽग्नि-होत्रं नित्यम् एव । “अग्नेर् घृतं विष्णोस् तण्डुला” इति श्रुत्या तण्डुलैर् वा अन्येषाम् अन्यैर् द्रव्यैर् विकल्पः । हविष्य् अधिकृते ऽग्नि-पुरुषं यज्ञ-पुरुषं च ध्यायेत् ।
ओं नमो नारायणाय हविर् देवानाम् असि
“विद्युद्-असीत्य्” आद्य्-अभिक्रम्य
ओं तत् सत् भूर् भुवस् स्वरों नमो नारायणाय ओं सूर्यो ज्योतिः ओम् अग्निर् ज्योतिर्
इति जुहुयात् । एवम् उत्तराहुतिं हुत्वा “आश्रावय” “अस्तु श्रौषड्” “यज” “ये यजामह” वौषट् नमः ।
[[49]]
“आर्द्रं ज्वलती"त्य् आदितः “अहम् एवाहं मां जुहोमि स्वाहे"त्य् अन्तं त्वम् अस्माकं तवस्मासीत्य् उक्त्वा –
भगवान् अनेन हविषा प्रीयतां मे जनार्दनः । चतुर्भिश् च चतुर्भिश् च
इत्य् उक्त्वा हुत्वा स्रुचम् उद्गृह्येत्य् आदि कुर्यात् । अपर-होमादयो ऽपि मूल-मन्त्र-पूर्वकाः कार्याः । “ओं तत् सत् भूर् भुवस् स्वरों” “नमो नारायणाय” “उपप्रयन्त” इत्य् आद्य्-उपस्थानम् । अन्ते च मूल-मन्त्र-जपः । “पूषासि” “ओं नमो नारायणाये"ति हविः प्राशनम् । “सर्पेभ्य” इत्य् आदिषु सर्वत्रोद्देश-त्यागात् पूर्वं मूल-मन्त्र-जपः। प्रदक्षिणानन्तरं ब्रह्मार्पणम् । “नमस्ते गार्ह-पत्याय” “नमो ब्रह्मण्य-देवाय” “यज्ञेशाच्युत-गोविन्द” इति श्लोक-त्रयं “भूर् भुवस् सुवस्तार” इत्य् आरभ्य “सर्व-प्रहरणायुधों नम” इत्य् अन्तम् उक्त्वा मूल-मन्त्रेण द्वयेन च नमस्कृत्य
अनेनाग्नि-होत्रेण स्वेनैव कृतेन स्वाराधनेन भगवान् श्रीमन्-नारायणः प्रीयताम्
इति भूमौ जलं निक्षेपेत् । एवं दर्श-पूर्ण-मासयोर् अप्य् आरम्भे
भगवन् यज्ञ-पुरुष-श्रियः पते, वाक्-पते भवान् यज्ञः भवन्तं यक्ष्यामहे, भवते यज्ञः क्रियते, भवत एव तुभ्यम् अयं यज्ञः, आदि-काले यज्ञ उत्पन्न, भवत एवायं यज्ञ अन्ते भवति यज्ञे वाचि श्रियां यज्ञं प्रतिष्ठापयाम
इत्य् अनुसन्धाय स्व-शेष-भूतेनेत्य् आदि-अग्नि-होत्रादिवत् सङ्कल्पं कुर्यात् ।
व्रतोपनयनानन्तरं पूर्वं नारायणोपनिषदादि-जपः कार्यः । व्रतोपायने सायं प्रातर् दोहयोर् मूल-मन्त्र-जपः कार्यः । अपां प्रणयने “ओं नमो नारायणाय” “भूर् अग्निं चेत्य् आद्य्-अग्नये जुष्टं निर्वपामि” “ओं नमो नारायणाय” “अग्निं होतारम् इह” “ओं नमो नारायणाय” “कस्त्वा युनक्ति” प्रोक्षणे ऽवहनने ऽधिवापे संवापे हविर् निर्देशे वेदि-करणे आज्य-निर्वापे आज्य-ग्रहणे बर्हिः प्रोक्षणे स्तरणे परिध्याधाने प्रस्तर-निधाने स्रुक्-साधने हविर् अभिघारणे हविर् अञ्जने हविर् आसादने आसन्नाभिमर्शनान्ते सर्वत्र मूल-मन्त्र-जप-पूर्वकं यजमान-मन्त्र-जपं कुर्यात् ।
[[50]]
अग्नि-होत्रवत् अत्रापि अग्नि-पुरुष-ध्याने यज्ञ-पुरुष-ध्यानं यष्टव्य-देवतात्मक-ध्यानं च कृत्वा मूल-मन्त्रेण ध्यात्वावाह्य मनसा अर्घ्य-पाद्याचामनीय-गन्ध-पुष्प-धूप-दीपादिकं समर्पयेत् । आनुशासनिके “एकाक्षरं द्व्य्-अक्षरम् एवे"ति श्लोके दृष्टवा “मनस्य् अर्चयित्वा स्म विप्रा” इत्य् उक्तेः अत्र मानसार्चनम् उक्तम् । ततः पञ्चोपनिषन्-मन्त्रैः मूल-मन्त्रेण च नमस्कृत्य तैर् एवाग्निम् अभिमन्त्र्य वाग्-यतः मूल-मन्त्रं जपन् प्रयाजादि-समिष्ट-यजुर् अन्तं भगवन्तं ध्यायन् प्रतिवषट्-कारं “ओं तत् सत् भूर् भुवस् स्वरों नमो नारायणाय” “अग्नय इदं न मम” । “अग्नेर् अहं देव-यज्यया” इत्य् आदि-याजमान-मन्त्रान् जपन्न् आसीत । एवं विष्णु-क्रमादि “वृष्टिर् असी"त्य् अन्तं भगवद्-ध्यान-पूर्वकं कृत्वा अनेन पौर्ण-मासेन दर्शेन वा स्वाराधन-रूपेण स्वेनैव वेदात्मना वासुदेव-सङ्कर्षण-प्रद्युम्न-अनिरुद्धात्मक-होत्र्-अध्वर्यु-ब्रह्माग्नीध्र-रूपेण स्व-प्रीत्य्-अर्थं स्वेनैव कृतेन मन्त्र-लोपादि-वर्जितेन “श्री-जनार्दनः प्रीयताम्” इति भूमौ जलं निक्षिप्य मूल-मन्त्रं यथा-शक्ति जपेत् । ततः कृष्णानुस्मरणम् ॥
पशु-बन्धे मूल-मन्त्रेण यूपं संस्पृश्य आज्येन अङ्क्त्वा यूपोच्छ्रयण-काले मूल-प्रभृति-चषाल-पर्यन्तं भूर् आदि-सप्त-लोकान् दशोत्तरावरणानि च ध्यात्वा चषाले वैकुण्ठ–दिव्य-लोक–दिव्य-जन-पद– दिव्य-नगर–दिव्य-विमानात्मकं परम-पदं ध्यात्वा तद्-उपरि अतिरिक्त-यूपाग्रे शेष-भोगे श्रिया सह आसीनं श्री-विष्णुं ध्यायेत् । पशोर् उपाकरण-ब्रह्म-रन्ध्रान् निर्गमय्य अर्चिरादि-मार्गेण भगवत्-पादारविन्द-प्राप्ति-पूर्वक-नित्य-कैङ्कर्यं प्रापयन् पशुं विसृज्य “पराङावर्तत” इत्य् आदि कुर्यात् । वपाम् आसन्नात् द्वा-त्रिंशत्-कृत्वो मूल-मन्त्रेणाभिमृश्य वपा-होमात् भगवन्तं ध्यायन्न् आसीत। अङ्ग-यागे पशोर् अवदानानि मूल-मन्त्रं जपन्न् अवद्येत् । अन्यत् सर्वं दर्श-पूर्ण-मासवत् ॥
[[51]]
सोमारम्भो दर्श-पूर्ण-मासारम्भवत् । वासो नवनीत-दीक्षादिषु दर्भ-पुञ्जील-पावने च मूलम् अत्र शिरस्कं भगवान् पवित्रम् इति पवित्र-मन्त्रं जपेत् । सोम-क्रयादि-संस्कारेष्व् अपि मूल-मन्त्र-जपः । महा-रात्रे बुद्ध्वा आग्नीध्र-हविर्-धान-स्रुक्-वायव्य-सदो ऽभिमर्शनानि मूल-मन्त्रेण यजमानः कृत्वा खरे पात्रासादन-काले पृथक् पृथक् पात्राणि मूल-मन्त्रेणाभिमन्त्रयेत् । सुब्रह्मण्याह्वान-काले भगवन् इन्द्र श्रियः पते नारायण श्रिया सुब्रह्मण्यया वा देव्या सह नित्यैर् मुक्तैर् भागवतैर् ब्रह्मादिभिर् देवैर् ऋषिभिः पितृभिः ऋग्-यजुस्-सामोपनिषद्भिः दक्षिणारूप-गोभिर् अन्यैश् च सह सोमं पातुं हवींषि स्वीकर्तुं स्तोत्र-शस्त्र-वषट्–कारादिभिस् स्तूयमानस् सन् इह आगच्छ मां ऋत्विजः । यज्ञं सोमं हवींषि अन्यानि यज्ञीय-द्रव्याणि सव्यं रक्ष रक्ष । इमानि महाराधन-द्रव्याणि महाराधने यज्ञं पुरुष–शरीर-पुरुष–वेद-पुरुष, छन्दः-पुरुष–यज्ञ-पुरुष–अग्नि-पुरुष, वायु-पुरुषादित्य-पुरुष-महा-पुरुष, पुरुषोत्तम–उत्तम-पुरुष–वसुदेव, विष्णो, स्वीकृत्य मां स-पत्नीकं स-यज्ञं स-याजकं स-पशुं स-सोमं यथा-शक्ति दक्षिणासहितं फल-सङ्ग-कर्तृत्व-त्याग-रूप-ज्ञान-युक्तम् औपनिषद–परम-पुरुषाराधन–यज्ञ-शीलं भगवति न्यस्त-समस्तात्मात्मीय-रक्षण-भर–तत्-फलं यथा-विधि कर्मानुष्ठानासमर्थं यथा कथं चित् भगवत्-प्रीत्य्-अर्थं भगवन्न् इत्य् आज्ञा-कैङ्कर्य-निरतं भवतैव यजमान-पत्नी-याजक-हविस्-सोमादि-रूपेण भगवता वेदात्मना क्रियत इति सर्वदा ऽनुसन्धातारं “मां रक्षस्वे"त्य् उक्त्वा मूल-मन्त्रेण द्वयेन च मनसा प्रणम्य गृह्यमाणेषु ग्रहेषु प्रतिग्रहं “उपयाम गृहीतो ऽसि ब्रह्मणेत्वा महस” “ओं नमो नारायणाये"ति ग्रहण-सादनयोर् मूल-मन्त्रं जपेत् ।
[[52]]
पञ्च-होत्रा ग्रहान् अभिमृश्य मूल-मन्त्रं द्वादशाक्षर-विष्णु-गायत्रीभिस् सर्वान् ग्रहान् अभिमृश्य सप्त-होतृ-होमं वा वाग्-रूप-श्रियः पतिं वाचस् पतिं ब्रह्मत्वेन ध्यायन् हुत्वा समर्पण-काले ऋग्-यजुस्-सामाथर्व-रूपिणीं यज्ञ-रूपां दक्षिणात्मिकां स्तोत्र-शस्त्र-मन्त्र-स्व-रूपां भगवतीं विष्णु-वक्षस्-स्थल-रूप-सदो-निवासिनीं नित्यानपायिनीं नीर-क्षीरवत् पृथग् विभजनानर्ह-परमात्म-नारायण-स्व-रूपिणीं वाचं देवीं श्रियं ध्यायेत् । प्रतिस्तोत्रं सोम-यागाद् आरभ्य भक्षण-पर्यन्तं वाग्-यतो मूल-मन्त्रं जपन्न् आसीत । वपा-मार्जनान्ते “तत् सत् भूर्-भुवस्-स्वरों नमो नरायणाये"त्य् उक्त्वा “द्वौ समुद्रौ” इत्य् आद्य्-उपस्थानान्ते मूल-मन्त्र-जपः । एवं माध्यन्दिन-तृतीय-सवनयोः गायत्र-सामसु सवितृ-मण्डल–मध्य-वर्ति–सावित्री-रूपं ब्रह्म ध्यायेत् । पवमानेषु सोम-मण्डल–मध्य-स्थम् अमृतमयं मोक्ष-प्रदं ब्रह्म ध्यायेत् । रथन्तरे वा बृहत्-सामनि वा राजने वा स्तूयमानेषु सृष्टि-स्थिति-संहार-कर्तारम् अन्-अन्त-परिच्छिन्नाप्रमेय-सच्-चिद्-आनन्द-स्व-रूपं अन्-अन्त-कल्याण-गुणाकरं सर्व-व्यापिनं चेतनाचेतन-शरीरिणं सुसूक्ष्मं रथन्तरे वाग्-रूपं, बृहति-मनः-प्राण-रूपं, राजने परमात्म-स्व-रूपं भगवन्तं नारायणं ध्यायेत् । वाम-देव्ये सहस्र-शिरसं प्रजा-पतिं विराट्-पुरुषं वा ध्यायेत् । ब्रह्म-सामसु नौधस-श्यैतादिषु [[??]]नित्य-निरवद्य-निरतिशय-कैङ्कर्य-नियोजकं मोक्ष-फल-प्रदं श्रियः पतिं ध्यायेत्। अन्येषु सामसु “श्रीमन्न्-नारायणाये"ति ध्यायेत् । त्रयी विद्या हिङ्कार-इत्य् आद्यय्-उद्गीथोपासन-ब्राह्मणोक्त-प्रकारेण ब्रह्म वा ध्यायेत् । सोम-भक्षणे
ओं नमो नारायणाय श्री-वाग्-जुषाणा सोमस्य तृप्य त्वम्
इति सोमं भक्षयेत् । दक्षिणां यथा-विभागं दत्त्वा
ओं नमो नारायणाय श्रीं सह स्त्रिया दक्षिणया लक्ष्म्या सहितः यज्ञ-पुरुषः श्री-कृष्णः प्रीयताम्
[[53]]
इति जलं भूमौ स्रावयेत् । अवभृथे “आपो नारा” इत्य् उक्त्वा अप्सु श्रीमन्-नारायणं क्षीराब्धि-शायिनं ध्यायेत् । उदवसानीयान्ते
भगवान् श्री-नारायणः स्वकीयैर् अस्मदीय-देहेन्द्रियान्तः करणैः स्व-शेष-भूतेन स्व-नियाम्येन मया यथा-शक्ति यथा-मति सम्पादितैः स्व-शेष-भूतैर् द्रव्यैर् स्व-निश्वसित-भूत-वेद-मन्त्रैर् वासुदेव-सङ्कर्षण-प्रद्युम्न-अनिरुद्ध-नारायण-स्व-रूपैः होत्र्-अध्वर्यु-ब्रह्मोद्गातृ-सदस्यैः केशवादि-द्वादश-व्यूह-रूपैः अन्यैर् ऋत्विग्भिः मत्स्यादि-दशावतार-रूपैश् चमसाध्वर्युभिर् अन्-अन्तावतार-रूपैः सदस्यैर् ब्राह्मणैश् च यथा कथञ्चिद् यथा-विधि यथा-शक्ति कृतेन स्व-महाराधन-रूपेण तत्-तन्-नाम-यज्ञेन भगवान् प्रीयतां मे जनार्दनः
“ब्रह्मार्पणं ब्रह्म हविः” “श्चतुर्भिश्चे"ति श्लोक-द्वयम् उक्त्वा मूल-मन्त्रं द्वयं चोच्चरन् भूमौ जलं स्रावयेत् । ततः सहस्र-कृत्वश् शत-कृत्वो वा यथा-शक्ति मूल-मन्त्रं द्वयं च जपेत् । ततः कृष्णानुस्मरणं कुर्यात् । मध्ये प्रायश्चित्त-प्राप्तौ आरम्भे होम-जपेज्यासु च तद्-अन्ते च मूल-मन्त्र-द्वयं जपित्वा
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः ।
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥
इति श्लोकम् उक्त्वा कृष्णानुस्मरणं कुर्यात् ।
महाग्नि-चयने काठकाग्नि-चयने च प्रतीष्टकं “तया देवतया अङ्गिरस्वद्ध्रुवा सीदे"त्य् उक्त्वा मूल-मन्त्रं जपेत् । एवम् एकाह-अहीन-सत्र-अयनेषु काम्य-कर्मस्व् अपि । एवं कृते तत्-कर्मानुगुणः फलानुभवो नास्तीति वेद-व्यास–भाष्य-कार–वेदान्ताचार्यैः प्रतिपादितम् । एवम् औपासन-वैश्व-देवादिषु गर्भाधान-पुंसवनादिषु संस्कारेषु तत्-तद्-आरम्भे तत्-तत्-प्रधान-होमे तत्-तद्-अवसाने च मूल-मन्त्र-जपं कुर्वन् तानि तानि कुर्यात् । एवं तुला-पुरुषादीनि महा-दानानि प्राजापत्यादीनि कृच्छ्राणि पुनर् अन्यान्य् अपि व्रतानि कुर्यात् । सर्वत्र भाष्य-कारोक्त-चरम-श्लोकार्थो ऽनुसन्धेयः।
[[54]]
अथाग्नि-पुरुष-ध्यानम् ।
जुष्टोदमूना । अग्ने नय । चत्वारि शृङ्गा । सप्तते अग्ने ।
इति चतसृभिर् ऋग्भिर् अग्नि-पुरुषं ध्यात्वा
चतुर्-वेदी-चतुः-शुङ्गं सवन-त्रय-पादकम् ।
स्वाहाकार-वषट्-कार-शीर्ष-द्वय-समन्वितम् ॥
सप्त-होतृक-हस्ताड्यं ऋग्-यजुस्-साम-बन्धितम् ।
वर्षणं सर्व-कामानां महान्तं देवम् अच्युतम् ॥
आगच्छन्तं दिशाभ्यो ऽग्निं जात-वेदस् सहोजसौ ।
अजिरा-प्रभु-नामानं अथ वैश्वानराह्वयम् ॥
नर्यापसं पङ्क्तिराधो विसर्प्य् आह्वयम् उज्वलम् ।
एवं विधाष्ट-पुरुषं अग्निं ध्यायामि संस्तरे॥
ओं नमो नारायणाय ओम् अग्नि-पुरुषाय नमः
इति मन्त्रेण आवाहनासनार्घ्य-पाद्याचमन-गन्ध-पुष्प-धूप-दीपादिकं मनसा कृत्वा अग्नि-मध्ये यज्ञ-पुरुषं ध्यायेत् । “सहस्रशीर्षा पुरुष” इत्य् अनेन मन्त्रेण सहस्र-शीर्ष–सहस्राक्ष–सहस्र-पाद–सहस्र-करं साहस्रं प्रजा-पतिं हिरण्य-गर्भं श्री-गर्भं प्रातर् अग्नि-होत्रं आदित्य-मण्डल-मध्य-वर्तिनं हिरण्मय-सर्वाङ्गं हिरण्यं श्रीं हिरण्य-केशं पुण्डरीकाक्षं ऋग्-यजुस्-साम-गीतं त्रयी-रूपं उन्नामकं[[??]] स्वर्गादि-सत्य-लोकान्त-भोग्य–भोगोपकरण–भोग-स्थान–नियन्तारं
[[55]]
परञ्ज्योतिः परमात्मानम् अपहत-पाप्मत्वादि-गुणाष्टक-विशिष्टं नारायणं पश्चोपनिषन् मन्त्रैर् मूल-मन्त्रेण चोच्चार्य आराधन-प्रकरणे वक्ष्यमाण-प्रकारेण हृदयाद् धस्तेन निर्गमय्य हस्तेनाग्नि-मध्ये प्रवेशं ध्यात्वा पञ्चोपनिषन् मन्त्रैर् मूल-मन्त्रेण च प्रतिष्ठाप्य आवाहनासनार्ध्य-पाद्याचामनीय-गन्ध-पुष्प-धूप-दीपं मधु-पर्कादिकं मूल-मन्त्रेण मनसा कृत्वा होमं नैवेद्यत्वेन कल्पयेत् । सायम् अग्नि-होत्रे तु स्वाक्षि-बिम्बकं हिरण्मय-सर्वाङ्गं हिरण्य-श्मश्रुं हिरण्य-केशं पुण्डरीकाक्षम् ऋग्-यजुस्-साम-गीतं लौकिक-वैदिक-वीणादि-काव्यादि-शब्द-वाच्यं भूम्य्-अतलादि-भोग्य-भोग्योपकरण–भोग-स्थान–नियन्तारम् अपहत-पाप्मत्वादि-गुणाष्टक-विशिष्टं नारायणं पञ्चोपनिषन् मन्त्रैर् मूल-मन्त्रेण च ध्यात्वा आराधन-प्रकरणे वक्ष्यमाण-प्रकारेण हृदयाद् धस्ते निर्गमय्य हस्तेनाग्नि-मध्ये प्रवेशं ध्यात्वा आवहनादि-प्रातः कालवत् कुर्यात् । अन्-अन्तापरिच्छिन्नानन्द-स्व-रूपं प्राण-ब्रह्म मनसि ध्यायन् स्वयम् अग्नि-होत्रं जुहुयात् । आहवनीये प्राणाकाश-स्वर्गाभिन्न-वैद्युत-पुरुषं ध्यायन् जुहुयात् । [गार्ह-पत्ये पृथिव्य्-अग्न्य्-अन्नाभिन्नादित्यान्तर्-वर्ति हिरण्मय-पुरुषं ध्यायन् जुहुयात् दक्षिणाग्नौ अब्दि-नक्षत्राभिन्नेन्द्र-पुरुषं ध्यायन् जुहुयात् ॥]