०१ मूल-मन्त्रः

अग्नि-होत्र–दर्श-पूर्ण-मास–सोम-यागादीनां श्रौतानां कर्मणां
सात्त्वत-शास्त्रोक्त-मार्गेण मूल-मन्त्र-जप-पूर्वकं कर्तव्यत्वम्॥

मोक्ष-धर्मे -

काम्य-नैमित्तिकाजस्रा याज्ञिकाः परम-क्रियाः ।
सर्वं सात्वतम् आस्थाय विधिं च समाहितः ॥

इति अग्नि-होत्र–दर्श-पूर्ण-मास–सोम-यागादीनां श्रौतानां कर्मणां सात्वत-शास्त्रोक्त-मार्गेण मूल-मन्त्र-जप-पूर्वकं कर्तव्यत्वं सिद्धम् ।

सात्वतं विधिम् आस्थाय प्राक्-सूरि-मुख-निस्सृतम् ।
पूजयामास देवेशं तच्-छेषेण पितामहान् ॥
पितॄन् ऋषींश् च विप्रांश् च संविभज्याश्रितांश् च सः ।
शेषान्न-भुक् सत्य-परः सर्व-भूतेष्व् अ-हिंसकः ॥
सर्व-भावेन भक्तस् सन् देव-देवं जनार्दनम् ।
अन्-आदि-मध्य-निधनं लोक-कर्तारम् अ-व्ययम् ॥

[[33]]

इति श्लोक-त्रयेण औपासन-वैश्वदेव–महा-यज्ञ–दर्शादि-श्राद्धानां स्मार्तानां कर्मणाम् अपि भगवद्-आराधनत्वेन पाञ्च-रात्रोक्त-विधिना कर्तव्यत्वम् उक्तम् । तत्रैवान्यत्र –

ते कार्त-युग-धर्माणः भागाः परम-संस्कृताः ।
प्रापुर् अदित्य-वर्णं तं पुरुषं तमसः परम् ॥
याः क्रियाः संप्रयुक्ताः स्युः एकान्त-गत-बुद्धिभिः ।
तत्-सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥
नारायण-परा वेदाः यज्ञा नारायणात्मकाः ।
तपो नारायण-परं नारायण-परा गतिः ॥
नारायण-परं सत्यं व्रतं नारायणाश्रयम् ।
नारायण-परो धर्मः पुनर्-आवृत्ति दुर्लभः ॥ प्रवृत्ति-लक्षणं चैव धर्मो नारायणात्मकः ।
ये केचित् सर्व-लोकेषु दैवं पित्र्यं च कुर्वतः ॥
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ।
सर्वेषाम् आश्रयो विष्णुः ऐश्वरं सर्गम् आस्थितः ॥
सर्व-भूत-कृतावासो वासुदेवो ऽपि चोच्यते ।

इत्यादिभिः श्लोकैर् नारायण-ध्यान-पूर्वकं तद्-आराधनत्वेन यज्ञादीनां कर्तव्यत्वम् उक्तम् । परम-संस्कृता इति परमेण मन्त्रेणाष्टाक्षरेण द्वादशाक्षरेण वा संस्कृता इत्य् अर्थः । गीतायां च “काम्यानां कर्मणाम्” इत्य् आरभ्य

[[34]]