सर्वे देवा वासुदेवं यजन्ते
ततो बुद्ध्या मार्गमाणास् तनूनाम् ।
सर्वान् कामान् प्राप्नुवन् ते विशालान्
त्रै-लोक्ये ऽस्मिन् कृष्ण-नामाभिधानात् ॥
तनूनां अग्नीन्द्रादि-तनूनां । सप्तम्य् अर्थे षष्ठी । तनुषु कृष्ण-नामाभिधानात् । “यो देवानां नामधा” इति श्रुत्या सर्वेषां नाम-रूप-व्याकृतत्वात्वाच् च।
[[43]]
“नाम नामैव नाम मे” “नाम वै प्रजा-पतिर्” इति श्रुत्या चाग्नीन्द्रादि-नाम्नां कृष्ण-नामत्वेनाभिधानात् । एवं बुद्ध्या मार्गमाणा वासुदेवं यजन्त इत्य् अर्थः । “विष्णुः सर्वा देवता” इत्य् ऐतरेयक-श्रुतेः
ज्योतींषि शुक्लानि च यानि लोके
त्रयो लोका लोक-पालास् त्रयी च ।
त्रयो ऽग्नयश् चाहुतयश् च पञ्च
सर्वे देवा देवकी पुत्र एव ॥
सर्वे वेदास् सर्व-वेद्यास् स-शास्त्राः
सर्वे यज्ञास् सर्व-यज्ञश् च कृष्णः ।
विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये
तेषां राजन् सर्व-यज्ञास् समाप्ताः ॥
ज्ञेयो योगी ब्राह्मणैर् वेद-तत्त्वैर् आरण्यकैस् सैष कृष्णः प्रभुत्वात् ।
सर्वान् यज्ञान् ब्राह्मणान् ब्रह्म चैव
व्याप्यातिष्ठेद् देव-देवस् त्रि-लोके ॥
स एष देवश् शक्रम् ईशं यजमानं प्रीत्या प्राहुः
क्रतु-यष्टारम् अग्र्यं यजमानं यजमानं शक्रम् आहुः
शक्रम् इन्द्रम् आहुः “एष वा एतर् हीन्द्रो यो यजते” इति श्रुतेः ।
[[44]]
नमश् चक्रे वेद वेदार्थकत्वात्
भक्तो भक्त्या शुद्ध-भावः प्रधानः ।
श्रद्धा-त्यागं निर्वृतिं चापि पूजां
सत्यं धर्मं य कृतं चाभ्युपेति ॥
काम-क्रोधौ त्यज्य सर्वेषु तुल्यः
श्रद्धा-पूतस् सर्व-यज्ञेषु योग्यः ॥
इति कृष्ण-ध्यान-पूर्वकं विष्णु-रूप-सोमाज्यादि-द्रव्यैः कृष्ण-यजनं परमैकान्तिनां सुस्पष्टं विहितम् । भगवद्-आराधन-रूपेभ्यः स्मार्त-पौराणिकागम-शास्त्र-दान–काण्ड-व्रत–काण्ड-कृच्छ्र–चान्द्रायणादि-विधायक-शास्त्र-विहित-कर्मभ्यः श्रौत-कर्मणां भगवतो नित्य-निरवधिक-निरतिशय-प्रीति-करत्वात् तेषां महाराधन-रूपत्वम् । अत एव
महा-क्रतुर् महा-यज्वा महा-यज्ञो महा-हविर्
इति भगवतो नामान्य् उक्तानि । ताप-पुण्ड्रादि-कृत-लक्षणैर् एकान्तिभिर् भगवन् -मन्त्र-सहित-तद्-आराधनत्वेन कृतस्य अग्नि-होत्रादि-क्रतोर् महा-क्रतुत्वम् । तथाविध-यष्टुर् एकान्तिनो महा-यज्वत्वम् । तथाविध-सोम-यागस्य महा-यज्ञत्वम् । तत्रत्य-पुरोडाश-पशु-सोमाज्यादीनां महा-हविष्ट्वम् । एकान्तिभिर् इज्यस्य विष्णोर् महेज्यत्वम् । अन्यैस् तु इज्यत्वम् । “यज्ञ इज्यो महेज्यश् चे"ति पृथग् उपादानात् । तद्-रूपत्वात् तद्-आत्मत्वात् कृष्णस्यापि महा-क्रत्व्-आदीनां वाच्यत्वम् । “ज्ञानी त्व् आत्मैव मे मतम्” इत्य् उक्तेः “यज्ञो यज्ञ-पतिर् यज्वेत्य्"आदिः आर्तार्थार्थि-जिज्ञासु-विषयः। ब्रह्म-रुद्रेन्द्रादिभ्यः फलेच्छु-विषय इति केचित् । महा-क्रत्व्-आदिस् तु प्रतिबुद्ध-विषय एवेति विवेकः । अत एव
[[45]]
येप्य् अन्य-देवता-भक्ताः यजन्ते श्रद्धयान्विताः ।
ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम्॥
इति फलार्थिभिर् ब्रह्म-रुद्रेन्द्राद्य्-आराधकैर् अनुष्ठितस्य यज्ञस्याविधि-पूर्वकत्वम् ।
चतुर् होतारो यत्र सम्पदं गच्छन्ति देवैः
“सर्वे वेदा यत् पदम् आमनन्ति” “सर्वे वेदा यत्रैकं भवन्ति” “सर्वे हातारो यत्रैकं भवन्ति। समानसीन आत्माजनानाम्” इत्य् आदि-वचनात् प्रतर्दन-विद्या-न्यायेन प्रकार-वाचक-शब्दानां प्रकारि-पर्यन्तत्व-नियमाच् च विधीनां परमात्म-पर्यन्ततया तद्-बुद्धिं विना अनुष्ठितत्वाद् उक्तम् । विशिष्टान्तर् गत-विशेषण-मात्र-पर्यवसन्न-बुद्धितया तेषां स्वर्गाद्य्-अल्पास्थिर-फल-भोगवत्वं च । “यान्ति मद्-याजिनो ऽपि माम्” इति स्व-पर्यन्त-बुद्धिभिर् एकान्तिभिर् अनुष्ठित-यज्ञस्य् तु स्व-प्रापकत्वात् स्व-पदं प्राप्तानां नित्य-निरवद्य-निरतिशय-पुनर् आवृत्ति-रहित-फल-भोगवत्वं चेति भगवता भाष्य-कारेण उक्तम् । “विष्णुर् यज्ञो” " यज्ञो वै विष्णुर्” इत्य् आदि-श्रुतिभिः यज्ञ-स्व-रूपत्वावगमात् ।
सत्य मिथ्या वृषेदसि ऋतस्य योगे विश्वस्य मूर्धां “सत्यस्य सत्यं अनुयत्र युज्यते । ऋजु-कर्म सत्यं सुचरितम् । सत्य एवैनास् सुकृतस्य लोके सादयति । स सत्ये प्रतितिष्ठति । वाग् वै यज्ञो वाच्येव तद्-यज्ञम् अन्ततः प्रतिष्ठापयति”
इत्य् आदिना सत्य-स्व-रूपत्वात् । यज्ञानां वेदात्मकत्वेन ज्ञान-स्व-रूपत्वात् । ज्योतिष्टोम-द्वादशाहयोः स्तोमतः स्व-रूपतश् च छन्दोग-कल्प-सूत्र-कृता भगवता गार्ग्य-प्रशकाचार्येण आनन्त्यस्योक्तत्त्वात् । “सत्यं ज्ञानम् अन्-अन्तं ब्रह्मे"ति ब्रह्म-लक्षण-सद्-भावात् यज्ञस्य विष्णोस् सच्-चिद्-आनन्द-ब्रह्म-स्व-रूपत्वम् ।
तस्माद् यज्ञात् सर्व-हुतः ऋचस् सामानि जज्ञिरे
इत्य् आरभ्य “तथा लोकां अकल्पयन्न्” इत्य् अन्तेन ऋग्-यजुस्-साम-छन्दसां चेतनाचेतन-रूप-जगतश् च यज्ञ-पुरुषात् सृष्टेः श्रुतत्त्वात्
[[46]]
सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा ऽभिवदन् यदास्ते
इति नाम-रूप-व्याकृतत्त्वोक्तेः । “उतामृतत्वस्येशान” इति मोक्ष-प्रदत्वोक्तेः ।
पादो ऽस्य विश्वा भूतानि । त्रि-पादस्यामृतं दिवि ।
इति लीला-विभूति–नित्य-विभूतीश्वरत्वोक्तेः।
हृीश् च [श्रीश् च] ते लक्ष्मीश् च पत्न्यौ इति तैत्तरीय-काण्व-शाखोक्त-रीत्या श्री-लक्ष्मी-रूप-वाग्-दक्षिणापतित्वौक्तेः।
“ऋचस्सामानि यजूंषि । सा हि श्रीर् अमृता सताम्” “श्रीर् वै वाचो ऽग्र्यम्” इत्य् आदिभिः श्रियो वाग्-रूपत्वम्।
साहस्री वा एषा लक्ष्मी यद्-उन्नतो लक्ष्म्य् एव पशून् अवरुन्धे
इति श्रुत्या लक्ष्म्याः दक्षिणात्मक-गो-रूपत्वम् ।
यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरसः
दक्षिणाभिस् सह धन्यो ऽस्मि आश्चर्यो ऽस्मीति धन्याश्चर्योपाख्यानोक्त-रीत्या वाग्-आत्मक-श्री-दक्षिणात्मकं लक्ष्मी-पतित्वात् च ।
यज्ञाद् भवति पर्जन्यः पर्जन्याद् अन्न-सम्भवः ।
इति अन्नोत्पत्ति-हेतुत्वेन सर्वत्रोक्तत्वात् । आदि-काले यस्माज् जगत्-सृष्टिः प्रलय-काले तस्मिन्न् एव कारणे सर्व-शास्त्रेषु लयः प्रतिपादनात् । एवं यज्ञ-पुरुषस्य ब्रह्म-लक्षण-सद्-भावात् तद्-अनुष्ठानं ब्रह्मोपासनम् एव । अत एव यज्ञ-मध्ये “परं ब्रह्म दृश्यत” इति सनत्-सुजातेन उद्योग-पर्वणि उक्तम् ।
न पृथिव्यां तिष्ठति नान्तरिक्षे
नैतत् समुद्रे सलिलं बिभर्ति।
न तारकासु न च विद्युद्-आश्रितं
न चाभ्रषे दृश्यते रूपम् अस्य ॥
[[47]]
न चापि वायौ न च देवतासु
न चन्द्रे वा दृश्यते नोत सूर्ये ।
नैव र्क्सु तन् नैव यजुर्ष्व् अथर्वसु
न चापि दृश्यत्य् अमलेषु सामसु ॥
राथन्तरे बार्हते वापि राजन्
महा-व्रतस्यात्मानि दृश्यते तत् ॥
इति । राथन्तरो – रथन्तर-पृष्ठो यज्ञः । बार्हतः – बृहत्-पृष्ठो यज्ञः । सर्व-यज्ञानां रथन्तर-बृहत्-तद्-उभय-पृष्ठत्वात् महा-व्रतस्य तत्-पृष्ठत्वात्। तस्य आत्मनि राजन् - साम्नि सहस्र-स्तोभे बृहती-सहस्रे च तद्-ब्रह्म दृश्यत इति पृथङ्-निर्देशः । एवं यज्ञ-मध्य एव ब्रह्मणो भगवतो दृश्यमानत्वात् । हस्ति-गिरि-माहात्म्ये च -
धातुर् उत्तर-वेद्य्-अन्तः प्रादुर् आसीज् जनार्दनः
इति यज्ञ-मध्ये भगवद्-आविर्भाव-दर्शनाच् च । यज्ञाराध्यत्वं भगवतः तद्-आराधनत्वं यज्ञस्य तद्-आराधकत्वं पुरुषस्य स्व-भावत एवेति श्रौतानां स्मार्तानां च कर्मणां भगवद्-आराधनत्वेन परमैकान्तिभिः कार्यत्वम् इति निश्चयः ।