…
नित्य-नैमित्तिक-काम्य-कर्मणां फल-सङ्ग-कर्तृत्व-त्याग-पूर्वकं भगवद्-आराधन-रूपत्वेन अनुष्ठेयता॥
यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यम् एव तत् ।
यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥
एतान्य् अपि तु कर्माणि सङ्गं त्यक्त वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहार्तस्य परित्यागः तामसः परिकीर्तितः ॥
दुःखम् इत्य् एव यत् कर्म काय-क्लेश-क्षयात् त्यजेत् ।
कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागस् सात्त्विको मतः ॥
इति त्यागस्य त्रैविध्यम् उक्तम् । कर्म-जन्यं स्वर्गादि-फलं मम न स्याद् इति फल-त्यागः । फल-साधनतया मदीयम् इदं कर्मेति कर्मणि मदीयतायाः परित्यागः कर्म-विषयस् त्यागः स एव सङ्ग-त्यागः । सर्वेश्वरे कर्तृत्वानुसन्धानेन आत्मनः कर्तृता-त्यागः कर्तृ-विषयस् त्यागः । एवं फल-सङ्ग-कर्तृत्व-त्याग-पूर्वकं नित्य-नैमित्तिकं वर्णाश्रम-विहितं कर्म ब्रह्माराधन-रूपतया कार्यं स्वयं प्रयोजनम् इति मत्वा सङ्गं कर्मणि ममतां फलं च त्यक्त्वा यत् क्रियते तस्यैव सात्त्विक-त्यागत्वाद् एवम् एव कार्यम् इति अष्टादशाध्याये पूर्व-षट्क–मध्यम-षट्कोत्तम-षट्केषु च सर्वत्र गीता-भाष्ये रामानुजाचार्यैस् सिद्धान्तितम् । काम्य-कर्मणाम् अपि भगवद्-आराधनत्वेनानुष्ठितानां मोक्ष एव फलम् इति
[[35]]
सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः ।
मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥
इति श्लोक-भाष्ये ऽप्य् उक्तम् । “सर्व-धर्मान् परित्यज्ये"ति चरम-श्लोक-भाष्ये ऽपि परित्यज्येति पदेन फल-कर्म-सङ्ग-कर्तृत्व-त्त्याग एवोक्तः इत्य् उच्यते न कर्म-स्व-रूप-त्यागः उक्त इति । उक्त-त्याग-पूर्वकं यथाधिकारं कर्म-योग–ज्ञान-योग–भक्ति-योगान् कुर्वाण एव माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं च व्रज अनुसन्धत्स्वेति । एष एव धर्माणां शास्त्रीयः परित्यागः इत्य् उक्त्वा, एवं वर्तमानं त्वां मत्-प्राप्ति-विरोध्य्-अन्-आदि-काल-सञ्चित-प्रारब्ध-रूप-पापेभ्यो मोक्षयिष्यामि मा शुच इति । अथवा भक्ति-योगारम्भ-विरोध्य्-अन्-आदि-काल-सञ्चित-नाना विधान् अन्-अन्त-पापानुगुण-प्रायश्चित्त-रूप-कृच्छ्र-चान्द्रायण-कूश्माण्ड-वैश्वानरीं वातवतीव पवित्रेष्टि-त्रिवृद्-अग्निष्टुद्-अग्निष्टोमादिकान् सर्व-धर्मान् परित्यज्य भक्ति-योगारम्भ-सिद्ध्यै माम् एकम् अन्-आलोचित-विशेषाशेष-लोक-शरण्यं शरणं प्रपद्यस्व। भक्त्य्-आरम्भ-विरोधि-पापेभ्यो मोक्षयिष्यामि मा शुच इति द्वेधा व्याख्यातत्वात् । पूर्व-व्याख्यानेन नित्य-नैमित्तिक-कर्मणां कर्तव्यत्वं, उत्तर-व्याख्यानेन प्रतिपदोक्त-प्रायश्चित्त-करणासमर्थस्य भगवच्-छरण-वृजनम् उक्तम् । तस्माद् भगवद्-ध्यान-पूर्वकं भगवद्-आराधनत्वेन नित्य-नैमित्तिक-काम्य-कर्मणां श्रौतानां स्मार्तानां सात्वत-शास्त्रोक्त-मार्गेण कर्तव्यत्वं सिद्धम् । सात्वत-शास्त्र-विधिश् च भारते तत्र तत्र किञ्चित् सूचितः । मनु-स्मृतौ
अभ्यर्चन् पितॄन् देवान् पठन् जुह्वन् बलिं ददन् ।
ज्वलन्न् अग्निं स्मरेद् यो मां स याति परमां गतिम् ॥
[[36]]
मन्त्रैर् एव मन्त्रार्था स्मर्तव्या इति न्यायात् स्मरेद् इति विधानात् मन्त्रेण विना स्मरणासम्भवात् अनुस्मृत्य ध्यानारम्भावसानयोः द्वादशाष्टाक्षरयोर् उपात्तत्वाद् उपक्रमोप-संहाराधिकरण-न्यायेन तन्-मन्त्रेण भगवन्तं स्मृत्वा ऽभ्यर्चनादिकं कुर्यात् । पठन् - वेदाध्ययनं कुर्वन् जुह्वन् - अग्नि-होत्रादिकम् उज्वलन् ज्वलयन् सायं प्रातर् उद्धराहवनीयम् इति ज्वलन्तम् उद्धरेद् इति वचनाद् अग्न्य्-उद्बोधने अन्वाधानादिषु च काष्ठैर् मन्त्रेण प्रज्वलने च मन्त्र-जप-पूर्वकं नारायणस् स्मर्तव्यः । विष्णु-पुराणे –
वासुदेवे मनो यस्य जप-होमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥
इत्य् उक्तत्वात् मनसो निश्चलत्वात् मन्त्रोच्चारणे मन्त्रार्थस्य कृत्स्नस्य झटित्य् उपस्थितत्वात् तद्-ध्यानं सम्यक् सङ्गच्छसे । जपाभावे तु यत्नात् स्मृतिर् इति मन्त्र-जप एव ज्यायान् । ननु वैदिक-मन्त्रोच्चारण-काले मन्त्रान्तर-जपस्य निषिद्धत्वाद् दुष्करत्वाच् च कथं तज्-जप इति चेत् उच्यते ।
प्रत्यग्-आशिषो मन्त्रान् जपत्य् अकरणानुपतिष्ठते ऽनुमन्त्रयते
इति सूत्राद् अकरण-मन्त्रोपस्थानानुमन्त्रणस्य विहितत्वात् याग-जन्य-फल-भोक्तृत्वाद् यजमानस्य उद्गीथोपासने साम्नो ऽधिकस्यापि प्रणवस्योपासन-विधि-बलात् यथोद्गानं तद्वद् अत्रापि प्रपन्नानां सात्वत-शास्त्र-विधि-बलात् भारतादि-विधि-बलाच् च यजमानेन मूल-मन्त्र-जप-पूर्व-विष्णु-स्मृति-पूर्वकं याजमान-मन्त्रोद्देश-त्यागादीनां वचनेन न को ऽपि विरोधः । अध्वर्योर् अपि “अग्न्य्-आदिकं यज” इत्य् उक्त्वा मूल-मन्त्रं जपतो वषट्-कार-काले हविः प्रक्षेपस्य सुकरत्वात् तेनापि जपितव्यम् । अनुगीतायां अध्वर्यु-यति-संवादे
भगवन् भगवद्-बुद्ध्या प्रतिबुद्धो ब्रवीम्य् अहम् ।
व्रतं मम क्रतुं कर्तुं नापराधो ऽस्ति मे द्वि-ज
इत्य् उक्त्या तस्यपि भगवद्-ध्यानम् आवश्यकम् । उद्गातुर् उद्गीयोपासनवन् मन्त्र-जप-पूर्वकं चेद् ध्यानं सुकरम् इत्य् उक्तम् ।
[[37]]
होतुर् अपि पुरोनुवाक्योक्त्य् अन्-अन्तरं “ये यजामहात् पूर्वं मन्त्र-जपस् सुकरः । ब्रह्मणो निर्व्यापरत्वात् सर्वदा सुकरः। एवं वैदिक-मन्त्र-प्रयोगाविरोधेन मूल-मन्त्र-जपस्य कर्तुं शक्यत्वाद् अविरोधाच् च । वैखानस-सूत्रे चाधाने
प्राणायाम-शतं कुर्याद् ध्यायन् नारयणम्
इति। अग्नि-होत्रे च
समिधम् आधाय प्राणायामं कुर्यात् ।
ध्यायन् नारायणम् इति हुत्वा भूमानं विष्णुं ध्यायेद् इति । दर्श-पूर्ण-मासादिषु आदि-मध्यावसानेषु वषट्-कारे च विष्णुं ध्यायेद् इति । प्रायश्चित्त-प्रश्ने च अन्-अज्ञाते विशेषे ध्यानं नारायणस्य तज्-जपेज्या-होमश् च भिन्नात्मनीति तत्र तत्र बहुधा नारायण-ध्यानस्योक्तत्वात् । मन्व्-आदि-धर्म-शास्त्राणां प्रतिष्ठा-विधायक-वैखानस-शास्त्रस्य च पञ्च-रात्र–मूलत्वात् आश्वमेधिक-वैष्णव-धर्म-शास्त्रस्य च प्रत्यक्ष-पठ्यमान–पञ्च-रात्र–मूलत्वेन दृष्टत्वात्। पञ्च-रात्रे द्वादशाष्टाक्षरयोर् नितरां प्रशस्तत्वात् तथैव मोक्ष-धर्मे वैष्णव-धर्म-शास्त्रे च भगवता वेद-व्यासेन तयोर् अत्यन्त-स्तुति-पूर्वकं सर्वथा जप-विधानाच् च । ततश् च ताप-पुण्ड्र-नाम-मन्त्र-याग-संस्तुतैर् अ-च्छिद्र–पञ्च-काल–परायणैर् द्वादशाटाक्षर-तत्त्व-ज्ञैश् चतुर्व्यूह-विभाग-ज्ञैश् चक्राब्ज-मण्डल-दीक्षितैर् अर्ध-पञ्चक-तत्त्व-ज्ञैः परम-भागवतैर् एकान्तिभिः स्वयं प्रयोजनतया भगवद्-आराधनत्वेन फल-कर्म-सङ्ग-कर्तृत्व-त्याग-पूर्वकं नित्य-नैमित्तिक–काम्य-कर्म–जालं सर्वदा द्वादशाष्टाक्षर-जप-युक्त-विष्णु-ध्यान-पूर्वकं कर्तव्यम् इति निश्चयः । तद्-उक्तं पाञ्च-रात्रे पाद्म-संहितायां सिद्धान्ति-नियमाध्याये औपगायन-प्रभृत्य्-अष्ट-सहस्र-मुनिं प्रति ब्रह्म-वचनम् –
पञ्च-रात्रोक्त-मार्गेषु मन्त्र-सिद्धान्त-वर्त्मना ।
हीक्षयित्वा यथा-न्यायं चक्र-वारि-ज-मण्डले ॥
[[38]]
आहतान् दीक्षितान् ब्रह्म कर्तव्यम् इदम् आदिशत् ।
काण्वां माध्यन्दिनां शाखां शाखास्व् अभ्यर्हिते उभे ॥
अधीध्वं मूल-शाखे ते निषेकादींश् च संस्कृतिः ।
ताभ्याम् एवानुतिष्ठध्वं सोम-यागदि-कर्म च ॥
भगवन्-मन्त्र-सहितं तत्-समाराधनात्मकम् ।
कर्तव्यत्वेन वेदोक्तम् इत्य् एवं फल-वर्जितम् ॥
कृणीध्वम् इति कुर्वाणैः कर्म-निश्श्रेयसं फलम् ।
प्राप्यते तेन युष्माभिः मन्त्र-सिद्धान्त-वर्त्मना ॥
पञ्च-कालं यथा-शास्त्रं गृहे वा मन्दिरे ऽपि वा ।
भगवत्-पूजनं कार्यं अद्य प्रभृति नान्यथा ॥
यूयं भागवतास् तेन गता भगवद्-अर्चनम् ।
भगवद्-भक्तिर् इति वा करणीयं चतुर्-मुख ॥
नाम्ना भागवतास् सन्तो दीक्षयित्वा यथा-विधि ।
यथोक्तं कर्म कुर्वाणाः प्राप्नुवन्ति परं पदम् ॥
शाखान्तरेषु मन्त्राणां पावनाः परमर्षयः ।
तान् अप्य् अधीत्य तैर् मन्त्रैः अर्चयध्वम् अधोक्ष-जम् ॥
[[39]]
परमर्षय मुख्य-मन्त्राः । तस्याम् एवाष्टाक्षर-कल्पाध्याये अष्टाक्षर-जप-पूर्वकं दर्शे माघ-मासे च श्राद्धं विस्तरेणोक्त्वा कृच्छ्र-चान्द्रायणैकादश्य्-उपवासादिषु अष्टाक्षरेणाराधनम् उक्त्वा अग्नि-होत्रादि-समान्तं यज्ञादिष्व् अपि मूल-मन्त्रेणाराधनं विहितम् ।
अग्नि-होत्रादिकान् यज्ञान् जपन्न् अष्टाक्षरं सुधीः ।
कुर्वन् तत्-तत्-च्छत-गुणं फलम् आप्नोति मन्त्र-वित् ॥
तीर्थाभिगमन-पवित्राद्य्-उत्सवेषु मन्त्र-जपात् फलानन्त्यम् उक्त्वा पुनश् चविहितम् ।
यस्य यस्य च धर्मस्य फलं यद् यद् ईरितम् ।
तस्य तस्य फलं तत् तत्, मन्त्राच् छत-गुणं लभेत् ॥
इति । तद् उक्तं हारीत-स्मृतौ
व्यापकानां च सर्वेषां ज्यायान् अष्टाक्षरो मनुः । अष्टाक्षरस्य जप्ता तु साक्षान् नारायणः स्वयम् ॥
सन्यासं च समुद्रां च सर्षिछन्दो-ऽधि-दैवतम् ।
स-दीक्षा-विधि–स-ध्यानं सार्थं मन्त्र-युतं हृतम् ॥
स्नात्वा शुद्धः प्रसन्नात्मा कृत-कृत्यो जनार्दनम् ।
मनसाप्य् अर्चयित्वा वा जपेन् मन्त्रं सदा बुधः ॥
दान-प्रतिग्रहौ यागं स्वाध्यायं पितृ-तर्पणम् ॥
पितुः क्रिया ऽष्टाक्षरस्य जप्ता कुर्याद् अतन्द्रितः ॥
इति ॥
[[40]]
उक्तं च श्री-पाञ्चरात्र-रक्षायाम् आचार्यैः
निज-कर्मादि-भक्तय्-अन्तं कुर्यात् प्रीत्यैव कारितम् ।
उपायतां परित्यज्य न्यसेद् देवे कृता महीः ॥
इति । इदं तावत् आप्रबोधाद् आनिशान्तम् अनुष्ठीयमानेषु सर्वेषु कर्मसु न विस्मर्तव्यम् । समयाचार-नियमाध्याये वैष्णव-धर्म-शास्त्रादिषु कथितं परमैकान्तिनां विशेष-कर्तव्यं च सर्वं यथावद् अवगन्तव्यम् । सर्वेषु कर्मारम्भेषु भगवच्-छास्त्राद्य्-उक्तः तत्-तन्-मन्त्रो भगवान् एवेत्य् आदिकं भाष्य-कार-नित्योक्त-वाक्यं च पठितव्यम् । अन्ते च सर्वं स्व-नियाम्येत्य् आदि-क्रमेण स-मन्त्रकं भगवति समर्पणीयम् इत्य् एतत् सर्वं हृदि निधाय आनुशासनिक-पर्वणि यज्ञ-पुरुष-माहात्म्ये कर्मणि कर्मण्य् अवान्तर-कर्मसु अपि आज्य-पुरोडाश-सोम-यूपादिषु च कृष्ण-बुद्ध्या कर्तव्यत्वम् उक्तम् ।
यूपं विष्णुं वासुदेवं विजानन्,
सर्वान् विप्रान् बोधते तत्त्व-दर्शीम्।
विष्णुं क्रान्तं वासुदेवं विजानन्,
ब्राह्मणो ब्रह्मण एति स्थानम् ॥
सर्वं वैष्णवं यज्ञ-मार्गे
चातुर्-होत्रं वैष्णवं तत्र कृष्णः ।
सर्वैर् भावैर् इज्यते सर्व-कामैः
पुण्यान् लोकान् ब्राह्मणाः प्राप्नुवन्ति ॥
[[41]]
पुण्य-लोकः – भगवल्-लोकः । पूजायां बहु-वचनम् । यद् वा केशवादि-व्यूह-लोका अन्-अन्ताः ।
सोमं सद्-भावाद्ये च जातं पिबन्ति
दीप्तं कर्म ये विदानाश् चरन्ति ।
एकान्तम् इष्टौ चिन्तयन्तो दिवि-स्थास्
ते वै पन्थानं प्राप्नुवन्ति व्रत-ज्ञाः ॥
सद्-भावात् - ब्रह्म-बुद्ध्या “ओं तत् सद्” इति ब्रह्मणस् त्रि-विधः स्मृत इत्य्-उक्तेः
आज्यं यज्ञं स्रुक्-स्रुवौ यज्ञ-दाता इच्छा-पत्नी पत्नी-शाला हवींषि इध्मा-पुरोडाशं सर्वदा होतृ-कर्ता कृत्स्नं विष्णुं संविजानँस्तमेति।
पत्नी-शाला – प्राग्-वंशः ।
योगे योगे कर्मणां चाभिहारे
युक्ते वैताने कर्मणि ब्राह्मणो ऽस्य ।
पुष्ट्य्-अर्थेषु प्राप्नुयात् सर्व-सिद्धिं
शान्त्य्-अर्थेषु प्राप्नुयात् सर्व-शान्तिम् ॥
कर्मणां योगः प्रारम्भः । अभिहारः – समाप्तिः । अस्य विष्णोस् सम्बन्धिनि वैताने कर्मणि इत्य् अन्वयः । पुष्ट्य्-अर्था जयादयः । उपहोमाः शान्त्य्-अर्थाः। प्रायश्चित्तानि एकाक्षर-द्व्य्-अक्षरम् एकम् एव यदा यजन्ते नियताः प्रतीताः दृष्ट्वा मनसि अर्चयित्वा स्म[[??]] विप्राः सतां मार्गं तद्-ध्रुवं सम्भजन्ते । एकाक्षरं प्रणवः “ओम्” इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरेद् इत्य् उक्तेः । द्व्य्-अक्षरं वषट्-कारः । “द्व्य्-अक्षरो वषट्-कार” इति श्रुतेः । “विश्वं विष्णुर् वषट्-कारः” “प्राण-दः प्रणवः पण” इति वषट्-कार-प्रणव-रूपत्वं विष्णोर् विज्ञायते । अत्र प्रणव-वषट्-कारयोः मध्य-गानि “आश्रावय” “अस्तु श्रौषड्” “यज” “ये यजामह” इति चतुर्-दशाक्षराण्य् अपि गृह्यन्ते । प्रत्याहार-ग्रहणवत् ।
[[42]]
एको वेदो ब्राह्मणानां बभूव
चतुष्-पादस् त्रै-गुणो ब्रह्म-शीर्षः ।
पादं पादं ब्राह्मणा वेदम् आहुः
त्रेता-काले तं च तं विद्धि शीर्षम् ॥
चतुष्पादः – ऋग्-यजुस्-सामाथर्व-रूप-चतुष्टय पादवान् । त्रै-गुणः सत्व-रजस्-तमो गुणात्मक-फलवत् । ब्रह्माराधन-रूप-प्रजा-पुत्राद्य्-अन्नादि-लिप्सा-रूप–आभिचारादि-रूप–त्रि-विध-कर्म-बोधको ब्रह्म-शीर्षः – ब्रह्म-काण्ड-शीर्षः । त्रेता-काले यज्ञ-काले अध्वर्यूद्गातृ-होतृ-कार्य-वशात् यजुस्-साम-ऋग्-वेद-व्यवहारः प्राप्तः । [तं] ब्रह्म-काण्ड-रूप-शीर्षं तं विद्धि - कृष्णं जानीहीत्य् अर्थः।
फल-भोगावश्यम्भाव-दोष-परिहारः
…
न च
एवम् अपि कर्मणां फल-भोगावश्यं भाव-दोषो न परिहृत
इति वाच्यम् - तत्-तत्-फलेच्छाम् अन्तरेण भगवद्-आराधन-बुद्ध्यैवानुष्ठितानां तेषां तत्-तत्-फल-जननासमर्थत्वात् ।
न
“चेक्षु-क्षीरादि-गतं माधुर्यं मम जिह्वायां न स्याद्” इति बुद्ध्या इक्षु-क्षीरादिके पीते ऽपि
तद्-गत-माधुर्यस्यानुभूयमानत्वात्
तद्वत् पुण्यानां कर्मणां भगवद्-आराधनत्वेन करणे ऽपि
कथं तत्-फल-भोगाभाव
इति वाच्यम् ।
प्रबल-जिह्वा-दोष-वशात् पीतेक्षु-क्षीरादि-माधुर्यं यथा न ज्ञायते
यथा वा बद्ध-कोष्टस्य हरीतकी-शत-भक्षणे ऽपि विवेकाभावः यथा मणि-मन्त्रौषधिवशात् अग्नि-सर्पादि-गत-दाहादि-सह-ज-शक्तिः प्रतिहन्यते तद्वत् पुण्यानां कर्मणां भगवद्-आराधन-रूपाणां आरम्भावसानयोः “कृतं च करिष्यामी"त्याद्य् उक्त्या भगवद्-अर्पितानां भगवतो निरतिशय-प्रीति-प्रतिहतानां फल-जनन-शक्त्यभावात्[[??]] स्वर्गादि-फल-साधन-भूते कर्मणि तत्-कामस्यैवाधिकारेण फलेच्छा-रहितैर् मुमुक्षुभिर् भगवत्-प्रीत्य्-अर्थं अनुष्ठितानां कर्मणां अन्-अधिकारि-कृत-तया फलान् उत्पादकत्वाच् च भगवद्-आराधनत्वेनानुष्ठितैः कर्मभिः फल-भोगाभावस्य उपनिषद्-भारत–पाञ्च-रात्र–मन्वादि-स्मृतिषूक्तत्वाच् च । अतो न फल-भोगावश्यं भाव-दोषः । उक्तं हि शान्ति-पर्वणि राज-धर्मे दुर्गातितरणाध्याये
[[32]]
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।
ते तरन्तीह दुर्गाणि न मे ऽत्रास्ति विचारणा ॥
अस्मिन्न् अर्पित-कर्माणः सर्व-भावेन भारत ।
कृष्णे कमल-पत्राभे दुर्गाण् अतितरन्ति ते ॥
इति दुर्गं - संसार-दुर्गम्, संसारं च पुण्य-पाप-कर्म-फलानुबन्धः । तस्य अतितरणं भगवत्-प्रीति-कारितम् इति सिद्धम् । “यत् करोषि यद् अश्नासी"त्याद्य् अपि स्मर्तव्यम् ।