ततः पादौ प्रक्षाल्य सम्मृज्य द्विर् आचम्य शुचिः शुष्यत्-पादास्य-पाणिः सुवस्त्र-धरः माधवं स्मरन् शयने संविश्य निद्रां कुर्यात् । स्व-गृहे प्राक्-छिराः श्वशुर-गृहे दक्षिण-शिराः पथि प्रत्यक्-छिराश् शयीत । कदाचिद् अप्य् उदक्-छिरा न शयीत । शून्यालये श्मशाने पथ्य् एक-वृक्षे महा-देव-गृहे मातृ-वेश्मनि यक्ष-नागायतने चैत्य-द्रुमे स्कन्दायतने गुल्म-च्छायासु शर्करा-लोष्ट-पांसुषु भिन्न-शयने ऽशुचि-प्रदेशे धान्य-गो-देव-विप्राणां गुरूणां चोपरि आकाशे दीक्षां विना दर्भासने च न स्वपेत् ।
नग्नो ऽशुचिर् आर्द्र-वासा उत्तरा-पर-मस्तकश् च न स्वपेत् । विहित-कालेषु स्त्री-सम्भोगं यथावत् कुर्यात् । तदा यज्ञोपवीतं निवीतं पृष्ठ-भागे कृत्वा स्त्री-सम्भोग-काल-धार्यं वासो धृत्वा स्त्री-सम्भोगं कुर्यात् । स्त्रीणां षोडश-रात्रयो ऋतु-कालो भवति । तस्मिन्न् ऋतु-काले चतस्त्रो रात्रीर् वर्जयित्वा युग्मासु संविशेत् । यद्य् युग्मासु संविशेत् स्त्री-जननं भवेत् । पुंसः शुक्लाधिक्ये पुमान् । स्त्रियः शुक्लाधिक्ये स्त्री । समे पुमान् पुं-स्त्रियौ नपुंसको वा भवेत् । अतः स्वयं स्निग्धं भोजनं कुर्यात् । स्त्री लघ्व् आहारं कुर्यात् । ऋतु-स्नातां भर्यां नातिवर्तेत ।
[[163]]
यावद् व्यवायं स्त्रिया सह शयीत । ततो न शयीत । सुवस्त्र-वेष-धरया स्नातया शुद्ध-चितया ऽरोगया भार्यया सह स्वयं चैवं विधः सम्भोगं कुर्यात् । षष्ठ्य्-अमा-पूर्णिमा-चतुर्दश्य्-अष्टमी-व्यतीपात-सङ्क्रान्त्य्-उपवास-दिनादिषु प्रतिषिद्ध-दिनेषु स्त्री-सम्भोगं वर्जयेत् ।
ऋतौ गर्भ-शङ्कायास् सम्भवात् ऋतु-कालाभिगामी स्नानं कुर्यात् । अनृतौ मूत्र-पुरीष-शौच-सह-पठित-शौच-मात्रं कृत्वा ऽऽचामेत् । ततो यावन् निद्रा समभ्येति तावन् मनसा नारायणम् अनुस्मरेत् । निद्रान्तरे ऽपि प्रबुद्धस् सन् भगवद्-गुणानुवर्णनं कुर्यात् । एवं यथाधिकारं यथा-विधि नित्यानि सर्वाणि आश्रम-कर्माणि सर्वैर् आश्रमिभिर् यावज्-जीवम् अनुष्ठेयानि ।
इति श्रीमद्-रामानुज-सिद्धान्त-स्थापनाचार्य–शत-क्रतु–चतुर्-वेदि-श्रीनिवासाचार्य-विरचिते पञ्च-काल-क्रिया-दीपे योग-निरूपणाख्यः पञ्चमः परिच्छेदः
अनेक-स्मृति-विज्ञेय कृत्याकृत्य-प्रकाशकम् ।
पञ्च-काल-क्रिया-दीपम् अ-ज्ञान–ध्वान्त-रोधकम् ॥
शत-क्रतु–चतुर्-वेदि–श्रीनिवासार्य-निर्मितम् ।
सन्तस् समीक्ष्य सन्तोषं प्राप्नुवन्तु विमत्सराः ॥
॥ इति पञ्ज-काल-क्रिया-दीपः सम्पूर्णः ॥