०५ कार्यता

ततश् च

ईदृशः परमात्मा ऽयं प्रत्यग् आत्मा ऽयम् ईदृशः ।
तत्-संबन्धानुसन्धानं इति योगः प्रकीर्तितः ॥
योगो नामेन्द्रियैर् वश्यैः बुद्धिर् ब्रह्मणि संस्थितिः ।
प्रयुक्तैर् अ-प्रयुक्तैर् वा भगवत्-कर्म-विस्तरे ॥

[[162]]

इति शाण्डिल्य-स्मृत्य्-उक्त एव योगो नित्यम् अनुष्ठेयः ।
न तु साक्षात् भगवत्-प्राप्ति-साधनत्वेन विहितः
भक्ति-शब्द-वाच्यो योगो नित्यम् अनुष्ठेय इति सर्वं समञ्जसम् ।