स्वात्म-शारीरक-परमात्मानं ध्यायन्न् आसीत ।
अयम् एव ज्यायान् पक्षः ।
एवं जपन् ध्यानान्वितेन योगेन सर्वम् अभ्यस्तं मन्त्र-जातं यावत् भगवान् नारायणः
पूर्वोक्ते तत्-तत्-स्थाने सम्यग् आभाति
तावद् अधीत्य
आत्मना आत्मानं समाधाय
जप-क्रियाम् उक्त्वा
ध्यातृ-ध्येयाविभागेन तन्मयतां यावद् आपद्यते तावद् भावयित्वा
ध्यानासने त्यक्त्वा
रात्रि-क्षयावधि शयने समासीत ।