आत्म-स्वरूपम्
अशेष-चिद्-अचिद्-वस्तु-शेषि-भूतस्य अखिल-जगद्-आधारस्य समस्त-जगत्-सृष्टि-स्थिति-संहारान्तः-प्रवेश-नियमनादि-लीलस्य अखिल-हेय-प्रत्यनीक-कल्याणकैतानस्य
इतर-समस्त-वस्तु-विलक्षण-अन्-अन्त-ज्ञानानन्दैक-स्व-रूपस्य
स्वाभाविकानवाधिकातिशय-ज्ञान-बलैश्वर्य-शक्ति-तेजस्-सौशील्य-वात्सल्य-मार्दवार्जव-सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्यौदार्य-स्थैर्य-शौर्य-पराक्रम–सत्य-काम–सत्य-सङ्कल्प–कृतित्व-कृत-ज्ञताद्य्-असंख्येय-कल्पाण-गुण-गणौघ-महार्णवस्य श्रियः पतेर् भगवतो नारायणस्य
अन्-अन्यार्ह-निरुपाधिक-शेष-भूतः देहेन्द्रियादि-व्यतिरिक्तः ज्ञानैक-स्व-रूपः स्वयं प्रकाशः चेतनो ऽहम्-अर्थः प्रतिक्षेत्रं भिन्नो ऽणुर् नित्य-निर्मलो ज्ञातृत्व-कर्तृत्व-भोक्तृत्वादि-धर्मवान् बद्धो ऽयं जीवो नित्य-मुक्त-तुल्यतया भगवद्-अनुभव-योग्यो ऽपि
आध्यात्मिकादि-ताप-त्रय-निरूपणम्
अन्-आद्य्-अ-विद्याकर्म-वासना-रुचि-प्रकृति-सम्बन्धेन तिरोहित-स्व-स्व-रूपः संसरमाणाध्यात्मिकादि-ताप-त्रयेण पीडितो भवति।
[[157]]
तत्र आध्यात्मिकस् तापो द्वि-विधः । शारीरो मानसश् चेति । शारीरो नाम शिरो-रोग-प्रतिज्याय-ज्वर-शूल-भगन्दर-गुल्माश्वयधु श्वास-कासाक्षि-रोगातिसार-कुष्ठादि-व्याधयः।
मानसस् तापो नाम - काम-क्रोध-लोभ-मोह-मद-मात्सर्य-भय-द्वेष-शोकासूयादिर् आधिः । आधिभौतिको नाम मृग-पक्षि-मनुष्य-पिशाचोरग-राक्षस-सरीसृपादि-जनिता पीडा । आधिदैविको नाम शीतोष्ण-वर्षाम्बु-वैद्युतादि-जनितस् तापः । एवं ताप-त्रय-पीडितस् सन् गर्भ-जन्म-जरा-ज्ञान-मृत्यु-नरक-जं दुःखम् अनुभवति । गर्भे तावत् बहु-मलावृते उल्ब-संवेष्टितो भुग्न-पृष्ठ-ग्रीवा-स्थि-संहति-रत्य्-अम्ल-कटु-तीक्ष्णोष्ण-लवण-रूपैर् अतितापिभिर् मातृ-भोजनैर् वर्धमानातिसंवेदना ऽङ्गानां प्रसारणाकुञ्चनादाव् अप्य् अशक्तश् शकृन्-मूत्र-महा-पङ्कशायी-सम्पिण्डित-सर्व-गात्रः दुस्सह-गर्भ-वस-क्लेशान् अनुभवति । ततो जायमानः पुरीषासृङ्-मूत्र-शुक्लाविलाननः प्राजापत्य-वायुना पीड्यमानः अधो-मुखतया परिवर्तितः प्रसूति-मारुत-बलाद् योनि-यन्त्र-पीडितो ऽतिदुःखितस् सन् अशुचि-प्रस्तरे निपतति । ततो मूर्च्छाम् अवाप्य ब्राह्म-वायुना संस्पृष्टो भगवन्-मायया ऽपहृत-ज्ञानो भवति । ततः कण्डूयने परिवर्तने चाप्य् अशक्तो ऽशुचिः प्रस्तरे सुप्तः कीट-दंशादिभिर् भक्ष्यमाणो तेषां निवारणे ऽप्य् अ-समर्थः किम् अपि कार्याकार्यम् अजानन् पशु-समो भूत्वा शिश्नोदर-परायणः नरक-हेतु-भूतानि पापनि कर्माणि कुरुते ।
[[158]]
नरकानुभव-प्रकारः
असाधु-कर्म-कारिणां नरकानुभव-प्रकारः॥
ततो जरा-जर्जन-देहश् शिथिलावयवः विचलच्-छीर्ण-दशनावलि-स्नायु-सिरावृतो दूरं प्रणष्ट-नयनश् शलद्-वपुः प्रकटी-भूत-सर्वास्थिर् अल्पाहारो ऽल्प-चेष्टितो मन्दी-भवच् छ्रोत्र-नेत्रः स्रवल्-लालाबिलाननः तत्-क्षणे ऽप्य् अनुभूतानां वस्तूनाम् अप्य् अस्मर्ता-सकृद् उच्चरिते ऽपि वाक्ये समुद्भूत-महा-श्रम-वास-कास-महा-यास-समुद्भूत-प्रजा-गरो भृत्यादि-पुत्र-दाराणाम् अवमान-बहिष्कृतः प्रक्षीणाखिल-शौचः विहाराहार-निस्पृहः परिजनस्यापिहास्यो निर्विण्णाशेष-वाडवो ऽन्यस्मिन् जन्मनि अनुभूतम् इव आत्मनि चेष्टितं संस्मरन् अतितापितो भवति ।
ततो मरण-दशायां श्लथ-ग्रीवाङ्घ्रि-हस्तः वेपथुना व्याप्तः मुहुर् ग्लानि-पर-वेशः मुहुर् ज्ञान-लवान्वितः हिरण्य-धान्य-तनय-भार्या-भृत्य-गृहादिषु एते कथं भविष्यन्तीति अतीव ममताकुलः ।
मर्म-भिन्नौ[[??]] महा-रोगैश् छिद्यमान-सुबन्धनः
परिवर्तमानताराक्षः हस्त-पादौ मुहुः क्षिपन् ॥
संशुष्य-माण-ताल्व्-ओष्ठ-पुटः दोषौघैर् निरुद्ध-कण्डःउदान-श्वास-पीडितः तृषा क्षुधा च पीडितः महता तापेन व्याप्तो यम-किङ्कर-पीडितः
एकोत्तर-शतं मृत्युम् अथर्वाणः प्रचक्षते
इत्य् उक्त-प्रकारेण मरण-वेदनाम् अनुभूय क्लेशाद्य्-उत्क्रान्तिं प्राप्य यातन-देहं प्रतिपद्यते ! ततो नरके यम-किङ्करैः पीडितो नाना-विधां दुःख-पद्धतिम् अनुभवति ।
[[159]]
स्वर्ग-प्राप्ति-प्रकारः
पुण्य-कर्म-कारिणां धूमादि-मार्गेण स्वर्ग-प्राप्ति-प्रकारः॥
यस् तु यज्ञादीनि पुण्य-कर्माणि कुरुते स ऐहिकं सुखम् अनुभूय स्वर्ग-सुखानुभवार्थं गमिष्यन् स्थूल-शरीरात् सूक्ष्म-शरीरं प्राप्य एक-शत-सङ्ख्याकेषु नाडी-भेदेषु ब्रह्म-नाडी-भेदेन निष्क्रम्य धूम-राज्य-पर-पक्ष-दक्षिणायन–षण्-मास–पितृ-लोकाकाश-चन्द्र-क्रमेण स्वर्गं प्राप्य इन्द्रादि-शरीरं प्राप्य तत्-तत्-सुकृतानुगुणं कञ्चित् कालम् अनुभूय
वैकुण्ठ-प्राप्तिः
अनन्तरं अर्चिरादि-मार्गेण श्री-वैकुण्ठ-प्राप्ति-प्रकारः॥
अन्तवत् तु फलं तेषां प्रभवत्य् अल्प-मेधसाम् ।
आब्रह्म-स्तम्ब-पर्यन्ता जगद्-अन्त-व्यवस्थिताः ॥
प्राणिनः कर्म-जनित-संसार-वश-वर्तिनः ।इत्य् उक्त-प्रकारेण कर्म-शेषानुभवार्थं पुनर् जन्मादि-प्राप्त्य्-अर्थं देव-शरीरं विहाय भूत-सूक्ष्म-शरीरं प्राप्य चन्द्राकाश-वायु-धूमाभ्र-मेघ-वृष्टि-व्रीह्य्-आदि-मार्गेणावरुह्य नरक-तुल्य-पुरुष-शरीरे प्रविश्य रेतसा सह स्त्री-शरीर-शोणित-गर्ते सलिल-बुद्बुदाद्य्-अवस्थां प्राप्य दुस्सह-गर्भ-वास-क्लेशम् अनुभवति ।
पुनर् जायते म्रियते चेत्य् एवं पुण्य-पापानुरूपेण सुखं दुःखं चानुभवन् चक्र-परिवृत्या परिभ्रमति ।
एवम् अहम् अप्य् अन्-आदि-कालम् आरभ्य संसरमाणो यादृच्छिक-सुकृत-परिपाकेन जायमान-काले भगवत्-कटाक्ष-विषयी-भूतः सद्-आचार्योपदेशाल् लब्ध-प्रज्ञः पूर्वानुभूत-सुकृत-दुष्कृत-फलम् अनुस्मृत्य निर्विण्णो ऽभूवम् । ततो भगवति स्व-रक्षाभर-न्यासं साङ्गम् अनुष्ठितवान् अस्मि । एवं भगवति न्यस्त-भरस्य द्विषत्सु दुष्कृतं सुहृत्सु सुकृतं च मम एतद्-देहावसाने केवलं भगवद्-दयया अतिप्रबुद्धस्य भगवन्तम् एवावलोकयतः प्रच्युत पूर्व-संस्कार-मनो-रथस्य मम वाक्-पाणि-पाद-पायूपस्थाख्येषु कर्मेन्द्रियेषु घ्राण-रसन-चक्षुस्-त्वक्-छ्रोत्राख्येषु ज्ञानेन्द्रियेषु च मनसा संयुक्तेषु सत्सु, कर्म-ज्ञानेन्द्रिय-संयुक्ते मनसि प्राण-वायुना संयुक्ते सति, एकादशेन्द्रिय-संयुक्त-प्राण-वायौ जीवात्मना मया संयुक्ते सति प्राणेन्द्रिय-संयुक्तस्य मम
[[160]]
त्रि-स्थूण-क्षोभ-दशायां स्थूल-देहं विहाय पञ्च-भूत-सूक्ष्म-शरीरं प्राप्तस्य तद्-अनन्तरम् इन्द्रिय-प्राण-भूत-सूक्ष्म-संयुक्तस्य मम निसर्ग-सुहृदि हार्दे परमात्मनि श्रमापनयनं प्राप्तस्य अनन्तरं एक-शत-सङ्ख्याकेषु नाडी-भेदेषु धूम-राज्यपर-पक्ष-दक्षिणायन–षण्-मास–पितृ-लोकाकाश–चन्द्र-रूप–स्वर्ग-मार्गस्य देव-यान–पितृ-यानोभय-व्यतिरिक्त-नरक-मार्गस्य द्वार-भूतान् शत-सङ्ख्यान् नाडी-विशेषान् न प्राप्यैव अर्चिरादि-मार्ग-मुख-भूतया मूर्धन्यया शताधिकया ब्रह्म-नाड्या निष्क्रम्य सूर्य-मण्डलं भित्वा तद्-उपर्य् अर्चिरादि-मार्गेण अर्चिर्-अहः-पूर्व-पक्षेात्तरायण-संवत्सर-वाय्व्-आदित्य-चन्द्र-वैद्युत-वरुणेन्द्र-प्रजापति-संज्ञैर् अतिवाहिकैस् तत्-तत्-सीमा-पर्यन्तम् अनुव्रजद्भिस् तत्-तल्-लोकेषु भगवच्-छास्त्रोक्त-भोगानुभव-पूर्वकं स-बहुमानं नीतस्य मम
लोकं वैकुण्ठ-नामानं दिव्यं षाड्गुण्य-संयुतम् ।
अ-वैष्णवानाम् अ-प्राप्यं गुण-त्रय-विवर्जितम् ॥
नित्य-सिद्धैस् समाकीर्णं तन्मयैः पाचकालिकैः ।
सभा-प्रसाद-संयुक्तं वनैश् चोपवनैश् शुभम् ॥
वापी-कूप-तटाकैश् च वृक्ष-षण्डैश् च मण्डितम् ।
अ-प्राकृतं सुरैर् वन्द्यं अयुतार्क-समप्रभम् ॥
प्रकृष्ट-सत्त्व-राशिं तं कदा द्रक्ष्यामि चक्षुषा ।इत्य् उक्त-प्रकारेण बहु-कालं द्रष्टुम् अभिलषितं श्री-वैकुण्ठ-लोकं प्राप्य
कर्म-फल-भोगार्थं गत्यर्थम् एव विद्यया स्थापितम् एतावन्तं कालम् अनुवृत्तं सूक्ष्म-शरीरं विहाय विरजां मनसा तीर्त्वा
अ-प्राकृतं शुद्ध-सत्वमयं दिव्यं शरीरं लब्ध्वा
ऐरंमद-सरस्-तीरे सोम-सवन-संज्ञाश्वत्थ-समीपं गत्वा[[161]]
मालाञ्जन-चूर्ण-वासो-भूषण-हस्ताभिः पञ्च-शत-सङ्ख्याभिः प्रत्युत्थिताभिर् अप्सरोभिः ब्रह्मालङ्कारैर् अलङ्कृतस्य ब्रह्म-गन्ध-रस-तेजांसि प्राप्तस्य विष्वक्सेनादिभिर् नित्यैः पराङ्कुश-परकालादिभिर् अस्मद्-आचार्यैर् मुक्तैश् च प्रत्युत्थितस्य मम गोपुर-समीपं प्राप्य इन्द्र-प्रजा-पति-संज्ञौ द्वार-पालौ दृष्ट्वा अप्राकृतान् राजोपचारान् प्राप्य आनन्दमय-मण्टप-रत्नं प्रविश्य
नित्य-मुक्त-विराजितां दिव्यां सभां प्रणम्य
नित्यैर् मुक्तैस् सेव्यमानं शेष-भोगे श्रिया सहासीनं निरतिशय-भोभ्यं भगवन्तं श्रीमन्-नारायणं दृष्ट्वा
तच्-चरणारविन्द-युगलं प्रणम्योत्थाय पुनः पुनः प्रणम्य
भगवत्-समान-भोग-लक्षणं सायुज्यं प्राप्य
स्व-समान-जातीय-नित्य-मुक्तान्तर्भूतम्य मम समस्त-प्रतिबन्धक-निवृत्ति-पूर्वकम्
अपहत-पाप्मत्यादि-स्व-स्व-रूपाविर्भाव-पूर्वकं
देश-कालावसर-सङ्कोच-रहिततया यावद् आत्म-भावितया पारमार्थिक-भगवच्-चरणारविन्द-युगलैकान्तिकात्यन्तिक-परभक्ति–पर-ज्ञान–परम-भक्ति-कृत-परिपूर्णानवरत-नित्य-विशदतमानन्य- प्रयोजनानवधिकातिशय-भगवद्-अनुभव-जनितानवधि कातिशय-प्रीति-कारिता-शेषावस्थोचिताशेष-शेषतैक-रति-रूप-नित्य-कैङ्कर्यं भगवान् श्रीमन्-नारायण एव प्रापय्य मां रक्षतु
इत्य् अनुसन्धाय