०२ धारणम्

योगानुष्ठान-काले परमात्म-ध्यान-प्रकारः॥

आत्मनात्मानं समाधाय पूर्वोक्त-प्रकारेण मूल-मन्त्रेण द्वादशाक्षर-विद्यया वा प्राणायामं कुर्वन् कुम्भक-समये

ध्यायामि परमात्मानं परमानन्द-विग्रहम् ।
गुरूपदेशतो ज्ञेयं पुरुषं कृष्ण-पिङ्गलम् ॥
ब्रह्म-ब्रह्म-पदे चास्मिन् दहराब्-ज-ख-मध्यमे ।

इति ध्यात्वा स्वात्म-शरीरकं परमात्मानं भावयेत् ।

[[154]]

यद् वा

हृत्-पद्माष्ट-दलोपेते कन्द-मध्यात् समुत्थिते ।
द्वादशाङ्गुल-नाले ऽस्मिन् चतुर्-अङ्गुलवन्-मुखे ॥
प्राणायामे विकसिते केसरान्वित-कर्णिके ।
वासुदेवं जगन्-नाथं नारायणम् अजं हरिम् ॥
चतुर्-भुजम् उदाराङ्गं शङ्ख-चक्र-गदा-धरम् ।
किरीट-केयूर-धरं पद्म-पत्र-निभेक्षणम् ॥
श्री-वत्स-वक्षस्-संयुक्तं पूर्ण-चन्द्र-निभाननम् ।
पद्मोदर-दलाभासं सुप्रसन्नं शुचि-स्मितम् ॥
शुद्ध-स्फटिक-सङ्काशं पीत-वाससम् अच्युतम् ।
पद्म-च्छवि-पद-द्वन्द्वं परमात्मानम् ईश्वरम् ॥
प्रभाभिर् भासितं रूपं परितः पुरुषोत्तमम् ।
ध्यायामि मनसा देवं सर्व-भूत-हृदि स्थितम् ॥

इति भगवन्-नारायणं ध्यात्वा
स्वात्म-शरीरकं परमात्मानं भावयेत् ।
यद् वा वैश्वानर-संज्ञकं भगवन्तं नारायणं ध्यात्वा स्वात्म-शरीरकं परमात्मानं भावयेत् ।

[[155]]

यद् वा

आत्मानं सर्व-जगतः पुरुषं हेम-रूपिणम् ।
हिरण्य-श्मश्रु-केशं च हिरण्मय-नखं हरिम् ॥
कप्यासाम्बुजवद्-वक्त्रं सृष्टि-स्थित्य्-अन्त-कारणम् ।
पद्मासन-स्थितं सौम्यं प्रबुद्धाब्-ज-निभाननम् ॥
पद्मोदर-दलाभाक्षं सर्व-लोकाभय-प्रदम् ।
विजानन्तं हितान् सर्वान् उन्नमन्तं च धार्मिकात् ॥
शासयन्तं जगत्-सर्वं ध्यायेल् लौकिक-साक्षिणम् ।

इति भगवन्तं नारायणं आदित्य-मण्डल-मध्य-वर्तिनं ध्यात्वा स्वस्य परमात्मनश् च शरीर-शरीरि-भावादि-सम्बन्धं भावयेत् ।

यद् वा

भ्रूवोर् मध्ये ऽन्तर् आत्मानं भा-रूपं सर्व-कारणम् ।
स्थाणुवन्-मूर्ध-पर्यन्तं मध्य-देहात् समुत्थितम् ॥
जगत्-कारणम् अ-व्यक्तं ज्वलन्तम् अमितौजसम् ।

इति ध्यात्वा स्वस्य परमात्मनश् च शरीर-शरीरि-भावादि-सम्बन्धं भावयेत् ।

यद् वा

हृन्-मध्ये ऽष्ट-दलोपेते कर्णिका-केसरान्विते ।
उन्निद्र-हृदयाम्भोजे सोम-मण्डल-मध्यमे ॥

[[156]]

स्वात्मानं भास्वराकारं भोक्तृ-रूपिणम् अक्षयम् ।
सुधा-रसं विमुञ्चद्ध्भिश् शशि-रश्मिभिर् आवृतम् ॥
षोडशच्छन्द-संयुक्ताच् छिरः-पद्माद् अधो मुखात् ।
निर्गतामृत-धाराभिः समग्राभिस् समन्ततः ॥
प्लावितं पुरुषं तत्र चिन्तयामि समाहितः ।
तेनामृत-रसात् क्लिन्न-साङ्गोपाङ्ग-कलेवरम् ॥
अहम् एव परं ब्रह्म परमात्मा ऽहम् अ-व्ययः ।

इति भावयेत् ।

यद् वा ततश् च प्रत्यहं आत्मोपजीवनायैवम् अनुस्मरेद् इति श्री-वैकुण्ठ-गद्योक्त-प्रकारेण भावयेत् ।

(परव्यूह-विभावाद्यचावतारेषु स्वाभीष्टस्य भगवद्-अवतारस्य मूर्ति-ध्यान-प्रकारः॥)

यद् वा पर-व्यूह-विभवाद्य्-अर्चावतारेषु स्वाभीष्टस्य भगवद्-अवतारस्य मूर्ति-ध्यानं तत्-तन्-मन्त्रैः कृत्वा