स्वस्तिक–गो-मुख–पद्म-वीर-सिंह–भद्र-मुख–मयूराख्येषु आसनेषु स्वाभिमतेन केनचिद् आसनेन स्थित्वा
पूर्वोक्त-प्रकारेण भूत-शुद्धिं कृत्वा
प्राङ्-मुखः काय-शिरो-ग्रीवा सन्धि-वक्षस्-स्थलानि समानि कृत्वा
अक्षिणी नासग्र-न्यस्ते कृत्वा
तालु-तल-स्थां जिह्वां सान्तरे दशनावली च कृत्वा
ओष्ठ-पुटाव् ईषल्-लग्नौ कृत्वा
ऊरु-मध्य-प्रदेशयोर् बाहु-कूर्परौ धृत्वा
दक्षिणोत्तरौ पाणी कृत्वा
योग-पट्टेन विग्रहम् अचलं सन्धार्य
अपान-देशं निरुध्य
विषयान्तर-निविष्टं मनस् समाहृत्य
बुद्धौ लीनं कृत्वा
बुद्धिं स्व-गोचरां कृत्वा