अथ योगः अथ योगं व्याख्यास्यामः
अर्ध-रात्रे समुत्थाय जित-निद्रो जितेन्द्रियो जित-श्रमः पाणि-पादौ च प्रक्षाल्य द्विर् आचम्य भगवन्-मन्दिरं गत्वा गुरुं भगवन्तं च प्रणम्य भगवत्-सन्निधौ अन्यत्र वा विविक्ते शुचौ देशे कम्बलाद्य्-आसने संविश्य
ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुर्-आत्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन योगेन भगवतः कर्मणा भगवन्तम् अर्चयिष्यामि
इति योगं सङ्कल्प्य
ओं भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि
इत्य् अनुसन्धाय