ततश् च रात्रि-योग्य-स्वाध्यायं यथा-शक्ति कुर्यात् ॥
ननु
प्रदोषे च भुक्त्वा प्रोदकयोश् च पाण्योर् नाधीयत
इत्य् आपस्तम्ब-वचनात् रात्रौ भुक्त्वा नाधीयीत, अधीत्यैव भुञ्जीत इत्य् अर्थो लभ्यते । तत् कथं भोजनानन्तरम् अध्ययनम् उच्यते इति चेत्, अत्रोत्तरम् प्रदोषे त्रयो-दश्यादि-प्रदोषे नाधीयीत, भुक्त्वा प्रोदकयोश् च पाण्योर् नाधीयीत इत्य् एवार्थ इति ।
भुक्त्वा ऽऽद्र-पाणिः अम्भो ऽन्तर्
इति याज्ञवल्क्यादि-वचनं
भुक्त्वा यावद् आर्द्र-पाणिस् तावन् नाधीयीत
इति विज्ञानेश्वरेण व्याख्यातम् ।
[[152]]
न भुक्त-मात्रे नाजीर्णे न वमित्वा न सूतके
इति मनु-वचनं
भोजनानन्तरं आर्द्र-पाणिर् नाधीयीत
इति कवि-वल्लभेन व्याख्यातम् ।
भुक्त्वा आर्द्र-पाणिर् इत्य् उक्तेः अ-भुक्त्वा आर्द्र-पाणिर् अपि अधीयीत
इति न्याय-विदो वदन्ति ।
मित-सन्ध्यस् त्रयो-दश्यां संस्मरन् नात्मनो हितम् ।
अन्हो ऽष्टांशेन संयुक्तं रात्र्य्-अर्धं मौनम् आचरेत् ॥
इति स्मृत्य्-अर्णवे त्रयो-दश्यां
तत्-काल-नियत-सावित्री-होमादि-व्यतिरिक्त-दशायां
प्रदोषाख्य-काले मौन-विधानात्
मन्त्रादिकम् अपि वर्जनीयम् ।
विष्व्-अयनादिषु तु स्वाध्याय-जप-मन्त्रं निषिध्यते । मन्त्र-जपादिकं तु विधीयते । एवं गुरोस् समारभ्य मन्त्रानुष्ठानम् आचरेत् ।
अष्टाक्षरं जपेद् विद्वान् अष्ट-सहस्रकम्
इति बोधायनेन अष्टाक्षर-जपस्य नित्यत्वम् उक्तम् ।