ततो भगवद्-अर्चनं पूर्ववद् यथा-शक्ति कृत्वा वैश्व-देव-बलि-हरणम् अतिथि-पूजां च यथा-शक्ति कृत्वा भोजनं च पूर्ववत् कुर्यात् । “ऋतं त्वा सत्येन परिषिञ्जामी"ति परिषेचन-मन्त्र-भेदः ।
केनचिन् निमित्तेन विलुप्ते ऽपि भोजने
प्राणाग्नि-होत्र-मन्त्र-जपं कुर्यात् ।