लोहितायति भास्करे ग्रामाद् बहिर् नदी-तटाकादि-तीरं गतश् शुचिर् दर्भ-पाणिः पाणी-पादौ च प्रक्षाल्य प्राङ्-मुखः प्रत्यङ्-मुखो वा शुचौ देशे निषण्णस् स्वाचान्तः “सायं सन्ध्याम् उपासिष्ये” इति सङ्कल्प्य आपोहिष्ठादिभिर् मार्जयित्वा “अग्निश्चमामन्युश्चे"त्य् अपः पीत्वा ऽऽआचम्य सुरभि-मत्या आपोहिष्ठीयाभिः “हिरण्य-वर्णाश् शुचयः” “पवमानस् सुवर्जनः” इत्य् अनुवाकाभ्यां च मार्जयित्वा अर्धास्तमिते रवौ प्रत्यङ्-मुखस् तिष्ठन्न्-आसीनो वा प्रणव-व्याहृति-गायत्रीभिर् अभिमन्त्रितम् उदकम् ऊर्ध्वं त्रिर् उत्क्षिप्य प्रायश्चित्तार्घ्यं च दत्त्वा प्रदक्षिणी-कृत्य प्रणव-व्याहृतीभिः परिषिच्य “असाव् आदित्यो ब्रह्मे"ति ध्यायन् आत्मानम् उपलभ्य उपविश्य द्विर् आचम्य केशवादीन् तर्पयित्वा ऽऽचम्य भगवन्तं विष्णुं ध्यायन् गायत्रीं पूर्ववज्-जप्त्वोपस्थाय “इमं मे वरुणे"त्य् आदिभिः पञ्चभिर् ऋग्भिर् नारायणोपनिषदा च वारुणीं सन्ध्याम् उपस्थाय सर्वम् अन्यत् यथा-पूर्वं कुर्यात् ।