स्वाध्याय-काल-कर्तव्य-कार्यक्रमः॥ भगवत्-प्रीणन-चित्त-रञ्जकेतिहास-पुराण-स्तोत्र-निगमान्त-द्वय-व्यापक-मन्त्रादीनां श्रवण-मनन-प्रवचन-जपादि-विधिः ॥
उपबृह्म निरपेक्षस्य उपबृंहणीय-वेद-भाग-जप एव युक्तः । तत्रापि साक्षाद् भगवत्-प्रतिपादक एव भागो जप्यः । सङ्ग्रह-रुचीनां महा-मन्त्र-शक्तानां च सर्व-सार-भूत-व्यापक-मन्त्र-जप एव युक्तः । शिष्य-गुरु-स-ब्रह्म-चारि-श्रेयो-ऽर्थिभिर् अन्-असूयिभिर् वीत-रागैस् सह तत्त्व-निर्णयाय वादः स्वाध्याय-काल एव प्रवर्तनीयः । तद् इह भगवत्-प्रीणन-स्व-चित्त-रञ्जकेतिहास-पुराण-स्तोत्र-निगमान्त-द्वय-व्यापकादीनां श्रवण-मनन-प्रवचन-जपादयो वा संवादादयश् च यौगिक-ज्ञान-प्रदीप-स्नेहायमाना विविध-वाचिक-पापोदय-प्रतिबन्धिनश् च सर्वे व्यापाराः यथाधिकारं यथा-सम्भवं यथा-विधि सम्भूय पृथग् भूय वा अनुष्ठेया भवन्ति । शमाद्य्-उपयुक्त-शब्द-परिशीलनं कुर्याद् इति स्वाध्याय-सारः ॥
अथ बन्धु-जन-कार्यम् आत्म-कार्यं गृह-क्षेत्रादि-चिन्तां च कृत्वा
[[151]]