०१ स्वाध्यायार्थ-सङ्कल्पः

अथ स्वाध्यायः अथ स्वाध्यायं व्याख्यास्यामः

अह्नश् चतुर्थ-काले सम्प्राप्ते

ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुर्-आत्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन स्वाध्यायेन भगवत्-कर्मणा भगवन्तम् अर्चयिष्यामि

इति स्वाध्यायं सङ्कल्प्य

ओं भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि

इत्य् अनुसन्धाय स्वागत-वेद-वाक्यार्थ-व्यक्तीकरणाय विदित-स-कल-वेद-तद्-अर्थानां स्व-योग-महिम-साक्षात् कृत-परावर-तत्त्व-याथार्थ्यानां मनु-पराशर-पाराशर्य-शुक-शौनकादीनां महर्षीणां प्रबन्धान् श्रवण-मनन-जपादिभिर् अभ्यसेत् ।