ततः पाणि-पादौ प्रक्षाल्याचम्य
प्रयतो भगवन्-मन्दिरं गत्वा प्रणम्य
भगवान् एव स्व-शेष-भूतेन मया स्वीयैर् एव देहेन्द्रियान्तः-करणैः स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रियतमान् अतिप्रभूतान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छ्दान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादितवान्
इत्य् अनुसन्धाय
ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन इज्यया भगवत्-कर्मणा भगवान् प्रीयतां वासुदेव
इति इज्यां भगवते समर्पयेत्
इति श्रीमद्-रामानुज-सिद्धान्त-स्थापनाचार्य-शत-क्रतु-चतुर्-वेदि- श्री-निवासाचार्य-विरचिते पञ्च-काल-क्रिया-दीपे इज्या-निरूपणाख्यस् तृतीयः परिच्छेदः
**