शौचान्तम्
ततो गो-दोहन-मात्रम् अतिथिं प्रतीक्षमाणः पाणि-पादौ च प्रक्षाल्य द्विर्-आचामेत् । भोजन-शालायां नाचामेत् । भोजनार्थम् आसने निषण्णे सति यद्य् अन्यो ऽभिवादनं कुर्यात् तदा पुनर् आचामेत् ।
पात्रसादनान्तम्
ततः शुचौ गुप्ते भगवत्-सन्निधौ सविताने प्रदेशे
प्राङ्-मुख इज्या-प्रदेशाभिमुखो वोपविश्य
हस्तयोः पादयोर् आस्ये चेति पञ्चसु स्थलेषु आर्द्रः
मौनम् आस्थितस् सन्
शुचि-भोजन-स्थानं श्लक्ष्णं गो-मयेन
ब्राह्मणस्य चतुर्-अश्रं, क्षत्रियस्य त्रि-कोणं, वैश्यस्य वर्तुलं, शूद्रस्य अर्ध-चन्द्राकारम् इत्य् एवं प्रकारेण पात्रान्यूनाधिकम् उपलिप्य
तत्र सुवर्ण-रजत-कांस्य–ब्रह्म-पत्र–जलज–पद्म-पत्र–पलाश-पत्र–कदली-पत्र–पनसाम्र-नालिकेर–बिल्व-पत्राद्य्–अन्यतरं प्रशस्तं पत्रं विशोधितं निक्षिप्य
ध्यान-जपौ
वैश्वानर-ब्रह्म ध्यायेत् ।
“पुनर्म[[??]] आत्मा पुनरायुर्” इत्य् ऋचं मूल-मन्त्रं च जपित्वा
छान्दोग्योपनिषद्-अधीतान् “प्राचीन-शाखा औपमन्यव” इत्य् आदि-चतुर्-दश-खण्डां जपेत् ।
अशक्तश् चेद् अन्-अन्तापरिच्छिन्नाप्रमेय–स्व-रूप–ध्यानार्थं नाभेर् उपरि प्रादेश-मात्र-विमितं[[??]]
सुतेजो विश्व-रूप-पृथग् वर्त्म-बहुल-रयि[[??]]-प्रतिष्ठा-नामक-स्वर्गादित्य-वाय्व्-आकाश-जल-पृथिवी-रूपी-मूर्धा-चक्षुः-प्राण-मध्य-काय-लिङ्ग-पाद-विशिष्टं बर्हिर् गार्ह-पत्य-दक्षिणाग्न्य्-आहवनीय-रूपित-लोम-हृदय-मनो-विशिष्टं परमात्मानं वैश्वानरं ध्यायामि ।
न्यासः
पूर्वोक्त-पञ्चोपचार-मन्त्रैर् अर्घ्य-गन्ध-पुष्प-धूप-दीप-नैवेद्यैर् अभ्यर्च्य देहे ऽप्य् एवं न्यसेत् ।
[[145]]
यथा स्व-शरीरं परमात्म-वैश्वानर-स्व-रूपं ध्यात्वा
मूर्ध्नि
ओं सुतेजस् संज्ञ-स्वर्गाय नमः ।
नेत्रयोः
ओं विश्व-रूपाह्वय आदित्याय नमः ।
नासिकयोः
पृथक् वर्त्माख्य-वायवे नमः ।
कण्ठाद् आरभ्य नाभि-पर्यन्तं
ओं बहुल-संज्ञकाकाशाय नमः
इति व्यापकत्वेन न्यसेत् । गुह्ये
ओं रयि-संज्ञक-जलाय नमः ।
पादयोः
ओं प्रतिष्ठा-संज्ञक-पृथिव्यै नमः ।
शिरः-प्रभृति-पाद-पर्यन्त-स्थ-रोमसु व्यापकत्वेन हस्ताभ्याम्
ओं बर्हिभ्यां नमः ।
हृदये
ओं गार्ह-पत्याय नमः ।
मनसि
ओम् अन्वाहार्य-पचनाय नमः ।
वक्त्रे
ओम् आहवनीयाय नमः ।
इति विन्यस्य
परिवेषणादि
अन्न-पात्रे दर्व्या निधापयेत्, न तु हस्तेन । “अन्न-पते ऽन्नस्य नो देही"त्य् ऋचा “भूरन्नमग्नये पृथिव्यै स्वाहे"त्य् अनुवाकेन मूल-मन्त्रेण
अन्नाय नमः अन्नदाय नमः अन्न-पतये नमः
इति प्रणमेत् ।
परिषेचनान्तम्
ततः पादाग्राभ्यां पादाग्रेण वा भूमिं स्पृशन् महा-व्याहृतीभिर् अन्न-युक्तं तत्-पात्रं प्रदक्षिणं परिषिच्य अन्नम् आज्येनाभिघार्य “अहमस्मी"त्य् अन्न-सूक्तं “यो ब्रह्मे"ति घृत-सूक्तम् “आयुर्दा अग्न” इत्य् ऋचं वा “शुक्रम् असि ज्योतिर् असि तेजो ऽसी"ति यजुर् वा “उरुविष्णो विक्रमस्वे"त्य् ऋचं वा घृतम् अन्नं च स्पृशन् जपित्वा “सत्यन्त्वर्तेने"त्य् अन्नं परिषिच्य
मूल-मन्त्रोणाभिमन्त्र्य आभोजनान्तं तर्जनी-मध्यमाङ्गुष्ठैः पात्रं स्पृशन् “अमृतोपस्तरणमसी"ति भगवद्-दिव्य-पाद-पद्म-सलिलं पीत्वा
ओं अन्-अन्तापरिच्छिन्नाप्रमेय-स्व-रूपाय ध्यानार्थं नाभेर् उपरि प्रादेश-मात्र-विमिताय[[??]] सुतेजो विश्व-रूप-पृथग् वर्त्म-बहुल-रयि-प्रतिष्ठा-नामक-स्वर्गादित्य-वाय्व्-आकाश-जल-पृथिवी-रूप-मूर्धा-चक्षुः-प्राण-मध्य-काय-लिङ्ग-पाद-विशिष्टाय बर्हिर् गार्ह-पत्य-दक्षिणाग्न्य्-आहवनीय-रूपित-लोम-हृदय-मनो-वदन-विशिष्टाय परमात्मने वैश्वानराय स्वाहा ।
यद् वा
सुतेजः-प्रभृति-नामक-द्यु-मूर्धत्वादि-विशिष्ट-परमात्मने वैश्वानराय स्वाहा ।
[[146]]
प्राणाग्नि-होत्र-प्रकारः
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥
इति श्लोकं जपेत् ।
प्रणेनिविष्टो ऽमृतं जुहोमि प्राणाय स्वाहा
इत्य् आदि-पञ्चभिर् मन्त्रैः मध्यमानामिकाङ्गुष्ठैः गृहीतेनान्नेन दशन-स्पृष्टि-रहिताः पञ्च-प्राणाहुतीर् भगवन्तं ध्यायन् हुत्वा शेषम् अत्र व्यञ्जनैर् युतं यथा-क्रमं भुञ्जीत न पात्रं मुञ्चेत् । प्राणाहुत्य्-अन्-अन्तरं मुञ्चेद् वा । अत्र प्रतिकबलं गोविदं कीर्तयेत् ।
खादनम्
भगवन्-निवेदितेनैव प्राणाहुतीः कृत्वा
विष्वक्सेन-प्रमुखाचार्य-निवेदितं वैश्व-देव-शिष्टं च भगवन्-निवेदितेन सहैव भुञ्जीत । उच्छिष्टे घृत-सेचनं न दद्यात् । प्राणाहुतेः पूर्वं लवणान्वित-व्यञ्जनादिकं न दद्यात् । दक्षिण-पार्श्वे आपोशनं कुर्यात् । वामे न कुर्यात् । आपोशनार्थ-जले पूरिते पुनर् न पूरयेत् । आपोशनार्थं स्वयम् एव करे जलं न दद्यात् । करे आपोशने दत्ते आशीर्-वादं न कुर्यात् । तं प्रत्यपि स्वस्ति-वाचनं न कुर्युः । परिषेचन-शिष्ट-कर-स्थितम् अम्बु न पिबेत् । परिषेचन-काले हस्तेन अन्नं न लङ्घयेत् । हस्तेन लङ्घितम् अन्नं न भुञ्जीत ।
उत्तरापोशनं कृत्वा न भुञ्जीत ।
[[147]]
उत्तरापोशनात् पूर्वं नोत्तिष्ठेत् ।
पीतावशिष्ट-जलं न पिबेत् ।
यदि पिबेत् भूमौ किञ्चिद् विनिस्स्राव्य पिबेत् ।
पान-काले पानीय-पात्रं यावद् भूमौ न निक्षिपेत् तावत् तत्-पानीयम् अन्-उच्छिष्टं भवेत् । आस्येन वाम-हस्तेन शय्यायां अन्य-करेण तिष्ठन् वा पाणि-नख-स्पृष्टं तोयं न पिबेत् । नायम् आपदि । भोजन-काले वाम-हस्तेन जल-पात्रम् उद्धृत्य जलं पिबेत् । दक्षिणं पाणिं न संयुज्यात् । हस्तेन जलं न पिबेत् जलं पिबतः भोजन-भाजने तोये पतिते तद्-अन्नं न भुञ्जीत । पान-पात्रं दक्षिण-पार्श्वे निदध्यात् । न तु वामे । नालिकेरोदकं कांस्य-पात्रे, घृत-व्यतिरिक्तं गव्यं मधु च ताम्र-पात्रे च न पिबेत् । जलादिकं शब्देन न पिबेत् । न भुञ्जीत असद्-वाचाक्रन्दनं, क्रोधम् अन्य-चिन्तनं शिशूनां भर्त्सनं श्व-चण्डालादि-दर्शनं कुर्वन् ।
स्त्रीषु पश्यत्सु न भुञ्जीत । शुचिषु अन्-अश्नत्सु च पश्यत्सु न भुञ्जीत । यदि पतितादिषु पश्यत्सु भुञ्जीत तदा स्नात्वा “मानस्तोके"त्य् ऋचं जपेत् । भिषग्वार्ध्युषिक-देवलक-शूद्रादीनाम् अन्नं न भुञ्जीत । भुञ्जानो ऽन्यं स्पृशेच् चेत् तद्-अन्नं न भुञ्जीत ।
इत्य् आदि-विधि-निषेध-परामर्श-पूर्वकं शास्त्रोक्त-नियम-युक्तस् सन् भोजनं कृत्वा
उत्तरापोशनादि
“अमृतापिधानमसी"ति भगवद्-दिव्य-पाद-जलं पीत्वा शिष्ट-जलं
रौरवे ऽपुण्य-निलये पद्मार्बुद-निवासिनाम् ।
अर्थिनाम् उदकं दत्तम् अक्षय्यम् उपतिष्ठतु ॥
इति मन्त्रेण भूमौ त्यजेत् । उत्तरापोशनार्थं पूर्वं हस्तं न प्रक्षालयेत्।
ततः उत्थाय गृहाङ्कणं गत्वा शूद्रादीन् अ-पश्यन् अ-स्पृशन् आसीनः वाम-पार्श्वे षोडश-गण्डूषान् विसृजेत् ।
न तिष्ठन् गण्डूषान् कुर्यात् । गण्डूष-काले मुख-स्थं जलं न पिबेत् । भुक्ति-पात्रे तूद्धृते मण्डल-शोधने च कृते प्राङ्-मुख उदङ्-मुखो वा आसने स्थित्वा द्विर्-आचम्य
स्वस्थः प्रशान्त-चित्तो ऽभीष्ट-देवता-स्मरणं कृत्वा
[[148]]
अङ्गुष्ठ-मात्रः पुरुषो ऽङ्गुष्ठ च समाश्रितः ।
ईशस् सर्वस्य जगतः प्रभुः प्रीणाति विश्व-भुक्
इत्य् आचमन-शिष्टं हस्त-जलं दक्षिण-पादाङ्गुष्ठे निस्राव्य “श्रद्धायां प्राणे निविश्यामृतं हुतम्” इति हुतानुमन्त्रणं कृत्वा “ओं ब्रह्मणि म आत्मा ऽमृतत्वाये"ति स्वात्मानं ब्रह्मणि योजयेत् ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस् तेनान्नेनाप्यायस्व
इति नाभि-देशं विमृश्य आदित्यम् ईक्षेत इति ।
ताम्बूलान्तम्
भोजनानन्तर-कर्तव्य-कार्य-क्रमः॥
आगस्तिर् अग्निर् बडबानलश् च
भुक्तं मया ऽन्नं जरयत्व् अशेषम्।
सुखं च मे तत्-परिणाम-सम्भवं
यच्छ त्व् अरोगं मम चास्तु देहे॥
विष्णुरत्ता तथैवान्नं परिणामश् च वै यतः ।
सत्येन तेन मे भुक्तं जीर्यत्व् अन्नम् इदं तथा ॥
इत्य् उच्चार्य
स्व-हस्तेनोदरं परिमृश्य
श्री-वैष्णवानां ताम्बूलं दत्त्वा
स्वयम् अपि ताम्बूल-चर्वणं कुर्यात् ।
मुखे पूर्वं पर्णं निधाय
पश्चात् क्रमुकं निदध्यात् ।
पर्ण-मूलं पर्णाग्रं सीरां चूर्ण-पर्णं च वर्जयेत् । भुक्त्वा ऽऽर्द्र-पादो ऽगाराद् बहिर् न व्रजेत् ।
[[149]]