०५ वैष्णव-होम-वैश्वदेवौ

ततो वैष्णव-होमं कृत्वा वैश्व-देव-बलि-हरणं पञ्च-महा-यज्ञांश् च स्व-स्व-सूत्रोक्त-विधिना कुर्यात् ।

॥ अथ वैष्णव-होम-प्रकारः ॥

औपासनाग्निम् उपसमिध्य
पूर्वं परिषेकं कृत्वा
वह्नौ स-परिवारं भगवन्तं ध्यात्वा
अधार-शक्त्य्-आदि-योग-पीठादि-देवानां
प्रणवादि-चतुर्थ्य्-अन्त-नामभिः स्वाहाकारन्तैर् हुत्वा
(सावित्र्य्-अष्टाक्षर-द्वादशाक्षर-षड्-अक्षर-विष्णु-गायत्री-श्री-भूमि-नीला-मन्त्र-रत्नैः स्वाहाकारान्तैर् हुत्वा)
वसुदेवादि-चतुर्-व्यूह-तद्-देवी-केशवादि-नाम-तद्-देवी-मत्स्यादि-दशावतार-नाम-तद्-देवी-स्वाभीष्टार्चावतार-नाम-तद्-देवी-नामभिः प्रणवादि-चतुर्थ्य्-अन्त-युक्त-स्वाहाकारान्तैर् हुत्वा
किरीटादि-दिव्य-भूषण-सुदर्शनादि-दिव्यायुधानन्त-गरुड-विष्वक्सेन-चण्डादि-कुमुदादि-नामभिः स्वाहाकारान्तैः प्रणवादि-चतुर्थ्य्-अन्त-युक्तैर् अन्नेनाज्येन समिद्भिर् वा हुत्वा
शक्तिर् अस्ति चेत् पुरुष-सूक्त–श्री-सूक्त–भू-सूक्त–देवीं वाचम् इति वाक्-सूक्त–विष्णु-सूक्तैः प्रत्यृचं हुत्वा स्विष्ट-कृतं च हुत्वा
उत्तर-परिषेकं कृत्वा
वैश्व-देवादिकं कुर्यात् ॥

[[144]]

एवं कर्तुम् अशक्तश् चेत्

ओम् आधार-शक्त्य्-आदि-योग-पीठान्त-देवेभ्यः स्वाहा ।
ओं परव्यूह-विभवान्तर्याम्य्-अर्चवतारेभ्यः स्वाहा ।
ओं सच्-चिद्-आनन्द-रूप-भगवद्-दिव्य-मङ्गल-रूप-विग्रहेभ्यः स्वाहा ।
ओं दिव्य-भूषणायुध-चिह्नेभ्यः स्वाहा ।
ओम् अन्-अन्त-गरुड-विष्वक्सेन-चण्डादि-कुमुदाद्य्-अन्-अन्त-परिजन-परिच्छद-सहित-अखिल-हेय-प्रत्यनीकानन्त-कल्याण-गुण-श्री-भू-नीला-सहित-श्रीमन्-नारायणाय स्वाहा ।
अग्नये स्विष्ट-कृते स्वाहा ।

उत्तर-परिषेकादि-पूर्ववत् कृत्वा वैश्व-देवादिकं कुर्यात् ।