ततो भगवद्-यागम् आरभेत ।
भगवान् एव स्व-शेष-भूतेन मया स्वकीयैर् एव कल्याणतमैर् औपचारिक-सांस्पर्शिकाभ्यवहारिकैर् भोगैर् अखिल-परिजन-परिच्छदान्वितं स्वात्मानं प्रीतं कारयितुम् उपक्रमते
इत्य् अनुसन्धाय
हृद्-यागः
हृन्-नालीके विभान्तं शिखि-रवि-शशिनां मध्य-गे भद्र-पीठे
शङ्ख-चक्र-गदां चाभयम् अपि दधतं पाणि-पादैश् चतुर्भिः ।
माला-श्री-वत्स–पीताम्बर-धर–तुलसी-हार–केयूर-मुख्यैः
भान्तं भूषाविशेषैर् मम हृदि कलये मेघ-वर्णं रमेशम् ॥
इति पुण्डरीके भगवन्तं ध्यात्वा
[[102]]
मन्त्रैः कल्पितम् आसनं हिम-जलैस् स्नानं च दिव्याम्बरम्
नाना-रत्न-विभूषितं मृगमद्-आमोदान्वितं चन्दनम् ।
जाती-चम्पक-केतकी-विकसितं पुष्पं च धूपं तथा
दीपं देव-दया-निधे तव कृते सत्-कुक्षये कल्प्यताम् ॥
छत्रं चामरयोर् युगं व्यजनिकामा दर्शनं मर्दलं
भेरी-शङ्ख-मृदङ्ग-ताल-घनिकां नृत्तं च गीतं तथा ।
साष्टाङ्गं प्रणतोस्म्य् अहं पद-युगं चेतस् समस्तं मया
सङ्कल्पेन समर्पितं तव कृते सत्-कुक्षये कल्प्यताम् ॥
सौवर्णे स्थालि-वर्ये मणि-गण-खचिते गो-घृताक्तान् सुपक्वान्
भक्ष्यान् भोज्यांश् च लेह्यान् परमम् अपि हविश् शोष्यम् अन्यन् निधाय।
नाना-शाकैर् उपेतं स-दधि-मधु-घृत-क्षीर-पानीय-मिश्रम्
ताम्बूलं चात्मने ऽस्मिन् प्रतिदिवसम् अहं मानसं कल्पयामि ॥
इत्य् अभ्यर्च्य
भगवन् पुण्डरीकाक्ष
हृद्य् आगन्तु मया कृतम् ।
आत्मसात् कुरु देवेश
बाह्यैस् त्वां सम्यग् अर्चये ॥
इति प्रार्थ्य,
[[103]]
द्रव्य-संस्कारः
अथ याग-सम्भारान् सम्भृत्य प्रक्षाल्यात्मनो दक्षिण-पार्श्वे न्यसेत् ॥ “आपो अस्मान्” इति ऋचा जल-भाजनं प्रक्षाल्य आत्मनो वाम-पार्श्वे धान्योपरि आधार-शक्त्य्-आदि-पृथिव्य्-अन्तं ध्यात्वा अभ्यर्च्य “इमं मे गङ्ग” इति ऋचा निधाय “समुद्र-ज्येष्ठा” इति मन्त्रेण “शन्नो देवीर्” इति ऋचा च जलम् उत्पूर्य “अञ्जन्ति त्वे"ति सूक्तेन पुष्पाणि गृहीत्वा “आयनेत” इति मन्त्रेण प्रक्षिप्य “अर्वाची सुभगे"ति द्वाभ्यां तुलसीं गृहीत्वा मूल-मन्त्रेण निक्षिप्य गायत्र्या कुशं निक्षिप्य “यवो ऽसी"त्य् अक्षतान्न्-निक्षिप्य श्री-सूक्तेन “गन्ध-द्वाराम्” इति मन्त्रेण च गन्धान् निक्षिप्य “ओषधयस् सोम-राज्ञीर्” इति श्वेत-सर्षपान् निक्षिप्य “काण्डात् काण्डाद्” इति दूर्वाग्राणि “स हि रत्नानी"ति रत्नानि, “हिरण्य-रूपस् स हिरण्य-सदृक्” इति ऋचा हिरण्यं च निक्षिपेत् । ततस् तुलस्या मूल-मन्त्रेणाभ्यर्च्य धूपं दत्त्वा “विश्वानि न” इति दीपं दद्यात् । वायु-बीजेन विशोध्य वह्नि-बीजेन दग्ध्वा अमृत-बीजेन दिव्यामृत-तोयम् उत्पाद्य हुं कारेण प्रबुद्धानि कृत्वा फट् कारेणाभिमुखानि कृत्वा ऽभिमन्त्र्यास्त्र-मन्त्रेण रक्षां कृत्वा “आपो वा इदं”, “इमं मे गङ्गे”, “गङ्गे च यमुने चै"वेति मन्त्रैर् अभिमन्त्र्य
अमृते अमृताह्वये अमृतोद्भवे ऽमृत-प्रदायिनि अमृतं स्रावय स्रावय अमृत-प्रदायिनि स्वाहा
इत्य् अमृत-मन्त्रेण “स्वीं सुरभ्यै नमः” इति सुरभि-मन्त्रेण च सुरभि-मुद्रां प्रदर्श्य अन्यानि पूजा-द्रव्याणि दक्षिण-पार्श्वे निहितानि शोषण-दहन-प्लावनादिभिर् विशोध्य देवस्यात्मनो वा पुरतः पीठे क्रमेण भगवतः पार्श्वद् आग्नेयादिषु कोणेषु अर्घ्य-पाद्याचमनीय-पात्राणि मध्ये शुद्धोदक-पात्रं च निधाय विष्णु-गायत्र्या अस्त्र-मन्त्रेण च प्रक्षाल्य पूर्ववच्-छोषण-दहन-प्लावनानि कृत्वा तुलसीं तिल-गन्ध-पुष्पाणि च हृदय-मन्त्रेण निधाय कुम्भ-स्थ-तोयेन वेदादि-मन्त्रैर् हृदय-मन्त्रेण च तानि पूरयित्वा मूल-मन्त्रेणाभिमन्त्र्य अर्घ्य-पात्रे गन्ध-पुष्प-कुशाग्राक्षत-फल-तिल-सिद्धार्थान् निक्षिप्य पाद्य-पात्रे दूर्वां विष्णु-पर्णीं श्यामाकं पद्मं तिलम् अक्षतं च निक्षिप्य आचमनीय-पात्रे एला-लवङ्ग-तक्कोल-कर्पूर-चन्दन-लामज्जा-जाति-पुष्पाणि निक्षिप्य
[[104]]
स्नानीय-पात्रे कोष्ठ-मासि-हरिद्रा-द्वय-मुरा-शैलेय-चम्पक-वचाकच्चोलमुस्ता[[??]] इति सर्वौषधीः गन्ध-रत्न-फल-बीज-कुश-तिलाक्षत-दधि-क्षीर-घृतानि च निक्षिप्य सर्वत्र पूर्ववच्-छोषण-दहन-प्लावनानि कृत्वा सुरभि-मुद्रां प्रदर्श्य अर्घ्य-पात्रं दक्षिण-पाणिना स्पृशन् पवित्र-मूल-मन्त्राभ्याम् अभिमन्त्र्य “ओं नमो भगवते” इत्य् अर्घ्यं परिकल्पयेत् । अन्यानि मूल-मन्त्रेणाभिमन्त्र्य
ओं नमो भगवते पाद्यं परिकल्पयामि
इति पाद्यम्,
ओं नमो भगवते आचमनीयं परिकल्पयामि
इत्य् आचमनीयम्,
ओं नमो भगवते स्नानीयं परिकल्पयामि
इति स्नानीयम्,
ओं नमो भगवते शुद्धोदकं परिकल्पयामि
इति शुद्धोदकं परिकल्प्य पात्राणि धूप-दीपैर् अभ्यर्च्य, अस्त्र-मन्त्रेण रक्षां कृत्वा तत्-तद्-द्रव्य-युतान् सर्वान् अभिषेक-कलशान् यथावकाशं निधाय द्वादशार-चक्र-मध्य-स्थं भासमानं भास्करं दक्षिण-हस्त-तले ध्यात्वा तद्-रश्मिभिः सर्वाणि पूजा-द्रव्याणि अभिषेक-द्रव्याणि च दग्धानि भस्मी-भूतानि ध्यात्वा वाम-हस्ते षोडश-दल-युक्त-विकसित-पद्मे अमृतमय-रश्मिभिः हृदि यन्त्रं चन्द्रं ध्यात्वा तद्-उत्थितैर् अमृतांशुभिस् सिक्तानि पुनर् जातानि याग-योग्यानि ध्यात्वा ताभ्यां सर्वाणि पात्राणि स्पृष्ट्वा विष्णु-गायत्र्या ऽभिमन्त्र्य सुरभि-मुद्रां प्रदर्श्य तद्-उत्थेन अमृतेन पूरितानि विचिन्त्य पश्चोपनिषन्-मन्त्रेणाभिमन्त्रयेत् ।
ततो घण्टां पुरतो निधाय परिशोध्य शोषणादीनि कृत्वा पूजयेत् ।
आदौ द्वादशारं चक्रं विचिन्त्य तत्र अरेषु द्वादशात्मानं रविं विचिन्त्य तद्-उपरि षोडशारं चक्रं विचिन्त्य तत्र षोडश-कलात्मकम् अमृतांशु-चन्द्रमसं विचिन्त्य तेष्व् अरेषु षोडश-स्वराक्षरान् विचिन्त्य तद्-उपरि चतुर्-विंशति–दल-पद्मं ध्यात्वा दलेषु ककारादि-भकारान्तं चतुर्-विंशति-सङ्ख्यं वर्ण-गणं चतुर्-विंशति-तत्त्व-सङ्घं च पद्म-किञ्जल्के मकार-जीव-तत्त्वं च ध्यात्वा कर्णिकायाम् ईश्वरं ध्यात्वा सर्वेषु वृत्त-क्षेत्रेषु नभस्वन्तं ध्यात्वा
घण्टाया वदने मुक्ता-हाराश्रितं शङ्खं यकारं च ध्यात्वा
शङ्खे प्रणवं ध्यात्वा
पर्वसु सप्तसु रेफादि-हकारान्तान् वर्णान् ध्यात्वा
तद्-उपरि पर्वणि अकारे पतत्रि-राजं प्राणाधिदैवतं ध्यात्वा घण्टा-दण्डाश्रितां विद्यां ध्यात्वा घण्टाम् अधो-मुखं ब्रह्माण्डं ध्यात्वा कर्णिका-मध्ये शब्द-ब्रह्ममयीं देवीं ध्यायेत् ।
[[105]]
पद्मे विचिन्तये देवीं वर्गाष्टक-भुजान्विताम् ।
मुख्ये हस्त-चतुष्के तु लाञ्छनं कमलादिकम् ॥
स्फाटिकं चाक्ष-सूत्रं च तथा विज्ञान-पुस्तके ।
अक्षयं वरदं चैव धारयन्तीं सित-प्रभाम् ॥
पद्मासनेनोपविष्टां पद्म-पत्रायतेक्षणाम् ।
पद्म-पत्र-प्रतीकांशां पद्म-माला-विभूषिताम् ॥
सिता-भरण-सञ्छन्नां पीत-वस्त्र-विवेष्टिताम् ।
मन्त्रौघम् उद्गिरन्तीं च मन्त्र-ज्वाला-प्रभान्विताम् ॥
देवैस् संस्तूयमानां च ब्रह्माद्यैर् ब्रह्म-वेदिभिः ।
ऋषिभिर् मुनिभिस् सिद्धैः लोकानुग्रह-कारिभिः ॥
नृत्यमानां स्मरेत् सम्यक् पूजा-काले सदैव हि ।
इति ध्यात्वा, अर्घ्य-गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य, देवस्य आह्वाने अर्घ्य-धूप-दीपदाने नैवेद्य-दाने विष्वक्सेनार्चने पीठार्चने द्वार-स्थ-देवार्चने बलि-प्रदान-काले च घण्टां नादयेत् ।
[[106]]
धूप-पात्रस्य मूले क्ष्मा-तत्त्वं कमले जल-तत्त्वं चक्रे तेजस्-तत्त्वं किङ्किणी-जाले वायु-तत्त्वं कर्णिकोपरि गमन-तत्त्वं च ध्यात्वा अर्चयेत् । ततो ऽस्त्र-मन्त्रेण शङ्खं प्रक्षाल्य हृदय-मन्त्रेण शङ्खे गन्ध-पुष्पाक्षतान् निक्षिप्य मातृका-वर्णं प्रतिलोमम् उच्चार्य शिरो-मन्त्रेण जलेन शङ्खम् आपूर्य “मं वह्नि-मण्डलाय दश-कलात्मने नम” इति शङ्ख-पीठे समभ्यर्च्य “अं सूर्य-मण्डलाय द्वादश-कलात्मने नम” इति शङ्खं समभ्यर्च्य “उं सोम-मण्डलाय षोडश-कलात्मने नम” इति शङ्ख-स्थ-जले समभ्यर्च्य “गङ्गे च यमुने चैवे"ति तीर्थ-मन्त्रेण तीर्थम् आदित्य-मण्डलात् शङ्खे समावाह्य पुनः हृदय-कमलाद् विष्णु-मूल-मन्त्रेण तस्मिन् जले समावाह्य
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ।
तर्जनी-मध्यमा ऽनामाः संहता भुग्न-वर्जिताः ॥
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता।
इत्य् उक्त-प्रकारेण गालिनी-मुद्रां शिखा-मन्त्रेण तस्मिन् जले प्रदर्श्य नेत्र-मन्त्रेण तज्-जलं संवीक्ष्य कवच-मन्त्रेण तत्-तीर्थम् अधो-मुखेन गृहीत्वा तर्जनी-द्वयेन हस्त-द्वयेन परितो भ्रमणं, अवकुण्ठन-मुद्रया समवकुण्ठ्य तत्-तीर्थ-स्थ-देवतां तत्-तन्-मूल-मन्त्र-व्यापकेन सङ्कली-कृत्य मूल-मन्त्रस्याङ्गैर् अङ्ग-न्यासं कृत्वा अस्त्र-मन्त्रेण दश-दिग्-बन्धनं कृत्वा क्षतादि-युतम् अच्युत-स्व-रूपी-कृतं तज्-जलं स्पृशन् मूल-मन्त्रम् अष्ट-वारं जपित्वा तज्-जलं किञ्चिद् उपस्थित-वर्धनी-पात्रे क्षिप्त्वा ऽवशिष्टेन निज-तनुं सम्प्रोक्ष्य पुनर् अप्य् अवशिष्टेन तीर्थ-जलेन त्रि-वारं मूल-मन्त्रम् उच्चरन् गन्ध-कुसुमादीन् सम्प्रोक्षयेत् । तत उद्धरिण्या अर्घ्य-जलम् आदाय तत्र पुष्प-द्वयं निक्षिप्य तत्-पात्रं वाम-हस्ते निधाय दक्षिण-हस्तेन पिधाय घ्राण-समम् उद्धृत्य मूल-मन्त्रेण सप्त-कृत्वो ऽभिमन्त्र्य “ओं नमो भगवत्यै विरजायै” इति विरजाम् आवाह्य अर्घ्यादि-पात्रेषु कुम्भे च किञ्चित् प्रक्षिप्य शेषेण भगवद्-विग्रहं याग-भूमिं पूजा-द्रव्याणि स्वात्मानं च मूल-मन्त्रेण अस्त्र-मन्त्रेण च प्रत्येकं सम्प्रोक्ष्य आसनं परिकल्पयेत् ।
[[107]]
ओम् आधार-शक्त्यै नमः, ओं प्रकृत्यै नमः, ओम् अखिल-जगद्-आधाराय कूर्म-रूपिणे नारायणाय नमः, ओं भगवते अन्-अन्ताय नाग-राजाय नमः ओं भूं भूम्यै नमः,
इति यथा-स्थानं ध्यात्वा प्रणम्य
ओं श्री-वैकुण्ठाय दिव्य-लोकाय नमः, ओं श्री-वैकुण्ठाय दिव्य-जन-पदाय नमः, ओं श्री-वैकुण्ठाय दिव्य-नगराय नमः,ओं श्री- दिव्य-वैकुण्ठाय दिव्य-विमानाय नमः, ओम् आनन्दमयाय दिव्य-मण्टप-रत्नाय नमः,
इति दिव्य-लोक–दिव्य-जन-पद–नगर-विमान-मण्टप-रत्नानि प्रणम्य अस्मिन् “ओम् अन्-अन्तायास्तरणाय नमः”, इति आस्तरणं प्रणम्य आग्नेयादि-कोणेषु
ओं धर्माय पीठ-पादाय नमः, ओं ज्ञानाय पीठ-पादाय नमः, ओं वैराग्याय पीठ-पादाय नमः, ओम् ऐश्वर्याय पीठ-पादाय नमः ।
प्राग्-आदि-दिक्षु
ओम् अ-धर्माय पीठ-गात्राय नमः अज्ञानाय पीठ-गात्राय नमः अवैराग्याय पीठ-गात्राय नमः, अन्-ऐश्वर्याय पीठ-गात्राय नमः एभिः परिच्छिन्न-तनुं पीठ-भृतं सद्-आत्मकम् अन्-अन्तं ध्यायामि
इति प्रणम्य प्राग्-ईशान-दिग्-अन्तरे “ऋग्-वेदाय नमः” । प्राग्-वह्नि दिग्-अन्तरे “यजुर्-वेदाय नमः” । वारुण-नैऋति-दिग्-अन्तरे “साम-वेदाय नमः” । वारुणानिल-दिग्-अन्तरे “अथर्वण-वेदाय नमः” । ईशान-सोम-दिग्-अन्तरे “कृत-युगाय नमः” । याम्यानल-दिग्-अन्तरे “त्रेता-युगाय नमः” । यातु-धान-याम्य-दिग्-अन्तरे “द्वापर-युगाय नमः” | सोम-वायु-दिग्-अन्तरे “कलि-युगाय नमः” । एतेषां षोडशानाम् उपरि “काल-चक्राय नमः” । “ओम् अन्-अन्ताय नमः” ।
[[108]]
भगवतः पश्चाद् भागे
सर्व-कार्योन्मुखं विभुम् अन्-अन्तं ध्यायामि
इत्य् अन्-अन्तं प्रणम्य पीठस्योपरि मध्ये
ओं गुण-त्रय-समन्विताव्यक्त-स्व-रूपाय अष्ट-दल-पद्माय नमः ।
इति पद्मं ध्यात्वा दलेषु “ओं सूर्य-मण्डलाय नम” इति ध्यात्वा केसरेषु “ओं सोम-मण्डलाय नमः” इति ध्यात्वा कर्णिकायाम् “ओं वह्नि-मण्डलाय नमः” इति ध्यात्वा प्राग्-आदि-दलेषु
ओं विमलायै नमः । ओम् उत्कर्षिण्यै नमः । ओं ज्ञानायै नमः ओं क्रियायै नमः । ओं योगायै नमः । ओं प्रभ्व्यै नमः । ओं सत्यायै नमः । ओम् ईशानायै नमः ।
इत्य् अष्ट-शक्तीश् चामर-हस्ताः ध्यात्वा कर्णिका-पूर्व-भागे “ओम् अनुग्रहायै नमः” इत्य् अनुग्रहां चामर-हस्तां ध्यात्वा । “ओं जगत्-प्रकृतये योग-पीठाय नमः” इति कर्णिकायां योग-पीठं ध्यात्वा “ओं दिव्य-योग-पर्यङ्काय नम” इति तस्मिन् दिव्य-योग-पर्यङ्कं ध्यात्वा
ओं सहस्र-शीर्षाय अन्-अन्ताय नाग-राजाय नम
इत्य् अन्-अन्तं नाग-राजं ध्यात्वा “ओम् अन्-अन्ताय नम” इति पुरतः पाद-पीठं ध्यात्वा सर्वाण्य् आधार-शक्त्य्-आदीनि पाद-पीठान्तानि तत्त्वानि गन्ध-पुष्प-धूप-दीपैः सम्पूज्य
अन्-अन्त-गरुड-विष्वक्सेनानां स-पीठकेभ्यः पद्मासनेभ्यो नम
इति तत्-तत्-स्थाने स-पीठकानि पद्मासनानि परिकल्प्य सर्व-परिवाराणां तत्-तत्-स्थाने पद्मेभ्यो नम इति पद्मासनानि परिकल्प्य
सर्वतः पुष्पाक्षतानि विकीर्य
अनुज्ञा
सर्वार्थं जलम् उद्धरिण्या ऽऽदाय घ्राण-समम् उद्धृत्य
अस्मद्-गुरुभ्यो नमः । अस्मत्-परम-गुरुभ्यो नमः अस्मत्-सर्व-गुरुभ्यो नमः
इति चतुर्-आवृत्य “ओं भगवते आगच्छतागच्छते"ति भगवत्-पाद-समीपाद्-योग-पीठस्य पश्चिमोत्तर-दिग्-भागे स्व-गुरून् आवाह्य व्यापक-न्यासं कृत्वा अर्घ्य-गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य, प्रणम्य,
[[109]]
गुरवस् तदीय-गुरवो दिशं तु मम साध्व् अनुग्रहम् ।
युष्मद्-उपजनित-शक्ति-मतिर् हरिम् अर्चयामि गत-भीः प्रसीदत ॥
इत्य् अनुज्ञाप्य भगवद्-यागम् आरभेत ।
विष्ण्व्-आवाहनादि
मन्त्र-योगस् समाह्वानं कर-पुष्पोपदर्शनम् ।
बिम्बोपवेशनं चैव योग-विग्रह-चिन्तनम् ॥
प्रणामश् च समुत्थानं स्वागतं पुष्पम् एव च ।
सान्निध्य याचनं चेति तत्राह्वानस्य स-क्रिया ॥
इत्य् उक्त-प्रकारेणावाहनं कुर्यात् । यथा, तिष्ठन् उद्धरिण्या अर्घ्य-जलम् आदाय तत्र पुष्प-द्वयं निक्षिप्य धारण-विधारणे कृत्वा हृदय-समम् उद्धृत्य मूल-मन्त्रं चतुर्-आवृत्य “ओं भगवन्न् आगच्छागच्छे"त्य् उक्त्वा
ओं पूर्विकाः व्यस्तास् समस्ताश् च व्याहृतीर् उक्त्वा वेदादीन् उक्त्वा कल्पिते नाग-भोगे समासीनं भगवन्तं नारायणं पुण्डरीक-दलामलाक्षं किरीट-केयूर-हार-मकुट-कटकादि–सर्व-भूषण–भूषितम् आकुञ्चित-दक्षिण-पादं प्रसारित-वाम-पादं जानुन्य् अस्त-दक्षिण-भुजं नाग-भोगे विन्यस्त-वाम-भुजम् ऊर्ध्व-भुज-द्वयेन शङ्ख-चक्र-धरं सर्वेषां सृष्टि-स्थिति-प्रलय-हेतु-भूतम् अञ्जनाभं, विराजमानं, चकासतं, उदग्र-प्रबुद्ध-स्फुरद्-अपूर्वाचिन्त्य-परम-सत्व-पञ्च-शक्तिमय-विग्रहं ध्यायामि
इति ध्यात्वा, “सव्यं पादं प्रसार्ये"ति श्लोकम् उक्त्वा “भगवन्-नारायणाभिमुखो भवे"ति मूल-मन्त्रेण प्रार्थयेत् । इति मन्त्र-योगः।
ओं परम-धामावस्थित-मद्-अनुग्रहाभिमत-योगाद्य्-अवतार
एह्य् एह्य् अभिमत-सिद्धि-मन्त्र-शरीरे ।
“ओं नमो नमः” ।
“ओं षौं नमः” पराय परमेष्ठ्य्-आत्मने वासुदेवाय नमः
[[110]]
इत्य् उद्योगं ध्यात्वा मूल-मन्त्रेण ब्रह्म-रन्ध्रेण स्वात्मनि प्रविष्टं ध्यात्वा
ओं यां नमः पराय पुरुषात्मने सङ्कर्षणाय नम
इति दक्षिण-नासया निर्गमय्य हस्त-पात्र-जले प्रवेशं ध्यायेत् । इदम् एव समाह्वानम् ।
ओं रां नमः पराय विश्वात्मने प्रद्युम्नाय नम
इति पात्रं बिम्बस्य मुखे दर्शयित्वा पुरतस् स्थाप्य एकं पुष्पं स-जलं स-तेजो हस्तेनादाय देवस्य दर्शयेत् । एतत् कर-पुष्पोपदर्शनम्।
इज्या-कालस् तृतीयो ऽयं अह्नो ऽंशस् समुपस्थितः ।
सम्भृताश् चैव सम्भाराः कल्पितान्य् आसनानि च ॥
आयातु भगवान् देवः सर्व-सम्पत्-करः प्रभुः ।
अच्युतो मद्-ग्रहार्चायां मद्-अनुग्रह-काम्यया ॥
आवहयामि लक्ष्मीशं परमात्मानम् अव्ययम् ।
आतिष्ठताम् इमां मूर्तिं मद्-अनुग्रह-काम्यया ॥
श्रिया सार्धं जगन्-नाथो देव्या नारायणः प्रभुः ।
ओं वां नमः पराय निवृत्य्-आत्मने अनिरुद्धाय नम
इति भगवन्-मूर्ध-प्रभृति-पादान्तं पुष्प-जलाभ्याम् अभिषिच्य बिम्बे प्रवेशं भावयेत् । एतद् बिम्बोपवेशनम् ॥ अन्यत्-पुष्पम् आदाय
ओं लां नमः पराय सर्वात्मने नारायणाय नम
इत्य् उक्त्वा
प्रणवेन ब्रह्म-रन्ध्रं पिधाय शेषं प्रक्षिप्य सङ्कली-करण-न्यासं मूल-मन्त्रेण व्यापक-न्यासं द्वादशाङ्ग-न्यासं च कुर्यात् ।
इति योग-विग्रह-चिन्तनम् ॥ मूल-मन्त्रेण प्रणामोत्थाने कुर्यात् ।
[[111]]
ब्रह्माद्यास् सकला देवा यन्-नः स्मर्तुम् अपीश्वराः
स एष भगवान् अद्य मम प्रत्यक्षतां गतः ।
स्वागतं भगवन् अद्य मां तारयितुम् आगतः।
धन्यो ऽस्म्य् अगृहोतो ऽस्मि कृतार्थो ऽस्मि कृपा-निधे॥
इति भगवते स्वागतं निवेदयेत् । मूल-मन्त्रेण भगवत्-पादयोः पुष्प-प्रदानं कुर्यात् ।
ओं ज्ञानाय हृदयाय नमः । सन्निधत्स्व भगवन्न्
इति भगवन्-मूर्ध्नि अर्घ्य-जलं पुष्पेण प्रदाय शेषं निरस्य
ओं नां बलाय कवचाय हुम् । सन्निधत्स्व भगवन्न्
इति पुष्पेणार्घ्य-जलं भगवन्-मूर्ध्नि प्रदाय शेषं निरस्य
ओं यं तेजसे नेत्राभ्यां वौषट् । ओं भगवन् यावद्-आराधन-समाप्ति-सान्निध्यं भजस्व
इति पुष्पेणार्घ्य-जलं भगवन्-मूर्ध्नि प्रदाय शेषं निरस्येत् । एवम् आवाहनाङ्गं मुख्यार्घ्य-त्रयं प्रदाय –
सान्निध्यं कुरु देवेश सर्वदा सर्व-काम-द ।
सर्व-मन्त्र-क्रिया-भक्ति-श्रद्धा-हानिं सह प्रभो ॥
श्री-भू-नीला-समेतस् त्वं वन-माला-विभूषणैः ।
श्री-वत्स-कौस्तुभोरस्कं कृपां कुरु मयि प्रभो ॥
भगवन् यावद्-आराधन-समाप्ति-सान्निध्यं भजस्व
इति सान्निध्य-याचनं कुर्यात् । इति भगवन्तम् आवाह्य
[[112]]
“ओं श्रीं श्रियै नम” इति भगवद्-दक्षिण-वक्षसि श्रियं ध्यात्वा “ओं भूं भूम्यै नमः” “ओं नीं नीलायै नमः” इति वाम-वक्षसि भूमिं नीलां च ध्यत्वा भगवच्-छिरो-नासाग्र-हृदय-गुह्य-पादेषु पञ्चोपनिषन्-मन्त्रान् विन्यस्य प्रणव-सम्पुटित-मूल-मन्त्राक्षराणां स्थिति-न्यासं कृत्वा
ओं पद्माय नमः । ओं गदायै नमः । ओं सुदर्शनाय नमः । ओं पाञ्च-जन्याय नमः ।
इति तत्-तत्-स्थानेषु विन्यस्य
ओं किरीटाय नमः । ओं श्री-वत्साय नमः । ओं कौस्तुभाय नमः । ओं वन-मालायै नमः ।
इति शिरो-वक्षो-दक्षिण-भाग-मध्योभय-पार्श्वेषु विन्यस्य
ओं श्रियै नमः । ओं पुष्ट्यै नमः । ओं सरस्वत्यै नमः । ओं निद्रायै नमः । ओं कान्त्यै नमः । ओं पृथिव्यै नमः । ओं वैनतेयाय नमः ।
इति तत्-तत्-स्त्थानेषु विन्यस्य एवं न्यस्तानां गन्ध-पूष्प-धूप-दीपैर् अभ्यर्च्य नमः कृत्वा
आवाहिनी स्थापिनी च सन्निधिस् सन्निरोधिनी ।
सम्मुखं चावकुण्ठं च पाशाङ्कुश-गरुत्मताम् ॥
प्रार्थना-योनि-मुद्रा च महा-मुद्रा तथैव च ।
मूल-मुद्रा च तत्रैव दर्शयेत् तास् त्रयोदश ॥
इत्य् उक्त-प्रकारेण मुद्रां दर्शयेत् । हस्ताभ्याम् अञ्जलिं कृत्वा अनामिका-मूल-पर्वणोर् अङ्गुष्ठौ निक्षिपेत् । इयम् आवाहिनी मुद्रा । इयम् अधो-मुखी चेत् स्थापिनी मुद्राः । उच्छ्रिङ्गाङ्गुष्ठ-मुष्ट्योः संयोगः सन्निधापिनी । अन्तः-प्रवेशिताङ्गुष्ठ-मुष्ट्योः संयोगः सन्निरोधिनी । मुष्टि-द्वय-स्थिताङ्गुष्ठौ परस्परं सम्मुखौ संश्लिष्टाव् उच्छ्रितौ करौ कुर्यात् । इयं सम्मुखी मुद्रा । प्रसृताङ्गुलिकौ मिथ-श्लिष्टौ सम्मितौ हस्तौ स्व-हृदये कुर्यात् । सेयं प्रार्थना-मुद्रा । इति षण्-मुद्राः प्रदर्श्य,
आवाहितो भव, स्थापितो भव, सन्निहितो भव, सन्निरुद्धो भव, सम्मुखो भव, प्रार्थिताभीष्ट-प्रदो भव
[[113]]
इति ध्यात्वा,
मुद्राः
कनिष्ठके मिथो बद्ध्वा अनामिके तर्जनीभ्यां बध्वा ऊर्ध्वगयोश् शिष्टयोर् दीर्घयोर् मध्यमयोर् अङ्गुल्योर् अधः अङ्गुष्ठाग्र-द्वयं न्यसेत् । सेयं योनि-मुद्रा ।
हस्तौ विमुखौ कृत्वा कनिष्ठिके ग्रथयित्वा तर्जन्यौ शिष्टे कृत्वा तुण्डवद् ध्यात्वा अङ्गुष्ठौ प्रलम्बौ पादौ ध्यात्वा द्वे चञ्चले मध्यमानामिके द्वौ पक्षौ भावयेत् । एषा गरुड-मुद्रा ।
वाम-मुष्टेर् मध्यमां दक्षिण-मुष्टि-गृहीतां कृत्वा तर्जनीं प्रसारितां कुर्यात् । सेयम् अङ्कुश-मुद्रा ।
वाम-मुष्टि-स्थ-तर्जन्या दक्षिण-मुष्टि-स्थ-तर्जनीं संयोज्य अङ्गुष्ठाग्राभ्यां सव्य-तर्जनीं स्पृशेत् । सैषा पाश-मुद्रा ।
अधो-मुखेन गृहीत-तर्जनीर् द्वयेन हस्त-द्वयेन परितो भ्रमणं अवकुण्ठन-मुद्रा ।
सम्मुखौ सुश्लिष्ठौ सुप्रसारितौ करौ कृत्वा मध्यमाङ्गुल्योः पृष्ठे मूलतो विपर्यस्ते ऽनामिके तर्जनी-मूलयोर् न्यस्य तर्जनीभ्याम् अनामिकाग्रे निगृह्य मध्यमयोर् अग्रे श्लेषयित्वा अन्योन्यं पृष्ठतो लग्नं तल-मध्ये उन्नतं कनिष्ठा-युगलं कृत्वा अङ्गुष्ठाग्र-द्वयं मध्यमयोर् अग्र-पर्व-गं कुर्यात् । सैषा महा-योनि-मुद्रा ।
इयम् एव महा-मुद्रेति च उच्यते ।
पूज्य-तत्-तत्-देवता-मुद्रा-मूल-मुद्रेत्य् उच्यते ।
हृदये शिरसि चोर्ध्व-गः सम्पुटाञ्जलिः प्रमाण-मुद्रेत्य् उच्यते । एषैव वासुदेवादि-चतुर्-विंशति-मूर्तीनां मीनादि-मूर्तीनाम् अन्यासां भगवन्-मूर्तीनां मुद्रेत्य् उच्यते ।
भगवद्-आराधने एता मुद्राः प्रदर्शयेत् ।
श्र्य्-आद्य्-आवाहनम्
ततः श्रियम् आवाहयेत् । यथा, उद्धरिण्या अर्घ्य-जलम् आदाय तत्र पुष्प-द्वयं निक्षिप्य धारण-विधाने हृदय-समम् उद्धृत्य “ओं श्रीं श्रियै नमः” इति मूल-मन्त्रं चतुर्-आवृत्य “भगवति आगच्छ आगच्छ” इति
भगवतो वक्ष-स्थलात् भगवद्-दक्षिण-पार्श्वे श्रियम् आवाहयामि
“ओं भूः श्रियम् आवाहयामि” इत्य् एवम् ओं पूर्विका-व्यस्तास् समस्ताश् च व्याहृतीर् उक्त्वा “हिरण्य-वर्णां हरिणीम्” इत्य् आदि “पद्म-वर्णां तामिहोपह्वये श्रियम्” इत्य् अन्तम् उक्त्वा “गन्ध-द्वाराम्” इत्र्य्-ऋचं चोक्त्वा श्रियम् आवाह्य,
[[114]]
पार्श्वे दक्षिणतो विष्णोः देवीं कमल-लोचनाम्
तरुणीं सुकुमाराङ्गीं सर्व-लक्षण-शोभिताम् ।
दुकूल-वस्त्र-संवीतां सर्वाभरण-भूषिताम्
तप्त-काञ्चन-सङ्काशां पीनोन्नत-पयो-धराम् ॥
रत्न-कुण्डल-संयुक्तां नील-कुन्तल-शीर्षजाम् ।
दिव्य-चन्दन-लिप्ताङ्गीं दिव्य-पुष्पावतंसकाम् ॥
स्मित-वक्त्रां श्रियं देवीं चिन्तये ऽभीष्ट-दां सदा ।
इति विग्रह-ध्यानं कृत्वा,
ओं परम-धामावस्थिते मद्-अनुग्रहाभिमत-योगोद्यतावतारे
एह्य् एह्य् अभिमत-सिद्धिद-मन्त्र-शरीरे
ओं नमो नमः
ओं श्रीं श्रियै नम
इत्य् उद्योगं ध्यात्वा “ओं श्रीं श्रियै नम” इति ब्रह्म-रन्ध्रेण स्वात्मनि प्रविष्टां ध्यात्वा
“ओं श्रीं श्रियै नम” इति पुनः दक्षिण-नासया निर्गमय्य पात्र-प्रवेशं भावयित्वा
“ओं श्रीं श्रियै नम” इति पात्रं बिम्बस्य मुखे दर्शयित्वा
पुरतः स्थाप्य
एकं पुष्पं स-जलं स-तेजो-हस्तेनादाय देव्या, दर्शयित्वा
“ओं श्रीं श्रियै नम” इति मूर्ध-प्रभृति-पादान्तं पुष्प-जलाभ्याम् अभिषिच्य पात्रात् बिम्बे प्रवेशं भावयित्वा पुष्पं निरस्य अन्यत् पुष्पम् आदाय “ओं श्रीं श्रियै नम” इति ब्रह्म-रन्ध्रं पिधाय शेषं प्रक्षिप्य सङ्कली-करण-न्यासं पञ्चोपनिषन्-न्यासं मूल-मन्त्रेण व्यापक-न्यासं द्वादशाङ्ग-न्यासं च कृत्वा
“ओं श्रीं श्रियै नमः” इति प्रणामोत्थाने कृत्वा स्वागतं निवेदयित्वा “श्रीं श्रीं श्रियै नम” इति पादयोः पुष्पाञ्जलिं दत्त्वा “ओं ज्ञानाय हृदयाय नम” इति सन्निधत्स्व भगवतीत्य् आदिना मुख्यार्घ्य-त्रयं दत्त्वा भगवति “यावद् आराधन-परिसमाप्ति-सान्निध्यं भजस्वे"ति सान्निध्य-याचनं कृत्वा आवाहिन्य्-आदि-त्रयो-दश-मुद्रां दर्शयेत्।
[[115]]
करौ संहतौ सम्मुखौ उन्नताङ्गुली-कृत्वा अङ्गुष्ठौ तावन्तः प्रवेश्य मिलितौ कुर्यात् । एषा पद्म-मुद्रा । सर्वासां श्र्य्-आदि-देवीनाम् इति मूल-मुद्रां दर्शयित्वा
ओं श्रां ज्ञानाय हृदयाय नमः । ओं श्रीं ऐश्वर्याय शिरसे स्वाहा । ओं श्रूं शक्त्यै शिखायै वौषट् । ओं श्रैं बलाय कवचाय हुम् । ओं श्रौं तेजसे नेत्राभ्यां वौषट् । ओं श्रः वीर्यायास्त्राय फट् ।
इति श्रियः तत्-तत्-स्थानेषु विन्यस्य, एवं “भूं भूम्यै नमः” “ओं नीं नीलायै नमः” इति मन्त्र-द्वयेन भूमिं नीलाञ् च तत्-तत्-स्थाने आवाह्य पद्म-मुद्रां दर्शयित्वा
ओं भां ज्ञानाय हृदयाय नमः । ओं भीं ऐश्वर्याय शिरसे स्वाहा । ओं भूं शक्त्यै शिखायै वौषट् । ओं भैं बलाय कवचाय हुम् । ओं भौं तेजसे नेत्राभ्यां वौषट् । ओं भः वीर्यायास्त्राय फट् ।
इति भूम्याः तत्-तत्-स्थानेषु विन्यस्य,
ओं नां ज्ञानाय हृदयाय नमः । ओं नीं ऐश्वर्याय शिरसे स्वाहा । ओं नूं शक्त्यै शिखायै वौषट् । ओं नैं बलाय कवचाय हुम् । ओं नौं तेजसे नेत्राभ्यां वौषट् । ओं नः वीर्यायास्त्राय फट् ।
इति नीलायाः तत्-तत्-स्थानेषु विन्यसेत् ।
[[116]]
अलङ्कारादि-कल्पनम्
ओं किरीटाय मकुटाधिपतये नम
इत्य् उपरि भगवतः पश्चिम-पार्श्वे चतुर्-भुजं चतुर्-वक्त्रं कृताञ्जलि-पुटं मूर्ध्नि भगवत्-किरीट-धरं किरीटाख्यं दिव्य-भूषणं प्रणम्य, एवम् एव
औं किरीट-मालायै आपीडात्मने नमः
इत्य् आपीडकं तथैव पुरतः प्रणम्य,
ओं दक्षिण-कुण्डलाय मकरात्मने नम
इति दक्षिण-कुण्डलं दक्षिणतः प्रणम्य,
ओं वाम-कुण्डलाय मकरात्मने नम
इति वाम-कुण्डलं वामतः प्रणम्य,
ओं वैजयन्त्यै वन-मालायै नम
इति वैजयन्तीं पुरतः प्रणम्य,
ओं श्रीमत्-तुलस्यै नमः
इति तुलसी-देवीं पुरतः प्रणम्य
ओं हाराय सर्वाभरणाधिपतये नम
इति हारात्मानं पुरतः प्रणम्य
ओं श्री-वत्साय श्री-निवासाय
नम इति श्री-वत्सं पुरतः प्रणम्य
ओं श्री-कौस्तुभाय सर्व-रत्नाधिपतये नम
इति कौस्तुभं रत्नाधिपतिं पुरतः प्रणम्य,
ओं काञ्ची-गुणोज्वलाय दिव्य-पीताम्बराय नम
इति पीताम्बरं पुरतः प्रणम्य
ओं सर्वेभ्यो भगवद्-दिव्य-भूषणेभ्यो नम
इति सर्व भूषणानि पुरतः प्रणम्य
ओं श्री-सुदर्शनाय हेति-राजाय नम
इति सुदर्शनात्मानं रक्त-वर्णं रक्त-नेत्रं द्वि-भुजं कृताञ्जलि-पुटं भगवन्तम् आलोकयन्तं तद्-दर्शनानन्दोपबृंहित-मुखं भगवच्-चक्रं मूर्ध्नि धारयन्तं दक्षिणतः प्रणम्य
ओं नन्दकाय खड्गाधिपतये नम
इति नन्दकात्मानं शिरसि खड्गं धारयन्तं तथैव प्रणम्य तथैव “ओं पद्माय नम” इति पद्मात्मानं शिरसि पद्मं धारयन्तं प्रणम्य
ओं पाञ्च-जन्याय शङ्खाधिपतये नम
इति शङ्खात्मानं सित-वर्णं रक्त-नेत्रं द्वि-भुजं कृताञ्जलि-पुटं शिरसि शङ्खं धारयन्तं वामतः प्रणम्य, तथैव
ओं कौमोदक्यै गदाधिपत्न्यै नम
इति गदा-देवीं प्रणम्य तथैव
ओं शार्ङ्गाय चापाधिपतये नम
इति शार्ङात्मानं प्रणम्य, तथैव
ओं सर्वेभ्यो भगवद्-दिव्यायुधेभ्यो नम
इति सर्वाणि भगवद्-आयुधानि परितः प्रणम्य,
ओं सर्वाभ्यो भगवत्-पादारविन्द-संवाहिनीभ्यो नम
इति दिव्य-पादारविन्द-संवाहिनीः समन्ततः प्रणम्य
[[117]]
ओं अन्-अन्ताय नाग-राजाय नम
इति पृष्ठतो ऽन्-अन्तं भगवन्तं चतुर्-भुजं हल-मुसल-धरं कृताञ्जलि-पुटं फणा-मणि-सहस्र-मण्डितोत्तमाङ्गं भगवद्-दर्शनानन्दोपबृंहित-सर्वाङ्गं ध्यात्वा प्रणम्य,
ओं सर्वेभ्यो भगवत्-परिजनेभ्यो नम
इति असङ्ख्येय-परिजनान् समन्ततः प्रणम्य,
ओं भगवत्-पादुकाभ्यां नम
इति पादुके पुरतः प्रणम्य
ओं सर्वेभ्यो भगवत्-परिच्छदेभ्यो नम
इति परिच्छदान् समन्ततः प्रणम्य “ओं वैं वैनतेयाय नम” इत्य् अग्रतो भगवन्तं वैनतेयम् आसीनं द्वि-भुजं कृताञ्जलि-पुटं ध्यात्वा प्रणम्य,
सत्याय नमः । विहगेशाय नमः । तार्क्ष्याय नमः । सुत्रर्णाय नमः । गरुडाय नमः
इति वैनतेयस्य पञ्च-मूर्तिं ध्यात्वा प्रणम्य “ओं विष्वक्सेनाय नम” इति भगवतः प्राग्-उत्तरे पार्श्वे दक्षिणाभिमुखं भगवन्तम् आसीनं विष्वक्सेनं चतुर्-भुजं शङ्ख-चक्र-धरं कृताञ्जलि-पुटं नील-मेघ-निभं ध्यात्वा प्रणम्य
ओं गं गजाननाय नमः ओं जं जयत्सेनाय नमः ओं हं हरि-वक्त्राय नमः ओं कं काल-प्रकृति-संज्ञिकाय नमः ओं सर्वेभ्यो भगवद्-विष्वक्सेन-परिजनेभ्यो नम
इति श्रीमद्-विष्वक्सेन-परिजनान् प्रणम्य,
ओं चण्डाय द्वार-पालाय नमः । ओं प्रचण्डाय द्वार-पालाय नमः
इति पूर्व-द्वार-पार्श्वयोः प्रणम्य
ओं भद्राय द्वार-पालाय नमः । ओं सुभद्राय द्वार-पालाय नम
इति दक्षिण-द्वार-पार्श्वयोः प्रणम्य,
ओं जयाय द्वार-पालाय नमः । ओं विजयाय द्वार-पालाय नम
इति पश्चिम-द्वार-पर्श्वयोः प्रणम्य,
ओं धात्रे द्वार-पालाय नमः, ओं विधात्रे द्वार-पालाय नमः
इत्य् उत्तर-द्वार-पर्श्वयोः प्रणम्य,
सर्वान् एतान् द्वार-पालान् शङ्ख-चक्र-गदा-धरान् आज्ञा-मुद्रा-धरान् ध्यायामि
इति ध्यात्वा
ओं सर्वेभ्यो भगवद्-द्वार-पालेभ्यो नमः
इति सर्व-द्वारेषु सर्वान् द्वार-पालान् प्रणम्य,
ओं कुमुदाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,
इति पूर्वस्यां दिशि पार्षदेश्वरं कुमुदं प्रणम्य,
[[118]]
ओं कुमुदाक्षाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः
इति आग्नेय्यां दिशि कुमुदाक्षं प्रणम्य
ओं पुण्डरीकाय गणाधिपतये स-वाहन-परिवार-प्रहणाय नमः
इति दक्षिणस्यां पुण्डरीकं प्रणम्य,
ओं वामनाय गणाधिपतये स-वाहन-परिवा-रप्रहरणाय नमः
इति नैर्ऋत्यां वामनं प्रणम्य,
ओं शङ्कु-कर्णाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः
इति पश्चमायां शङ्कु-कर्णं प्रणम्य,
ओं सर्व-नेत्राय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः
इति वायव्यां सर्व-नेत्रं प्रणम्य,
ओं सुमुखाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः
इत्य् उत्तरस्यां सुमुखं प्रणम्य,
ओं सुप्रतिष्ठिताय गणाधिपतये स-वाहन-परिवार-प्रहणाय नमः
इति ईशान्यां सुप्रतिष्ठितं प्रणम्य,
ओं सर्वेभ्यो भगवत्-पारिषदेभ्यां नमः
इति सर्वस्माद् बहिस् सर्वान् पारिषदान् प्रणमेत् ।
आत्म-निवेदनादि
एवं परम-व्योम-क्षीरार्णवादित्य-मण्डल-हृदयेभ्यः, मधुरा-द्वावारका-ऽयोध्यादिभ्यः दिव्यावतार-स्थानेभ्यः अन्येभ्यः पौराणिकेभ्यः श्री-रङ्गादिभ्यः स्थानेभ्यश् च यथा-रुचि भगवन्तं नारायणम् आवाह्य
देवी-भूषायुध-परिजन-परिच्छदं द्वार-पाल-पार्षदैस् सेव्यमानं स्वाधीन–त्रि-विध–चेतनाचेतन–स्व-रूप–स्थिति-प्रवृत्ति-भेदं स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असंख्येय-कल्याण-गुण-गणौघ-महार्णवं भगवन्तं श्रीमन्-नारायणं ध्यायामि
इति ध्यात्वा प्रणम्य मूल-मन्त्रेण स्वात्मानं देवाय निवेद्य प्रणम्यानुज्ञाप्य भगवत्-पूजाम् आरभेत ।
[[119]]
इज्या-कालस् तृतीयो ऽयम् अन्हो ऽंशस् समुपागतः ।
सम्भृताश् चैव संभाराः कल्पितान्य् आसनानि च ॥
स्नानाद्य्-अर्थानि देवेश तवेच्छा वर्तते यदि ।
अवलोकन-दानेन तत् सर्वं स-फलं कुरु ॥
तद्-अर्थं सह देवीभ्यां सानुगैस् सचिवैस् सह ।
मद्-अनुग्रहाय कृपया अत्रागन्तुं त्वम् अर्हसि ॥
इति याग-प्रार्थनां कृत्वा
यावद् आद्य्-आसनं मन्त्रासनान्तं पूज्यते मया ।
तावत् सान्निध्यम् अत्रैव कुरुष्व पुरुषोत्तम ॥
इत्य् अनुसन्धाय
ओं भगवन् त्वद्-आराधनम् अनुजानीहि
इत्य् अनुज्ञाप्य
पुण्डरीकाक्ष-विद्यया भगवन्तं सम्मुखी-कृत्य
सर्वार्थ-जलम् आदाय वेदादीन् मूल-मन्त्रं चोक्त्वा
मन्त्रासनम्
भगवन्न् इदम् आसनं प्रतिगृह्णीष्व
इति आसनार्थं पुष्पाञ्जलिं प्रक्षिप्य मूल-मन्त्रेण पाद-पीठं दत्त्वा “अर्चत प्रार्चते"ति साम्ना पुष्पाञ्जलिं प्रक्षिप्य
विभो सकल-लोकेश विष्णो जिष्णो प्रभो हरे ।
त्वां भक्त्या पूजयाम्य् अद्य भोगैर् अर्घ्यादिभिः क्रमात् ॥
इत्य् अर्घ्य-प्रार्थनां कृत्वा पात्रेण पूर्व-स्थापिताद् अर्घ्य-पात्रात् अर्घ्य-जलम् आदाय पाणिभ्यां घ्राण-समम् उद्धृत्य तद् अम्भः सावित्र्या ऽभिमन्त्र्य
भगवन् मत्-पूजां प्रतिगृह्णीष्व
[[120]]
इति चिन्तयन्
भगवन्-मुखे दर्शयित्वा
विष्णु-गायत्र्या मूल-मन्त्रेण च भगवद्-दक्षिण-हस्ते किञ्चित् प्रदाय शेषम् अर्घ्यं प्रतिग्रह-पात्रे प्रक्षिपेत् ।
पुनर् उद्धरिण्या ऽर्घ्य-जलम् आदाय “ओं भगवन् ! अर्घ्येणार्चयिष्यामी"ति सङ्कल्प्य भगवन् ! इदम् अर्घ्यम् इति भगवन्-मुखे दर्शयित्वा मूल-मन्त्रेण प्रदाय हस्तौ प्रक्षाल्य पुष्पाणि दत्त्वा
अ-कृत्रिम-प्रेम-रस-निर्भरैः स्व-कराम्बुजैः ।
शुद्धैः स्व-भाव-सुभगैस् सुख-स्पर्शैस् सुगन्धिभिः ॥
संवाह्यमानम् अनिशं शेष-शेषाशनादिभिः ।
असत्यस्याति नीचस्य भक्ति-हीनस्य दुर्मतेः ॥
ममापिकरयोर् अद्य स्वयैव कृपया हरे । निधेहि चरण-द्वन्द्वं त्वाम् अस्मि शरणं गतः ॥
इति पाद्य-प्रार्थनां कृत्वा पाद्य-पात्राज् जलम् आदाय “भगवन् ! इदं पाद्यं प्रतिगृण्हीष्वे"त्य् अनुसन्धाय “त्रीणि पदे"ति ऋचा मूल-मन्त्रेण च पादयोः किञ्चित् प्रदाय मनसा पादौ प्रक्षालयन् पाद्यं प्रतिग्रह-पात्रे प्रक्षिपेत् ।
पादौ वस्त्रेण सम्मृज्य मूल-मन्त्रेण चन्दन-क्षोद-वारिभिश् चरणाव् आलिप्य गन्ध-पुष्पाणि दत्त्वा आचमनीय-पात्राज् जलम् आदाय “भगवन् ! आचमनीयं प्रतिगृह्णीष्वे"त्य् उक्त्वा “आपः पुनन्तु” इत्य् एतेन मूल-मन्त्रेण च भगवद्-दक्षिण-हस्ते किञ्चित् प्रदाय तत्-प्रतिग्रह-पात्रे शेषं दद्यात् । ततो वस्त्रेण सम्मृज्य हस्तौ प्रक्षाल्य पादयोः पुष्पाणि दत्त्वा मूल-मन्त्रेण गन्ध-पुष्प-धूप-दीपाचमनानि दत्त्वा मूल-मन्त्रेण मधु-पर्कं आचमनीयं च दत्त्वा कर्पूरादि-मातु-लिङ्ग-समुदाय-रूप-मुख-वास-ताम्बूलादीनि दत्त्वा प्रणम्य,
[[121]]
आत्मात्मीयञ् च यत् किञ्चित् दुर्भरं दुस्त्यजं मम ।
तत् सर्वं त्वयि विन्यस्तं शुभयोः पाद-पद्मयोः ॥
आत्मात्मीयं च सर्वं भगवन् नित्य-किङ्करतया स्वीकुर्व् इति भगवते निवेदयेत् ।
स्नानासनम्
ततः स्नानासनं परिकल्प्य “ओं स्नानासनाय नम” इति स्नानासनं गन्ध-पुष्पादिभिर् अभ्यर्च्य “ओं पादुकाभ्यां नम” इति पादुके गन्धादिभिर् अभ्यर्च्य भगवन्तं प्रणम्य तत्-पादुके करे कृत्वा स्व-मूर्धनि अञ्चलिं कृत्वा
दासो ऽहं ते जगन्-नाथ स-पुत्रादि-परिग्रहः ।
प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्व हि ते सदा ॥
स्नान-कालस् त्व् अयं प्राप्तः तवेच्छा वर्तते यदि ।
अभ्यञ्जयित्वा देवेश सु-स्नानं कर्तुम् अर्हसि ॥
स्फुटी-कृतं मया देव इदं स्नानासनं त्वयि ।
स-पाद-पीठं परमं शुभं स्नानासनं महत् ॥
आसादयस्व स्नानार्थं मद्-अनुग्रह-काम्यया ॥
इति प्रार्थ्य “ओं भगवन् ! इमे पादुके” इति पादुके भगवतः पुरतो निधाय “इदं विष्णुः” “त्रीणि पदेति” द्वाभ्यां पादुकारोहणं ध्यात्वा “उत्तिष्ठ ब्रह्मणस्पत” इति मन्त्रेण भगवन्तं स्नातुम् उत्थाप्य
[[122]]
“भद्रं कर्णेभिर्” इति मन्त्रेण भगवन्तं स्नानासनं प्रापय्य सावित्र्या मूल-मन्त्रेण चार्घ्यं दत्त्वा “त्रीणि पदे"ति मन्त्रेण, मूल-मन्त्रेण च पाद्यं दत्त्वा “आपः पुनन्त्वि"ति मन्त्रेण, मूल-मन्त्रेण च आचमनं दत्त्वा मूल-मन्त्रेण गन्ध-पुष्पाणि दत्त्वा एवं श्रियः भूमि-नीलादि-देवीनां तत्-तन्-मूल-मन्त्र-शिरस्कैर् एतैर् एव मन्त्रैः स्नानासनाद्य् एतावत् पर्यन्तं कृत्वा माल्य-भूषण-वस्त्राण्य् अपनीय विष्वक्सेनाय दत्त्वा मूल-मन्त्रेण स्नान-शाटिकाम् उत्तरीयं च प्रदाय मूल-मन्त्रेण पाद्याचमन-पाद-पीठ-प्रदानानि कृत्वा “तद् विष्णोर्” इति मन्त्रेण दन्त-धावन-काष्ठं दत्त्वा मूल-मन्त्रेण दन्त-परिशोधनं ध्यात्वा विष्णु-गायत्र्या जिह्वा-निर्लेखन-पट्टिकां दत्त्वा मूल-मन्त्रेण जिह्वा-निर्लेखनं ध्यात्वा “आपो अस्मान्” इति वक्त्र-गण्डूषं कृत्वा “आप इद्वा उभेषजीर्” इति मुखारविन्द-प्रक्षालनं कृत्वा “भद्रा ते हस्ता सुकृतोते"ति हस्त-प्रक्षालनं कृत्वा “आपोहिष्ठे"त्याचमनीयं दत्त्वा मूल-मन्त्रेण आदर्शं प्रदर्श्य मूल-मन्त्रेण मुख-वास-ताम्बूलादीनि दत्त्वा श्रियादि-देवीनाम् एतावत् पर्यन्तं कृत्वा वाम-देव्येन तैलाभ्यङ्गं कृत्वा “श्रियेते पृश्निरूपसेचनीभूत्” इति ऋचा माष-चूर्ण–चन्दन-चूर्णादिना विग्रहोद्वर्तनं कृत्वा “मूर्धानं दिव” इति गन्धान् केशेषु लेपयित्वा “विष्णेर्नुकम्” इत्य् आमलक-तोयं दत्त्वा “न ते विष्णो” इति केशान् प्रक्षाल्य “आपो यं वः प्रथमम्” इति सूक्तेन अङ्ग-प्रक्षालनं कृत्वा “आपोहिष्ठे"ति तिसृभिर् अभिषेकं कृत्वा “अतो देवा अवन्त्व्” इति कङ्कतेन केशान् परिमृज्य व्याहृत्या प्लोत-वस्त्रेण अङ्गं परिमृज्य “हिरण्य-वर्णां हरिणीम्” इति हरिद्रा-लेपनं कृत्वा “हिरण्य-वर्णाश् शुचय” इति चतसृभिः प्रक्षाल्य “विष्णोर्नुकम्” इति मन्त्रेण पुण्य-क्षेत्रादि-मृद्-वारिभिः “तद् विष्णोर्” इति सहदेव्यादि-मूल-वारिभिः “प्रतद्विष्णुर्” इति पलाशादि-पल्लवाम्बुभिः “देवस्यत्वे"ति कुसुम-तोयैः “आवां मित्रावरुणे"ति सर्षपाद्य्-अम्बुभिः “ध्रुवा द्यौर्” इति मन्त्रेण तिलादि-वारिभिः “भद्रं कर्णेभिर्” इति मन्त्रेण श्यामाकाद्य्-अम्बुभिः
[[123]]
“न ते विष्णो” इति काश-मूलाद्य्-अम्बुभिः “इरावती” इति मन्त्रेण तुलसी-पात्रादि-वारिभिः “अतो देवा अवन्त्व्” इति मुस्ताद्य्-अम्बुभिः “इदं विष्णुर्” इति मन्त्रेण मुद्गादि-तोयैः “त्रीणि पदे"ति मन्त्रेण शङ्ख-पुष्पादि-तोयैः “विष्णोः कर्माणी"ति श्वेतार्कादि-तोयैः “तद् विष्णोर्” इति सुरभ्यादि-जलैः “तद्विप्रास” इति लोह-वारिभिः “इन्द्रा विष्णू” इति मातु-लिङ्ग-दाडिम-बदरी-फलाम्भसा “प्रवायुमच्छे"ति मन्त्रेण जम्बू-नागर-बदरी-फलाम्भसा “वषट्ते विष्णो” इति मन्त्रेण तक्कालैला-बदर-फलाम्भसा “तित्रो वाच” इति क्षीरिकामलक-बदर-फलाम्भसा “इषे त्वोर्जेत्व्” इति मन्त्रेण द्राक्षा-खर्जूर-बदर-फलाम्भसा “स्ररीरीत्व[[??]]दि"ति मन्त्रेण चूत-पारावत-बदर-फलाम्भसा “यस्मिन् विश्वानि” इति मन्त्रेण क्षुद्र-पनस-बदर-फलाम्भसा “पर्जन्याये"ति मन्त्रेण बिल्व-कदली-बदर-फलाम्भसा “यज्ञा यज्ञीय” मन्त्रेण सर्व-फलाम्बुभिः “सहस्र-शीर्षं देवम्” इति उशीर-वीरण-मूल-तमाल-पत्र-वारिणा “विश्वतः परमं नित्यम्” इति कर्पूर-कुङ्कुम-तमाल-पत्र-वारिणा “पतिं विश्वस्ये"ति चम्पक-मुकुल-मांसी-तमाल-पत्र-तोयेन “नारायण-परं ब्रह्म” इति चन्दन-द्वय-तमाल-पत्र-वारिणा “यच् च किञ्चिद्” इति सुर-पर्णी-रजो-मुरा-कर्दम-तमाल-पत्र-वरिणा “अनन्तम् अव्ययम्” इति गिरि-ज-मूल-प्रैयङ्गव-रजस्-तमाल-पत्र- वारिणा “अधो निष्ट्यावि"ति मन्त्रेण कुष्ठ-द्वय-तमाल-पत्र-वारिणा “सन्ततं सुराभिर्” इति अगरु-द्वय-तमाल-पत्र-वारिणा एताभिर् अष्टाभिस् समस्ताभिर् ऋग्भिः सर्व-गन्धाम्भसा “या दिव्या आपः” इति मन्त्रेण वापी-नलिनी-निर्झर-वारिणा “आपो हिष्ठे"ति मन्त्रेण सरिन्-नलिनी-निर्झर-तोयेन “ये ते शतम्” इति मन्त्रेण कूप-नलिनी-निर्झर-तोयेन “इमं मे वरुणे"ति हिम-नलिनी-निर्झराम्भसा “शन्नो देवीर्” इति वृष्ट- नलिनी-निर्झर-तोयेन
[[124]]
“यासाँ राजे"ति गङ्गा-नलिनी-निर्झर-तोयेन “समुद्र-ज्येष्ठा” इति समुद्र-नलिनी-निर्झर-जलेन “यासां देवा” इति तटाक-नलिनी-निर्झर-जलेन “वरुण-सूक्तेन” सर्वाम्भसा “त्रातारम् इन्द्रम्” इति मन्त्रेण यव-शाल्य्-अम्भसा “आत्वा वहन्त्व्” इति मन्त्रेण गो-धूम-शाल्य्-अम्भसा “जितन्त” इति मन्त्रेण व्रीहि-शालि-तोयेन “आपो वा इदम्” इति शालि-तोयेन “तावतीर् ओषधय” इति मुद्ग-शालि-तोयेन “सत्वं नो अग्न” इति प्रियङ्गु-शालि-तोयेन “त्वं नो अग्न” इति माष-शालि-तायेन महा-व्याहृतीभिः श्यामाक-शालि-तोयेन “अणोरणीयान्” इति यवाद्य्-अष्ट-धान्य-सहित-नीवार-तोयेन गायत्र्या गो-मूत्रेण “गन्ध-द्वाराम्” इति गो-मयेन “पयो-व्रतेन पयसा दधिक्रावण्णे"ति दध्ना “घृतं मिमिक्षे"ति घृतेन “विष्णोरराटमसी"ति उष्णोदकेन “मूर्धानं दिव” इति पञ्च-गव्येन “हिरण्य गर्भ” इति मन्त्रेण पञ्चामृतेन “आप्यायस्वे"ति सक्तुभिः राक्षोघ्न-साम्ना मृज्-जलेल “पवित्रवन्त” इति कर्पूर-वारिणा “भगवान् वासुदेव” इति लाज-वारिणा, देव-व्रत-साम्नाभिमन्त्रित-जलेन वैयाघ्र-साम्ना गुड-वारिणा अपराजित-साम्ना तैलेन द्वादशाक्षर-मन्त्रेण पाद्य-तोयेन “द्रुपदादिव” इत्य् अर्घ्य-तोयेन अष्ठाक्षरेणा ऽऽचमन-तोयेन “शन्नो देवीर्” इति मङ्गलाम्भसा “हिरण्य-पाणिम्” इतीक्षु-रसैः “वेदाहम्” इति मन्त्रेण सर्षप-तोयेन “आनो नियुद्भिर्” इति सर्व-गन्ध-रसैः “श्री-सूक्तेन” शान्ति-द्रव्य-वारिभिः “मधुमान्न” इति “मधु-नक्तम्” इति च “मधु-वाता” इति च नालि-केर-रसैः “सहस्र-शीर्षा पुरुष” इति सूर्य-कान्त-पद्म-राग-जलेन “पुरुष एवेदम्” इति वैडूर्य-चन्द्र-कान्त-जलेन “एतावानस्ये"ति इन्द्र-नील-कान्त-जलेन “त्रि-पाद् ऊर्ध्व” इति प्रवाल-गारुत्मत-जलेन “तस्माद् विराड् अजायत” इति पुष्प-राग-स्फटिक-जलेन “यत् पुरुषेण हविषे"ति पद्म-राग-कनक-जलेन “सप्तास्यासन्नि"ति वज्र-रजत-जलेन “तं यज्ञम्” इति ताम्र-मुक्ता-जलेन “तस्माद् यज्ञाद्” इत्य् अष्टभिर् ऋग्भिर् मूल-मन्त्रेण च शुद्धाम्भसा
[[125]]
संस्थाप्य पुनः मूल-मन्त्रेण हरिद्राम् आलिप्य “हिरण्य-वर्णाम्” इति चतसृभिः प्रक्षाल्य विष्णु-सूक्तेन गन्धाम्बुना प्रक्षाल्य विष्णु-गायत्र्या कुङ्कुमेनालिप्य “पावमानीभिः” ब्रह्म-यज्ञेन “कयानश्चित्र आभुवदि"ति प्रक्षाल्य “युवासुवासा” इति वस्त्रं दत्त्वा प्रणवेनोत्तरीयं दत्त्वा पवित्र-मन्त्रेण पवित्रं दत्त्वा मूल-मन्त्रेण विष्णु-गायत्र्या च अर्घ्यं पाद्यं च दत्त्वा “शन्नो देवीर्” इत्य् आचमनीयं दत्त्वा सावित्र्या परिषिच्य मूल-मन्त्रेण गन्ध-पुष्प-धूप-दीपाचमनीयानि दत्त्वा
देव-देव सुरास् सर्वे सिद्धाश् च परम-र्षयः ।
त्वत्-सेवार्थम् इहायातान् स्नानेनैतान् कृतार्थय॥
इति सर्व-मङ्गल-स्नानं प्रार्थ्य पुरुष-सूक्तेन “अद्भयस् संभूत” इत्य् अनेन नारायणानुवाकेन विष्णु-सूक्तेन श्री-सूक्तेन जितन्ते इति विद्यया च सर्व-मङ्गल-युक्तं सहस्र-धारा-स्नपनं कृत्वा “श्रियै जात” इत्य् ऋचा नीराजनं दत्त्वा मूल-मन्त्रेणाचामनं दत्त्वा अतिबल-पवित्र-मन्त्राभ्यां स्नानं दत्त्वा “युवं वस्त्राणी"ति शिरसः प्लोतम् उष्णीषं दत्त्वा “अग्निर् मूर्धे"ति मन्त्रेण प्लोत-वाससा ऽङ्गं परिमृज्य विष्णु-गायत्र्या द्वे धौते निर्मले वस्त्रे दत्त्वा प्रणवेन ब्रह्म-सूत्रम् उत्तरीयं च दत्त्वा “आपः पुनत्व्” इत्य् आचमनीयं दत्त्वा मूल-मन्त्रेण पवित्रं दत्त्वा
स्नातं भगवता देव मन्त्र-सम्भाविताम्बुभिः ।
वयं व्यपगत-क्लेशा जाता स्म विगतांहसः ॥
इति विज्ञाप्य
अलङ्कारासनम्
सम्पन्नं देव सद्-वस्त्र-भूषा-स्रक्-चन्दनादिकम् ।
अलङ्कारासनं भद्रं अधितिष्ठ तृतीयकम् ॥
[[126]]
इत्य् अनुज्ञाप्य
“ओम् अलङ्कारासनाय नम” इति अलङ्कारासनम् अभ्यर्च्य “ओं भगवत्-पादुकाभ्यां नम” इति पादुके गन्धादिभिर् अभ्यर्च्य “ओं भगवन् इमे पादुके” इति मूल-मन्त्रेण पादुके दत्त्वा मूल-मन्त्रेणालङ्कारासनम् आनीय पूर्ववत् स्वानीय-वर्जं अर्घ्य-पाद्याचमन-सर्वार्थ-तोयानि कल्पयित्वा मूल-मन्त्रेणार्घ्य-पाद्याचामनीय-गन्ध-पुष्पाणि दत्त्वा एवं श्र्य्-आदि-देवीनां च कृत्वा “मूर्धानं दिव” इति ऋचा अगरु-धूपेन केशान् संशोष्य मूल-मन्त्रेण कर्पूर-रजसा आपाद-तल-मस्तकम् आलिप्य “इदं विष्णुर्” इति शुचिना सुगन्धिना चन्दनेन वपुषि आलोपनं कृत्वा विष्णु-गायत्र्या कसूरिकां मृग-मदं च दत्त्वा प्रणवेन कुङ्कुमेनालिप्य विष्णु-गायत्र्या वेदादिभिश् च पीत-कौशेय-धारणं कृत्वा “त्रातारम् इन्द्रम्” इति मौलि-मालां दत्त्वा “सहस्र-शीर्षे"ति ऋचा शिरसि किरीटं दत्त्वा “ऋक्-सामाभ्याम् आभहिताव्” इति श्रोत्रयोः कुण्डले विन्यस्य “दमूनसो अपसो यो सुहस्ता” इति केयूराङ्गद-भूषणानि दत्त्वा “विश्वेदेवस्य नेतुर्” इति हारं दत्त्वा “हस्ताभ्यां दश-शाखाभ्याम्” इत्य् अङ्गुलीषु अङ्गुलीयकान् दत्त्वा “यस्य त्री पूर्णा मधुना पदानि” इति नूपुरे विन्यस्य “नकिर् इन्द्र त्वद् उत्तर” इति कटि-सूत्रं दत्त्वा “जितन्त” इति मन्त्रेण अन्यानि भूषणानि दत्त्वा “ब्रह्मणा ते ब्रह्म-युजा युनज्मी’ति यज्ञोपवीतं दत्त्वा “ऋतस्य तन्तुं विततः पवित्र” इति कुश-पवित्रं दत्त्वा “युवं वस्त्राणी"त्य् उत्तरीयं दत्त्वा “तद् विष्णोर्” इति मन्त्रेण पुष्प-मालाः पुष्पाणि च दत्त्वा “इरावती"ति मन्त्रेण पयो-दध्य्-अक्षतान् दत्त्वा “तद् विष्णोर्” इति मन्त्रेण श्वेत-मृत्स्नया तिलकं दत्त्वा “हिरण्य-वर्णां हरिणीम्” इत्य् ऋचा श्री-चूर्णं दत्त्वा विष्णु-गायत्र्या शलाकया अञ्जनं दत्त्वा “रूपं रूपम्” इति व्याहृत्या च दर्पणं प्रदर्श्य “जितन्त” इति मन्त्रेण अगरु-धूपं दत्त्वा
[[127]]
“उद्दीप्यस्वे"ति मन्त्रेण दीपं दत्त्वा “शन्नो देवीर्” इत्य् आचमनं दत्त्वा “स्वस्तिदा विशस्पतिर्” इति शक्राद्य्[[??]]-आयुधानि दत्त्वा
“ओं यात्रासनाय नमः” इति यात्रासनम् अभ्यर्च्य “ओं भगवत्-पादुकाभ्यां नमः” इति भगवन् इमे पादुके इति ते दत्त्वा “आस्थान-मण्डपाय नमः” “राजानाव् अनभिद्रुहा” इत्य् आस्थान-प्रवेशनं ध्यात्वा
“ओं सहस्र-शिरसे अन्-अन्ताय नाग-राजाय नम
इत्य् आसनं पाद-पीठं च दत्त्वा मूल-मन्त्रेण मुख-वासनं ताम्बूलं च दत्त्वा एवं श्र्य्-आदि-देवीनां च कृत्वा “द्यौर्नय इन्द्रे"ति मुक्तामयं छत्रं दत्त्वा “सोमः पवते जनितामतीनाम्” इति चामराणि दत्त्वा “सोम-पूषणे"ति मयूर-पिञ्छ-यजन-ताल-वृन्तौ दत्त्वा विष्णु-गायत्र्या “आत्यमूषु वाजिनम्” इति तार्क्ष्य-सूक्तेन “सुपर्णो ऽसि गरुत्मान्” इति यजुषा तर्क्ष्य-साम्ना च गरुड-ध्वजं दत्त्वा “इन्द्रम् विश्वा अवीवृधन्न्” इति रथं “आतून इन्द्र क्षुमन्तम्” इति गजं “त्वष्टारम्” इत्य् अश्वं बृहद्-रथन्तराभ्यां शिबिकां दोलिकादि-वाहनानि दत्त्वा वाम-देव्य-राजन-भद्र-श्रेयो-यज्ञायज्ञियैर् नृत्त-गति-शङ्ख-चिह्न-काहल-वेणु-वीणा-भेर्यादि-सकल-विध-वाद्यादिभिर् अभ्यर्च्य मङ्गल-पठनं कुर्वन् नीराजनं पञ्च-पिण्ड-प्रक्षोपणं च कृत्वा
तिल-तण्डुल-ताम्बूल-तपनीय-घृताम्बरैः ।
पूरितां दर्शये मात्रां पात्रेण प्रणतार्तिहन् ॥
भोगापवर्ग-फल-दान् भुङ्क्ष्व भोगान् जगद्-गुरो ।
सताम् अप्य् असताम् एषाम् अस्तु ते परिपूर्णता ॥
[[128]]
इति विष्णु-गायत्र्या च तिल-वस्त्र-हेम-ताम्बूल-शालि-तण्डुल-फल-गव्याहार–गो-धान्य–गो-ग्रासादि–सर्व-भोग-पूरणीं मात्रां देव-सन्निधौ दर्शयित्वा यथा-शक्ति वसु-दानं कारयित्वा जल-पूर्ण-घट-दीपम् आनीय शोषण-दाहन-प्लावनानि कृत्वा
ऋग्-वेदाय नमः हरिः ओम् अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् । ओं यजुर्-वेदाय नमः हरिः ओं इषेत्वार्जेत्वा वायवस्थोपायवस्थदेवोवस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ओं साम-वेदाय नमः हरिः ओं अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषि । ओं अथर्वण-वेदाय नमः हरिः ओं शान्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्स्रवन्तु नः । ओं आयुर्-वेदाय नमः ओं धनुर्-वेदाय नमः । ओं गान्धर्व-वेदाय नमः । ओं श्री-पाञ्च-रात्र-शास्त्राय नमः। [[TODO: परिष्कार्यम्]]
जितन्ते पुण्डरीकाक्ष नमस् ते विश्व-भावन ।
नमस् ते ऽस्तु हृषी-केश महा-पुरुष पूर्व-ज ॥
“ओं शिक्षायै नमः” ।
अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं तद् विद्यात् यथोक्तं लोक-वेदयोः ॥
“ओं छन्दसे नमः” । छन्दः गायत्री-देव्यैकम् आसुरी पञ्च-दश प्राजापत्याष्टौ यजुषां षट् साम्नां द्विः ऋचां त्रिः द्वौ द्वौ साम्नां वर्धयत त्रीन् त्रीन् ऋचाम्।
ओं निरुक्ताय नमः । ओं समाम्नायः समाम्नातः सव्याख्यातव्यः । तम् इमं समाम्नायं निघण्टव इत्य् आचक्षते । ओं ज्योतिषाय नमः ।
पञ्च-संवत्सरमयं युगाध्यक्षं प्रजा-पतिम् ।
दिनर्त्व्-अयन-मासाङ्गं प्रणम्य शिरसा शुचिः ॥
[[129]]
प्रणम्य शिरसा कालं अभिवाद्य सरस्वतीम् ।
काल-ज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥
ज्योतिषाम् अयनं कृत्स्नं प्रवक्ष्याम्य् आनुपूर्व्यशः ।
विप्राणां सम्मतं लोके यज्ञ-कालार्थ-सिद्धये ॥
“ओं कल्प-सूत्राय नमः” । अथातो दर्श-पूर्ण-मासौ व्याख्यास्यामः । अथ कर्माण्य् आचाराण्यानि गृह्यन्ते । अथैतस्य
समाम्नायस्य विधाने योगाद्य्-अपत्यं वक्ष्यामः ।
अथातो विध्य्-अपदेशे मन्त्र-विधिश् चाग्रहणेन । “ओं व्याकरणाय नमः” । अइउण्। ऋऌक्। एओङ् । ऐऔच् । हयवरट् । लण्। ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठचटतव्। कपय् । शषसर्। हल् । वृद्धिर् आदैच् । “ओं मीमांसाभ्यां नमः” । अथाऽतो धर्म-जिज्ञासा । अथाऽतो ब्रह्म-जिज्ञासा । अन्-आवृत्तिश् शब्दाद् अन्-आवृत्तिश् शब्दात् । “ओं न्याय-शास्त्राय नमः” । प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्व्-आभास-छल-जाति-निग्रह-स्थानानां तत्त्व-ज्ञानान् निश्रेयसाधिगमः । “ओं पुराणेभ्यो नमः” ।
तं दृष्ट्वा शत्रु-हन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥
तासाम् आविरभूच्-छौरिः स्मयमान-मुखाम्बुजः ।
पीतांबर-धर-स्रग्वी साक्षान् मन्मथ मन्मथः ॥
[[130]]
अ-विकाराय शुद्धाय नित्याय परमात्मने ।
सदैक-रूप-रूपाय विष्णवे सर्व-जिष्णवे ॥
“ओं इतिहासेभ्यो नमः” ।
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान् ॥
“ओं स्मृतिभ्यो नमः”।
आपो नारा इति प्रोक्ता आपो वै नर-सूनवः ।
तावद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
ओं अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः । ओं अर्थ-शास्त्रेभ्यो नमः ।
व्यवहारान् दिदृक्षुस् तु ब्राह्मणैस् सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥
श्री-रङ्गादि-स्थल-माहात्म्यादींश् च पठेत् ।
एवं स्वाध्यायाध्ययनं वेदाङ्गानि स्तोत्राणि च पठित्वा मूल-मन्त्रेण पुष्पं प्रदाय मूल-मन्त्रेण घट-दीपम् आदाय देवस्य आपाद-तल-मस्तकं त्रिः दर्शयित्वा ऽऽचमनीयं दत्त्वा प्रत्यक्षरं पुष्पं प्रदाय द्वादशाक्षरेण विष्णु-गायत्र्या श्र्य्-आदि-मन्त्रेण पञ्चोपनिषदैः पुरुष-सूक्त–श्री-सूक्त-ऋग्भिः प्रत्येकं पुष्पं प्रदाय अन्यैश् च सहस्र-नामादिभिर् भगवन्-मन्त्रैश् शक्तश् चेत् पुष्षं प्रदाय भूषणादि-पारिषदान्तानां तत्-तन्-मन्त्रैः स्नान-भूषण-गन्ध-पुष्प-धूप-दीपान्तं कुर्यात् ।
[[131]]
यद् वा परिजन-परिच्छद-पार्षदानां गन्धादीन् एव कृत्वा प्रणम्य प्रतिदिशं प्रदक्षिण-प्रणाम-पूर्वकं पुष्पं दत्त्वा द्वितीये प्रदक्षिणे
जितन्ते पुण्डरीकाक्ष वासु-देव स्मित-द्युते ।
रागादि-दोष-निर्मुक्त-समग्र-गुण-मूर्तये ॥
नाथ-ज्ञान-बलोत्कृष्ट नमस्ते विश्व-भावन ।
सङ्कर्षण-विशालाक्ष सर्व-ज्ञ परमेश्वर ॥
देवेशैश्वर्य-वीर्यात्मन् प्रद्युम्न-जगतां पते ।
नमस्ते ऽस्तु हृषी-केश जगन्-मूर्ते जगन्मय ॥
स्थित्य्-उत्पत्ति-लय-त्राण हेतवे शक्ति-तेजसे ।
जयानिरुद्ध-भगवन् महा-पुरुष–पूर्व-ज ॥
इति पूर्ववत् प्रणम्य श्रुति-सुखैः स्तोत्रैः स्तुत्वा स्वात्मानं नित्य-किङ्करतया निवेद्य तथैव ध्यात्वा यथा-शक्ति मूल-मन्त्रं जपित्वा
ऐश्वर्येणोपचारेण विविधेन विशेषतः ।
भोग-यागेन भगवन् प्रीयतां मे वर-प्रद ॥
इति विज्ञाप्य
भोज्यासनम्
देव-देव जगन्-नाथ प्रणतार्ति-हराच्युत ।
प्राप्ते तु प्रापणे काले भवत्य् आनीत एष ते ॥
मृष्ट-मेध्य-स्थिरान्नानि भक्ष्य-भोज्यान्य् अन्-एकशः ।
सम्पन्नानि जगन्-नाथ भोज्यासनम् उपाश्रय ॥
[[132]]
इति विज्ञाप्य अर्घ्यं दत्त्वा “ओं भोज्यासनाय नमः” इति भोज्यासनं गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य “ओं भगवत्-पादुकाभ्यां नम” इति पादुके गन्धादिभिर् अभ्यर्च्य
“ओं भगवन् ! भोज्यासनम् अङ्गीकुरुष्व ओं भगवन् ! इमे पादुके
इति विज्ञाप्य भोज्यासनोपविष्टे भगवति गायत्र्या ऽर्घ्यं विष्णु-गायत्र्या पाद्यम् “आपः पुनन्त्व्” इत्य् आचमनं “गन्ध-द्वाराम्” इति गन्धान् “आयनेत” इति पुष्पाणि दत्त्वा प्रणवेन कर्पूरादि-वासितं अर्घ्य-जलं दत्त्वा श्र्य्-आदि-देवीनां भोज्यासनाद्य्-एतद्-अन्तं कृत्वा गुडं माक्षिकं सर्पिः दधि क्षीरं चेति मधुपर्कं पात्रे निक्षिप्य शोषण-दाहन-प्लावनैर् विशोष्य अर्घ्य-जलेन प्रोक्ष्य अस्त्र-मन्त्रेण रक्षां कृत्वा सुरभि-मुद्रां प्रदर्श्य “ओं भगवन् ! मधुर्पकं प्रतिगृह्णीष्वे"ति विज्ञाप्य “यदीँ सोमाबभ्रु धूता” इत्य् ऋचा “मधु-वाता” इति ऋचा च मधु-पर्कम् अवनत-शिरा हर्षोत्फुल्ल-नयनो हृष्टमना भूत्वा प्रदाय “अनस्वन्ता सत्पतिर्” इति शीतलोदकं तर्पणम् आचमनीयं दत्त्वा
मधुपर्काख्य-यागेन यन् मया कल्पितं विभो ।
यागे न्यूनाति-रिक्तं तत् क्षम्यतां प्रीतये प्रभो ॥
इति विज्ञाप्य एवं श्र्य्-आदि-देवीनां कृत्वा गां स्वर्ण-रत्नादिकं च यथा-शक्ति दत्त्वा आस्य-शोधनार्थं प्रणवेन ताम्बूलं दत्त्वा “अर्चन्तस् त्व् आहवामहे” इत्य् अक्षतान् दत्त्वा “विष्णोर्नुकम्” इति सूक्तेन धूपं दत्त्वा “भवामित्र” इति सूक्तेन दीपं दत्त्वात्वा
[[133]]
“शन्नो देवीर्” इत्य् आचमनीयं दत्त्वा विष्णु-गायत्र्या प्रक्षालिते राजते ताम्रे हिरण्मये मृन्-मये वा भाण्डे प्रणवेनाभिमन्त्रिते मूल-विद्यया तण्डुलान् निक्षिप्य पञ्चोपनिषन्-मन्त्रैर् वारिभिः पञ्चधा प्रक्षाल्य प्रणवेन पचन-पात्रे तण्डुलान् पूरयित्वा सुदर्शन-मन्त्रेण अङ्गुल्याम् अधिकृत्य मूल-मन्त्रेणाग्निम् उपसमिध्य पञ्चोपनिषन्-मन्त्रैः काष्ठैर् अग्निं प्रज्वाल्य सम्यक् पचनं कृत्वा भगवद्-याग-योग्यानि व्यञ्जनानि चाज्ये पक्त्वा सौवर्णादीनि नैवेद्य-पात्राणि विष्णु-गायत्र्या प्रक्षाल्य सम्यक् परिमृज्य तेषु आज्याढ्यं सुसंस्कृतम् अन्नं भक्ष्य-भोज्यादिकं मधुरादि-रसोपेतं विध्य्-उक्तम् अन्यत् पक्वं फल-मूल-व्यञ्जनादिकं दधि-क्षीर-मधूनि च मोदकाद्य्-अपूप-वस्तूनि च पायसान्न-मुद्गान्न-गुडोदन-दध्य्-ओदनादीनि च पानकानि सुवासितानि पानीयानि चान्यानि लोके प्रियतमानि आत्मनश् चेष्टानि शास्त्राविरुद्धानि सम्भृत्यास्त्र-मन्त्रेण वासोभिः प्रच्छाद्य पाक-गृहान् नियम-युक्तैः परिचर्या-परैः धृतोष्णीषैर् आच्छादित-वदनैर् विप्रैर् अग्रे भूमौ जल-धारा-निषेचन-मङ्गल-वाद्य-घोष-पुरस्सरं आनीतानि “वितुन्नस्तोषम्” इति सूक्तेन देवस्य पुरतो निहितानि कृत्वा प्रणवेन “समुद्रादूर्मिर्” इति सूक्तेन हवींषि आज्य-धारया सिक्त्वा “तद्-अस्थानीकमुतचारुनामे"ति[[??]] स-हिरण्यं घृतं निधाय शोषण-दाहन-प्लावनानि कृत्वा अस्त्र-मन्त्रेण ओं पूर्विकाभिर् व्याहृतीभिश् च अर्घ्य-जलेन प्रोक्ष्य “बलाय कवचाय हुम्” इति वर्मणा “सत्यं त्वर्तेन परिषिञ्चामी"ति च परिषिच्य सुरभि-मुद्रां प्रदर्श्य प्रणवेनार्हण-जलं भगवतो दक्षिण-हस्ते दत्त्वा निवेदयेत् ।
[[134]]
पायसान्नं गुडान्नं च मुद्गान्नं शुद्ध ओदनम् ।
दधि-क्षीराज्य-सम्मिश्रं नाना ऽपूप-फलान्वितम् ॥
प्रभूतम् अथ नैवेद्यं भक्ष्य-भोज्यान्य् अन्-एकशः ।
मधुराद्या रसास् सर्वे शाकाद्या बहु-मूलकाः ॥
मोदकानि विचित्राणि ह्य् अपूप-व्यञ्जनानि च ।
उपपन्नम् असङ्कीर्णं सर्व-दोष-विवर्जितम् ॥
असत्यम् अ-शुचिं नीचं अपराधैक-भाजनम् ।
अल्प-शक्तिम् अ-चैतन्यं अन्-अर्हं त्वत् क्रियास्व् अपि ॥
माम् अवादृत्य दुर्बुद्धिं स्वयैव कृपया विभो ।
अतिप्रभूतम् अत्यन्त-भक्ति-स्नेहोपपादितम् ॥
शुद्धं सर्व-गुणोपेतं सर्व-दोष-विवर्जितम् ।
स्वानुरूपं विशेषेण स्व-देव्योस् सदृशं गुणैः ॥
त्वम् एवेदं हविः कृत्वा स्वीकुरुष्व सुरेश्वर।
शर्करा-मधु-संयुक्तं देवोभिस् समुपाश्रितम् ॥
ताभिर् निवेद्यमानं च प्रीत्या स्वीकुरु माधव ।
अतिप्रभूतम् अतिप्रियतमम् अतिसमग्रम् अत्यन्त-भक्ति-कृतम् इदम् इति मत्वा स्वीकुर्व् इत्य् अनुसन्धाय “तमस्मेरा युवतयो युवानम्” इति “अमृतोपस्तरणमसी"ति चापो ऽशनं दत्त्वा “अग्ने विधस्व दुषस” इति पञ्चभिर् ऋग्भिः “प्राणे निविष्टो अमृतं जुहोमी"त्यादिभिः पञ्जभिर् मन्त्रैश् च परमात्मनि क्रमेण प्राणाहुतीर् हुत्वा “ब्रह्मणि म आत्मे"त्य् अनुसन्धाय दक्षिणेन जान्वा भूमिं स्पृशन् वाम-कर-पृष्ठेन
[[135]]
दक्षिण-करम् उन्नम्य दक्षिण-करेण गृहीतान् ग्रासान् पुष्पेण ग्रास-मुद्रां दर्शयन् “परोमात्रये"ति सूक्तम् “अहमस्मी"त्य् अन्न-सूक्तं च पठन् “देवस्यत्वे"ति मन्त्रेण देवस्य दक्षिण-हस्ते निर्वाप्य हविर् निवेद्य “तुभ्यं हिन्वानो वसिष्ठगा आप” इति पानीयं पयः प्रभृति अनुपान-शीतलोदक-तर्पणानि कृत्वा “इन्द्र पिब प्रतिकामं सुतस्ये"ति “अमृतापिधानमसी"ति चापोशनं दत्त्वा “पूत आश्विनीः पवमानधीजव” इति माष-चूर्णेन एला-चन्दनक्षोद-वारिणा च हस्त-प्रक्षालनं कृत्वा “सरस्वती देवयन्तो हवन्त” इति अद्भिर् वक्त्र-गण्डूषं कृत्वा विष्णु-गायत्र्या मुख-पाद-पाणि-प्रक्षालनं कृत्वा “वृष्टिं दिवः शत-धारः पवस्वे"ति द्वाभ्याम् आचमनं दत्त्वा “शिशुञ्जज्ञानं हर्यतं मृजन्ती"ति मुख-हस्त-पादान् सम्मृज्य “गन्धद्वाराम्” इति चन्दनं मुख-वासं च दत्त्वा एवं श्र्य्-आदि-देवीनां नैवेद्यं कृत्वा “दक्षिणवताम्"इति “मानचित्रे"ति ऋचा ताम्बूलं दत्त्वा “स्वादुः पवस्वे"ति ऋचा आचमनं दत्त्वा प्रणम्य,
पुनर्-मन्त्रासनम्
अनेनान्नाद्य-यागेन सम्यग् आराधितेन च ।
पद्म-नाभो ऽरविन्दाक्षः प्रीतिम् अभ्येतु मे ऽच्युतः ॥
इति विज्ञाप्य मन्त्रासनं कूर्चेन मार्जयित्वा
“ओं मन्त्रासनाय नम” इति मन्त्रासनं गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य “ओं भगवत्-पादुकाभ्यां नम” इति पादुके गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य,
पद्म-नाभो ऽरविन्दाक्ष प्रणतार्ति-हर प्रभो ।
श्री-भू-नीला-समेतस् त्वं प्रसीदाच्युत मे ऽन्वहम् ॥
[[136]]
इति पादुके प्रार्थ्य
ओं भगवन् ! मन्त्रासनम् आसादय ओं भगवन्न् इमे पादुके
इति विज्ञाप्य मन्त्रासनोपविष्टे भगवति देवीषु च माल्यादिकम् अपोह्य विष्वक्सेनाय दत्त्वा विष्णु-गायत्र्या ऽर्घ्यं दत्त्वा “त्रीणि पदे"ति पाद्यं दत्त्वा प्रणवेन आचमनीयं दत्त्वा “इदं विष्णुर्” इति गन्धान् दत्त्वा “तद् विष्णोर्” इति पुष्पाणि दत्त्वा “जितन्त” इति धूपं दत्त्वा “उद्दीप्यस्वे"ति दीपं दत्त्वा “शन्नो देवीर्” इत्य् आचमनं दत्त्वा “देवस्यत्वे"त्य् अपूप-पृथुक-सक्तु–गुड-मिश्र–तिल-पिण्ड-मथित-पानीय-नालिकेराम्बु-फलादिकं निवेद्य “आपः पुनन्त्व्” इत्य् आचमनं दत्त्वा विष्णु-गायत्र्या मुख-वास-द्रव्यं दत्त्वा प्रणवेन ताम्बूलं दत्त्वा एवं श्र्य्-आदीनां दत्त्वा मूल-मन्त्रेण नृत्त-गीत-वाद्यादिभिर् अभ्यर्च्य “आयं गौर्” इति सूक्ताभ्यां पुष्पाञ्जलिं दत्त्वा “आत्वाहार्षम्” इति ध्रुव-सूक्तेन नीराजनं दत्त्वा पूर्ववत् “जितन्त” इति मन्त्रेण प्रदक्षिण-द्वयं कृत्वा मन्त्र-रत्नेन दण्डवत् प्रणम्य श्रुति-सुखैः स्तोत्रैः स्तुत्वा
अज्ञानतो ऽप्य् अ-शक्त्या वा
आलस्याद् दुष्ट-भावतः ।
कृतापराधं कृपया
क्षन्तुम् अर्हसि मां विभो ॥
इति विज्ञाप्य
नित्य-मुक्तार्चनम्
अनन्त-गरुड-सुदर्शनादि-दिव्यायुध-विष्वक्सेन-पूजा-प्रकारः॥
“भगवन् ! विष्वक्सेनार्चनम् अनुजानीहि”
इत्य् अनुज्ञाप्य
भगवन्-निवेदिताद् धविषः विष्वक्सेनाय किञ्चिद् उद्धृत्य
अन्यत्र निधाय
अन्यत् सर्वम् अन्-अन्ताय गरुडाय सुदर्शनादि-दिव्यायुधेभ्यश् च
पर-कालादि-स्वाचार्य-प्रमुखेभ्यः श्री-वैष्णवेभ्यश् च तत्-तन्-मन्त्रेण प्रदद्यात् ।
“अन्-अन्तम् अ-व्ययं कविम्” इत्य् अनेन अन्-अन्त-मन्त्रेण अन्-अन्तस्य षोडशोपचार-पूजां कुर्यात् !
[[137]]
“तत्पुरुषाये"ति गरुड-गायत्र्या गरुड-पञ्चाक्षरेण वा गरुड-पूजां कुर्यात् । सुदर्शन-षड्-अक्षरेण सुदर्शनस्य “ओं सं मोहहुं फट्”
पाञ्च-जन्य-मन्त्रेण शङ्खस्य च पूजां कुर्यात् । अन्येषां प्रणवादि-चतुर्थ्यन्तैस् तत्-तन्-नामभिः पूजयेत् !
यद् वा
ओं नं नन्दकाय नमः । ओं शं शार्ङ्गाय नमः । ओं कौं कौमोदक्यै नमः । ओं पं पद्माय नमः । ओं शं शठकोपाय नमः । ओं पं पर-कालाय नमः । ओं रं रामानुजाय नमः ।
इत्य् आदिभिः तत्-तन्-मन्त्रैः पूजां कुर्यात् । भगवद्-याग-शिष्ट-जलादिभिर् द्रव्यैर् विष्वक्सेनम् अभ्यर्च्य पूर्वोद्धृतं हविश् च दत्त्वा तद्-अर्चनं परिसमापयेत् ।
पर्यङ्कासनम्
“ओं पर्यङ्कासनाय नमः” इति पर्यङ्कासनं गन्धादिभिर् अभ्यर्च्य “ओं भगवत्-पादुकाभ्यां नम” इति पादुके गन्धादिभिर् अभ्यर्च्य
ओं भगवन् ! पर्यङ्कासनम् आसादय, भगवन् ! इमे पादुके
इति विज्ञाप्य पर्यङ्कासनोपविष्टे भगवति विष्णु-गायत्र्या ऽर्घ्यं दत्त्वा “त्रीणि पदे"ति पाद्यं दत्त्वा “शन्नो देवीर्” इत्य् आचमनीयं दत्त्वा सर्वाणि माल्य-भूषणानि वासश् चापनीय विष्वक्सेनाय दत्त्वा “युवा सुवासा” इति सुख-शयनोचितं वासो दत्त्वा “विश्वजिते धनजित” इति सूक्तेन तद्-उचितानि शुभानि मृदूनि भूषणानि दत्त्वा “ब्रह्मणा ते ब्रह्मयुजा” इत्य् उपवीतं दत्त्वा “शन्नो देवीर्” इत्य् आचमनीयं दत्त्वा
“गन्धद्वाराम्” इति गन्धान् दत्त्वा “आयनेत” इति पुष्पाणि दत्त्वा “जितन्त” इति धूपं दत्त्वा “उद्दीप्यस्वे"ति दीपं दत्त्वा प्रणवेनाचमनीयं दत्त्वा
[[138]]
“इदं विष्णुर्” इति मुख-वासं दत्त्वा “तद् विष्णोर्” इति ताम्बूलं दत्त्वा “स्वादुपवस्वे"त्य् आचमनीयं दत्त्वा “आत्वाहार्षम्” इति नीराजनं दत्त्वा श्रुति-सुखैः स्तोत्रैर् अभिष्ठूय एवं श्र्य्-आदि-देवीनां तत्-तन्-मन्त्रेण दत्त्वा
सात्त्विक-त्यागादि
ओं भगवान् एव स्व-नियाम्य-स्व-रूप-स्थिति-प्रवृत्ति-स्व-शेषतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः-करणैः स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छ्दान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादितवान्
इत्य् अनुसन्धाय
ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन इज्याख्येन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेव
इत्य् अनुसन्धाय
मनोबुद्ध्य्-अभिमानेन सह न्यस्य धरा-तले ।
कूर्मवच्-चतुरः पादान् शिरस् तत्रैव पञ्चमम् ॥
प्रदक्षिण-समेतेन ह्य् एवं रूपेण सर्वदा ।
अष्टाङ्गेन नमस्कृत्य ह्य् उपविश्याग्रतो विभोः ॥
इत्य् उक्ताष्टाङ्ग-प्रणामेन भगवन्तं प्रणम्य “अखिले"त्यादिना शरणम् उपगच्छेत् ।
उद्वासनम्
ततश् च विष्णु-गायत्र्या ऽर्घ्यं दत्त्वा “यज्ञो देवानां प्रत्येतिसुम्नम्” इति सूक्तेनोपस्थानं कृत्वा “तद् विष्णोर्” इति द्वाभ्यां प्रणम्य मन्त्र-रत्नेन स्वात्मानं निवेद्य
ओं भगवन् ! मन्त्र-मूर्ते ! स्व-पदम् आसादय
इत्य् उद्धरिण्या ऽर्घ्य-जलम् आदाय भगवन्-मूर्ध्नि किञ्चित् प्रदाय आवाहन-रीत्या बिम्बात् भगवन्तं स्व-हृदये उद्वास्य
क्षमापणम्
गन्ध-पुष्प-धूप-दीपैर् नैवेद्यादिभिः पञ्चोपचारैर् हृदय-पुण्डरीक-स्थं भगवन्तम् अभ्यर्च्य
[[139]]
उपचारापदेशेन मयैव विहितान् प्रभो ।
अपचारान् अ-शेषांश् च क्षमस्व पुरुषोत्तम ॥
अज्ञानाद् अथवा ज्ञानात् अ-शुभं यत् कृतं मया ।
क्षन्तुम् अर्हसि तत् सर्वं दास्येनैव ग्रहाण माम् ॥
ज्ञानतो ऽज्ञानतो वापि यथोक्तं न कृतं मया ।
तत् सर्वं पूर्णम् एवास्तु तृप्तो भवतु सर्वदा ॥
ओम् अच्युत जगन्न्-नाथ मन्त्र-मूर्ते सनातन ।
रक्ष मां पुण्डरीकाक्ष स्वापराधं क्षमस्व च ॥
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं जनार्दन ।
यत् पूजितं मया देव परिपूर्णं तद् अस्तु ते ॥
पन्नगाधीश-पर्यङ्के रमा-हस्तोपधानिते ।
सुखं शेष्व रमाधीश सुदर्शन सुरक्षित ॥
इति विज्ञाप्य
पिधानादि
“यत इन्द्रेत्य्” आदि-षड्भिर् ऋम्भि रक्षां प्रकल्प्य प्रणवेन दिव्य-कवाटम् आबध्य
शङ्ख-चक्र-गदा-मुख्य-दिव्यायुध-गणस् सदा।
श्री-श-रक्षा-विधानाय शक्त्या जाग्रत जाग्रत ॥
इत्य् अनुसन्धाय प्रणम्य “गौरी मिमाये"ति यवनिकां प्रसार्य पूजां समापयेत् ।
[[140]]
अङ्ग-सङ्ग्रहः
एवम्
आवाहन-नमस्कार-प्रत्युत्थान-पुष्पाञ्जलि-स्वागत-नित्यासन-पाद-पीठिका-अर्घ्य-पाद्य-प्रतिग्रह-पाद्य-प्लोताभिमर्शन-चन्दन-क्षोद-वारि-चरणालेपनम् आचमनीय-प्रतिग्रहाचमन-चन्दनालेपन-पुष्प-माल्य-धूप-दीप-मधुपर्क-घन-सार-नाग-वल्ली-पादुका-प्रदान-स्नानासन-शाटिका-हन्त-काष्ठादर्श-जिह्वा-निर्लेखन-गण्डूष-ताम्बूल-वस्त्राभ्यङ्ग–मौलि-माला–ताल-वृन्त–चन्दनोद्वर्तन-गन्धामलक-वारि-कङ्कत-रजनी-स्नान-वस्त्र-गन्धानुलेपनोत्तरीय-पवित्र-नृत्त-गीत-वाद्य-सहस्र-धारा-स्नापन-नीराजन-शिरः-प्लोतोष्णीष-प्लोत-वस्त्राङ्गाभिमर्शन-वस्त्रोपवीतोत्तरीय-पादुकालङ्कारासन–शिरस्-त्राण–पीत-कौशेयापाद-मस्तक-कर्पूरालेपन-कस्तूरिका-मृग-मद-चन्दनानुलेपन-चामर-व्यूह-वीजन-कुङ्कुमालेपन-गन्ध–नाना-विध–भूषण-ब्रह्म-सूत्रोत्तरीय–मौलि-माला–बाहु-माला–श्वेत-मृत्तिकोर्ध्व-पुण्ड्र-धारण–श्री-चूर्ण-धारणाञ्जन-धारण–पुष्पाञ्जलि-प्रदान–दर्पण-ताम्बूल-धूप-दीप–शालि-तण्डुलादि–मात्रादान-स्वाध्यायाध्ययन–स्वर्ण-दान–नाट्य-वेणु-गान–वीणा-वादन–मङ्गल-पाठ–नीराजन-पञ्च-पिण्ड-प्रक्षेपण-यात्रासनोपानच्-चामर-मुक्तातप-वारण–मयूर-पिञ्छ–व्यजन-ताल-वृन्त–रथ-गजाश्व-शिबिकायान-वैनतेय-ध्वज-क्रीडा-यष्टि-ताम्बूल-क्रीडा-फल-समृद्धि-भोज्यासन–मधु-पर्क–ताम्बूल-पाद्याचमनार्हणाम्भः पायसान्न-मुद्गान्न-गुडोदन–दध्य्-ओदन–माषोदन-तिलोदन-मरीच्य्-ओदन–सर्षपोदन-पाद्य-पानक-पानीय-मुख-पाणि-पाद-शोधन-हस्त-शाटिका-एला-चन्दन-क्षोद-वारि–कर-शोधन-मन्त्रासन-चन्दनालेपन-माल्यापूप-पृथुक-सक्तु–तिल-पिण्ड–फल-मथित-पानीय–नालि-केराम्बु–ताम्बूल-पर्यङ्कासन-प्रदक्षिण-नमस्कार-स्तुत्य्-आत्म-निवेदनार्घ्योद्वासनात्म-समर्पणानि
इत्य् अष्टा-विंशत्य्-उत्तर-शतोपचारैः तत्-तन्-मन्त्रैर् अष्टधा ऽऽवृत्त-पुरुष-सूक्त-ऋग्भिः विष्णु-गायत्र्या वा “तद् विष्णोर्” इत्य् आदिभिर् वैष्णवैर् मन्त्रैर् वा पूजां कुर्यात् ।
[[141]]
अधोक्तानाम् उपचारणाम् एतेष्व् अन्तर्भावो वेदितव्यः । एतावत् कर्तुम् अ-शक्तस् तु
आवाहन-नमस्कार–स-पर्यासन–पाद-पीठार्घ्य-पाद्याचमन–मुख-वास-ताम्बूल–पादुका-स्नानासन–स्नान-शाटिका–दन्त-काष्ठ–जिह्वा-निर्लेखन–तैलाभ्यञ्जनाङ्ग-मर्दन-गन्धामलक-स्नान–पञ्च-गव्य-स्नान–कङ्कत-शोधन–रजनी-स्नान–वस्त्रोत्तरीय-वारि-धारा-सहस्र-स्नान-नीराजन-प्लोत-वस्त्राभिमर्शन-वासो-ब्रह्म-सूत्रोत्तरीयालङ्कारासन-केश-शोषण-दुकूल-परिधान-गन्ध-द्रव्यानुलेपन-व्यजन-भूषण–पुष्प-माला–नयनाञ्जन-ताम्बूल-दर्पण-धूप-दीप-मात्रा-दान-वेद-वेदाङ्ग-पठन-नीराजन-छत्र-चामर-ध्वजोपानद्-वाहन-शिबिका-यान-तूर्य-वाद्य-भोजनासन–मधु-पर्क–निवेदनाहरण-मृष्टान्नादि-निवेदन-पान-पानीय-मुख-पाणि-पाद-शोधनाचमनीय-मन्त्रासनापूपादि-निवेदन-ताम्बूल-पर्यङ्कासन-तद्-उचित-वस्त्र-भूषणादि-दान-स्तोत्र-पठनानि
इति चतुर्-उत्तर-षष्ट्य्-उपचारैः पूर्वोक्त-तत्-तन्-मन्त्रैः चतुर्-आवृत्त-पुरुष-सूक्त-ऋग्भिः मूल-मन्त्रेण वा भगवन्तम् अर्चयेत् ।
तत्राशक्तस् तु
आवाहनासनार्घ्य-पाद्याचमन–मुख-वास-ताम्बूल–पादुका-प्रदान–दन्त-धावन–जिह्वा-निर्लेखन–तैलाभ्यञ्जन–धात्री-स्नान–हरिद्रा-स्त्रान–वस्त्रोत्तरीय-यज्ञोपवीत-गन्धालेपन-भूषण-मालाञ्जनादर्श-धूप-दीप-यान-छत्र-चामर-तूर्य-घोष-मधु-पर्कार्हण-नैवेद्य-निवेदन-भक्ष्य–वस्तु-दान–ताम्बूल-दान–विसर्जनानि
इति द्वा-त्रिंशद् उपचारैः पूर्वोक्त-तत्-तन्-मन्त्रैः द्विर्-आवृत्त-पुरुष-सूक्त-ऋग्भिर् वा मूल-मन्त्रेण वा भगवन्तम् अर्चयेत् ।
तत्राशक्तस् तु
आवाहन-आसन-अर्घ्य-पाद्याचमन-स्नान-वस्त्र-यज्ञोपवीत-गन्धालेपन-भूषण-माला-धूप-दीप-मधुपर्क-नैवेद्य-दान-विसर्जनानि
इति षोडशोपचारैः पूर्वोक्त-तत्-तन्-मन्त्रैः पुरुष-सूक्त-ऋग्भिर् वा मूल-मन्त्रेण वा भगवन्तम् अर्चयेत् ।
[[142]]
तत्राशक्तस् तु “अर्घ्य-गन्ध-पुष्प-धूप-दीपैर्” इति पञ्चोपचारैर् मूल-मन्त्रेण भगवन्तम् अर्चयेत् । अर्घ्याद्य्-उपचार-षट्के ऽपि प्रत्युपचारं[[??]] मूल-मन्त्र-जपः कार्यः।
“अर्चन्तस्त्वे"त्य् अर्घ्य-जलं,
पुथिव्य्-आत्मना नारायणेन सत्यं गन्धं समर्पयामि । हम् अकाशात्मना वासुदेवेन ब्रह्म-पुष्पं समर्पयामि । यं वाय्व्-आत्मना सङ्कर्षणेन विद्यां धूपं समर्पयामि । रं तेज आत्मना प्रद्युम्नेन ज्ञान-दीपं समर्पयामि । वम् अब्-आत्मना ऽनिरुद्धेन आनन्दं नैवेद्यं समर्पयामि ।
एवं भगवद्-आराधनस्य नित्यत्वेन अवश्य-कर्तव्यत्वात् सविस्तरम् एवाराधनं नित्यं कर्तव्यम् । तत्र सर्वात्मना अशक्तश् चेत् पञ्चोपचार-पूजां पुष्पाञ्जलिं वा अवश्यं दद्यात् । एवं नारायणानुवाकेन विष्णु-सूक्तेन “तद् विष्णोर्” इति मन्त्रेण अन्यैश् च भगवन्-मन्त्रैः पूजा-विधानं द्रष्टव्यम् ।
अष्टाविंशत्य्-उत्तर-शतोपचाराराधने, चतुष्-षष्ठ्य्-उपचार-सहिताराधने च प्रणवादि-सर्व-मन्त्र-जपः कार्यः । द्वा-त्रिंशत्-षोडश-पञ्चोपचार-सहिताराधनेषु प्रसाद-मन्त्र–अजपा-मन्त्र–प्राण-प्रतिष्ठा-मन्त्र–सङ्कली-करण-न्यास–वैष्णव-मातृका-न्यास–भूत-सृष्टि-न्यास–अष्टाक्षरादि-मन्त्र-विस्तार-न्यासादीनां निवृत्तिः। श्री-भाष्य-कारोक्त-नित्य-प्रकारेण वा न्यासादिकं कुर्यात् ॥
पञ्चोपचार-पक्षे मूल-मन्त्रस्य ऋषि-छन्दो देवतां ध्यात्वा ध्यान-श्लोकम् उक्त्वा यथा-शक्ति जपित्वा चतुष्-कृत्वो ऽष्ट-कृत्वः पूरक-कुम्भक-रेचकार्थं मूल-मन्त्रं जपन् प्राणानायम्य आराधनं कुर्यात् । पुष्पाञ्जलि-पक्षे मन्त्र-रत्न जप एव ।
[[143]]
एवम् आवश्यकानावश्यकादिकं बुध्या विचार्य
अवश्यं यथा-शक्ति भगवत्-समाराधनम् अन्वहं कर्तव्यम् ॥
निर्माल्यम्
विष्वक्सेन-निवेदितम् अन्नं तत्-परिचारकेभ्यो दत्त्वा जले प्रक्षिपेत् ।
अथवा तद्-गणानुचरो भूत्वा स्वयं भुञ्जीत ।
अथवा विष्वक्सेनस्य आचार्यान्तर्-भूतत्वाद् अचार्य-प्रसादत्वेन स्वीकार्यम् ।