०३ समाराधनोपयुक्त-मन्त्र-न्यासः

प्रणव-मन्त्र-न्यासादि-प्रकारः

अथ समाराधनोपयुक्त-मन्त्राणाम् ऋषिच्-छन्दो देवतानि अनुसन्धाय समाराधनम् आरभेत् । यथा -

अस्य श्री-प्रणव-मन्त्रस्य अन्तर् यामि ऋषिः, देवी गायत्री-छन्दः, परमात्मा देवता । अं बीजम्, उं शक्तिः, मं कीलकं, बुद्धिस् तत्त्वं, परम-व्योम-क्षेत्रं, शुक्लो वर्णः । भगवत्-प्रीत्य्-अर्थं उच्छ्वास-निश्वास-रूपेण षट्-शताधिकैक-विंशति-सहस्र-कृत्वः प्रणव-जपं करिष्ये ।

आं ज्ञानाय हृदयाय नमः । ऐ ऐश्वर्याय शिरसे स्वाहा । ऊं शक्तयै शिवायै वौषट् । ऐं बलाय कवचाय हुम् । औं तेजसे नेत्राभ्यं वौषट् । अः वीर्यायास्त्राय फट् । अं ज्ञानाय हृदयाय नमः । ईं ऐश्वर्याय पृष्ठाय नमः । ऊं शक्त्यै बाहुभ्यां नमः । ऐं बलाय ऊरुभ्यां नमः । ओं तेजसे जानुभ्यां नमः । अः वीर्याय पादाभ्यां नमः ।

इत्य् अङ्ग-न्यासं कुर्यात् ।

ओं भूः ज्ञानाय हृदयाय नमः | ओं भुवः ऐश्वर्याय शिरसे स्वाहा । ओं सुवः शक्त्यै शिखायै वषट् । ओं महः बलाय कवचाय हुम् । ओं जनः तेजसे नेत्र-त्रयाय वौषट् । ओं तपः वीर्याय अस्त्राय फट् । ओं सत्यं परमात्मने हृदयाय नमः ।

इति वा अङ्ग-न्यासं कृत्वा ॥

विष्णुं भास्वत्-किरीटां गद-वलय-गला-कल्प-हारोदराङ्घ्रि
श्रोणी-भूषं1 सवक्षो मणि-मकर-महा-कुण्डल-मण्डिताङ्गम् ।
हस्तोद्यच्-चक्र-शङ्खाम्बु-ज-गदम् अमलं पीत-कौशेयम् आशा विद्योतद्-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि ||

इति ध्यात्वा प्रणव-जपं कृत्वा,

[[83]]

प्रासाद-मन्त्र-न्यासादि

अस्य श्री-प्रसाद-मन्त्रस्य अन्तर्-यामि ऋषिः । गायत्री-छन्दः। परमात्मा देवता । भगवत्-प्रीत्य्-अर्थं उच्छ्वास-निश्वास-रूपेण षट्-छताधिकैक-विंशति-सहस्र-कृत्वः प्रसाद-मन्त्र-जपं करिष्ये ।

हां ज्ञानाय हृदयाय नमः । हीं ऐश्वर्याय शिरसे स्वाहा । हूं शक्त्यै शिखायै वौषट्, हैं बलाय कवचाय हुम् । हौं तेजसे नेत्राभ्यां वौषट् । हः वीर्यायास्त्राय फट् । हां ज्ञानाय उदराय नमः ; हीं ऐश्वर्याय पृष्ठाय नमः । हूं शक्त्यै बाहुभ्यां नमः | हैं बलाय ऊरुभ्यां नमः । हौं तेजसे जानुभ्यां नमः । हः वीर्यायास्त्राय फट् ।

इत्य् अङ्ग-न्यासं कृत्वा “हौं” इति प्रसाद-मन्त्र-जपं कृत्वा

अजपा-मन्त्र-न्यासादि

अजपा-मन्त्रस्य ब्रह्मा ऋषिः, गायत्री-छन्दः, हंसो देवता हं बीजम् । राश् शक्तिः । भगवत्-प्रीत्य्-अर्थम् उच्छ्वास-निश्वास-रूपेण षट्-छताधिकैक-विंशति-सहस्र-कृत्वः अजपा-मन्त्र-जपं करिष्ये ।

सूर्याय ज्ञानाय हृदयाय नमः । सोमायैश्वर्याय शिरसे स्वाहा । निरञ्जनाय शक्त्यै शिखायै वौषट् । निराभासाय बलाय कवचाय हुम् । हंसाय वीर्यायास्त्राय फट् । हंसां ज्ञानाय हृदयाय नमः । हंसीं ऐश्वर्याय शिरसे स्वाहा । हंसूं शक्त्यै शिखायै वौषट् । हंसैं बलाय कवचाय हुम् । हंसौं तेजसे नेत्राभ्यां वौषट् । हंसः वीर्यायास्त्राय फट् ।

इति अङ्ग-न्यासं कृत्वा “हंसः” इत्य् अजपा-मन्त्र-जपं कुर्यात् ।

[[84]]

पञ्चोपनिषन् मन्त्रस्य ऋषिच् छन्दो देवताः

पञ्चोपनिषन्-मन्त्रस्य ब्रह्म-वसिष्ठ-पराशर-व्यास-शुका ऋषयः गायत्र्य्-उष्णिग्-अनुष्टुप्-त्रिष्टुप्-जगत्यः छन्दांसि । आकाश-वाय्व्-अग्न्य्-अम्बु-पृथिव्यो देवताः । षकार-यकार-रेफ-वकार-लकारा बीजानि । नमश् शक्तिः । देहे पञ्चोपनिषन्-न्यासार्थे विनियोगः ।

औं षौं नमः पराय परमेष्ठ्य्-आत्मने वासुदेवाय नमः । ओं यां नमः पराय पुरुषात्मने सङ्कर्षणाय नमः । ओं रां नमः पराय विश्वात्मने अनिरुद्धाय नमः । ओं वां नमः पराय निवृत्त्य्-आत्मने प्रद्युम्नाय नमः । ओं लां नमः पराय सर्वात्मने नारायणाय नमः ।

इति शिरो-नासाग्र-हृदय-गुह्य-पादेषु विन्यसेत् । इति सृष्टि-न्यासः । विपर्ययेन संहार-न्यासः । इमान् पञ्चोपनिषन्-मन्त्रान् यथा-शक्ति जपेत् ।

[[85]]

अष्टाक्षर-मन्त्रस्य न्यासादि-जप-प्रकारः

अस्य श्रीमद्-अष्ठाक्षर-महा-मन्त्रस्य अन्तर्-यामी भगवान् नारायण ऋषिः बदरिकाश्रम-वासी नारायण ऋषिर् इति वा । देवि गयत्री-छन्दः परमात्मा भगवन्-नारायणो देवता । ओं बीजम्, आय-शक्तिः1, अं बीजं, उं शक्तिर्, इति वा मं कीलकम् । परम-व्योम-क्षेत्रम् | बुद्धिस् तत्त्वं । शुक्लो वर्णः । ह्रीं कवचम् । क्लीम् अस्त्रम् । उदात्त-स्वरः । श्रीमन्-नारायण-प्रीत्य्-अर्थे विनियेगः ।

ओं नमः पराय श्रीमद्-अष्टाक्षर-प्रदात्रे गुरवे नम

इति शिरसि ।

ओं नमः परेभ्यो श्रीमद्-अष्ठाक्षर-प्रदातृभ्यो ऽस्मत् परम-गुरुभ्यो ऽस्मत् सर्व-गुरुभ्यश् च नमः

इति शिखायां ।

ओं नमः पराय श्रीमद्-अष्टाक्षरात्मने मन्त्र-राजाय नम

इति हृदये ।

ओं नमः पराय श्रीमद्-अष्ठाक्षर-छन्दसे देव्यै गायत्र्यै नम

इति मुखे ।

ओं नमः पराय श्रीमद्-अष्टाक्षर-ऋषये अन्तर्-यामिने नारायणाय

इति शिरसि ।

ओं नमः पराय श्रीमद्-अष्टाक्षर-परमात्मने नारायणाय

इति हृदये,

ओं नमः पराय श्रीमद्-अष्ठाक्षर-बीज-भूताय अकाराद् उत्थिताय प्रणवात्मने भगवते नारायणाय

इति गुह्ये ।

ओं नमः पराय श्रीमद्-अष्टाक्षर-शक्ति-भूताय उकारात्मने भगवते नारायणाय

इति पादयोर् विन्यस्य । आकूर्परम् अङ्गुल्य्-अग्र-पर्यन्तं मूल-मन्त्रेण कर-द्वये ऽपि अन्तर्-बाह्ये पार्श्वयोश् च कर-तल-पृष्ठयोः कर-तल-पार्श्वयोश् च त्रिस् त्रिः परामृश्य कर-तल-मध्ययोर् मध्यमाङ्गुलिभ्यां प्रत्येकं मूल-मन्त्रं जपेत् । कर-द्वये ऽपि दक्षिणम् आरभ्य तर्जन्य्-आदि-तर्जन्य्-अन्तं सर्वास्व् अङ्गुलीषु स-बिन्दुकानि प्रणव-सम्पुटितानि मन्त्राक्षराण्य् अष्टौ क्रमेणाङ्गुष्ठेन न्यसेत् । अयं सृष्टि-न्यासो ब्रह्म-चारिणः । कर-द्वये ऽपि दक्षिणम् आरभ्य तत्-तत्-तर्जन्य्-आदि-तत्-तत्-कनिष्ठिकान्त-न्यासः । स्थिति-न्यासो ऽयं गृह-स्थस्य ।

[[86]]

वामम् आरभ्य तर्जन्य्-आदि-तर्जन्य्-अन्त-न्यासः संहार-न्यासो ऽयं वान-प्रस्थ-यत्योः । कर-द्वयेप्य् उभयाङ्गुष्ठम् आरभ्य तत्-तत्-कनिष्ठिकान्तासु व्याप्तत्वेन वा न्यसेत् । एवम् अङ्गुलि-न्यासं कृत्वा अष्टाक्षरान्तस्थानि प्रणव-सम्पुटितान्य् एकैकानि अक्षराणि क्रमेण दक्षिणाङ्गुष्ठ-प्रथम-पर्वारभ्य वाम-कनिष्ठिकान्त्य-पर्व-पर्यन्तं विन्यस्य तुरीयावृत्ताव् अवशिष्ट-वर्ण-द्वयेन कर-तल-कर-पृष्ठौ संमृशेत् । एवं पर्व-न्यासं कृत्वा

ओं कठोत्काय स्वाहा ज्ञानाय हृदयाय नमः । ओं महोत्काय स्वाहा ऐश्वर्याय शिरसे स्वाहा । ओं वीरोत्काय स्वाहा शक्त्यै शिखायै वौषट् । ओं व्युत्काय स्वाहा बलाय कवचाय हुम् । ओं सहस्रोत्काय स्वाहा तेजसे नेत्र-द्वयाय वौषट् ।

इति पञ्चाङ्ग-न्यासं कृत्वा

ओं ओं ज्ञानाय हृदयाय नमः । ओं नम् ऐश्वर्याय शिरसे स्वाहा। ओं मों शक्त्यै शिखायै वौषट् । ओं नां बलाय कवचाय हुम् ।

कवचानुबन्धानुकारिणा कर-द्वयेन कर्णादि-कट्य्-अन्तस्थाने ।

ओं रां तेजसे नेत्राभ्यां वौषट्

तर्जनी मध्यमाभ्यां नेत्रयोः ।

ओं यं वीर्यायास्त्राय फट्

समुष्टिकाङ्गुष्ठ-तर्जनीभ्यां भुजाग्रयोः ।

ओं णां तेजसे उदराय नमः । ओं यं तेजसे पृष्ठाभ्यां नमः । ओं यं तेजसे बाहुभ्यां नमः । ओं यं तेजसे ऊरुभ्यां नमः । ओं यं तेजसे जानुभ्यां नमः ।

एवम् उदर-पृष्ठ-बाहूरु-जानुषु अङ्गुष्ठ-रहिताभिर् अङ्गुलीभिर् न्यसेत् ।

ओं यं तेजसे पादाभ्यां नमः

सर्वाभिर् अङ्गुलीभिः पादयोः ।

इति द्वादशाङ्ग-न्यासं कृत्वा

ओं पद्माय नमः

दक्षिण-कर-तले ।

ओं कौमोदक्यै गदाधिपत्न्यै नमः

वाम-कर-तले ।

ओं सुदर्शनाय हेति-राजाय नमः

दक्षिण-भुजे ।

ओं पाञ्च-जन्याय शङ्खाधिपतये नमः

वाम-भुजे ।

ओं किरीटाय मकुटाधिपतये नमः

शिरसि ।

ओं श्री-वत्साय श्री-निवासाय नमः

दक्षिणोरसि ।

ओं श्री-कौस्तुभाय दिव्य-रत्नाय नमः

उरो मध्ये ।

ओं श्री-वैजयन्त्यै वन-मालायै नमः

पादयोः ।

ओं श्रीं श्रियै नमः

दक्षिण-पार्श्वे ।

ओं ह्रीं पुष्ट्यै नमः

वाम-पार्श्वे ।

ओं सैं सरस्वत्यै नमः

मुखे ।

ओं द्रां निद्रायै नमः

पश्चाद्-भागे ।

ओं क्लीं कान्त्यै नमः

ऊर्ध्व-देहे

ओं कं पृथिव्यै नमः

पादयोः ।

ओं गरुडाय नम

ऊर्वोः । यद् वा दक्षिणाङ्गुष्ठम् आरभ्य वाम-कनिष्ठिकान्तं किरीटादि-पृथिव्य्-अन्तानां न्यासः । गरुडं कर-तलयोर् न्यसेत् ।

[[87]]

अष्टाक्षर-मन्त्रस्य देह-न्यासः

अथ देह-न्यासः । मूर्धादि-व्यापकत्वेन मूल-मन्त्रेण त्रिः परामृशेत् । एते न्यासाः सर्वेषां समानाः । अथ स-बिन्दुकानि प्रणव-सम्पुटितानि अष्टाक्षराणि क्रमेण मूर्धादि-पादान्तेषु स्थानेषु[[??]] न्यसेत् । सृष्टि-न्यासो ऽयं ब्रह्म-चारिणः ।

एवं नाभ्य्-आदि-पादान्तेषु मूर्धादि-हृदय-पर्यन्तेषु न्यसेत् । स्थिति-न्यासो ऽयं गृह-स्थस्य ।

एवं पादादि-मूर्धान्तेषु न्यसेत् । संहार-न्यासो ऽयं वान-स्थ–यत्योः ।

अत्र मूर्ध्नि मध्यमया, तर्जनी-मध्यमाभ्यां नेत्रयोः, अनामिकाङ्गुष्ठाभ्यां मुख-मध्ये, अङ्गुष्ठ-तर्जनीभ्यां हृदये, नाभौ कनिष्ठाङ्गुष्ठाभ्यां, गुह्ये जान्वोश् च अङ्गुष्ठ-रहिताभिर् अङ्गुलीभिः, सर्वाभिर् अङ्गुलीभिः पादयोर् न्यसेत् ।
पादयोः जान्वोः ऊर्वीः उदरे हृदि, मुखे शिरसि चैवं तैः क्रमात् व्युत्क्रमतो न्यसेत् । अथ मूल-मन्त्रेण शिरः-प्रभृति-पाद-पर्यन्तं सर्वाङ्ग-न्यासः । ततो ऽस्त्र-मन्त्रेण दिग्-बन्धः । अथवा स-बिन्दुकैर् मन्त्राक्षरैर् अष्टभिर् दिग्-बन्धः। प्रणवेनोर्ध्वम् अधश् चेति वा दिग्-बन्धः । अथ कर-द्वयेन अष्टाक्षरं चक्रं बद्ध्वा आत्मनः प्रादक्षिण्येन “ओं श्री-सुदर्शनाय हेति-राजाय नम” इति चक्र-मुद्रया रक्षां कुर्यात् ।

अत्र केचित् संहितान्तरे

पद्मं दक्षिण-भुजे । गदां वामे, दक्षिणे सुदर्शनं, वामे शङ्खं मुद्रा-रूपेण न्यसेत् । किरीटं शिरसि । श्री-वत्सं दक्षिणोरसि। उरोर् मध्ये कौस्तुभम्। वैजयन्तीं च पार्श्वयोः श्रीयं दक्षिण-पार्श्वे । पुष्टिं वाम-पार्श्वके सरस्वतीं मुखे । निद्रां पश्चाद्-भागे च विन्यसेत् । कान्तिम् ऊर्ध्व-देशे । पृथिवीं पादयोः । गरुडम् ऊर्व्योर्

इति वदन्ति ।

[[88]]

सव्यं पादं प्रसार्य श्रित-दुरित-हरं दक्षिणं कुञ्चयित्वा
जानुन्य् आधाय सव्येतरम् इतर-भुजं नाग-भोगे निधाय ।
पश्चाद् बाहु-द्वयेन प्रतिभट-शमने धारयन् शङ्ख-चक्रे
देवी-भूषादि-जुष्टो जनयतु जगतां शर्म वैकुण्ठ-नाथः॥
पद्माक्षम् आपरिगतं विमलेन्द्र-नील- श्यामं चतुर्-भुज-धृतारि-गदाब्ज-यष्टिम् ।
केयूर-हार-वन-दाम-किरिट-काञ्ची
श्री-वत्स-कैस्तुभ-मुखाभरणैर् उपेतम्॥
श्रीमत्-पिशङ्ग-वदनं सनकादि-भक्तैः
साङ्गैस् तु तं च निगमोपनिषत् पुराणैः ।
सानुग्रह-स्मित-कृपादृशम् आश्रितानाम्
नारायणं भव-हरं शरणं प्रपद्ये ॥

इति वा ध्यात्वा मानसैर् उपचारैर् अभ्यर्च्य अष्टोत्तर-सहस्रम् अष्टोत्तर-शतम् अष्टा-विंशति-वारं वा कुर्यात् ।

षष्ठाद्ययोर् उदात्तः स्यात् स्वरितो ऽन्त्य-द्वितीययोः ।
प्रचयस् त्रि-चतुर्थाभ्यां निहतं पञ्चमाक्षरम् ॥
उदात्त-स्वर-ओङ्कार इत्य् अष्टाक्षर-लक्षणम्।
ओं नमो नारायणाय॥

इति मन्त्रः इत्य् एवम् अष्टाक्षर-मन्त्र-जपं कुर्यात् ।

[[89]]

द्वयाख्य-महा-मन्त्रस्य ऋषिच् छन्दो देवता-न्यासादि

अस्य श्री-द्वयाख्य-महा-मन्त्रस्य लक्ष्मी-नारायण ऋषिः गायत्री-छन्दः। विष्वक्सेन ऋषिः अतिच्छन्दः इति वा । श्रीमन्-नारायणः परमात्मा देवता। ओं बीजं । नमश् शक्तिः। ह्रीं कीलकम् । श्रीं कवचम् । ऐम् अस्त्रम् । श्वेतो वर्णः । मोक्षार्थे विनियोगः ।

ओं श्रीमन्-नारायण-चरणौ अङ्गुष्ठाभ्यां नमः । शरणं तर्जनीभ्यां नमः । ओं प्रपद्ये मध्यमाभ्यां नमः । श्रीमते अनामिकाभ्यां नमः । ओं नारायणाय कनिष्ठिकाभ्यां नमः । ओं नमः कर-तल-कर-पृष्ठाभ्यां नमः ।

इत्य् अङुलि-न्यासं कृत्वा प्रणव-सम्पुटितम् आद्यम् अक्षरं कर-तलयोर् विन्यस्य शेषाणि चतुर्-विंशत्य्-अक्षराणि प्रणव-सम्पुटितानि चतुर्-विंशति-पर्वसु विन्यसेत् ।

ओं श्रीमन्-नारायण-चरणौ ज्ञानाय हृदयाय नमः शरणम् ऐश्वर्याय शिरसे स्वाहा । प्रपद्ये शक्त्यै शिखायै वौषट् । श्रीमते बलाय कवचाय हुम् । नारायणाय तेजसे नेत्राभ्यां वौषट् । नमः वीर्यायास्त्राय फड्

इति षड्-अङ्ग-न्यासं कृत्वा

मूर्ध्नि फाल-नेत्र-नासा-श्रवणेषु तथा ऽऽनने ।
भुजयोर् हृत्-प्रदेशे च स्तनयोर् नाभि-मण्डले ॥
पृष्ठे च जघने कट्योर् ऊर्वोर् जान्वोश् च पादयोः ।
पञ्च-विंशाक्षराण्य् अस्य क्रमेणाङ्गेषु विन्यसेत् ॥

एवं न्यासं कृत्वा ध्यानं कुर्यात् ।

[[90]]

इन्दीवर-दल-श्यामं कोटि-सूर्याग्नि-वर्चसम् ।
चतुर्-भुजं सुन्दराङ्गं सर्वाभरण-भूषितम् ॥
पद्मासन-गतं देवं पुण्डरीक-दलेक्षणम् ।
रत्नारविन्द-सदृश-पद-हस्त-तलाञ्चितम् ॥
माणिक्य-मुकुटोपेतं नील-कुञ्चित-शीर्ष-जम्
श्री-वत्स-कौस्तुभोरस्कं वन-माला-विराजितम् ।
दिव्य-चन्दन-लिप्ताङ्गं दिव्य-पुष्पावतंसकम्
हार-कुण्डल-केयूर-नूपुरादि-विराजितम् ॥
कटकैर् अङ्गुलीयैश् च पीत-वस्त्रेण शोभितम्।
शङ्ख-चक्र-गदा-पद्म-पाणिनं पुरुषोत्तमम् ॥
वामाङ्के चिन्तयेत् तस्य देवीं कमल-लोचनाम् । तरुणीं सुकुमाराङ्गीं सर्व-लक्षण-शोभिताम् ॥
दुकूल-वस्त्र-संवीतां सर्वाभरण-भूषिताम् ।
तप्त-काञ्चन-सङ्काशां पीनोन्नत-पयो-धराम् ॥
रत्न-कुण्डल-संयुक्तां नील-कुन्तल-शीर्ष-जाम् ।
दिव्य-चन्दन-लिप्ताङ्गीं दिव्य-पुष्पावतंसकाम् ॥
रत्नाब्जं मातु-लिङ्गं च दर्पणं वरदं तथा ।
देवीं च बिभ्रतीं दोर्भिश् चिन्तयेद् इष्ट-दां सदा ॥

एवं ध्यात्वा

[[91]]

अर्कौघाभं किरीटान्वितं मकर-लसत् कुण्डलं दीप्त-राजत्,
केयूरं कौस्तुभाभाशबल-रुचिर-भा-रक्त-पीतांम्बरं च ।
नाना-रत्नांशु-भिन्नाभरण-शत-युजं श्री-धराश्लिष्ठ-पार्श्वम्
वन्दे दोस्-सक्त-चक्राम्भोरुहदर-गदं विश्व-वन्द्यं मुकुन्दम् ॥

इति वा ध्यात्वा द्वयाख्य-मन्त्र-रत्न-जपं कृत्वा

चरम-श्लोक-मन्त्र-न्यासादि

अथ चरम-श्लोक-मन्त्र-न्यासः ।

ओम् अस्य चरम-श्लोक-महा-मन्त्रस्य वेद-व्यासो भगवान् ऋषिः । अनुष्टुप्-छन्दः । परमात्मा श्री-कृष्णः श्रीमन्-नारायणो देवता । अशोच्यान् अन्वशोचस् त्वम् इति बीजं । सर्व-धर्मान् परित्यज्येति शक्तिः । ऊर्ध्व-मूलम् अधश् शाखाम् इति कीलकम् । श्री-वासुदेव-प्रीत्य्-अर्थे विनियोगः ।

सर्व-धर्मान् परित्यज्य अङ्गुष्ठाभ्यां नमः । माम् एकं शरणं व्रज तर्जनीभ्यां नमः । अहं त्वा सर्व-पापेभ्यो मध्यमाभ्यां नमः । मोक्षयिष्यामि मा शुचः अनामिकाभ्यां नमः । सर्व-धर्मान् … व्रज कनिष्ठिकाभ्यां नमः । अहं त्वा … मा शुचः कर-तल-कर-पृष्ठाभ्यां नमः । सर्व-धर्मान् परित्यज्य ज्ञानाय हृदयाय नमः । मां + व्रज ऐश्वर्याय शिरसे स्वाहा । अहं + पापेभ्यः शक्त्यै शिखायै वौषट् । मोक्षयिष्यामि मा शुचः बलाय कवचाय हुम् । सर्व-धर्मान् + व्रज तेजसे नेत्राभ्यां वौषट् । अहं + मा शुचः वीर्याय अस्त्राय फट् । अर्कौघाभम् इति ध्यानं,

यथा-शक्ति चरम-श्लोक-मन्त्र-जपं कुर्यात् ।

[[92]]

वासुदेव-द्वादशाक्षर-मन्त्र-न्यासादि

अस्य श्री-वासुदेव-द्वादशाक्षर-महा-मन्त्रस्य ब्रह्मा ऋषिः । वासुदेव ऋषिर् इति वा । देवी गायत्री-छन्दः । भगवान् वासुदेवः परमात्मा देवता । ओं बीजम् । नं शक्तिः । अं बीजम् । आय-शक्तिर् इति वा । वासुदेवायेति कवचम् । भगवत इति कीलकम् । श्वेतो वर्णः । बुद्धिस् तत्त्वम् । परं व्योम क्षेत्रम् । श्री-वासुदेव-प्रसाद-सिध्य्-अर्थे जपे विनियोगः ।

प्रणव-सम्पुटितैर् द्वादशाक्षरैर् अङ्गुलि-पर्वसु न्यासं कुर्यात् । तत्र त्रिधा ऽऽवृत्तौ अवशिष्ट-वर्ण-षट्कैर् दक्षिण-वाम-प्रकोष्ठौ कर-तले कर-पृष्ठे च संमृशेत् । प्रणव-सम्पुटितैर् एव द्वादशाक्षरैर् दशाङ्गुलि-न्यासं कुर्वन् अवशिष्ट-वर्ण-द्वयेन कर-तल-कर-पृष्ठौ संमृशेत्।

पादयोर् जान्वोर् उर्वोर् नाभौ कुक्षौ ततो हृदि ।
भुजयोस् स्कन्धयोर् वक्त्रे नासा ऽऽलोक-शिरस्सु च ॥

एवं क्रमेण विन्यस्य तार-सम्पुटिताक्षरैः शिरः-प्रभृति-पादान्तं विन्यसेत् । तैः क्रमात् सुधीः । अथ अङ्ग-न्यासं पदैः कुर्यात् । अयं सृष्टि-न्यासो ब्रह्म-चारिणः ।

नाभ्य्-आदि-पादान्तेषु शीर्षादि-कुक्षि-पर्यन्तं स्थिति-न्यासः । पादादि-शिरः-पर्यन्तं संहार-न्यासः ।

स-पाद-जानु-युगले लिङ्ग-नाभ्य्-उदरेषु च ।
हृद्-दोर्-गलास्य दृङ्-मस्त-शिखास्व् अक्षरशो न्यसेत् ॥

अयं न्यासो वन-स्थ-यत्योः ।

शिखा-ललाट-नेत्रास्य-गल-दोर्-आसनेष्व् अपि ।
स-कुक्षि-नाभि-लिङ्गाख्य-जानु-पादेषु विन्यसेत् ॥

अयं सृष्टि-न्यासो ब्रह्म-चारिणः ।

हृत्-कुक्षि-नाभिषु तथा गुह्य-जानु-पदेष्व् अथ ।
कर-कर्णास्य दृङ्-मस्त-शिखासूर्ध्वं च विन्यसेत् ॥

[[93]]

अयं स्थिति-न्यासो गृह-स्थस्य । तत्र दक्षिण-हस्ते

ओं ओं ज्ञानाय हृदयाय नमः । ओं नं ऐश्वर्याय शिरसे स्वाहा । ओं मों शक्त्यै शिखायै वौषट् । ओं भं बलाय कवचाय हुम्। ओं गं वीर्यायास्त्राय फट् । ओं वं तेजसे नेत्राभ्यां वौषट् ।

वाम-हस्ते

ओं तें ज्ञानाय हृदयाय नमः

इति कर-तलम्।

ओं वाम् ऐश्वर्याय पृष्ठाय नमः । ओं सुं शक्त्यै बाहुभ्यां नमः । ओं दें बलाय ऊरुभ्यां नमः । ओं वां तेजसे जानुभ्यां नमः । ओं यं तेजसे वीर्याय पादाभ्यां नमः ।

वाम-कर-तलम् आरभ्य दक्षिण-कर-तल-पर्यन्तं संहार-न्यासः वन-स्थ-यत्योः । दक्षिण-कर-तलम् आरभ्य वाम-कर-तल-पर्यन्तं सृष्टि-न्यासो ब्रह्म-चारिणः। पादयोर् जान्वोर् उर्वोर् इत्य् आदिना स-पाद-जान्व्-इत्यादिना वा देह-न्यासं कुर्यात् ।

ओं ज्ञानाय हृदयाय नमः । ओं नमः ऐश्वर्याय शिरसे स्वाहा । ओं भगवते शक्त्यै शिखायै वौषट् । ओं वासुदेवाय बलाय कवचाय हुम् । ओं नमो भगवते तेजसे नेत्राभ्यां वौषट् । वासुदेवाय वीर्यायास्त्राय फड्

इति षड्-अङ्ग-न्यासं कुर्यात् । यद् वा

ओम् आचक्राय स्वाहा ज्ञानाय हृदयाय नमः । ओं विचक्राय स्वाहा ऐश्वर्याय शिरसे स्वाहा । ओं सुचक्राय स्वाहा शक्त्यै शिखायै वषट् । ओं त्रैलोक्य-चक्राय स्वाहा बलाय कवचाय हुम् । ओं महा-चक्राय स्वाहा तेजसे नेत्र-द्वयाय वौषट् । ओं असुरान्तक-चक्राय स्वाहा वीर्यायास्त्राय फड्

इति वा षड्-अङ्ग-न्यासं कुर्यात् । यद् वा

ओं क्रुद्धोल्काय फट् ज्ञानाय हृदयाय नमः। ओं महोल्काय फट् ऐश्वर्याय शिरसे स्वाहा । ओं वीरोल्काय फट् शक्त्यै शिखायै वौषट्। व्युल्काय फट् बलाय कवचाय हुम् । ओं सहस्रोल्काय फट् तेजसे नेत्र-द्वयाय वौषट् । तेज उल्काय फट् वीर्यायास्त्राय फड्

इति वा षड्-अङ्ग-न्यासं कुर्यात् ।

[[94]]

ध्यानम्

क्षीराब्धौ शेष-पर्यङ्के समासीनं श्रिया सह ।
नील-जीमूत-सङ्काशं तप्त-काञ्चन-भूषितम् ॥
पीताम्बर-धरं देवं रत्नाब्ज-दल-लोचनम् ।
दीर्घैश् चतुर्भिर् दोर्भिश् च दिव्याभरण-भूषितैः ॥
शङ्खं चक्रं गदां शार्ङ्गं बिभ्राणं परमेश्वरम् ।
नाना-कुसुम-सम्बन्ध-नील-कुञ्चित-शीर्ष-जम् ॥
श्री-वत्स-कौस्तुभोरस्कं वन-माला-विभूषितम् ।
समाश्लिष्टं श्रिया देव्या पद्मया पद्म-हस्तया ॥
स्तूयमानं विमानस्थैर् देव-गन्धर्व-किन्नरैः ।
मुनिभिस् सनकाद्यैश् च सेवितं च सुरर्षिभिः ॥

इति ध्यत्वा

विष्णुं शारद-चन्द्र-कोटि-सदृशं शङ्खं रथाङ्गं गदाम्
अम्भोजं दधतं सिताब्ज-निलयं कान्त्या जगन्-मोहनम् ।
आबद्धाङ्गद-हार-कुण्डल-महा-रत्न-स्फुरत् कङ्कणं
श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं वन्दे मुनीन्द्रैस् स्तुतम् ॥

इति ध्यात्वा “ओं नमो भगवते वासु-देवाय” इति द्वादशाक्षर-मन्त्रं जपेत् ।

[[95]]

विष्णु-षड्-अक्षर-मन्त्र-न्यासादि

अस्य श्री-विष्णु-षड्-अक्षर-महा-मन्त्रस्य ब्रह्मा ऋषिः । गायत्री-छन्दः श्री-महा-विष्णुर् देवता । ओं बीजं नमश् शक्तिः । श्री-महा-विष्णु-प्रीत्य्-अर्थे जपे विनियोगः ।

प्रणव-सम्पुटितैर् मन्त्र-गतैर् अक्षरैः पञ्चधा ऽऽवृत्तैः पर्व-न्यासं कृत्वा द्वेधा ऽऽवृत्तैर् अङ्गुलि-न्यासं कृत्वा ऽवशिष्ट-वर्ण-द्वयेन कर-तल-कर-पृष्ठौ संमृश्य मन्त्र-गतैस् त्रिभिः पदैर् द्विर् आवृत्तैर् षड्-अङ्ग-न्यासं कृत्वा प्रणव-सम्पुटितानि मन्त्राक्षराणि

मूर्ध्नि आस्ये हृदये बाह्वोः पृष्ठे गुह्ये च

इति क्रमाद् विन्यस्य “ओं सहस्त्रारा हुं फड्” इति चक्र-मुद्रया दिग्-बन्धनं कृत्वा ध्यानं कुर्यात् । यथा - अधो-मुखं हृदय-पङ्कजं प्रणवेन उन्-मुखी-कृत्य तत्त्वमयानि केसराणि विकसितानि कृत्वा तस्योपरि वह्न्य्-अर्क-सोम-मण्डलानि क्रमेण सञ्चिन्त्य तद्-उपरि नाना-रत्नमयं पीठं सञ्चिन्त्य तन्-मध्ये ऽष्ट-दल-पद्मं सञ्चिन्त्य

तस्मिन् विचिन्तयेद् देवं कोटि-शीतांशु-वर्चसम्।
चतुर्-भुजं सुन्दराङ्गं युवानं पद्म-लोचनम् ॥
कन्दर्प-कोटि-लावण्यं सर्व-लक्षण-लक्षितम् ।
श्लक्ष्ण-नासा-लसं गण्ड-बिम्बितोज्वल-कुण्डलम् ॥
केयूराङ्गद-हाराद्यैः भूषणैर् उपशोभितम् ।
दिव्य-चन्दन-लिप्ताङ्गं दिव्य-पुष्प-विराजितम् ॥
शङ्ख-चक्र-गदा-पद्मं धारिणं दोर्भिर् उज्वलैः।
दिव्य-पीताम्बर-धरं वन-माला-विभूषितम् ॥
श्री-वत्स-कौस्तुभोरस्कं दिव्य-पुष्पावतंसकम् ।
तप्त-काञ्चन-वर्णाभं पद्मया पद्म-हस्तया
समाश्लिष्ट-हरिं देवं चिन्तये हृदि सर्वदा ॥

[[96]]

इति ध्यात्वा :–

स-शङ्ख-चक्रं स-किरीट-कुण्डलम्
स-पीत-वस्त्रं सरसी-रुहेक्षणम् ।
स-हार-वक्षस्-स्थल-कौस्तुभ-श्रियम्
नमामि विष्णुं शिरसा चतुर्-भुजम्॥

इति ध्यात्वा –

“ओं नमो विष्णवे” इति विष्णु-षड्-अक्षर-मन्त्रं जपेत् ।

विष्णु-गायत्री-मन्त्र-न्यासादि

अस्य श्री-विष्णु-गायत्री-मन्त्रस्य ब्रह्मा ऋषिः । देवी गायत्री-छन्दः । परमात्मा भगवान् विष्णुर् दवेता । ओं क्रुद्धोल्काय स्वाहा

इत्य् आदिभिः षड्-अङ्ग-न्यासं कृत्वा –

मूर्ध्नि फाले नयनयोः नासिका-पुटयोस् तथा ।
श्रोत्रयोर् गण्डयोः कर्णे हृदये बाहु-मूलयोः ॥
हस्तयोः कुक्षि-मध्ये च गुह्ये चोर्वोश् च जङ्घयोः ।
पादयोश् च क्रमाद् एवम् अक्षराणि च विन्यसेत् ॥

[[97]]

ध्यानम् –

काल-मेघ-निभं सौम्यं चतुर्-बाहुं किरीटिनम् ।
शङ्ख-चक्र-गदा-पाणिं गरुडारूढम् अच्युतम् ॥

इति ध्यात्वा

ओं नारायणाय विद्महे वासुदेवाय धीमहि - तन् नो विष्णुः प्रचोदयात्

इति विष्णु-गायत्रीं जपेत् ।

श्री-मन्त्रस्य ऋष्यादि

अस्य श्री श्री-मन्त्रस्य भृगु ऋषिः । निचृद्-गायत्री-छन्दः । श्रीर् देवता । शं बीजं । रं शक्तिः । श्रां हृत् । श्रीं शिरः ।

इत्य् आद्य्-अङ्ग-न्यासं कृत्वा

भूयाद् भूयो द्वि-पद्मा ऽभय-वरद-करा तप्त-कार्तस्वराभा
शुभ्राभेभ-युग्म-द्वय-कर-धृत-कुम्भाद्भिर् आसिच्यमाना ।
रत्नौघा-बद्ध-मौलिर् विमलतर-दुकूलार्तवालेपनाढ्या
पद्माक्षी पद्म-नाभोरसि कृत-वसतिः पद्म-गा श्रीः श्रियै नः॥

इति ध्यात्वा

“ओं श्रीं” इति श्री-मन्त्रं जपेत् ।

[[98]]

पुरुष-सूक्त-मन्त्रस्य ऋष्यादि

श्रीमत्-पुरुष-सूक्त-मन्त्रस्य श्रीमन्-नारायण ऋषिः । आदितः पञ्च-दशर्चाम् अनुष्टुप्-छन्दः, तिसृणां त्रिष्टुप्-छन्दः । परमात्मा भगवान् नारायणो देवता । “पुरुष एवेदं सर्वम्” इति बीजम्। “एतावानस्य महिमे"ति शक्तिः । “नान्यः पन्था अयनाय विद्यत” इति कीलकम् । श्री-भगवत्-समाराधनार्थे विनियोग

इत्य् अनुसन्धाय

ओं पुरुषाय हृदयाय नमः । ओं महा-पुरुषाय शिरसे स्वाहा । ओं ब्रह्म-पुरुषाय शिखायै वौषट् । ओं विष्णु-पुरुषाय कवचाय हुम् । ओम् ईश्वर-पुरुषाय नेत्र-द्वयाय वौषट् । ओम् आद्यपुरुषाय वीर्यायास्त्राय फड्

इति षड्-अङ्ग-न्यासं कृत्वा

प्रथमां विन्यसेद् वामे द्वितीयां दक्षिणे करे ।
तृतीयां वाम-पादे तु चतुर्थी दक्षिणे पदे ॥
पञ्चमीं वाम-जङ्घायां दक्षिणस्यां तद्-उत्तराम् ।
सप्तमीं वाम-कट्यां तु दक्षिणस्यां तथा ऽष्टमम् ॥
नवमीं नाभि-मध्ये तु दशमीं हृदि विन्यसेत् ।
एकादशीं कण्ठ-देशे द्वादशीं वाम-बाहुके ॥
त्रयोदशीं दक्षिणे तु तथा ऽऽस्ये तु चतुर्-दशीम्।
अक्ष्णोः पञ्च-दशीं न्यस्य न्यसेन् मूर्धनि षोडशीम् ॥

इत्य् उक्त-प्रकारेण ऋचो विन्यसेत् । इति संहार-न्यासः । वैपरीत्येन सृष्टि-न्यासः । नाभ्य्-आदि-पादान्तं न्यस्त्वा शिरः-प्रभृति-हृदयान्तम् इति स्थिति-न्यासः ।

[[99]]

ध्यानम्॥

गो-क्षीराभं पुण्डरीकासन-स्थम्
चक्राब्जाद्यैर् भूषणैर् भूषिताङ्गम् ।
विष्णुं ध्यात्वा श्री-धराश्लिष्ट-पार्श्वम्
सूक्तेनैनं पौरुषेणार्चयीत ॥

इति ध्यात्वा “पुरुष-सूक्तम्” यथा-शक्ति जपेत् ।

श्री-सूक्त-मन्त्रस्य ऋष्यादि

अस्य श्री-सूक्त-मन्त्रस्य श्रीर् आनन्द-कर्दम-चिक्लीतेन्दिरासुताश् च ऋषयः । अनुष्टुप्-बृहती-त्रिष्टुप्-प्रस्तार-पङ्क्तयश् चेति छन्दांसि । श्र्य्-अग्नी देवते । तत्राग्निर् इति नारायणो भगवान् उच्यते । हिरण्य-वर्णाम् इत्य् ऋग्-बीजं कांसोस्मीत्य् ऋक्-छक्तिः । श्री-महा-लक्ष्मी-प्रसाद-सिध्य्-अर्थे जपे

विनियोगः । श्री-बीजेन कर-शुद्धिं कृत्वा

हिरण्य-वर्णायै श्री-महा-लक्ष्म्यै अङ्गुष्ठाभ्यां नमः । सुवर्ण-वर्णायै श्री-महा-लक्ष्म्यै तर्जनीभ्यां नमः । रजतस्रजायै श्री-महा-लक्ष्म्यै मध्यमाभ्यां नमः । चन्द्रायै श्री-महा-लक्ष्म्यै अनामिकाभ्यां नमः । हिरण्मयायै श्री-महा-लक्ष्म्यै कनिष्ठिकाभ्यां नमः । जात-वेदो म आवहायै श्री-महा-लक्ष्म्यै कर-तल-कर-पृष्ठाभ्यां नम

इत्य् अङ्गुलि-न्यासं कृत्वा

ओं हिरण्य-वर्णायै श्री-माहा-लक्ष्म्यै हृदयाय नमः । ओं सुवर्ण-वर्णायै श्री-महा-लक्ष्म्यै शिरसे स्वाहा । ओं रजतस्रजायै श्री-महा-लक्ष्म्यै शिखयै वौषट् । ओं चन्द्रायै श्री-महा-लक्ष्म्यै कवचाय हुम् । ओं हिरण्मयायै श्री-महा-लक्ष्म्यै नेत्रयाय वौषट् । जात-वेदो म आवहायै श्री-महा-लक्ष्म्यै वीर्यायास्त्राय फड्

[[100]]

इति षड्-अङ्ग-न्यासं कृत्वा “हिरण्य-वर्णाम्” इति मूर्ध्नि “तां म आवाहे"ति नेत्रयोः, “अश्व-पूर्वाम्” इति कर्णयोः “कांसोस्मिताम्” इति नासिकायां, “चन्द्रां प्रभासाम्” इति मुखे “आदित्य-वर्णे"ति कण्ठे “उपैतु माम्” इति बाह्वोः, “क्षुत्-पिपासाम्” इति हृदये “गन्ध-द्वाराम्” इति नाभौ “मनसः कामम्” इति कट्यां “कर्दमेने"ति गुह्ये । “आपः सृजन्त्व्” इत्य् ऊर्वोः, “आर्द्रां पुष्करणीम्” इति जान्वोः । “आर्द्रां यः करणीम्” इति जङ्घयोः । “तां म आवहे"ति पादयोः इत्य् अङ्ग-न्यासं कृत्वा श्री-बीजेन व्यापक-न्यासं कुर्यात् ।

अथ ध्यानम्

अरुण-कमल-संस्था तद्-रजः-पुञ्ज-वर्णा
कर-कमल-घृतेष्टाभीति-युग्माम्बुजा च ।
मणि-मकुट-विचित्रालङ्कृता-कल्प-जालैः
भवतु भुवन-माता सन्ततं श्रीः श्रियै नः ॥
या सा पद्मासन-स्था विपुल-कटि-तटी पद्म-पत्रायताक्षी
गम्भीरावर्तनाभिस् स्तन-भर-नमिता शुभ्र-वस्त्रोत्तरीया ।
लक्ष्मीर् दिव्यैर् गजेन्द्रैर् मणि-गण-खचितैः स्नापिता हेम-कुम्भैः
नित्यं सा पद्म-हस्ता मम भजतु गृहं सर्व-माङ्गल्य-युक्ता ॥
चतुर्-भुजां सुवर्णाढ्यां पद्म-मध्ये व्यवस्थितां ।
दक्षिणे ऽभय-हस्तां च वाम-हस्ते वसु-प्रदाम् ॥
श्वेत-गन्धां शुकां देवीं हेम-पुष्पैर् अलङ्कृताम् ।
स्व-तेजसा जगज्-जालं ज्वालयन्तीं समन्ततः ॥

[[101]]

पूजयामि महा-लक्ष्मीं सर्व-सौख्य-प्रदायिनीम् ।
पद्मालये पद्म-हस्ते पद्मास्ये पद्म-सम्भवे
त्वं मां भजस्व कल्याणि येन सौख्यं भजाम्य् अहम् ॥

इति ध्यात्वा “श्री-सूक्तम्” यथा-शक्ति जपेत् ।

सालग्राम-महा-मन्त्रस्य ऋष्यादि

श्री-साल-ग्राम-महा-मन्त्रस्य वेद-व्यासो भगवान् ऋषिः । विराट्-छन्दः, साल-ग्रामो देवता । प्रणवो बीजं स्वाहा शक्तिः । भोग-मोक्षार्थे विनियोगः

ओं नमो भगवते श्री-विष्णवे श्री-साल-ग्राम-निवासिने श्रीमते सर्वाभीष्ट-प्रदायिने सकल-दुरित-निवारणाय साल-ग्रामाय स्वाहा

इति साल-ग्राम-मन्त्रं यथा-शक्ति जपेत् ।


  1. श्रोणी-भूषादि-वेषो [[??]]- O.M. ↩︎ ↩︎