०२ भूत-शुद्ध्यादि

प्राणायाम-विधिः

प्रथमे प्राणायामे नाभि-देशे भगवन्तं संस्थाप्य
दक्षिण-नासया वायुं तूष्णीं विसृज्य
मूल-मन्त्रं चतुर्-दश-वारं जपन्, वाम-नासया वायुम् आपूर्य
मूल-मन्त्रम् अष्टा-विंशति-वारं जपन्, कुम्भकं कृत्वा,
मूल-मन्त्रं सप्त-वारं जपन् दक्षिण-नासया वायुं रेचयेत् ।

रेचक-समये नाभि-देश-स्थं भगवन्तं सुषुम्नया हृदयम् आगमय्य
जीवस्य कल्मषं गृहीत्वा वायुना सह दक्षिण-नासया निर्गमय्य नित्यं द्वादशाङ्गुल्य्-अन्तस्-स्थित-शत-दल-पद्मे स्थित्वा
जीवस्य कल्मषं क्षिपन्तं ध्यायेत्

द्वितीये प्राणायामे दक्षिण-नासया वायुना सह भगवन्तं हृदये स्थापयित्वा
कुम्भकं कृत्वा
वाम-नासया वायुं विसृजेत् ।

तृतीये प्राणायामे वाम-नासया वायुम् आपूर्य
कुम्भकं कृत्वा
दक्षिण-नासया रेचक-समये वायुना भगवन्तं निर्गमय्य शत-दल-पद्मे स्थापयेत् ।

अत्र प्राणायाम-त्रये ऽपि
मूल-मन्त्रस्य कुम्भके ऽष्टा-विंशति-वारं जपः,।
पूरके तद्-अर्धं,
रेचके चतुर्थांशम् इत्य् एवं प्राणायाम-त्रयं कृत्वा

संहार-न्यासः

विस्तरेण भूत-शुद्धि-प्रकारः॥

पञ्चोपनिषन्-न्यासः

स्व-देहे पञ्चोपनिषन्-मन्त्रान् पादादि-मूर्ध-पर्यन्तं संहार-क्रमेण न्यसेत् । तत्-प्रकारश् चेत्थम् ।

ओं लां नमः पराय सर्वात्मने नारायणाय

इति पादयोः

ओं वां नमः पराय निवृत्य्-आत्मने अनिरुद्धाय

इति गुह्ये

ओं रां नमः पराय विश्वात्मने प्रद्युम्नाय

इति हृदये

ओं यां नमः पराय पुरुषात्मने सङ्कर्षणाय

इति नासाग्रे

ओं षौं नमः पराय परमेष्ठ्य्-आत्मने वासुदेवाय

इति शिरसि

तत्त्व-न्यास-प्रकारः

ततस् संहार-क्रमेण तत्त्व-न्यासः ।

ओं कं पृथिव्यै नमः
ओं चं गन्ध-तन्-मात्रात्मने नम

इति पादयोः

ओं खं अद्भ्यो नमः
ओं जं रस-तन्-मात्रात्मने नम

इति गुह्ये

ओं गं तेजसे नमः
ओं जं रूप-तन्-मात्रात्मने नम

इति हृदये

ओं घं वायवे नमः
ओं झं स्पर्श-तन्-मात्रात्मने नम

इति मुखे

ओं ङं आकाशात्मने नमः
ओं ञं शब्द-तन्-मात्रात्मने नम

इति शिरसि

टं पायवे नमः
ठम् उपस्थाय नमः
डं पादाभ्यां नमः
ढं पाणिभ्यां नमः
णं वाचे नमः

तं घ्राणाय नमः
थं जिह्वायै नमः ।
दं चक्षुर्भ्यां नमः ।
धं त्वचे नमः ।
नं श्रोत्राभ्यां नम

इति तत्-तद्-इन्द्रिय-स्थानेषु हृदयस्याधोभागम् आरभ्योर्ध्व-क्रमेण ।

पं मनसे नमः
फम् अहङ्काराय नमः
बं बुद्ध्यै नमः
भं प्रकृत्यै नमः

इति ललाटस्याधोभागम् आरभ्योर्ध्व-क्रमेण ।
“मं जीवाय नम” इति एवं तत्त्व-न्यासं कृत्वा

शोषणादि

दक्षिणेन पाणिना “ओं यं” इत्य् अष्ट-कृत्व उच्चरन् “वायवे नम” इति मूल-मन्त्र-शिरस्कं नाभि-देशे विन्यस्य वेद्याकारं वायु-बीजं ध्यायन् मन्त्रोद्भूत-चण्ड-वाय्व्-आप्यायित-नाभि-देश-स्थ-वायुना धूम्रेण स-कल्मषं शरीरम् अन्तर् बहिश् च सर्व-तत्त्वमयं तत्त्व-क्रमेण शोषयामिइत्य् अनुसन्धाय दक्षिण-नासया वायुं विसृजेत् ।

[[74]]

हृद्-देशे “रम्” इत्य् अष्ट-वारं जपन् “अग्नये नम” इति मूल-मन्त्र-शिरस्कं विन्यस्य त्रि-कोणं रक्त-वर्णम् अग्नि-बीजं ध्यायन्

मन्त्रोद्भूत-चक्राग्नि-ज्वालोपबृंहित-जाठाराग्निना तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व-सर्व-किल्बिष-सर्वाज्ञान-तद्-वासना-सहितं शरीरं दाहयामि

इत्य् अनुसन्धाय वाम-नासया वायुं विसृज्य दक्षिण-नासया “ओं रम्” इति षोडश-वारं जपन् वायुम् आपूर्य द्वा-त्रिंशद्-वारं जपन् कुम्भकं कृत्वा ऽष्ट-वारं जपन् वाम-नासया वायुं रेचयेत् ।

कण्ठ-देशे “लम्” इत् अष्ट-वारं जपन् “महेन्द्राय नम” इति मूल-मन्त्र-शिरस्कं माहेन्द्रं बीजं+++(=??)+++ विन्यस्य

पीताभं चतुर्-अश्रम् उत्थितम् अग्नि-स्पर्शनेन सह स्तम्भयामि

इत्य् अनुसन्धाय वाम-नासया वायुं विसृज्य
दक्षिण-नासया “ओं लम्” इति षोडश-वारं जपन् वायुम् आपूर्य
द्वा-त्रिंशद्-वारं जपन् कुम्भकं कृत्वा
ऽष्ट-वारं जपन् वाम-नासया वायुं रेचयेत् ।

देहे ज्वालां भगवति लीलां ध्यात्वा
संहार-क्रमेण पृथिव्य्-आदीनि तत्त्वानि संहृत्य
परमात्मनि स्थितं जीवं ध्यायेत् । यथा,

घ्राणोपस्थेन्द्रिय-युतां पीताभां चतुर्-अश्रां पञ्च-गुणितां पृथिवीं गन्ध-तन्-मात्रे संहरामि । रसना-पाय्व्-इन्द्रिय-युता अर्ध-चन्द्राकृतीः श्वेताश् चतुर् गुणा अपो गन्ध-तन्-मात्रं च रस-तन्-मात्रे संहरामि । चक्षुः पादेन्द्रिय-युतं त्र्य्-अश्रं पाटलं त्रि-गुणं तेजो रस-तन्-मात्र च रूप-तन्-मात्रे संहरामि । त्वक्-पाणीन्द्रिय-युतं वृत्तं धूम्रं द्वि-गुणं वायुं रूप-तन्-मात्रं च स्पर्श-तन्-मात्रे संहरामि । श्रोत्र-वाग्-इन्द्रिय-युतं नीलोत्पल-दल-प्रभं शब्द-गुणम् आकाशं स्पर्श-तन्-मात्रं च शब्द-तन्-मात्रे संहरामि । शब्द-तन्-मात्रं मनसि संहरामि । मनो ऽहङ्कारे संहरामि । अहङ्कारं बुद्धि-तत्त्वे संहरामि । बुद्धिं प्रकृतौ संहरामि । प्रकृतिं जीवे संहरामि । जीवं साधन-विवशं सुसूक्ष्मं भास्वराभं नाभि-चक्रे ऽवस्थितं सुषुम्नया पद्म-पत्र-सुसूक्ष्मया नाडिकया कुम्भकेन वायुना देहे उपर्य् आरोहयामि ।

[[75]]

भगवत्-प्राप्त्यादि

ततो ब्रह्म-रन्ध्रं भित्वा
देहाद् बहिर् निर्गतं
भास्करस्य मण्डलं प्रविश्य
मण्डलाद् बहिर् निर्गतं
शरीरं जीवं परस्मिन् ब्रह्मणि स्थितं ध्यात्वा
पादाग्रे “यं वायवे नम” इति वायु-बीजं विन्यस्य

वायुना पादादि-मूर्ध-पर्यन्तं देहं विशोषयामि

इति ध्यात्वा पादाग्रे “रं पावकाय नम” इति वह्नि-बीजं विन्यस्य

वह्नि-ज्वालया पादादि-मूर्ध-पर्यन्तं देहं दाहयामि

इति ध्यात्वा

भगवतो विनिस्सृत-वायुना भस्मनि राजस-तामसांशाव् अपोह्य
“ह्लां ह्लीं ह्लूं ह्लैं ह्लौं वं” इत्य् अष्ट-वारं जपन्
“अमृताय नम” इति मूल-मन्त्र-शिरस्कं निवृत्ति-कला-बीजं+++(=ह्लाम्)+++ प्रतिष्ठा-कला-बीजं शान्ति-कला-बीजं शान्त्य्-अतीत-कला-बीजं अमृत-कला-बीजं च मूर्ध्नि विन्यस्य स्फटिकाकाराणि वृत्तानीमानि बीजानि ध्यायन्

भगवद्-वाम-पादाङ्गुष्ठ-नख-शीतांशु-मण्डलात् गलद्-दिव्यामृत-धारया ऽऽत्मानम् अभिषेचयामि

इति अनुसन्धाय
दक्षिण-नासया वायुं विसृज्य
वाम-नासया “ओं वम्” इति षोडश-वारं जपन्
वायुम् आपूर्य द्वा-त्रिंशद्-वारं जपन् कुम्भकं कृत्वा ऽष्ट-वारं जपन् दक्षिण-नासया वायुं रेचयेत् ।

पद्मे स्थापनम्

ततो

भगवद्-वाम-पादाङ्गुष्ठ-नख-शीतांशु-मण्डलात् गलद्-दिव्यामृत-धारया तत्-सात्त्विकांशं भस्म प्लावयामि

इत्य् अनुसन्दधन्
तद्-भस्म सम्प्लाव्य
अमृतमय-तटाकं ध्यात्वा
“तत्र आधार-शक्त्यै नम” इत्य् आधार-शक्तिं ध्यात्वा
“पद्माय नम” इति तन्-मध्ये हेममयं पद्मं ध्यात्वा
तन्-मध्ये पिण्डी-भूतम् अमृतं ध्यात्वा
तस्मिन् पिण्डी-भूते ऽमृते भगवति स्थितं जीवं भगवत्-वाम-पादाङ्गुष्ठाद् आदाय

सात्त्विकांशं भस्मयितुं तं जीवं प्रवेशयामि

इति प्रवेश्य

सृष्टि-न्यासः

तत्त्व-न्यासः

तस्मात् पिण्डी-भूताद् अमृताद् उत्पन्नं जीवं ध्यायामि, जीवात् प्रकृतिम् उत्पन्नां ध्यायामि, प्रकृतेर् बुद्धिम् उत्पन्नां ध्यायामि, बुद्धेर् अहङ्कृतिम् उत्पन्नां ध्यायामि, अहङ्कृतेश् च मन उत्पन्नं ध्यायामि, मनसश् शब्द-तन्-मात्राम् उत्पन्नां ध्यायामि, शब्द-तन्-मात्रायाः श्रोत्र-वाग्-इन्द्रिय-युतं शब्द-गुणं आकाशम् उत्पन्नं स्पर्श-तन्-मात्रां चोत्पन्नां ध्यायामि,

[[76]]

स्पर्श-तन्-मात्रायाः त्वक्-पाणीन्द्रिय-युतं शब्द-स्पर्श-गुणकं वायुम् उत्पन्नं रूप-तन्-मात्राश् चोत्पन्नां ध्यायामि, रूप-तन्-मात्रायाः चक्षुः पादेन्द्रिय-युतं शब्द-स्पर्श-रूप-गुणकं तेज उत्पन्नं रस-तन्-मात्रां चोत्पन्नां ध्यायामि । रस-तन्-मात्रायाः रसना-पाय्व्-इन्द्रिय-युताः शब्द-स्पर्श-रूप-रस-गुणाः अप उत्पन्ना गन्ध-तन्-मात्रां चोत्पन्नां ध्यायामि । गन्ध-तन्-मात्रायाः घ्राणोपस्थेन्द्रिय-युतां शब्द-स्पर्श-रूप-रस-गन्ध-गुणां पृथिवीम् उत्पन्नां ध्यायामि । एवं सावयवे देहे स्वात्मानं प्रविष्टं ध्यायामि । शरीर-विशिष्टम् आत्मानं भगवद्-दक्षिण-पादाङ्गुष्ठे प्रवेशयामि

इति मूल-मन्त्रम् उच्चरन् तत्र प्रवेश्य
प्राणायामं कुर्वन् भगवत्-प्रसादेन भगवत्-किङ्करता-योग्यताम् आपाद्य
तस्माद् आदाय
तद्-वाम-पादाङ्गुष्ठाद् अधस्तान् मूल-मन्त्रेणात्मानं विन्यस्य

देव-वाम-पादाङ्गुष्ठ-नख-शीतांशु मण्डलात् गलद्-दिव्यामृत-धारयात्मानम् अभिषेचयामि

इत्य् अभिषिच्य

भगवत्-प्रसादेन तद्-अमृतमयं शरीरं सर्व-कैङ्कर्यैक-मनो-हरं सर्व-कैङ्कर्यैक-योग्यं ध्यात्वा तस्मिन् शरीरे तत्त्व-दृष्टि-न्यासं कुर्यात् ।

शिरो मध्ये पुरः प्रभृति चतुर्-दिक्षु च

“क्षं सत्याय नमः”
“हं वासुदेवाय नमः”
“सं सङ्कर्षणाय नमः”
“षं प्रद्युम्नाय नमः”
“शम् अनिरुद्धाय नमः” ।

हृदये ऊर्ध्वम् आरभ्याधः क्रमेण

वं राकायै नमः लं मायायै नमः रं विद्यायै नमः यं क्रियायै नमः ।

ललाटोर्ध्व-भागम् आरभ्य

मं देवेभ्यो नमः मं जीवेभ्यो नमः मं जीवाय नमः भं प्रकृत्यै नमः ।

हृदयोर्ध्व-देशम् आरभ्य

बं बुद्ध्यै नमः फम् अहङ्काराय नमः पं मनसे नमः

इति विन्यस्य

नं श्रोत्राभ्यां नमः धं त्वचे नमः दं चक्षुर्भ्यां नमः थं जिह्वायै नमः तं घ्राणाभ्यां नमः णं वाचे नमः ढं पाणिभ्यां नमः डं पादाभ्यां नमः ठं उपस्थाय नमः टं पायवे नमः

इति तत्-तद्-इन्द्रियेषु ।

भं शब्द-तन्-मात्रात्मने नमः डम् आकाशाय नमः

शिरसि ।

झं स्पर्श-तन्-मात्रात्मने नमः घं वायवे नमः

मुखे ।

[[77]]

जं रूप-तन्-मात्रात्मने नमः गं तेजसे नमः

हृदये

छं रस-तन्-मात्रात्मने नमः खम् अद्भ्यो नमः

गुह्ये

चं गन्ध-तन्-मात्रात्मने नमः कं पृथिव्यै नमः

पादयोः । ततो मूर्धादि-पाद-पर्यन्तं पञ्चोपनिषन्-मन्त्रान् सृष्टि-क्रमेण विन्यसेत् ।

ओं षौं नमः पराय परमेष्ठ्य्-आत्मने वासुदेवाय

शिरासि ।

पञ्चोपनिषन्-न्यासः

ओं यां नमः पराय पुरुषात्मने सङ्कर्षणाय

नासाग्रे

ओं रां नमः पराय विश्वात्मने प्रद्युम्नाय

हृदये

ओं वां नमः पराय निवृत्य्-आत्मने ऽनिरुद्धाय

गुह्ये

ओं लां नमः पराय सर्वात्मने नारायणाय

पादयोः ।

एवं न्यासं कुर्वन् तत्-तच्-छक्तिमयम् उद्भूतं देवं ध्यायेत् ।+++(5)+++

प्राण-प्रतिष्ठा-प्रकारः

ततः पूर्ववच् छिरसि मूल-मन्त्र-शिरस्कं अमृत-बीजं विन्यस्य
प्राणायामेनैकेन देव-वाम-पादाङ्गुष्ठ-विनिसृता ऽमृत-धारया शरीर-विशिष्टम् आत्मानम् अभिषिच्य
मूल-मन्त्रेण परमात्मानं हृदये प्रवेश्य प्राण-प्रतिष्ठां कुर्यात् ।

अस्य प्राण-प्रतिष्ठा-मन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषयः, ऋग्-यजुस्-सामाथर्वाणि छन्दांसि स-कल-जगत्-सृष्टि-कारणी प्राण-शक्तिर् देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं प्राण-प्रतिष्ठा-सिध्य्-अर्थे विनियोगः ।

ओं आं ङं घं गं खं कं आकाशानिल-तेजोऽम्बु-पृथिवी-प्राणात्मने
अं ज्ञानाय हृदयाय नमः ।

ओं ईं ञं झं जं छं चं
शब्द-स्पर्श-रूप-रस-गन्धापनात्मने
इं ऐश्वर्याय शिरसे (स्वाहा)।

ओं ऊं णं ढं डं ठं टं श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राण-व्यानात्मने
उं शक्त्यै शिखायै वषट् ।

ओं ऐं नं धं दं थं तं
वाक्-पाणि-पाद-पायूपस्थोदानात्मने
(एं??) बलाय कवचाय हुम् ।

ओं औं मं भं बं फं पं
वचनादान-गमन-विसर्गानन्द-समानात्मने
ओं तेजसे नेत्र-द्वयाय वौषट् ॥

ओं अः क्षं ळं हं सं षं शं वं लं रं यं
मनो-बुध्य्-अहङ्कार-चित्त-ज्ञानात्मने
अं वीर्यायास्त्राय फट् ।

[[78]]

ध्यानम् ।

रक्ताम्भोधि-स्थ-पोतोल्लसद्-अरुण-सरो-जाधि-रुढा-कराब्जैः
पाशान् कोदण्डम् इक्षूद्भवम् अथ गुणम् अप्य् अङ्कुशं पञ्च-बाणान्।
बिभ्राणा ऽसृक्-कपालं त्रि-णयन-लसिता पीन-वक्षो-रुहाढ्या
देवी-बालार्क-वर्णा भवतु सुख-करी प्राण-शक्तिः परा नः ॥

॥ मन्त्रः ॥

आं ह्रीं क्रों यरलवशषसहों हंसः
अमुष्य प्राण इह प्राणः ।

आं ह्रीं क्रों यरलवशषसहों हंसः
अमुष्य जीव इह स्थितः ।

आं क्रीं ह्रों यरलवशषसहों हंसः अमुष्य सर्वेन्द्रियाणि मनो-बुद्धिर् अहङ्कारश् चित्तं
पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-
शब्द-स्पर्श-रूप-रस-गन्ध-
श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राण-
वाक्-पाणि-पाद-पायूपस्था
इहागत्य अमुष्य शरीरे सुखं चिरं तिष्ठन्तु स्वाहा ।

लं हंसः सो ऽहं स्वाहा ।

असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् । ज्योक्पश्येम सूर्यम् उच्चरन्तम् अनुमते मृडयानस् स्वस्ति । [[TODO: परिष्कार्यम्]]

इति प्राण-प्रतिष्ठां कृत्वा

अलङ्कारः

पुनर् अपि पूर्ववच्-छिरसि मूल-मन्त्र-शिरस्कम् अमृत-बीजं विन्यस्य
प्राणायामेन शरीर-विशिष्टम् आत्मानम् अभिषेचयेत् ।

ततः किरीटादि-विन्यसेत्

किरीटाय मकुटाधिपतये नमः

शिरसि ।

श्री-वत्साय श्री-निवसाय नमः

दक्षिणोरसि ।

श्री-कौस्तुभाय दिव्य-रत्नाय नमः

उरो-मध्ये ।

वैं वैजयन्त्ये वन-मालायै नमः

पार्श्वयोः ।

सुदर्शनाय हेति-राजाय नमः

दक्षिण-भुजे ।

पाञ्च-जन्याय शङ्खाधिपतये नमः

वाम-भुजे ।

कौमोदक्यै गदाधिपत्न्यै नमः

ललाटे ।

शार्ङ्गाय चापाधिपतये नमः

शिरासि ।

नन्दकाय खड्गाधिपतये नमः

हृदये ।

इति विन्यस्य

प्रणवादि-नमो ऽन्तैः
केशवादि-द्वादश-नामभिः द्वादशोर्ध्व-पुण्ड्रान् ध्यात्वा

द्वादशाक्षरेण मन्त्रेण मूर्ध्नि पुण्ड्र-न्यासं ध्यात्वा

पुण्ड्र-मध्ये तत्-तन्-मूर्ति-ध्यानं पूर्ववत् कृत्वा मातृका-न्यासं कुर्यात् ।

[[79]]

मातृका-न्यास-प्रकारः

यथा अन्तर् मातृका-न्यासो बहिर् मातृका-न्यासश् चेति मातृका-न्यासो द्वि-विधः ।
तत्र अन्तर् मातृका-न्यासं कृत्वा बहिर् मातृका-न्यासं कुर्यात् ।

अन्तर् मातृका-न्यासः

अन्तर् मातृका-न्यासो यथा –

मातृकायाः ब्रह्मा ऋषिः । देवी गायत्री-छन्दः । योग-निद्रा महा-माया विष्णु-शक्तिर् देवता । प्रणवं बीजं अकारः शक्तिः वर्णा नाना-विधाः । सर्व-काम-सिध्य्-अर्थे विनियोगः ।

पञ्चाशद्-वर्ण-भेदैः विहित-वदन-दोः पाद-भुक्-कुक्षि-वक्षो-देहाम्
भास्वत्-कपर्दाकलित-शशि-कलाम् इन्दु-कुन्दावदाताम् ।
अक्ष-स्रक्-कुम्भ-चिन्ता-लिखित-वर-करां त्रीक्षणां पद्म-संस्थाम्
अच्छाकल्पाम् अ-तुच्छ-स्तन-घन-भरां भारतीं तां नमामि ॥

इति ध्यात्वा
प्रत्यक्षरं प्रणवादि-नमो ऽन्तं
चतुष्-पत्त्रे आधारे
षट्-पत्रे गुह्ये
दश-दले नाभौ
द्वा-दश-दले हृदये
षोडश-दले मुखे
द्वि-दले मूर्ध्नि चेति
क्रमेण सर्वत्र प्राग्-आदि-क्रमशो न्यसेत् ।

वासुदेवादि-युत-वैष्णव-मातृका-न्यासाः

बहिर् मातृका-न्यासस् तु –

शुद्धा स-बिन्दुका स-विसर्गा स-बिन्दु-विसर्गा तार-पुटिता श्री-पुटिता मान्मथ-बीज-पुटिता तार-श्री-शक्तिमान्मथैस् समस्तैः पुटिता स-शक्तिकैः केशवादिभिर् युता

इति दश-विधः । तत्र केशवादि-युतायाः मातृकाया न्यासो वैष्णवः । अन्यो ऽपि वासुदेवादि-युतो वैष्णवो मातृका-न्यासो अस्ति। स चात्र कथ्यते । यथा

वैष्णव्याः मातृकायाः ब्रह्मा ऋषिः । चत्वारो वेदाश् छन्दांसि परमात्मा नारायणो देवता । अकारो बीजं षकारः शक्तिः शुक्लो वर्णः । क्लां बीजं स्वराश् शक्तयः । इति वा । क्लां हृत् । क्लीं शिरः । इत्य् अङ्ग-न्यासः । मोक्षार्थे विनियोगः ।

[[80]]

हस्ते बिभ्रत्-सरसिज-गदा-शङ्ख-चक्राणि विद्यां
पद्मादर्शौ1 कनक-कलशं मेघ-विद्युद्-विलासम् ।
वामोत्तुङ्ग-स्तनम् अविरलाकल्पनाश्लेष-लोभात्2
एकी-भूतं वपुर् अवतु नः पुण्डरीकाक्ष-लक्ष्म्याः ॥

इति ध्यात्वा,

ओं अं वासुदेवाय लक्ष्म्यै नमः, ओं आं सङ्कर्षणाय कीर्त्यै नमः,

भ्रुवोः ।

ओं इं प्रद्युम्नाय नयायै नमः, ओं ईं अनिरुद्धाय मायायै नमः,

नेत्रयोः ।

ओं उं केशवाय श्रियै नमः, ओं ऊं नारायणाय वाग्-ईश्वर्यै नमः,

श्रोत्रयोः ।

ओं ऋं माधवाय कान्त्यै नमः, ओं ॠं गोविन्दाय क्रियायै नमः,

नासयोः।

ओं ऌं विष्णवे शक्तयै नमः, ओं लॄं मधुसूदनाय विभूत्यै नमः,

कपोलयोः।

ओं एं त्रिविक्रमाय इच्छायै नमः ओं ऐं वामनाय प्रीत्यै नमः,

ओष्ठयोः ।

ओं ओं श्री-धराय नत्यै नमः, ओं औं हृषीकेशाय मायायै नमः,

दन्त-पङ्क्त्योः । ओं अं पद्म-नाभाय श्रियै नमः ओं अः दामोदराय महिम्ने नमः

जिह्वा-मूलाग्रयोः ।

ओं कं पद्म-नाभाय धियै नमः । ओं खं ध्रुवाय तारायै नमः । ओं गं अनन्ताय वारुण्यै नमः । ओं घं शक्त्यात्मने शक्त्यै नमः । ओं ङं मधुसूदनाय पद्मायै नमः । ओं चं विद्याधिदेवताय विद्यायै नमः । ओं छं कपिलाय साङ्ख्यायै नमः ।

[[81]]

ओं जं विश्व-रूपाय विश्वायै नमः । ओं झं हंसाय खगायै नमः । ओं ञं क्रोधात्मने भुवे नमः । ओं टं बडबावक्त्राय गवे नमः । ओं ठं धर्माय लक्ष्म्यै नमः । ओं डं वाग्-ईश्वराय वाग्-ईश्वर्यै नमः । ओं ढं एकार्णवश् शयनाय अमृतायै नमः । ओं णं कूर्माय धरण्यै नमः । ओं तं वराहाय छायायै नमः । ओं थं नर-सिंहाय नार-सिंह्यै नमः । ओं दं अमृताहरणाय सुधायै नमः । ओ धं श्री-पतये श्रियै नमः । ओं नं कान्ताय कान्त्यै नमः ।

इति दोः-पत्-सन्ध्य्-अङ्गुल्य्-अग्रेषु कचटत वर्गान् न्यसेत् ।

ओं पं राहु-जिते विश्वायै नमः ।

दक्षिण-पार्श्वे ।

ओं फं काल-नेमि-घ्ने कामायै नमः

वाम-पार्श्वे ।

ओं वं पारिजात-हराय सत्यायै नमः,

पृष्ठे ।

ओं भं शान्तात्मने शान्त्यै नमः

उदरे ।

ओं मं दत्तात्रेयाय सरोरुहायै नमः

नाभौ ।

ओं यं न्यग्रोध-शायिने मायाय नमः

नाभि-स्थ-वायौ ।

ओं रं एक-शृङ्गाय पद्मासनायै नमः

नाभि-स्थ-जाठराग्नौ ।

ओं लं वामनाय खर्वायै नमः

हारे ।

ओं वं त्रिविक्रमाय विक्रान्त्यै नमः

कटि-सूत्रे ।

ओं शं नराय नर-सम्भवायै नमः

दक्षिण-कुण्डले ।

ओं षं नारायणाय नारायण्यै नमः

वाम-कुण्डले ।

ओं सं हरये हरि-प्रीत्यै नमः

हृत्-पद्मे ।

ओं हं कृष्णाय गन्धायै नमः

परमात्मनि ।

ओं क्षं परशु-रामाय काश्यप्यै नमः

देह-प्रभायाम् ।

ओं रं रामाय वैदेह्यै नमः

नासाग्रे ।

ओं यमाय वेद-विदे निद्यायै नमः

हृदये ।

ओं जिह्वा-मूलीयाय कल्किने पद्मिन्यै नमः,

जिह्वा-मूले ।

ओं उपध्मानीयाय पाताल-शायिने नाग-शायिन्यै नमः,

ओष्ठयोः । इति मातृका-न्यासं कुर्यात् ।

अत्र वैदिकं तान्त्रिकं, वैदिक-तान्त्रिकं च

इति समाराधनं त्रि-विधम् ।

वैदिकं नाम पुरुष-सूक्त-ऋग्भिर् वा अन्यैर् वेद-मन्त्रैर् वा क्रियमाणं समाराधनम् । तान्त्रिकं नाम भगवच्-छास्त्रोक्तैर् नारायणाष्टाक्षर-वासुदेव-द्वादशाक्षर–विष्णु-षड्-अक्षर–द्वयाख्य–मन्त्र-रत्न–विष्णु-गायत्री-रूपैर् मन्त्रैः क्रियमाणैस् समाराधनम्

इति ।

वैदिक-तान्त्रिकं नाम उक्तेषु भगवन्-मन्त्रेषु केनचिद् एकेन सहितैः वेदोक्त-मन्त्रैस् समाराधनम्

इति ।

[[82]]


  1. पद्मापर्शन[[??]] O. M. ↩︎

  2. भोगात् O. M. ↩︎