०१ सङ्कल्पादि

अथेदानीम् अहो-रात्र-कृत्येषु प्रधान-भूताम् इज्यां व्याख्यास्यामः । अह्नस् तृतीयांशे मध्याह्न-समये प्राप्ते

ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन इज्यया भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि

इतीज्यां सङ्कल्प्य,

ओं भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवन्तम् अर्चचिप्यामि वासुदेवस्य

इत्य् अनुसन्धाय

भगवान् एव स्व-शेष-भूतेन मया स्वीयैर् एव कल्याणतमैर् औपचारिक-सांस्पर्शिकाभ्यवहारिकैर् भोगैर् अखिल-परिजन-परिच्छदान्वितं स्वात्मानं प्रीतं कारयितुम् उपक्रमते

इत्य् अनुसन्धाय

माध्याह्निक-स्नान-विधिः

स्नानार्थं तीर्थं गत्वा शुचौ देशे भूमिं प्रक्षाल्य अवतारं च शोधयित्वा स्नानं सङ्कल्प्य दूर्वां मृत्तिकां गोमयं च निधाय पाणि-पादौ च प्रक्षाल्याचम्य अम्भांसि ताम्रादि-पात्रेषूद्धृत्य जलाद् बहिस् तीरे स्थित्वा आर्द्रामलक-मात्रया मृदा तोयेन च स्वकं देहं संशोधयेत् । अयम् अनुष्ठान-क्रमः । षड्भिः पादौ, चतसृभिर् जङ्घे, तिसृभिर् नाभि-कटी[[??]] एकया शिर आलिप्य प्रक्षाल्य “सहस्र-परमे"ति दूर्वा-स्नानं कृत्वा “अश्वक्रान्त” इति मृत्तिका-समीपं गत्वा “उद्धृतासी"ति मृदम् उद्धृत्य “मृत्तिके हनमे पापम्” इति गात्रेषु मृत्तिकाम् आलिप्य प्रक्षाल्याचम्य मूल-मन्त्रेण मृदम् आदाय द्विधा कृत्य[[??]] शोधित-तीरे एकं भागं निधायान्येनाधिकेन भागेन देह-प्रक्षालनं कृत्वा निमज्ज्याचम्य प्राणायाम-त्रयम् आसीनो भगवन्तं ध्यायन् कृत्वान्यं मृद्-भागम् आदाय वाम-पाणि-तले त्रिधा कृत्य[[??]] मूल-मन्त्रेण पृथक् पृथक् संप्रोक्ष्याभिमन्त्र्य एकेन दिग्-बन्धनम् अस्त्र-मन्त्रेण कुर्यात् ।

[[70]]

अन्येन तीर्थस्य पीठं “ओं नमो भगवद्-विष्णु-तीर्थाये"ति जल-मध्ये निधायान्यं मृद्-भागम् आदायादित्य-मण्डलान्तर्-वर्ति-पुरुष-तेजसा शिरस उपरि द्वादशाङ्गुल्य्-अन्तस्-स्थित-शत-दल-पद्म-स्थं भगवत्-तेजसा वा सन्तर्प्य केशवद्य्-ऊर्ध्व-पुण्ड्र-धारणं कृत्वा शिष्टेन गात्रानुलेपनं कुर्यात् । ततः

समस्त-जगद्-आधार-शङ्ख-चक्र-गदा-धर

इत्य् आदि “हिरण्य-वर्णा” इति मार्जनान्तं प्रातः स्नानवत् कृत्वा “पवमानस् सुवर्जन” इत्य् अनुवाकेन मार्जयित्वा “इदम् आप” इति ऋग्-यजुर्भ्यां मार्जयित्वा अञ्जलाव् अप आदाय द्रुपदा-मन्त्रं त्रिः पठित्वा मूर्ध्नि विन्यस्य अन्तर्-जले निमग्नो द्रुपदा-मन्त्रं त्रिर् आवर्तयेत् । ततो ऽघमर्षण-सूक्तं जपं कुर्वन् निमज्ज्योन्मज्ज्य मूल-मन्त्रेण भगवन्तम् आवाहनादि-षोडशोपचारैर् अभ्यर्च्य “तद् विष्णोर्” इति मन्त्रेण विष्णु-गायत्र्या च श्रीमन्-नारायणं स्मरन् पुनः पुनर् निमज्ज्योन्मज्ज्य जले निमग्नः प्रणवान्विता-व्याहृतीर् गायत्रीं च त्रिर्-आवर्त्य प्रणवं यथा-शक्ति जपित्वोन्मज्य जले निमग्नः पुरुष-सूक्त-तरत्-स-मन्दी-चतुर्-ऋचं शुद्धाशुद्धीय-त्रयं “आयं गौर्” इति तृचं “कया न श्चित” इति तृचं “पवस्व सोम मन्दयन्” इति वर्ग-त्रयं रथान्तर-बृहद्—वाम-देव्य–रौरव-यौधाजय–महा-नाम्नि–पुरुष-व्रत-पञ्चक-विष्णु-सूक्तानि जपित्वोन्मज्य “हंसश् शुचिषद्” इति त्रिर्-जपन् सूर्यं प्रेक्ष्य मूल-मन्त्रेण जलम् अभिमन्त्र्योदकाञ्चलिम् आदायेत्य् आदि-प्रातस् स्नानवत् कृत्वा द्विर् आचम्य प्राणानायम्य माध्याह्निक-सन्ध्या-वन्दनं सङ्कल्प्य “आपोहिष्ठे"ति मार्जयित्वा परिषिच्य “आपः पुनात्व्” इत्य् अपः पीत्वा ऽऽचम्य सुरभि-मत्या “आपोहिष्ठे"ति च मार्जयित्वा परिषिच्य गायत्र्या ऽर्घ्यं दत्त्वा प्रायश्चित्तार्घ्यं च दत्त्वा परिषिच्य मासे शतर्प-पणं देवर्षि-पितृ-तर्पणं च कृत्वा धृत-वस्त्रोत्तरीयो धृतोर्ध्व-पुण्ड्रस् तुलसी-नलिनाक्ष-माला-श्री-पवित्र-धारणं कृत्वा गायत्री-जपं गायत्र्य्-उपस्थानं “असत्येने"ति नारायणोपनिषदा च आदित्योपस्थानं च कृत्वा यथा-शक्ति मूल-मन्त्रं जपित्वा आधार-शक्त्य्-आदि-तर्पणं कृत्वा आवाहित-तीर्थं मन्त्रांश् चात्मनि समाहृत्य “कनिक्रदद्” इति शाकुन-सूक्तं जपन् भगवत्-कलशम् आदाय “इमं मे गङ्गे” इति ऋचा जलम् अभिमन्त्र्य “आपो अस्मान्” इति तृचा कलशं क्षालयित्वा “समुद्र-ज्येष्ठा” इति सूक्तेन जलं गृहीत्वा “युवं वस्त्राणी"ति मन्त्रेण वस्त्रेणाच्छाद्य “प्रसम्राजम्” इति सूक्तेन गृहं प्रविश्य सुप्रक्षालित-पाणि-पादः स्वाचान्तो याग-भूमि-समीपं गत्वा वायु-मन्त्रेण ताल-त्रयं कुर्वन् कवाटम् उद्घाट्य देव-व्रतेन साम्ना दक्षिण-पद-विन्यास-पूर्वकम् अन्तः प्रविशेत् ।

[[71]]

भगवत्-सन्निधौ शरणागति-प्रकारः

ततः शुचौ देशे मनो-हरे निश्शब्दे “ओं भूः भूम्यै नम” इति भुवं सङ्गृह्य “ओं यं वायवे नम” इति वायु-बीजं

मूल-मन्त्र-शिरस्कं दक्षिण-हस्ते न्यस्य शोषयामि

इति तां विशोष्य “ओं रं अग्नये नम” इति वह्नि-बीजं मूल-मन्त्र-शिरस्कं दक्षिण-हस्ते न्यस्य

चन्द्र-मण्डलान्तर्-गत-श्वेत-पद्म-स्थितामृतेन प्लावयामि

इति सम्प्लाव्यास्त्र-मन्त्रेण ताल-त्रयेन भगवत्-प्रबोधनं कृत्वा वायु-मन्त्रेण दिव्य-कवाटम् अपनीय गुरु-परम्परया परम-गुरुं भगवन्तं शरणम् उपगम्य पुण्डरीकाक्ष-विद्यां मूल-मन्त्रं द्वयं च अनुसन्दधन्तम् एव प्राप्यत्वेन प्रापकत्वेन अन्-इष्ट-निवारकत्वेन यथावस्थित-स्व-रूप-रूप-गुण-विभूति-लीलोपकरण-विस्तारम् अनुसन्धाय “अखिल-हेय-प्रत्यनीके"त्य् आदि

अन्-अन्य-शरणस् त्वत्-पादारविन्द-युगलं शरणम् अहं प्रपद्ये

इत्य् अन्तेन वाक्येन न्यास-दशकेन च भगवन्तं शरणम् उपगम्य तत्-प्रसादोपबृंहित-मनो-वृत्तिस्तम् एव भगवन्तं सर्वेश्वरेश्वरम् आत्मनः स्वामित्वेनानुसान्धाय अत्यर्थ-प्रियाविरत-विशदतम-प्रत्यक्ष-रूपानुध्यानेन ध्यायन्न् आसीत । ततस् तद्-अनुभव-जनितातिमात्र-प्रीति-कारित-परिपूर्ण-कैङ्कर्य-रूप-पूजाम् आरभेत । अथ देवस्य दक्षिण-पार्श्वे स्वस्यासन-मन्त्रेण निधाय तेन प्रोक्ष्य तत उपविश्य स्वस्तिकासनं पद्मासनं वा बद्ध्वा तुर्य-घोषे प्रवर्तिते तिरस्करिण्या-द्वारे निच्छिद्रादिते सति

[[72]]

इज्यार्थ-विशेष-सङ्कल्पः

ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन इज्यया भगवत्-कर्मणा भगवन्तम् अर्चयिष्यामि

ओं भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवन्तम् अर्चयिष्यामि वासुदेवस्य

इत्य् अनुसन्धाय

स्व-नियाम्य स्व-रूप-स्थिति-प्रवृत्ति-स्व-शेषतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैः स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादयितुम् उपक्रमत

इत्य् अनुसन्धायास्त्र-मन्त्रेण दिग्-बन्धनं कृत्वा तेजो-मन्त्रेण प्राकारवत्-स्थितं वह्निं ध्यात्वा सुदर्शन-मन्त्रेण चक्र-मुद्रां विन्यस्य आत्मानं गुप्तं ध्यात्वा प्राणायाम-त्रयं कुर्यात् ।