ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन कर्मणा भगवान् प्रीयतां वासुदेव
इत्य् उपादानं भगवते समर्पयेत् ॥
इति श्रीमद्-रामानुज-सिद्धान्त-स्थापनाचार्य-शत-क्रतु-चतुर्-वेदि-नावल्पाक्कं श्री-निवासाचार्य-कृतिषु पञ्च-काल-क्रिया-दीपे उपादान-निरूपणाख्यो द्वितीयः परिच्छेदः
[[69]]