कुशादि-दर्भान् समिधः पत्राणि पुष्पाणि फल-मूलान्य् ओषधीः दधि-क्षीराज्यादीनि हविर् योग्य-तण्डुलानि गुडानि स्नानीय-द्रव्याणि वस्त्राणि स्वादु-सलिलान्य् अन्यानि पूजोपकरण-द्रव्याणि यथा-शक्ति यथा-वस्तु याच्ञया पूर्व-सम्पादितैर् अर्थैर् वा सम्पादयेत् ।