पात्र-आसन-ध्वज-गन्ध-द्रव्य-भूषणादीनाम् उपकरणानां च सम्भरण-प्रकारः॥
भगवद्-आराधनोपकरण-सम्पादनार्थ-द्रव्यार्जन-विधिः धर्म-शास्त्रे द्रष्टव्यः । देव-दारु-कृतं चन्दनागरु-मिश्रितं सर्ज-रसं प्राण्य्-अङ्ग-वर्जितं गव्येन सर्पिषा कृतं धूपं प्रशस्तं भवति । एवं पूजोपकरणानि सम्पाद्य याग-गृहे निदध्यात् । दीपिका-स्तम्भान् अर्ध्यादि-पञ्च-पात्राण्य् अर्घ्यादि-प्रतिग्रह-पात्राणि उद्धरणीं स्नान-वेदिकां नैवेद्य-पात्राणि पानीय-पात्रं भगवत्-पादुके कङ्कतिकाम् अञ्जन-क्षेत्र-पात्रं अञ्जन-शलाका-दर्पणं सहस्र-रन्ध्र-युक्त-स्नानार्थ-पात्रं धूप-पात्रं दीप-पात्रं घण्टां नीराजन-पात्रं बलि-पात्रं मुक्तातपत्रम् अन्यान्य् आतपत्राणि व्यजनानि ताल-वृन्तानि चामराणि पूजा-द्रव्याणि निक्षेप-पात्रं स्नानासनालङ्कारासन-यात्रासन-भोजनासन-पर्यङ्कासनानि
रथ-गज-तुरगान्दोलिकादि-वाहनानि
ध्वजान् नानाविधानि वीणादि-वाद्यानि
जल-भाजनं भगवद्-योग्यानि वस्त्राणि उपवीतं
कस्तूरिका-मृग-मद-कुङ्कमादि-गन्ध-द्रव्याणि कर्पूर-पूग-नाग-वल्ल्यादीनि रजन्य्-आमलक-तैलादि-द्रव्याणि
स्नानार्थानि नानाविधानि भूषणानि
शालि-तण्डुलादि-मात्रा-द्रव्याणि नीराजन-द्रव्याणि
[[68]]
लीला-यष्टिं शङ्ख-चक्राद्य्-आयुधानि भगवन्-निवेदन-योग्यानि पदार्थान्य् अन्यानि चाभीप्सितानि यथार्हम् उपादद्यात् ।
सम्पादित-समाराधनोपकरणश् चेत् सच्-छास्त्र-परिशीलनेन वा मूल-मन्त्रानुसन्धानेन वा काल-क्षेपं कुर्यात् ।