०२ पुष्प-तुलस्यौ

ततः स्वयम् एव स्व-कृति-सिद्धानि स्वारामजानि पुष्पाणि पात्रेणाहरेत् । एतच् च पुष्पाहरणं मध्याह्न-स्नानात् पर्वम् एव कार्यम् । ततस् तुलसीम् आहरेत् । तन्-मन्त्राः ।

[[66]]

पुष्प-तुलस्य्-आहरण-प्रकारः

तुलस्य्-अमृत-सम्भूते सर्वदा केशव-प्रिये ।
केशवार्थं लुनामि त्वां वरदाभव शोभने ॥
मोक्षैक-हेतोर् धरणि-प्रसूते विष्णोः समस्तस्य गुरोः प्रिये ते ।
आराधनार्थं पुरुषोत्तमस्य लुनामि पन्त्रं तुलसि क्षमस्व ॥
प्रसीद मम देवेशि प्रसिद हरि-वल्लभे ।
क्षीरोद-मथनोद्भूते तुलसि त्वं प्रसिद मे ॥

इति मन्त्रैः स्वारामजानि तुलसी-पत्राणि पात्रे स्वयम् एवाहरेत् । अन्यान्य् अपि पत्राङ्कुर-मूल-फलादीन्य् अस्त्र-मन्त्रेणाहरेत् ।

त्याज्योपादेय-पुष्प-विवेकः

पुष्पाङ्कुर-फल-पत्र-मूल-धूप-वस्त्राभरणेषु शास्त्रेण वर्ज्यावर्ज्य-प्रशस्त-विभाग-पुरस्-सरम् आहरेत् । कर-वीरौ पद्मौ केतकी-जाति-मल्लिकोत्पल-चम्पक-कुटज-वकुल-तुलसी-तमाल-नव-मालिका-मरुवक-पलाश-पुन्नाग-श्वेत-कुमुद-वन-माल्लिका-कर्णिकाराण्य्-अशोक-द्वय-नन्द्या-वर्त-द्वय-पुष्पाणि ग्राह्याणि । अर्क-पुष्पेण विष्णुं नार्चयेत् । कर-वीर-पुष्पैर् गृहार्चां न पूजयेत् । विहितेष्व् अपि छिद्र-मुकुलं जीर्णं भग्न-पत्रं स्वयं पतितं जन्तु-दूषितम् ऊर्ण-नाभेन वासितं निर्मन्थ-पारक्यं देवालयोद्भूतम् अ-शुभ-देशोत्थम् उग्र-गन्धं चतुष्-पथ-शिवालय-श्मशानावनि-मध्य-जं अशनि-पात-क्षतम् अकर्मण्यं केशापविद्धं पाद-लङ्घितं म्लानं पर्युषितं भुक्त-शेषम् आध्रातम् अस्पृश्य-स्पृष्टं हस्तानीतम् पटा-नीतम् अर्क-पत्र-स्थितं पराहतं क्रय-क्रीतम् अ-वैष्णव-शूद्राहृतं च पुष्पं भगवद्-अर्चने वर्जयेत् ।

[[67]]

स्वयं परतो वा ऽन्याराम-सम्भूतानां पुष्प-फलादीनां ग्रहणे तस्करत्वं स्यात् । भगवद्-अर्चने तुलसी-पुष्पं मुख्यम् । तद्-अलाभे तु पत्रम् । तद्-अलाभे तच्-छाखा । तद्-अलाभे तन्-मृत्तिकेति बोध्यम् । सर्वेषाम् अपि पुष्पाणाम् उत्पलं सहस्र-गुणं तस्मात् पद्मं तस्माच् छत-पत्रं तस्मात् सहस्र-पत्रं तस्मात् पुण्डरीकं तस्मात् तुलसी ततो बक-पुष्पं ततस् सौवर्णं ततो ऽधिकं नासीद् इति ज्ञेयम् । परिव्राजकैः पुष्पादिकं स्वयं न कर्तव्यम् । अन्याहृतैः पुष्पादिभिः अद्भिर् एव वा पूजा कार्या ।