यथा-शुचिर् भूत्वा पूर्वोत्तराभिमुखो “हुं फड्” इति मन्त्रेण कुशादि-दर्भान् स्पृष्ट्वा
विरिञ्चिना सहोत्पन्न परमेष्ठि-निसर्ग-ज ।
नुद सर्वाणि पापानि दर्भ स्वस्ति-करो भव ॥
इति मन्त्रेण देवार्थान् दर्भान् प्राङ्-मुख-उपवीती पित्रर्थान् दर्भान् दक्षिणा-मुखः प्राचीनावीत्य् आहृत्य पृथक् पृथग् एव निक्षिपेत् । एवम् अहन्य् अहन्य् आहृता दर्भाः प्रशस्ता भवन्ति । अ-शक्त्या यद्य् एकदैव दर्भ-ग्रहणं कार्यं तर्हि माघे नभो-मास्य् अमावास्यायां दर्भान् आहरेत् । तदा ऽऽनीता दर्भा वत्सरान्त-कर्मसु नियोज्या भवन्ति । कुश-विश्वामित्र-काशानाम् अलाभे अश्व-बाल-यव-व्रीहि-श्यामाक-नीवार-बल्बज-पुण्डरीक-दूर्वादिषु ये लब्धाः तैः कर्म कुर्यात् ।
ततो ऽस्त्र-मन्त्रेण समिध आहरेत् ।