०१ उपादान-सङ्कल्पः

अथोपादानं ख्यास्यामः । अन्हो द्वितीय-भागे सम्प्राप्ते

ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेनोपादानेन कर्मणा भगवन्तम् अर्चयिष्यामि

इत्य् उत्पादानं सङ्कल्प्य,

ओं भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि वासुदेवस्य

इत्य् अनुसन्धाय