ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेनाभिगमनेन कर्मणा भगवान् प्रीयतां वासुदेव
इत्य् अभिगमनं भगवते समर्पयेत् ।
इति श्रीमद्-रामानुज-सिद्धान्त-स्थापनाचार्य-शत-क्रतु-चतुर्-वेदि-श्री-निवासाचार्य-विरचिते पञ्च-काल-क्रिया-दीपे अभिगमन-निरूपणाख्यः प्रथमः परिच्छेदः।
[[65]]