…
सोम-सूर्यान्तर-स्थं च गवाश्वत्थाग्नि-मध्य-गम् ।
भावयेद् भगवद्-विष्णुं गुरु-विप्र-शरीर-गम् ॥
इत्य् उक्त-प्रकारेण गवादिश्व् अन्तस् स्थितं भगवन्तं भावयित्वा वेदाभ्यास-जपाध्ययन-धारण–तद्-अर्थ-विचारण-धर्मादि-शास्त्र-वैदिक-निगम-वेदाङ्गावेक्षण-प्रभृतीनि प्रथम-काल-कर्तव्यानि कर्माणि कृत्वा अभ्यञ्जनालेपन-वास-स्रग्-भूषणादिभिर् अलंकृतस् ताम्बूलेन मुख-शोधनं कृत्वा मङ्गल-द्रव्य-वीक्षणं कृत्वा अन्यान्य् अपि मङ्गल-कर्माण्य् एव कृत्वा