…
अत्र यद्य् अपि परमैकान्तिभिर् [दत्तं हव्यं कव्यं च निरतिशय-प्रीत्या भगवान् शिरसा प्रतिगृह्णाति, तथापि तैः परमैकान्तिभिः भगवत्-पादार]विन्दयोर् एव सर्वं समर्पणीयम् इति निष्कर्षः । एवम् उक्त-प्रकारेणाग्नि-होत्रं कृत्वौपासने ऽपि
ओं नमो नारायणाय सूर्याय स्वाहा ।
सायम् “अग्नये स्वाहा” ।
ओं नमो नारायणायाग्नये स्विष्ट-कृते स्वाहा ।
“प्रजा-पतये स्वाहे"ति वा हुत्वा वनस्-पति-होमादिकं शकल-होमं च कुर्यात् ।